[highlight_content]

कैवल्यशतदूषणी

॥ श्रीः॥

अथ कैवल्यशतदूषणी

यत्पादपद्मरसिका परिषद्गुरूणा-

मात्मानुभूतिमतिदूरतराज्जहाति-

तन्नौमि दिव्यपुरुषं वननानराद्यै-

र्विस्मारिताभिजनमञ्जनशैललोलम् ॥

यद्गाथया विनिद्रा हेतिवाराद्याः परावनेव्यग्रतं भट्टनाथमीडे केवलकरुणापराधीनम् ॥

लोके समस्तमुनिमानसपद्मकोशा

यद्भाष्यभानुपरिरम्भणः स्फुटन्ति ।

यस्यैवते विकसिताश्च विहारभूमि

स्तौ भावये परमहंसवराननन्यौ ॥

कमलनयनकान्ताकामनाकल्पवल्ली

परिणतिफलभूतार्यगोष्ठीं विभाव्य।

प्रतिमतशतदूषण्युग्रकैवल्यचिन्तां

कलयति कुतुकाच्छीशैलयोगीशदासः  ॥

तत्र तावद् भवदहनदन्दह्यमानसकल जीवसंजीवनोपदेशा भट्टनाथपराङ्कुशादयः कैवल्यमेव प्रथमत स्त्याजयन्ति। तत्र च निदानं तन्नित्यानिबन्धनं निरतिशयक्रौर्यमेव ।

तत्र केचिद्विवदन्ते – कैवल्यमनित्यं सर्वे च्यवनधर्माण इति वचनात् प्रतीकोपासनसाध्यत्वात् अज्ञानसंवलितत्वात् ब्रह्मप्राप्त्युदर्कत्वाच्च इति ता नि च श्रुतिलिङ्गानि क्रमयो निरस्यन्ते तत्र च्यवनधर्माण इति श्रुतिनिरसनार्थं तदन्यथासिद्धिसाधिकाः कक्ष्याः प्रदर्श्यन्ते-

तत्रेयं प्रथमा कक्ष्या

नेदं वचनं कैवल्यानित्यत्वसाधकं तस्य तद्विषयत्वानिर्धारणात् तथाहि इदं हि वचनं श्रीमहाभारते मोक्षधर्मे नामनिर्वचनाध्याये श्रूयते । तत्रेयं पूर्वोत्तरावचनानुपूर्वी-

सब्रह्मकास्सरुद्राश्च सेन्द्रादेवामहर्षिभिः ।

अर्चयन्तिसुरश्रेष्ठं देवं नारायणं हरिम्  ॥

भविष्यतां वर्ततां च भूतानां चैव भारत ।

सर्वेषामग्रणीर्विष्णु स्सेव्यः पूज्यश्च नित्यशः ॥

नमस्वहव्यदं विष्णुं तथा शरणदं नम ।

वरदंनम कौन्ते च हव्यकव्यभुजं नम ।

चतुर्विधाममजना भक्ता एवहि ते श्रुताः ॥

तेषामेकान्तिनः श्रेष्ठास्ते चैवा नन्यदेवताः ।

येतु शिष्टास्त्रयोभक्ताः फलकामाहिते मताः ॥

सर्वेच्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक् ।

ब्रह्माणं शितिकण्ठं च याश्चान्यादेवताः स्मृताः ।

प्रतिबुद्धानसेवन्ते यस्मात्परिमितं फलम् ॥

इति। अत्र च्यवनधर्माण इत्यनेन च्यवनं धर्मः येषामिति व्युत्पत्त्या यत्किञ्चिच्च्य वनधर्मधर्मित्वस्यैकान्तिव्यतिरिक्तेषु प्रतीतावपि तच्च्यवनं कैवल्यादिफलसम्बन्ध्येवेत्यत्र नियामका भवान्नेदं कैवल्यानित्यत्व साधकमिति ॥

अथ द्वितीया

उद्देश्यविधेयभावस्थले विधेये उद्देश्यतावच्छेदक समानकालीनत्वभाननियमस्य तिलकीकर्मकुर्वीतेत्यादौन्यायविद्भिरङ्गीकृतत्वेन एकान्तिभिन्नाः फलकामास्सर्वे भक्ताश्च्यवनधर्माण इत्यत्र फलकामभक्तोद्देशेन च्यवनधर्मत्वविधौच्यवनस्य फलार्थभक्तिसमानकालीनत्वलाभेन तस्य फलसम्बन्धित्वा सम्भवाच्च नेदं तत् साधकमिति ॥

अथ तृतीया

फलकामा हितेमता इति प्रसिद्धवन्निर्देशात् त्रैवर्गिकफलकामानामेव प्रतीतेः चतुर्विधा इत्यत्रापि धर्मार्थकाममोक्षाख्यसर्वलोक प्रसिद्धचतुर्विध फलकामानामेव प्रथमोपस्थितेश्च सर्वेच्यवनधर्माण इत्यस्य त्रैवर्गिकपरमात्रविषयत्वेन नेदं तत्साधकमिति ॥

अथ चतुर्थी

ते चैवानन्यदेवता इत्यनेन एकान्तिभिन्नानां च्यवनधर्माणां देवतान्तरपरत्व प्रतीत्या सर्वेच्यवनधर्माण इत्यस्यारोग्यश्रीज्ञानकाममात्रविषयत्वान्नेदं तत् साधकमिति ॥

अथ पञ्चमी

तेषामेकान्तिनश्श्रेष्ठा इत्यत्र-

एकान्तीतु विनिश्चित्य देवता विषयान्तरैः ।

भक्त्युपायं समं कृष्णप्राप्तौ कृष्णैकसाधनः ॥

इति लक्षणानुरोधात् प्रपन्नस्यैव एकान्तिशब्देन प्रतीत्या चतुर्विधा इत्यत्र कर्मज्ञानभक्तिप्रपत्तिनिष्ठानामेव प्रतिपादनौचित्यात् सर्वेच्यवनधर्माण इत्यस्य वशीकारार्थकाष्ठा वशीकारलक्षणप्रपत्तिविधुरकेवलकर्मज्ञान भक्तिच्यवनमात्रपरत्वेन नेदं तत्साधकमिति ॥

अथ षष्ठी

चतुर्विधाममजना इत्येतत्पूर्वश्लोके हव्यदं शारणदं वदरं हव्यकव्यभुजमिति चतुर्भिन्नन्तव्यविशेषणैर्हव्यार्थिशरणार्थिवरार्थिभागवत् कर्तृकभोगार्थिभेदेन नन्त्रधिकारिचातुर्विध्यलाभेन तदनन्तरश्लोके तस्येवभिधानोपपत्त्या तत्र हव्यहब्दस्य धर्मोपकरणार्थसामान्योपलक्षकत्वात् शरणशब्दस्य यथार्थत्वात् वरशब्दस्य व्रियमाणकाम सामान्यपरत्वाच्च सर्वेच्यवनधर्माण इत्यस्य त्रैवर्गिककाममात्रपरत्वेन नेदं तत्साधकमिति ॥

अथ सप्तमी

एतदध्यायपूर्वपूर्वाध्यायान्ते –

यदश्चेदं पठते नित्यं यश्चेदं शृणुयान्तरः ।

एकान्तभवोपगत एकान्तेषु समाहितः ॥

प्राप्यश्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः ।

स सहस्रार्चिषं देव प्रविशेन्नात्र संशयः ॥

इत्येकान्निनां भगवत्प्राप्तिलक्षणफलमभिधाय –

मुच्येतार्तस्तथारोगाच्छ्रुत्वे मामादितः कथाम् ।

जिज्ञासुर्लभते भक्तिं भक्तो भक्तगतिं व्रजेत् ।

इत्यौचित्यात् परिशेषाच्च आरोग्यं भास्करादिच्छेदिह्याद्युक्तारोग्य कामज्ञानकामश्रीकामानामेव फलाभिधानप्रतीत्या तदधिकारिचतुष्टयस्यैव बहुग्रन्थव्यवहितगीतासप्तमोक्ताधिकारि चतुष्टया भयात्यन्तसन्निहितत्वात् एकान्तिशब्दार्थसाहचर्याञ्च च तुर्विधा इत्यत्रोपस्थितत्वेन सर्वे च्यवनधर्माण इत्यस्यारोग्यश्रीज्ञानकाममात्रपरत्वेनेदं तत् साधकमिति ॥

अथाष्टमी

यान्ति देवव्रता देवात् पितॄन्यान्ति पितृव्रताः।

भूतानि यानति भूतेज्या यान्ति मद्याजिनोपि मामिति ।।

श्रीगीतानवमाध्यायोक्ताधिकारिणामेव अष्टमाध्यायापेक्षया सन्निहितत्वेन चतुर्विधा मम जना इत्यत्रतेषामेव परामर्शौचित्यात् फलकामाहिते मताः ते चैवानन्यदेवता इत्यादिना देवतान्तरसायुज्यकामत्वस्यैव प्रतीत्यौचित्याच्च सर्वेच्यवनधर्माण इत्यस्य देवतान्तरपरमात्रविषयत्वेन नेदं तत् साधकमिति ॥

अथ नवमी

सर्वे च्यवनधर्माणस्तेचैवानन्यदेवताः ।

इत्युक्तार्थ विवरणरूपे सर्वे च्यवनधर्माण इत्येतदनन्तरश्लोके-

ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः ।

प्रतिबुद्धा न सेवन्ति यस्मात्परिमितं फलम् ।

इति च्यवनधर्मत्वस्य देवतान्तरभजनप्रयोज्यत्व ज्ञापनपूर्वकमेकान्तिवर्जनीयायां तद्व्यतिरिक्तभजनीयदेवातानां त्रेधोपापानेन त्रैविध्यज्ञापनात् तत्र ब्रह्मशब्दस्य राजसदेवता सामान्योपलक्षकत्वात् शितिकण्ठशब्दस्य तामसदेवता सामान्योपलक्षकत्वात् याश्चान्या इत्यस्य संकीर्णदेवता विषयत्वाच्च चतुर्विधामम जना इत्यस्य शुद्धसात्त्विक राजसतामस संकीर्णदेवता परमात्र विषयतया नेदं तत् साधकमिति ॥

अथ दशमी

चतुर्विधा मम जना इत्ये तत् पूर्वपूर्वपूर्वश्लोके-

सब्रह्मकास्सरुद्रांश्च सेन्द्रादेवामहर्षिभिः ॥

अर्चयन्ति सुरश्रेष्ठं देवं नारायणं रहिम् ॥

इति सब्रह्मकादेवा राजसाः सरुद्रा देवास्तामसास्सेन्द्रादेवाः संकीर्णाश्च महर्षिभिः सात्त्विकैस्सह नारायणं यजन्तीति वैयधिकरण्यज्ञापक कारात् महहच्छब्देन ज्ञातृवाचिऋषिशब्दार्थ विशेषणाच्च स्वरसतः प्रतीत्या तदधिकारिचतुष्टयस्यैव चतुर्विधा इत्यत्र प्रतिपादनौचित्यात् सर्वेच्यवनधर्माण इत्यस्य महर्षिशब्दनिर्दिष्ट निष्कृष्ट सत्त्वनिष्ठव्यतिरिक्तमात्र विषयत्वान्वेदं तत् साधकमिति॥

अथैकादशी

पूर्वोक्तश्लोके महर्षिणां पृथक् करणं विना सेन्द्रा इत्युक्त संकीर्णान्तः प्रवेशनेऽपि तादृशगणत्रयस्य भगवदर्चकत्वोक्तेर्देवतान्तर पराणामपि भगवद्भक्तत्वस्य भक्ता एव हिते श्रुताः ते चैवा नन्यदेवता इति दर्शयिष्यमाणस्योपपादनार्थतया येतु शिष्टास्त्रयो भक्ता इत्यस्य भगवदर्चकनिरुक्तगणत्रय यजनद्वाराभगवद् भजनपर्यवसन्नाधिकारित्रयमात्र परत्वौचित्यात्तदनुसाराच्चतुर्विधा इत्यस्याद्वारकभगवद्याजि सहित पूर्वोक्ताधिकारित्रय परत्वौचित्याच्च सर्वे च्यवनधर्माण इत्यस्य गणत्रययाजिस द्वारकभक्तमात्रविषयत्वेन नेदं तत् साधकमिति ॥

अथद्वादशी

सब्रह्मकास्सरुद्राश्चेत्येतदनन्तर श्लोके –

भविष्यतां वर्ततां च भूतानां चैव भारत ।

सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ॥

इति भगवत अग्रं न यतीत्यग्रणीरिति उन्निनीषा प्रयुक्तसाधुकर्मकारचितृत्वस्य सेव्य इति एहलौकिक पारलौकिकैश्वर्यार्थसेवाद्वयकर्मत्वस्या नित्यशः पूज्य इति सदातन स्वयं प्रयोजनशेषवृत्तिप्रतिसम्बन्धितत्त्वस्य च प्रतिपादनेन तदनुसारात् एषमे सर्वधर्माणां धर्मोधिकतमो मतः ।

इत्युक्तचतुर्विध धर्माधिकारिणामत्र प्रतीत्या चतुर्विधा मम जना इत्यत्र तेषामेवाभिधानौचित्यात् सर्वे च्यवनधर्माण इत्यस्याधिकतमधर्मभूत भक्तिपूर्वकभगवदाराधन व्यतिरिक्तधर्म त्रयमात्रनिष्ठविषयत्वात् तेषां च मुमुक्षूणामपि नायमात्मा प्रवचनेन लभ्यइत्यादिना स्वाभिमतासिद्धि लक्षणच्यवनत्वावच्छिन्नवत्तायाः सिद्धत्वाच्चनेदं तत् साधकमिति ॥

एतदुक्तं भवति – धर्माश्चतुर्विधाः । यथाहुः श्रीसहस्रनामभाष्ये – धर्माहि ऐहिकाः पशुपुत्राद्यर्थाः आमुष्मिकाः स्वर्गाद्यर्थाः असङ्गैर्भगवदाराधन बोधानुष्ठितेष्टा पूर्तपरिकर्मिततत्त्वज्ञान समाधिशरीरो मोक्षार्थ: स्वानुरागभगवत् स्मरणकीर्तिन प्रणामादि स्तदसाधारण परिचरणात्माचेति चतुर्विधाः तत्राधिकतम इति तम पात्रिभ्यश्चतुर्थमुत्कर्षति तमुपपाद यति – यद्भक्त्येत्यादिनेति तदेवं चतुर्विधेषु धर्मेषु चरमस्यैव मोक्षसाधनप्रकरणे श्रीसहस्रनामाध्याये तमपा यद्भक्त्येत्यादिनाच श्री भीष्मेण निष्कृष्योपदेशात् तस्यैव वस्तुतो मोक्षसाधनत्वादितरेषां न तत् साधनत्वमिति तन्निष्ठानां च्यवनधर्मत्व मत्रोच्यत इति सर्वेषामग्रणीरित्यादिना प्रतीयते । तत्राग्रणीरित्यनेन तृतीय धर्मनिष्ठानां भगवताचरमधर्म प्रापणस्योच्यमानतया तेषां ततस्साक्षान्मोक्षासिद्धिलक्षणं च्यवनं सूच्यते। सेव्य इत्यनेन पौनरुक्त्य परिहारार्थं फलान्तरार्थ सेवाकर्मत्वस्यैव वक्तव्यतया प्रथमद्वितीय धर्मनिष्ठानामेव तत्र प्रतीत्या तत् फलस्वभावादेव तेषां च्यवनं सूच्यते । पूज्यश्च नित्यश इत्यत्र नित्यशब्दस्वारस्याच्चतुर्थ धर्मनिष्ठानामेव तत् पूजाकर्तृत्वेन प्रतीत्या तेषामेव च्यवनं सूच्यत इति चतुर्विधा इत्यादिकं तदधिकारिचतुष्टयविषयमेवेति वक्तुं युक्तमिति ॥

अथ त्रयोदशी

अथ चतुर्विधाममजना इत्यत्र चतुर्विधशब्देन चतुर्विधा भवजन्ते मामिति गीतासप्तमाध्यायोक्ताधिकारिणामेव कस्यचित् प्रत्यभिज्ञानेऽपि तत्रार्तार्थार्थित्वयोरैश्वर्यार्थित्वा व्याप्ततया भक्तविभाजकत्वायोगात् त्रिविधेष्वेव तत्र मुखभेदमात्रालम्बनेन चतुर्विधशब्दप्रयोगस्य भाष्यतच्चन्द्रिकादिष्वनुगृहीतत्वेनैतत् प्रकरणस्य तदेकार्थत्वे चतुर्विधाममजना इति चतुर्विधशब्दस्य येतु शिष्टास्त्रयोभक्ता इत्यत्र त्रय इत्यस्य च गौणत्वापत्त्या तत् प्रत्यभिज्ञाया बाधितत्वेन सर्वेच्यवनधर्माण इत्यस्य न जिज्ञासुविषयत्वसम्भव इति नेदं तत् साधकमिति ॥

अथ चतुर्दशी

एवं चतुर्विधामम जना इत्यनेन गीतासप्ताष्टमोक्ताधिकारिचतुष्टयाभिधानाङ्गीकारे अनभिसंहितफलानां कर्मणामेव ज्ञानयोगाङ्गतायाः प्रथमषट्कसिद्धत्वेन ज्ञाननिष्ठस्य जिज्ञासोः अपि निराशीः कर्मकारितायास्तत्रैव सिद्धत्वेनात्र निराशीः कर्मकारिणामिति तस्य ज्ञानिमात्रासाधारण्योक्तेर्विरोधापत्त्या तद्बलेनापि तत्प्रसभिज्ञाया बाधनीयत्वेन नेदं तत् साधकमिति ॥

पञ्चदशी

किञ्च आर्तादीनामेवात्राभिधानस्वीकारे तदधिकारिचतुष्टयस्याप्यनन्यदेवता कत्वस्य चतुर्विधाभजन्ते माम्, उदारास्सर्व एवैते इत्यादिभाष्ये मामेवभजन्ते मामेवोपसस्त इत्यनुगृहीतत्वात्,

एकान्त्यं भगवत्येषां समानमधिकारिणाम्। इति श्रीगीतार्थसंग्रहे यामुनमुनिभिरनुगृहीतत्वाच्यात्र तेचैवानन्यदेवता इति तस्य ज्ञानिमात्रासाधारण्योक्ति विरोधापत्त्या तेनापि तत् प्रत्यभिज्ञाया बाधनीयतया नेदं तत् साधकमिति ॥

अथ षोडशी

अपिचात्रार्तदीनामेवाभिधाने जिज्ञासोरपि मोक्षभाक्तस्य गीताष्टम एव सिद्धत्वेनात्र प्रतिबुद्धस्तु मोक्षभागिति तस्य ज्ञानिमात्रासादारण्योक्ति विरोधापत्त्या तेनापि तत् प्रत्यभिज्ञाया बाधनीयत्वे न वेदं तत् साधकमिति॥

श्रीगीताष्टमे जिज्ञासुप्राप्यं हि-

यं प्राप्य ननिवर्तन्ते तद्धाम परमं मम।

इत्यपुनरावृत्तिलक्षणं मुक्तस्वरूपमेवेत्युक्तम् ॥ तत्र च भाष्यम् – यमेवं भूतं स्वरूपेणावस्थितं प्राप्य न निवर्तन्ते तन्मम परमं धाम नीयमानस्यानम् अचेतन प्रकृतिरेकं नियमनस्थानं तत् संसृष्टरूपा जीवप्रकृतिर्द्वितीयं नियमनस्थानम्। अयित्संसर्गवियुक्तं स्वरूपेणावस्थितं परमं नियमनस्थानमित्यर्थः । तच्चापुनरावृत्ति रूपम्। अथवा प्रकाशवाचीधामशब्दः प्रकाशश्चेह ज्ञानमभिप्रेतम्। प्रकृति संसृष्टात् परिच्चिन्नज्ञानरूपादात्मनोऽ परिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परमं धामेति। अत्र द्वयोरपि योजनयोः मुक्तास्वरूपस्यैव जिज्ञासुप्राप्यतया भाषितत्वेन तेषामपि मोक्षभाक्तं सिद्धमेवेति ॥

अथ सप्तदशी

अथाप्यार्तादीनामेवात्राभिधाने पूर्वोक्तगीताष्टमाध्यायवाक्येनैव जिज्ञासुप्राप्यस्य अविनाशिताया अनावृत्तेश्चोक्ततया अत्र च्यवनधर्माण इति तत् फलच्यवनोक्तौ विरोधापत्त्या तत् प्रत्यभिज्ञा वा बाधनीया च्यवनशब्दो वान्यथानेय इत्युभयोरपि कल्पयो इच्यवनधर्माण इत्यस्यान्यथा सिद्धेनैवं तत् साधकमिति। तदिदं तत् प्रकारणभाष्यम्। अथ कैवल्यं प्राप्तानां पुनरावृत्तिर्नविद्यत इत्याह-

पुरस्तस्मात्तु भावान्यो व्यक्तो व्यक्तात्सनातनः।

यस्सर्वेषु भूतेषु नश्यत्सुनविनश्यति।

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्।

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥

तस्मादव्यक्ताद चेन प्रकृतिरूपात् पुरुषार्थतया पर उत्कृष्टो भावोऽन्यो ज्ञानैकाकारतया तस्मात् विसजातीयः अव्यक्तः स्वसंवेद्यस्वासाधरणाकार इत्यर्थः। सनातनः उत्पत्तिविनाशानर्हतया नित्यः यस्सर्वेषु वियदादिभूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र स्थितोपि न विनश्यति सोव्यक्तोक्षर इत्युक्तः,

येत्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।

कूटस्थोक्षर उच्यत इत्यादिषु तं वेदविदः परमां गतिमाहुः अयमेव

यः प्रयाति त्यजन्देहं स याति परमां गतिम् ।

इति इत्यत्र परमगतिशब्दनिर्दिष्टोऽक्षरः प्रकृतिसंसर्गवियुक्तः स्वरूपेणावस्थित आत्मेत्यर्थः । यमेवम्भूतं स्वरूपेणावस्थितं प्राप्य न निवर्तन्ते तन्ममपरमं धामेत्यादि शिष्टं पूर्वकक्ष्यायां लिखितम् । तथाचात्रजिज्ञासोः प्राप्यविनाशाभावस्य प्राप्यानुभवविरामाभाव लक्षणानावृत्तेश्च कण्ठोक्ततया तद्विरोधोदुष्परिहर एवेति। एतेन जिज्ञासोरुच्यमानमपुनरावृत्तिमवरोहा भावमात्ररूपं तस्मान्नकैवल्यानित्यत्वविरोध इति कैश्चिदुक्तं परास्तम् । संकोचे मानभावात् शोकनिवृत्तिर्भयनिवृत्तिः प्रवृत्तिनिवृत्तिरित्यादौ विरामस्यै स्वरसतः प्रतीत्यायं प्राप्य न निवर्तन्त इत्यत्रापि यं प्राप्य न विरमन्त इत्येवार्थ प्रतीतेः । न च पुनरावर्तिन इत्यत्रापि अवरोहाभावमात्रपरत्वापत्त्या परमपदस्थानामेव सतामुक्तानां भगवत् स्वातन्त्र्यात् भगवदनुभवावेरामस्यस्याशङ्कामानस्यानिवारणापत्तेः सर्वान् लोकान् कामान्नीत्याद्युक्तमुक्त कर्तृकभगवदनुभवार्थावरोह विरोधापत्तेः वसुपदश्वेत द्वीपादीनामप्यवरोहा भाववतां विद्यमानत्वेन – आब्रह्मभवनल्लोकाः पुनरावर्तिनोऽर्जुन । शुश्रूयमाणा अनावृत्त्यादिशब्दाः फलानुभवविरामाभावपरा एवेत्यवश्यमङ्गीकरणीयतया यं प्राप्य ननिवर्तन्ते इत्यनेन कैवल्यस्यापि विरामाभावावगमेन सर्वे च्यवनधर्माण इत्यत्र न तदनित्यत्वमभिधातुं शक्यत इति ॥

अथाष्टादशी

चतुर्विधामम जना इत्यत्र चतुर्विधा भजन्तेमामिति गीतासप्तमोक्ताधिकारिणामेव परामर्शे, – देवान्देन यजो यान्ति मद्भक्तायान्ति मामपि ।

इति तत्रोक्तचतुर्विधभगवद् भक्तानामपि मोक्षभाक्तोक्तेः तथैव श्रीनारायणार्यैर्व्याख्यातमिति तद्भाष्य चन्द्रिकायामनु गृहीतत्वात् ।

भगवन्तं समुद्दिश्यतदेकशरणानराः ।

कदाचिन्नावहीयन्ते काम्यकर्मरता अपि ॥

इति तदुपष्टम्भकवचनस्य शाण्डिल्यसंहिता भागवताचार संङ्ग्रहगतस्य तत्रैवोदाहृतत्वात् । जिज्ञासोरपि परंज्योतिरूप संपद्येत्युक्त संपत्ति लक्षणब्रह्मप्राप्तिर्नविरुध्यत इति वक्ष्यमाणत्वाञ्च मोक्षभाक्तस्यार्तादि सर्वसाधारणत्वेनात्र प्रतिबुद्धस्तु मोक्षभागिति तस्य ज्ञानिमात्र साधारण्ये विरोधापत्त्या तत्प्रत्यभिज्ञाया बाधनीयत्वेन नेदं तत् साधकमिति ॥

अथैकोनविंशति

तदेवं गीता सप्तमाष्टमाध्यायोक्तार्तादि चतुष्टयस्यात्र परामर्शासंभवेन –

तपस्विभ्योऽधिको योगी ज्ञानिभ्योपि मतोधिकः ।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ।।

इति षष्ठाध्यायोक्ताधिकारि चतुष्टयस्याप्यत्र परामर्शसम्भवात् च्यवनधर्माण इत्यस्य केवलज्ञानतपोनिष्ठमात्र विषयत्वान्नेदं तत् साधकमिति ॥

अथ विंशी

एवं त्रैगुण्यविषयावेदा निस्त्रैगुण्यो भवार्जुन ।

इति ततः पूर्वमुक्तस्य राजसतामससंकीर्णशुद्धसात्त्विकभेदे भिन्नाधिकारिचतुष्टयस्याप्यत्र चतुर्विधाममजना इत्यनेनाभिधान संभवेन सर्वे च्यवन धर्माण इत्यस्य निष्कृष्टसत्त्वनिष्ठव्यतिरिक्ताधिकारिमात्र विषयत्वेन नेदं तत् साधकमिति ॥

अथैकविंशी

अन्तवत्तुफलं तेषां तद्भवत्यल्पमेधसाम् ।

इति देवतान्तरपरविषयगीता सप्तमवचनभाष्ये

न तु मामभिजानन्ति तत्त्वेनातश्यवन्ति ते ।

इति तदेकार्थनवमाध्यायवचनभाष्ये च श्रीभाष्यकारै स्तत्सायुज्यं प्राप्तास्तैस्साह प्रच्यवन्ते परमित भागिनश्च्यवनस्वभावा भवन्ति संकल्पमात्रभेदेन केचिदत्यल्पफलभागिनश्च्यवन स्वभावाभवन्तीति सर्वेच्यवनधर्माणः यस्मात्परिमितं फलमित्यादि प्रत्यभिज्ञापकैश्शब्दैरेव भाषितत्वान्मूलेऽपि तत् प्रकारणयोरेवैतत् प्रकरणेन प्रत्यभिज्ञाबाहुल्यदर्शनात् मन्त्रार्थकारिकायां श्रीमदभयप्रदानदेशिकैश्चरमश्लोक प्रकरणान्ते चतुर्विधाममजना इत्येतदपि सङ्गतम् ॥

देवतापितृभूतानां मम भक्ताश्च ये जनाः ।

तेषां मद्याजिनश्श्रेष्ठास्त्रयोऽप्यन्येऽन्यदेवताः ॥

अतश्च्यवनधर्माण इति तस्यार्थवर्णनात् ।

इति श्रीगीताभाष्यस्वारस्यानुरोधेनैव साम्प्रदायिकयोजनाया दर्शितत्वात् तत्त्वदीपकारिका तात्पर्यदीपिका संप्रदायचन्द्रिकाकैवल्य दीपिकातत्त्वविवेकाष्टादश संवादाष्टश्लोकी व्याख्याषट् सहस्रिकागुरुभावप्रकाशिकादि मन्येषु तस्या एव योजनाया आहतत्वाच्च चतुर्विधा इत्यस्य –

यान्ति देवव्रतादेवान् पितॄन्यान्ति पितृ व्रताः ।

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ।

इति गतानवसाध्यायोक्ताधिकारि चतुष्टयविषयत्वमेव साम्प्रदायिकमिति सर्वे च्यवनधर्माण इत्यस्य देवतान्तरपरमात्र विषयत्वेन नेदं तत् साधनकमिति ॥ तत् प्रकरणस्यैवात्र प्रत्यभिज्ञाबाहुल्यं कथमिति चेत् अत्र हव्यकव्यभुजंनमेत्यनेन अहं हि सर्वयज्ञानां भोक्ताचेत्यक्तं प्रत्यभिज्ञायते। हव्यदं शरणदं वरदमित्यादिना प्रभुरेव चेत्युक्तं प्रत्यभिज्ञायते। प्रभुशब्दस्य तत्र फलप्रदार्थकत्वात् चतुर्विधा इत्यनेन यान्ति देवव्रता इत्याद्युक्ताश्चत्वारः

प्रत्यभिज्ञायन्ते । मम जना भक्ता एव हिते श्रुता इत्यनेन-

येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।

तेपि मामेव कौन्तेय यजन्तीत्युक्तं प्रत्यभिज्ञायते ॥

तेषामेकान्तिन श्श्रेष्ठास्ते चैवानन्यदेवताः ।

अहमेव गतिस्तेषां निराशी: कर्मकारिणाम्॥ इत्यनेन,-

अनन्याश्चिन्तयन्तोमां ये जनाः पर्युपासते ।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ इत्याद्युक्तं प्रत्यभिज्ञायते ॥

येतु शिष्टास्त्रयो भक्ताः फलकामाहिते मताः ।

इत्यनेन देवव्रताः पितृव्रता इत्यादि व्रतादिशब्दोक्ताः फलसंकल्पाः प्रत्यभिज्ञायन्ते ।

सर्वे च्यवन धर्माण इत्यनेन,

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ।

इत्युक्तं शब्दतोऽर्थतश्च प्रत्यभिज्ञायते। प्रतिबुद्धस्तु मोक्षभागित्यनेन यान्ति मद्याजिनोपिमां मोक्ष्यसे कर्मबन्धनैरित्याद्युक्तं प्रत्यभिज्ञायते इति तदेवं देवपितृभूतादि यादिप्रकरणस्यैवात्र प्रत्यभिज्ञापकबाहुल्य सत्त्वात् आर्तादिचतुष्टय प्रकरणस्यात्र पूर्वोक्तरीत्या प्रत्यभिज्ञाभञ्जकबाहुल्य सत्त्वाच्च चतुर्विधा मम जना इत्यादेर्यथा संप्रदायं देवपितृभूत भगवद्याजि विषयत्वमेव युक्तं नान्यदिति सर्वेच्यवनधर्माण इत्यस्यान्या विषयत्वान्नेदं तत् साधकमिति ॥

अथ द्वाविंशी

इत्थं पूर्वोक्त सर्वन्यायकलापानादरेण केवलमौर्य्यमात्रेण सर्वेच्यवनधर्माण इत्यस्य जिज्ञासुविषयत्वकल्पनेऽपि तात्पर्यचन्द्रिकायां परिमितसुखानुभवविलम्बेन निरतिशयसुरवानुभवात् भ्रष्टत्वेनापि निन्दोपपत्तेश्च उपासनदशानुभूते परमात्मनि फलदशायां किञ्चित्कालमनुभवविच्छेदाद्वा प्राप्तभ्रंशलक्षणं च्यवनधर्मत्वमिति वेदान्ताचार्यप्रदर्शितदिशैव कैवल्यस्य नित्यत्वेऽपि यावदात्मभावितया केवलस्य स्वरूपप्राप्तभगवदनुभवभ्रंशात् कैवल्यसाधनोपासनादशाप्राप्त-भगवदनुभवकैङ्कर्ययोः फलदशायामुन्मूलनेन प्राप्तफलभ्रंशाच्च च्यवनधर्मत्वोक्तेः तावन्मात्रविषयत्वेनाप्यन्यथा सिद्धेर्दुरपह्नवत्वे नेदं तत्साधतमिति॥

अथ त्रयोविंशी

यं प्राप्य न निवर्तन्ते तद्धामपरमं मम ।

इति श्रीगीताष्टमवचनेन,

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्यायस्य च ।

इति चतुर्दशाध्याय वचनेन,

योगिनाममृतं स्थानं स्वात्मसन्तोषकारिणाम् ।

इति श्रीविष्णुपुराणवचनेन च कैवल्यानावृत्तेः तद्भ्रंशाभावलक्षणव्ययराहित्यस्य तत्स्थाननित्यतायाश्च कण्ठोक्तत्वेऽपि तद्विरोधे नानारभ्याधीतस्या ज्ञात प्रतिसम्बन्धिनः सर्वे च्यवनधर्माण इत्युक्त च्यवनधर्मत्वस्यान्यथा सिद्धिशतदूषितत्वेना व्यवस्थितस्य जिज्ञासु विषयत्वकल्पनपूर्वकं सकलशास्त्रविक्षोभं सम्पाद्य तेनानावृत्तिशब्दामृत शब्दच्यवनशब्दानाम् अनावृत्ति शब्दः अवरोहाभावमात्रपरः अमृतशब्द आपेक्षित स्थिरकालस्थायित्वमात्रपरः च्यवनशब्दः फलविलम्बादिमात्रपर इति सर्वेषां तथा तथा संकोचकल्पनानामत्यन्तभ्रान्ति कृत्यत्वान्नेदं तत् साधकमिति॥

अथ चतुर्विंशी

उत्तरमीमांसायामपशूद्राधिकरणे आजहारेमाश्शूद्रेत  ब्रह्मविविदिषोर्जानश्रुतेः शुद्रत्वप्रतीतावपि ब्रह्मविद्यायास्त्रैवर्णिकाधिकारिकाध्य यनादिकमन्तरा दुस्साधत्वलक्षणात् नस्तु विरोधात् शूद्रत्वश्रुत्यन्यथासिद्धिवदत्रापि कैवल्यस्याक्षरं ब्रह्मपरममित्याद्यवगत प्रकृतिविमुक्तात्मस्वरूपतया तथा सम्पन्नस्य चात्मविदोगत्यर्थशरीराद्यभावात् गन्तव्योर्ध्व देशस्याप्यप्रामाणिकत्वात् स एनान् ब्रह्मगमयतीति पञ्चाग्निविद्यायामात्मविदनुगतेर्ब्रह्म संपत्तिपर्यन्तताया एव श्रूयमाणत्वाच्च कैवल्यं प्राप्तानामूर्ध्वारोह प्रयुक्तपूर्वपदभ्रंशलक्षणगौणच्यवन शब्दार्थस्याप्य सम्भवात् वस्तु विरोधादेव च्यवनश्रुतिरन्यथा सिद्धेति नेदं तत् साधकमिति ॥

अथ पञ्चविंशी

जानश्रुतेः क्षत्रियत्वावगमकलिङ्गैस्तद्विषयशूद्रशब्दस्य तत्रान्यथासिद्धिवदत्रापि मूर्ध्न्याधायात्मनः प्राणमिति जिज्ञासोर्मूर्धन्यनाड्या निष्क्रमण प्रतीतेर्वेदान्ताचार्यैरप्यङ्गीकृततया तस्य च

तासां मूर्धानमभिनिस्सृतैका

तयोर्ध्वमायन्नमृतत्वमेवति ।

इति श्रुत्या नित्यफलप्राप्तिलिङ्गत्वेन तत् सहकृताया अमृतस्य चाव्य यस्य च नामरत्वमहं वृणे अत्रामुत्रय भोगमक्षयसुखमित्यादि कैवल्य नित्यता श्रुतेः च्यवनशब्दबाधकत्वेन तदन्यथा सिध्यानेदं तत् साधकमिति ॥

अथ षड्विंशी-

अग्नीषोमीयं पशुमालभेदेति विशेषशास्त्रेण न हिंस्यात् सर्वाभूतानीति सामान्य शास्त्र संकोचवदत्रापि सर्वे सर्वे च्यवनधर्माण इत्यस्य एकान्ति व्यतिरिक्त सर्वभक्तप्राप्यफलसामान्यविषयतया सामान्यशास्त्रत्वात् यं प्राप्य ननिवर्तन्ते, अमृत स्याव्ययस्य च, योगिनाममृतं स्थानमित्यादिवचनानां जिज्ञासुप्राप्यफलमात्र विषयतया विशेषशास्त्रत्वाञ्चाने नैव तस्य संकोचावश्यकतया सर्वे च्यवनधर्माण इति वचन मैश्वर्यकाममात्रविषयमेवेति नेदं तत् साधकमिति ॥

अथ सप्तविंशी

भगवता पराङ्कुशमुनिना मायाप्येरुविरलिति कैवल्यस्य नाशाभावाभिधानात् पिन्नु वीडिल्लैयित्यत्र मोक्षवाचिना वीडित्यनेन तस्याभिधानात् तद्गाधावतरणिकायामस्थिरत्वादि दोषासंभिन्न मान कैवल्यत्तैयिति श्रीकुरुकेशाचार्यैर्भाषणात् कुरुकानीकावित्यादि गाधायामिरुतिकूडाविति कैवल्यानन्दस्य नाशसम्भवाभिधानात् तदवतरणिकायां कुरुकेशाचार्यैः प्राचुर्यस्थिरत्वाद्यनेकगुणयुक्तमानकेवलात्मानुभवलक्षणमान सुरवत्तै इत्यानुगृहीतत्वाच्च सर्वेच्यवनधर्माण इत्यस्य प्रबलप्रमाणबाधितत्वेन नेदं तत् साधकमिति ॥

अथाष्टाविंशी

अत्ततुपत्तेनिलितिगाधायां केवलं मन्नुरिलित्यनुक्ता अतुशेत्तुमन्नुरिलित्युक्तेः कैवलस्थैर्यव्यावर्तनप्रतीत्यास्थिरफलमोक्षवाचिनो वीडित्यस्य तत्रापि प्रयोगात् तद् गाधाव्याख्यायामपि श्रीकुरुकेशाचार्यैः अतिलकप्पडाते भगवच्छेषतैकर समानवुन्नुडैय स्वरूपत्तैप्पेत्तुनिलैनिर्कवेण्डि इति कैवल्यस्थैर्यापेक्षाव्यावर्तनार्थमपेक्षाविषयेस्थैर्ये

भगवच्छेषत्वरूपस्वरूपलाभपूर्वकत्वरूपविशेषणदानाच्च स्थैर्यमात्रस्य कैवल्यमोक्षभगवत् प्राप्तिलक्षणमोक्षयोस्साधारण्यप्रतीत्या तेनापि सर्वे च्यवनधर्माण इत्यस्यान्यथाने यत्वान्नेदं तत् साधकमिति ॥

एतेन मन्नुरिलित्यनेन कैवल्यस्यानित्यत्वं प्रतीयत इति कैश्चिदुक्तम् प्रतिक्षप्तम्। नह्यत्रकेवलं स्थैर्यकामः कैवल्यं मुक्त्वा प्रथमतोभगवन्तमाश्रयेदित्युच्यते तथा कुरुकेशाचार्यैव्याख्या तत्वात् तथा मूलेऽप्यप्रतीतेः । किन्तु स्वरूपविरोधिकैवल्य प्रहाणपूर्वक भगवच्छेषतैकरसस्वरूपाविर्भाव विशिष्टस्थैर्यकामः प्रथमत एव भगवन्तमाश्रित्य रागादिकं त्यजेदित्युच्यते। एवमेव मूले श्रीकुरुकेशाचार्यव्याख्याने च प्रतीतेः। अत्र यदि स्थैर्यं भगवल्लाभलक्षणमोक्षामात्रासाधारणमिति श्रीपराङ्कुशादीनां सिद्धान्तस्स्यात्तर्हि काम्यमानस्थैर्ये शेषत्वलाभपूर्वकत्वादि विशेषणदानं व्यर्थमेव । न हि तदानीं शेषत्वलाभमन्तरापि स्थैर्यं सम्भवेत् येन तद्व्यावृत्तिसिध्येत्। तस्मात्तत्रतद्विशेषणदानेनैव स्थैर्यं कैवल्यसाधारणमिति प्रदतीयत एवेति मन्नुरुलित्येतावतैव कैवल्यस्यानित्यत्वं प्रतीयत इत्युक्तिरपरामर्शनिवबन्धनैवेति ॥

अथैकोनत्रिंशी

श्रीवेदान्ताचार्याणां स्वाचार्यैर्वादिहं साम्बुदाचार्यैः

दृष्ट्वानुकूलमात्मानमन्यत्र विगतस्पृहः ।

भोग्यभूतं परात्मानमुपायमनुसन्धयत् ।

तेनैव चापराधेन क्षये तस्यापि कर्मणाम् ।

तिरोहितेशानुकूल्यस्स्वात्मानं भोग्यमश्नुते ॥

इति कैवल्यस्य सकलकर्मक्षयानन्तरभावित्वस्य तत्र यावदात्मभाविब्रह्मानु भवराहित्यस्य तत्तथात्वस्योपासनवैपरीत्य लक्षणापराधप्रयुक्तत्वस्य च यथा संप्रदायमनुगृहीतत्वेन तन्मातनुसारेणापि च्यवनशब्दोऽन्यथाने य एवेति नेदं तत् साधकमिति ॥

अथ त्रिंशी

श्रीमद्वेदान्ताचार्यैरेव श्रीतात्पर्यचन्द्रिकाप्रणयनान्तरप्रमीते न्यायसिद्धाञ्जने कैवल्यविचारावसरे सर्वकल्पप्रदर्शनानन्तरं केचित्तु ब्रह्मभूतस्वात्मा केवलस्य भोग्यः ब्रह्मणस्तुविशेषणतया भानमात्रमस्तीत्याहुरिति सर्वप्रमाणानुगुणपूर्वाचार्य सिद्धान्तानु वादात् तदनन्तरं यस्य कस्यचित् कल्पस्य वा तद्दूषणस्य वा अनभिधानेन तत्रैव तेषां नैर्भयप्रतीतेः। तत्र च केवलानां ब्रह्मभानस्योदासीनकाष्ठलोष्ठादि भानतुल्यत्वेननाभोगरूपत्वाङ्गीकारपूर्वक मात्मानुभवस्यैव भोगरूपस्य यावदात्मभावित्वस्वीकारात्तन्मतानुसारेणापि सर्वेच्यवनधर्माण इत्यस्यान्यथानेयत्वेन नेदं तत्साधकमिति ॥

सर्वे च्यवनधर्माण इत्येतन्नीतमन्यथा ।

त्रिंशत् कक्ष्याभिरित्थं वैसुधीभिस्तद्वि भाव्यताम् ॥

तदेवं सर्वे च्यवनधर्माण इत्यस्य बहुधान्यथा सिद्धतया तस्य कैवल्यानित्यत्वावगमकत्वा योगात्यं प्राप्य ननिवर्तन्त इत्यादि प्रमाणसिद्धं भट्टनाथादि विवक्षितं कैवल्यक्रौर्यातिशयनिदानभूतं तन्नित्यत्वं सुप्रतिष्ठितमेवेत्यास्तां विस्तरः ॥

इति

कैवल्यशतदूषण्यां प्रथमभङ्गः

अथ यदुक्तं प्रतीकोपासन साध्यत्वादित्यादीत्यादि लिङ्गत्रयं तदपि पूर्वोक्तश्रुति भङ्गेनैव प्रबलप्रमाणबाधिततया सगर्भश्रावं विद्रावितमेव तथापि मन्दविषयन्यायेन तस्याप्यनुपेक्षणीयतया तन्निरास आरभ्यते –

तत्र यदुक्तं प्रतीकोपासनसाध्यत्वादिति कैवल्यानित्यत्वसाधकं लिङ्गं तन्निरासिकाः कक्ष्याः प्रदर्श्यन्ते –

तत्रेयं प्रथमा कक्ष्या

प्रतीकोपासनसाध्यत्वादिति हेतुरसिद्धः प्रमाणाभावात्। ननु कार्याधिकरणभाष्ये नामादिप्राणपर्यन्त प्रतीकालम्बनानामिति प्राणशब्दवाच्यजीनोपासकस्यापि प्रतीकालम्बनत्वस्यानुगृहीतत्वात् श्रुतप्रकाशिकायामस्य वाक्यस्य केपुनरप्रतीकालम्बना इत्यत्राह नामादीति इत्यवतरणिकादानान्नामादि प्राणपर्यन्तान्यतमोपासकत्वमेव प्रतीकालम्बनत्वमिति लक्षणसिद्धेश्च जीवोपासकस्य जिज्ञासोश्च प्रतीकालम्बनत्वं सिद्धमेवेति नासिद्धिरितिचेन्न जिज्ञासोः प्रकृतिवियुक्तात्मोपासकतया नामादिप्राणपर्यन्तान्यतमोपासकत्वस्यैवा सिद्धत्वात् । न हि प्रकृतिवियुक्तात्मनः प्राणशब्दार्थत्वसम्भवः तस्य प्राणविशिष्टवाचित्वात् प्राणविद्याप्रकरणे तस्य हिंसाकर्मत्वोक्त्या प्रकृतिवियुक्तात्मनस्तद संभवेनावश्यमचिन्मिश्रजीवस्यैव प्राणशब्दार्थताया अङ्गीकर्तव्यत्वाच्च। तदुक्तं भूमाधिकरणश्रुतप्रकाशिकायां नहि निष्कृष्टात्मनः केवलस्य शरीरस्य वा हिंस्यत्वमपि तु अचिद्विशिष्टस्यैव चेतनस्येति तस्मात् केवलजीवस्वरूपस्य प्राणशब्दार्थत्वासम्भवेन तदुपासकस्य जिज्ञासोः नामादि प्राणपर्यन्तान्यतमोपासकत्वलक्षणप्रतीकालंबनत्वानु पपत्तेर्निरुक्तोहेतुरसिद्ध एवेति ॥

अथ द्वितीया

श्रीवेदान्तसारे कार्याधिकरणे नामादिप्राणशब्दनिर्दिष्टप्रत्यगात्मस्वरूप पर्यन्तं चिदचिद्वस्तुजातं ब्रह्मदृष्ट्या स्वरूपेणवोपासते अप्रतीकालम्बनास्तद्व्यतिरिक्ता इति नामादि प्राणपर्यन्तान्यतमातिरिक्तोपासकानाम प्रतीकालम्बनस्यानु गृहीतत्वात् दीपे च प्रतीकालम्बनास्त्वचिन्मिश्रं केवलाचिद्वस्तु च सिंहो देवदत्त इति वत् ब्रह्मदृष्ट्या स्वरूपेणवोपासत इति प्रतीकालम्बन व्यवस्थाप्रदर्शनपूर्वकमप्रतीकालम्बनास्तद्व्यतिरिक्त इति विशेषणतया विशेष्यतया वा अब्रह्मात्मकाचिद् ग्रहणशून्यानां सर्वेषामुपासकानामप्रतीकालम्बनत्वस्यानु गृहीतत्वाच्च तेनैवाचिद्वियुक्तनिष्कृष्टजीवस्य रूपोपासकानां जिज्ञासूनां प्रतीकालम्बनत्वाभावस्या प्रतीकालम्बनत्वस्य च सिद्धतया निरुक्तो हेतुरसिद्ध एवेति ॥

एतेन कार्याधिकरणोपासं हारे तस्मादचिन्मिश्रं केवलं वा अचिद्वस्तु ब्रह्मदृष्ट्या तद्वियोगेन च य उपासते न तान्नयतीति भाष्यवाक्ये केवलं वा अचिद्वस्त्वित्यत्र अकारमपलप्य चिद्वस्त्विति पदच्छेदपूर्वकमचिद्वियुक्तात्मोपासकस्यापि प्रतीकालम्बनान्तर्भाव संपादनप्रत्याशाकेषांचिदुन्मूलिता । तथा सत्यशक्यकुकल्पनयोर्दीपसारवाक्ययोर्विरोधात् ब्रह्मदृष्ट्या स्वरूपेणवाकेवलाचिदुपासकानां प्रतीकोपासकत्वेन सर्वसंप्रतिपन्नानां तद्भाष्योपसंहारवाक्ये अनभिधानेन न्यूनतापत्तेश्चेति ॥

अथ तृतीया

अप्रतीकालम्बनान्नयतीति सूत्रेणार्चिरादिगतेरप्रतीकालम्बनत्व व्याप्यत्वसिद्धेः ।

एकया यात्पनावृत्तिमन्ययावर्तते पुनः ।

इति श्रीगीतावचनादनावृत्तेरर्चिरादिगति व्याप्यत्वसिद्धेश्च संप्रतिपन्नतया यं प्राप्य न निवर्तन्त इति प्रमाणसिद्धया अपुनरावृत्त्यैव कैवल्यार्थिनामर्चिरादिगत्य प्रतीकालम्बनत्वयोस्सिद्धतया निरुक्तहेतुरसिद्ध एवेति ॥

अथ चतुर्थी

तदेकोग्रज्वलनं तत् प्रकाशि तद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृति योगाच्च हार्दानुगृहीतः शताधिकयेति सूत्रेण मूर्धन्यनाड्या निष्क्रमणस्याप्रतीकालम्बनत्वव्याप्यतायाः सिद्धतया मूर्ध्न्याधायात्मनः प्राणमितिकैवल्यार्थिनः प्रतिपादितेन मूर्धन्यनाड्या निष्क्रमणेनैव तस्याप्रतीकालम्बनत्वसिध्या निरुक्तहेतुरसिद्ध एवेति ॥

अथ पञ्चमी-

यः प्रयाति त्यजन्देहं सयाति परमां गतिम् ।

इति श्रीगीताष्टमाध्याय वचनभाष्ये यः प्रयाति अर्चिरादिकया गच्छतीति बहुषु प्राचीनकोशेषु पाठदर्शनात् तत्पाठाभिप्रायेणैव श्रीवेदान्ताचार्यैरपि मूर्ध्न्याधायात्मनः प्राणमित्यत्र अर्चिरादिगत्युपक्रमभूत नाडी विशेषनिष्क्रमणाङ्गीकारोपपत्तेः प्रमेयरत्नकृद्यामुनाचार्यविरचिते गीतार्थ संग्रहे यः प्रयाति त्यजन्देहमित्यत्र प्रयाति अर्चिरादिमार्गेण गच्छतीति पूर्वोक्तगीताभाष्यपाठानु सारेणैव व्याख्या तत्वात् ।

अग्निर्ज्योतिरहश्शुक्लष्षण्मासा उत्तरायणम् ।

तत्र प्रयाता गच्छन्ति ब्रह्मब्रह्मविदो जनाः ॥

इत्यादि श्रीगीताष्टमाध्यायवचनविषयस्य प्रतिस्मर्येते स्मार्ते चैत इति सूत्रस्य श्रुतप्रकाशिकायां योगिन इति सौत्रयोगिशब्दश्चतुर्विधभगवदुपासक साधारणं चतुर्विधा भजन्ते मामिति भक्ति योगस्य तेषां साधारणत्वात् इति देवयान पितृयान रूपद्विविधगत्यनुसन्धान नियोज्यवाचिनः सौत्रयोगिशब्दस्यार्तादि चतुर्विधाधिकारि विषयताया अनुगृहीतत्वेन तेनपुनरावृत्तिशून्यतया पूर्वोक्तबहुप्रमाणसिद्धस्य जिज्ञासोदेवयानानु सन्धानमेव सूत्रकाराभिप्रेतमिति सिध्या अग्निर्ज्योतिरित्यादौकैवल्य। परमपुरुषनिष्ठस्य च साधारण्येवार्चिरादिगतिः प्रतिपाद्यत इति सिद्धत्वात् तदनुरोधेनाग्निर्ज्योतिरित्यादिश्लोकगीताभाष्ये अथात्मयाथात्म्यविदः परमपुरुषनिष्ठस्य च साधारणीमर्चिरादिगतिमाहेतितितदवतरणिकाग्रन्थगतात्मयाथात्म्यविच्छिब्दस्य कैवल्यार्थिपरत्वस्यैवस्वारसिकत्वात् कैवल्यार्थिन्येव प्रकरणस्वारस्यात् श्रीगीतार्थसंग्रहे तदध्यायविषयश्लोके ऐश्वर्याक्षरयाथात्म्यभगवच्चारणार्थिनां वेद्योपादेय भावानामष्टमे भेद उच्यत इति कैवल्यार्थिविषये अक्षरयाथार्थ्यार्थिशब्दस्य प्रयुक्ततया तत्राक्षरशब्दार्थव्यक्तीकरणार्थं भाष्यकारैरात्मयाथात्मविद इति प्रयोगोपपत्तेश्च शारीरकशास्त्र गीताभाष्यादिसकलस्वारस्यानुरोधेन कैवल्यार्थिनोदेव यानगतेस्सिद्धतया तद्बलेन तस्याप्रतीकालम्बनत्वसिद्धेरुक्तहेतुरसिद्ध एवेति ॥

अथ षष्ठी

उपासनस्य फलकामनापूर्वकत्वेन जिज्ञासुप्राप्यफलवैषम्यज्ञापकेयं प्राप्यननिवर्तन्ते तद्धाम परमंममेति तत्प्राप्यस्य भगवच्छरीरत्वस्योक्ततया तेन तथा ज्ञातस्यात्मस्वरूपस्य तथैवोपासनमिति वक्तव्यत्वात् अधियज्ञोऽहमेवात्र देहे देह भृतां वर इति कैवल्यार्थिकर्तृकोपासनाङ्ग कर्माराध्यदेवमनुष्यभूतपितृब्रह्मादीनां भगवदात्मकत्वानुसन्धानस्योक्तत्वाच्च जिज्ञासोरप्यात्मयाथात्म्यवित्त्वस्य सिद्धतया तस्याप्य प्रतीकालम्बनत्वसिध्या निरुक्तहेतुरसिद्ध एवेति ॥

अथ सप्तमी

अक्षरं ब्रह्मपरमं स्वभानोऽध्यात्ममुच्यते ।

भूतभावोद्भवकारो विसर्गः कर्म संज्ञितः ।

इति जिज्ञासुवेद्यविषयाष्टमाध्यायवचन भाष्ये परममक्षरं प्रकृतिविनिर्मुक्तात्मस्वरूपं स्वभावोऽध्यात्ममुच्यत इति स्वभावः प्रकृतिः अनात्मभूतमात्मनि संबध्यमानं भूत सूक्ष्मत द्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतयोदितं तदुभयं प्राप्यतयात्याज्यतया च ज्ञातव्यमिति पञ्चाग्निविद्याप्राप्यस्यैव जिज्ञासुप्राप्यत्वेनोक्ततया तेनैव तस्य ब्रह्मात्मकात्मस्वरूपोपासकत्वसिध्या निरुक्तहेतुरसिद्ध एवेति ॥

अथाष्टमी

यः प्रयातित्यजन्देहं स याति परमां गतिम् ।

इत्यादिषु जिज्ञासोः प्रकृतिविनिर्मुक्तभगवत्समानाकारस्वरूपप्राप्तेरुक्ततया तत्र प्रकृतिविनिर्मोकस्य तदापीतस्संसाख्यपदेशादिति सूत्रोक्तिरीत्या ब्रह्मप्राप्त्यनन्तरत्वात् भगवत्समानाकारत्वस्य परंज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यत इत्याद्यनुसारेण ब्रह्मसंपत्त्यनन्तरभावित्वाच्च तस्य चा प्रतीकविदसाधारणतया निरुक्तहेतुरसिद्ध एवेति ॥

अथ नवमी

तद्धामपरमं ममेत्येतद्द्वितीययोजनायाम् अथवाप्रकाशवाचिधामशब्दः प्रकाशश्चेह ज्ञानमभिप्रेतं प्रकृति संसृष्टात् परिच्छिन्नज्ञानरूपादात्मनः अपरिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परंधामेतिजिज्ञासु प्राप्यस्यासंकुचितज्ञानत्वोक्त्या तस्य च परंज्योतिरुपसम्पद्येत्युक्त संपत्त्यनन्तरमेव सम्भवात् तस्य चा प्रतीकोपासनव्याप्यत्वेन निरुक्तहेतुरसिद्ध एवेति ॥

अथ दशमी

केवलात्माच भवति केवलेन समेत्यवै ।

इति मोक्षधर्मवचनेन स्वव्यतिरिक्त भोगभोक्तृरहित भोगवत्त्वलक्षणकैवल्यस्य तादृशभोगरूपकैवल्यविशिष्टभगवत्प्राप्त्यनन्तर भावित्वस्य कण्ठोक्ततया जिज्ञासोरात्यन्तिकलयात्मक सम्पत्तिस्थानभूतकेवलब्रह्मस्वरूपप्राप्तेः सिद्धतया तस्याश्च ब्रह्मगमयतीत्युक्ताया अप्रतीकोपासनव्याप्यत्वान्निरुक्तहेतुरसिद्ध एवेति ॥

अथैकादशी

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते।

इति वचन भाष्ये जिज्ञासोर्भूतसूक्ष्मतद्वासनादीनां त्याज्यत या ज्ञातव्यत्वस्योक्तत्वात् तद्धामपरमं ममेत्यत्र निश्शेषप्रकृतिविनिर्मोकविशिष्टस्यैव प्राप्यत्वेनोक्तत्वाच्च तादृशसूक्षमवासनादिविनिर्मोकस्य लक्ष्मीतत्रे द्वादशाध्याये, –

सप्तम्यात्यन्तिकी प्रोक्ता विलयोयोगिनां मयि। सूक्ष्माणि विनिवर्तन्ते शरीराणि तदा सताम् । इति वचनेन चेतन कर्तृकदेशविशेषावच्छिन्नब्रह्मस्वरूपलयात्मकात्यन्तिक संहृतिविशक्तिकार्यब्रह्मसंपत्तिकाल भावित्वस्योक्ततया तस्याश्च संपत्तेः परंज्योतिरुपसंपद्य तदापीतेस्संसारव्यपदेशादित्यादिश्रुतिसूत्रोक्त स्वरूपाया अप्रतीकोपासन व्याप्यत्वेन निरुक्तहेतुरन्यथासिद्ध एवेति ॥

अथद्वादशी

अग्निज्योतिरित्यादिश्लोकभाष्योदाहृतपञ्चाग्नि विद्याप्रकरणाधीतगतिवाक्ये तद्य इत्थं विदुरिति पञ्चाग्निविदां केवलात्मयाथात्म्यवेदनमात्रस्य येचेमेरण्येश्रद्धा सत्यमुपासत त्यादिना परमपुरुषनिष्ठानामेवः, –

श्रद्धावान् भजते योमां समेयुक्ततमो मतः ।

इति षष्ठाध्यायोक्तप्राप्यत्वरापूर्वकोपासनास्य योक्ततया तेन तादृशत्वरारहितानां पञ्चाग्निविदां ज्ञान्यनन्तर्भावसिद्व्यापरिशेषादौचित्याच्च जिज्ञासुकोटि निवेशएवेति तेषामप्रतीकालम्बनत्वसिद्धेनिरुक्तहेतुरसिद्ध एवेति ॥

अथ त्रयोदशी

तस्य हवा एतस्य ब्रह्मलोकस्यारेह्वदोमुहूर्तायेष्टिहाविरजानदीतिल्यो वृक्ष इत्यादिना कौषीतक्यधीतस्य वैष्णवाध्वनः पञ्चाग्निविद्याप्रकरष्वनाम्नानात् तदित्थंविदागच्छति ब्रह्मविद्वान् ब्रह्माभिप्रैतीत्यादिना तस्य परमपुरुषनिष्ठासाधारण्येनैवाम्नातत्वाच्च तेषां पञ्चाग्निविदां,

तेषां तत्परमं स्थानं यद्वैपश्यन्ति सूरयः । इत्युक्तसूरिदृश्यस्थानप्राप्तिर्नास्तीत्येव सिद्धेः । तदनुसारेण कार्याधिकरणवेदान्तदीपे पञ्चाग्निविदोहि प्रकृतिवियुक्तात्मस्वरूपविदः ते च तत्कैवल्यं प्राप्य पुनर्ननिवर्तन्त इति प्राचीनकोशपाठात् पञ्चाग्निविदो हि प्रकृतिवियुक्तब्रह्मात्मकात्मस्वरूपविदः ते च तत्प्राप्यपुनर्ननिवर्तन्त इति नवीनमुद्राक्षरकोशादिपाठाच्च पञ्चाग्निविदां स्वोपासितात्मप्राप्तिमात्रस्यैवानुगृहीतत्वात् परं ब्रह्मोपासीनास्तु यथावस्थितं परिपूर्णं परं ब्रह्मैव प्राप्य पुनर्ननिवर्तन्त इति परमपुरुषनिष्ठानामेव यथावस्थितस्वरूपानुरूपगुणविभूतिपरिपूर्णपरवासुदेव विग्रहविशिष्टब्रह्मप्राप्तेरुक्तत्वाच्च तादृश यथावस्थितपरिपूर्णपरब्रह्मप्राप्तिविधुराणां पञ्चाग्निविदां ज्ञानिकोटिनिवेशासम्भवेन जिज्ञासुत्वमेवोचितमिति तेषामप्रतीकालम्बनत्वसिध्या निरुक्तहेतुरसिद्ध एवेति ॥

अथ चतुर्दशी

उभयेऽपिहि परिपूर्णं ब्रह्मोपासते मुखभेदेन स्वात्मशरीरकं ब्रह्मकेचन ब्रह्मात्मकं स्वात्मानमितर इति श्रीवेदान्तसारे पञ्चाग्निविदां स्वात्मविशेषणतयैव परिपूर्णब्रह्मानुसन्धानस्यानुगृहीततया वस्तुतः परिपूर्णस्यापि ब्रह्मणश्चेतनशरीरित्वस्य विभूतिविग्रहाद्युपलक्षितवेषेणैव वक्तव्यतया तस्य सर्वविभूतिविग्रहविशिष्टवेषेणात्मविशेषणतया पञ्चाग्निविद्भिरनुसन्धानां योगात् ब्रह्मस्वरूपमात्रस्य तथानुसन्धान सम्भवेऽपि तस्य

स्वात्मविशेषणतयानु सन्धानस्य केवलं स्वात्मव्यावर्तनमात्रायत्वेन ब्रह्मांशे प्राधान्याभावेन स्वात्मनामेव प्रधानतया तत्रैव तेषां निरतिशयप्रीतेस्तान् प्रति ब्रह्मणो निरतिशयप्रियत्वासम्भवेन तेषां प्रियोहि ज्ञानिनोऽत्यर्थमहमित्युक्तभगवद्विषयात्यर्थ प्रीतियुक्तज्ञानिकोटिनिवेशा सम्भवात् जिज्ञासुत्वमेवेति निरुक्तहेतुरसिद्ध एवेति ॥

अथषोडशी

पञ्चाग्निविद्भिश्शरीरभूतस्वात्मापेक्षया विविच्यान्तरात्मत्वेनैव ब्रह्मानुसन्धानात्ततः स्वात्मानं विविच्य चत्छरीरत्वेनैव स्वानुसन्धानाच्चकेवलभेदोपासननिष्ठत्वात् तादृशानां योऽन्यां देवतामुपास्ते अन्योसावन्योहमस्तीति न सवेदेति श्रुतिगर्हिता यथोपासननिष्ठत्वात् अथयोपासने प्राप्तिरप्ययथाभूतास्यात् यथा क्रतुरस्मिन् लोके पुरुषोभवति तथेतः प्रेत्यभवतीतिन्यायादिति भाष्यानुसारेण तस्य स्वरूपविरुद्धाहंकार ममकारगर्भतया नित्यसंसार शब्दाभिलापार्हस्वात्मसन्तोषकारित्व लक्षणकैवल्यप्राप्तिहेतुत्वेन तन्निष्ठानामनन्य प्रयोजनज्ञानिकोटिनिवेशा सम्भवेन परिशेषात् जिज्ञासुत्वमेवेति निरुक्तहेतुरसिद्ध एवेति ॥

एतेनात्मत्वेनानुसन्धानमेव ब्रह्मविद्यास्वरूपमिति परास्तम्। पृथगात्मानं प्रेरितारं चमत्वेति प्रेरिततृत्वानुसन्धानस्य भेदानुसन्धानरूपत्वश्रुतेः। अत एव आत्मत्वोपासनाधिकरणभाष्यान्ते अहमिति स्वात्मतयानुसन्धानादन्यत्वानुसन्धान निषेधोरक्षित इति अहंग्रहोपासननिष्ठानामेव निषिद्धभेदोपासनवर्जनसिद्धिरनुगृहीता ॥

अथ सप्तदशी

त्वंवाहमस्मि भगवोदेवते अहं वैत्वमसीति श्रुत्यापूर्वेषां परमपुरुषोपासनप्रकारं माहयन्त्या सामानाधिकरण्येनोपासनस्य ग्राहितत्वात् अविभागेन दृष्टत्वादित्यधिकरणे ब्रह्मविद्यया मुक्तानां सर्वेषां यथा दर्शनं जायमानस्य ब्रह्मानुभवस्य अहं ब्रह्मास्मीत्यविभागेनैव जायमानत्वस्थापितत्वात् तद्बलेनापि तेषां सामानाधिकरण्येनैव ब्रह्मोपासनमिति सिद्धेश्च केवलवैयधिकरण्येनोपासकानां पञ्चाग्निविदां ब्रह्मविद्यानिष्ठज्ञानित्वासम्भवेन जिज्ञासुत्वमेवोचितमिति निरुक्तहेतुरसिद्ध एवेति ॥

अथष्टादशी

त्वंवाहमस्मिभगवोदेवते अहं वैत्यमसि तद्योहं सोसौ योसौ सोहमस्मीत्यादिश्रुत्या पूर्वोपगमप्रकारं दर्शयन्त्या तुल्यवित्तिवेद्यतया भानस्याप्युपासनान्तर्भावसिध्या पञ्चाग्निविदां ब्रह्मविदांचोभयविधब्रह्मोपासन सत्त्वेन विद्याभेदस्यैवासाङ्गत्यापत्त्या सामानाधिकरण्योपासनवैयधिकरण्योपासनाभ्यामेव तयोर्भेदस्यागत्योपपादनीयत्वेन पञ्चाग्निविदां निषिद्धभेदोपासननिष्ठत्वमेवेति तेषां जिज्ञासुत्वस्यैव युक्तत्वात् निरुक्तहेतुरसिद्ध एवेति  ॥

अथैकोनविंशी

पञ्चाग्निविद्ब्रह्मविदोरुभयोरपि विशेष्यतया विशेषणतया च ब्रह्मोपासनत्वेऽपि पञ्चाग्निविदां विशेषणतया ब्रह्मानुसन्धानमेव वैधमन्यदानुषङ्गिकं ब्रह्मविदां तद्विपरीतमिति कल्पनेन भेदोपपादनेऽपि उभयोरप्यानुषङ्गिके तात्पर्याभावेन पञ्चाग्निविदां विशेष्यत या ब्रह्मानुसन्धानस्योपेक्षात्मकत्वेन तस्य भावोज्झितास्तेनफलं लभन्त इति न्यायेन फलाधायकत्वायोगात् फलस्य यथोपासनभावित्वाच्च पञ्चाग्निविदां मोक्षदशायाम् अविभागेन भोगरूपब्रह्मानुभवो नास्त्येवेति सिध्या तेषां न ज्ञानिकोट्यन्तर्भाव इति निरुक्त हेतुरसिद्ध एवेति ॥

अथ विंशी

आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य साधारणीमर्चिरादिगतिमाहेति श्रीगीता भाष्यवाक्यं पञ्चाग्निविदो ज्ञानित्वेनोपपद्यते पञ्चाग्निविदोऽपि दहरविद्यादिनिष्ठानामिव परमपुरुषनिष्ठविशेषत्वेन परमपुरुषनिष्ठासाधारणीमर्चिरादिगतिमाहेत्येव वक्तव्यत्वात् । न हि पृथिवीघटयो स्साधारणं गन्धमाहेति वक्तुं युक्तं विरुद्धधर्माणामेव साधारण्यनिरूपकतावच्छेदकत्वनियमात्। तस्मादर्चिरादि गति निष्ठसाधारण्यनिरूपकतावच्छेदकत्वेनोपात्तत्वादेवात्म यथात्म्यवित्त्वपरमपुरुष निष्ठत्वयोर्विरुद्धत्वसिध्या तादृशपरमपुरुषनिष्ठत्वविरुद्धात्म  याथात्म्यवित्त्वावच्छिन्नस्य पञ्चाग्निविदः परमपुरुषनिष्ठत्वावच्छिन्नज्ञानिकोटिनिवेशा सम्भवेन जिज्ञासुत्वमेव युक्तमिति निरुक्तहेतुरसिद्ध एवेति । न च विशेष्यतया ब्रह्मोपासक एव परमपुरुषनिष्ठशब्दार्थ इति वक्तुं युक्तं व्युत्पत्तेरतथात्वात्। न हि विशेष्यत्वेनानुसन्धानमेव निष्ठाशब्दार्थः । ओमित्यात्मानं युञ्जीतेति श्रुतिविहितात्मविशेष्यकन्यासविद्यावत्सुपरमपुरुष निष्ठाशब्दप्रयोगस्य लाक्षणिकत्वापातात् ब्रह्मैव श्रोतव्यो नान्यदिति व्यवसायो निष्ठेति भूमाधिकरणभाष्यश्रुतप्रकाशिकाविरोधाच्चा तस्मात् परमपुरुष एव परमप्राप्यत या श्रोतव्यो नान्यदिति व्यवसिताः परमपुरुषनिष्ठाः । आत्मयाथात्म्यमेव तथा प्राप्यतया श्रोतव्यमिति आत्मयाथात्म्यविद इत्येव तयोर्भेदस्य आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य चेत्यादिभाष्ये स्वरसतः प्रतीत्या पञ्चाग्निविज्जिज्ञासुरेवेति ॥

अथैकविंशी

यदिचात्मयाथात्म्यविदोपि ज्ञानिकोटिनिवेशः प्रामाणिकः स्यात् तर्हि कार्याधिकरणसिद्धान्तसूत्रं व्यर्थमेव। पूर्वपक्षिणा जैमिनिनैव परपक्षप्रतिक्षेपपूर्वकं सिद्धान्तस्य स्थापितत्वात्। परं जैमिनिर्मुख्यत्वादिति हि तत्र सूत्रम्। परं ब्रह्मोपासीनानर्चिरादिर्नयतीति जैमिनिराचार्यो मन्यत इति च तत्र भाष्यम्। नह्यत्र विशेष्यत या ब्रह्मोपासीनानेवनयतीति जैमिनिनोक्तं भाषितं वा येन सिद्धान्तसूत्रारम्भः सार्थकस्स्यात्। न च परं जैमिनिरित्यत्र परशब्दोत्तरद्वितीयाया विशेष्यतैवार्थ इति नियन्तुं शक्यम्। उभयेऽपि हि परिपूर्णं ब्रह्मोपासते मुखभेदेनेति सारवाक्ये ब्रह्मशब्दोत्तरं विषयता सामान्ये द्वितीया प्रयोगात् घट इति घटं घटत्वं च प्रत्येतीत्यादानपि तथादर्शनाच्च। तस्मात् विषयतासामान्यस्यैव द्वितीयार्थत्वेन परं जैमिनिरित्यनेनैव परविषयकोपासननिष्ठानां सर्वेषामेवार्चिरादिगतिरिति स्थापिततया पञ्चाग्निविदोपि परोपासकज्ञानि कोट्यन्तर्भावे अप्रतीकालम्बनान्नयतीति सिद्धान्त सूत्रं व्यर्थमापद्येतेति तस्य जिज्ञासुत्वमेव युक्तमिति निरुक्तहेतुरसिद्ध एवेति ॥

अथ द्वाविंशी

अप्रतीकालम्बनानित्यादि सिद्धान्त सूत्रभाष्ये ये परं ब्रह्मोपासते येचात्मानं प्रकृति वियुक्तं ब्रह्मात्मकमुपासते तानुभयविधान्नयतीत्यत्र विशेष्यताप्रकारता लक्षणविषयता भेदमात्रेण द्वैविध्यस्य तुल्यवित्तिवेद्यतया भानसंवलनात् त्वंवाहमस्मीत्यादिश्रुति बलाच्चोभयेषामुभयविधानुसन्धानसत्त्वेन दुरुपपादतायाः पूर्वमेवोक्ततया प्रकारान्तरेणैव तदुपपादनीयम्। किन्तत् प्रकारान्तरमिति चेत् ब्रह्मविषयकनिरतिशयप्रीतिमत्त्वं ब्रह्मात्मकात्मविषयनिरतिशयप्रीतिमत्त्वं चैवेति ब्रूमः। शब्दत एवात्र तयोः प्रकारयोः प्रतीतेः तथा हि ये परं ब्रह्मोपासत इत्यत्र ब्रह्मशब्दोत्तरद्वितीयाया विषयत्वमर्थः। तस्याश्च उपास्तावन्वयः। उपासनं नाम निरतिशय प्रीतिरूपोज्ञानविशेषः सेवा भक्तिरुपास्तिरिति निघण्टुपाठेन भक्तिशब्दपर्यायत्वात्। तथा च ये परं ब्रह्मोपासत इत्यनेन परब्रह्मविषयनिरतिशयप्रीतिविशिष्टा ज्ञानिनोऽभिहिताः एवमेव येचात्मानमित्यादिना ब्रह्मात्मकात्मस्वरूपविषयनिरतिशयप्रीति विशिष्टा उच्यन्ते न ब्रह्मविषयनिरतिशयप्रीतिविशिष्टाः तेषां ब्रह्मणि प्रीतेरात्मविशेषणत्वनिबन्धनस्वात्मप्रीत्या सातिशयत्वात्। तथा चैवमुपपादितयोः द्वयोरप्रतीकालम्बनयोरात्मयाथात्म्यविद अन्यभक्त तया तस्य एक भक्तिर्विशिष्यत इत्युक्त ज्ञानिकोट्यन्तर्भावायोगात् जिज्ञासुत्वमेव युक्तमिति निरुक्तहेतुरसिद्ध एवेति ॥

ननु तर्हि कथं वेदान्तसारे उभयोपि हि परिपूर्णं ब्रह्मोपासत इत्युक्तमिति चेत् भ्रान्तोसि ना हि तत्र तयोरविशेषेण ब्रह्मोपासनमुक्तं किन्तु मुखभेदेनैव। प्राधान्याप्राधान्य एव हि तत्र मुखभेदोनाम तथा च तत्रापि पञ्चाग्निविदस्वात्मविषयतया निरतिशय प्रीतिरूपेतदुपासने ब्रह्मण आत्मविशेषणत्वरूपाप्राधान्य लक्षणमुखभेदेनैव विषयत्वामित्युक्तं भवति। यदि च यथा कथञ्चित् ब्रह्मविषयकत्वाभिप्रायक ब्रह्मोपासन शब्द प्रयोगमात्रेण ब्रह्मविद्यानिष्ठत्वसिद्धिः स्यात् तर्हि चतुर्विधा भजन्ते मामिति गीतावचनात् उदारास्सर्व एवैत इत्यादिषु सर्व एवै तेमामेवोपासते इत्युदारावदान्या इत्यादि भाषणात् दक्षिणायनाधिकरणस्थयोगिनः प्रतीत्यादिसूत्र भाष्ये चतुर्विधाधिकारिसाधारणयोगि शब्दस्य योगिनः ब्रह्मविद्यानिष्ठान् प्रति एते देवयानपितृयानगती स्मार्ते स्मर्येते इति ब्रह्मविद्यानिष्ठशब्देन दीपे व्याख्यानाच्च चतुर्णामपि ब्रह्मनिष्ठत्वस्यैव प्रसङ्गात् । तस्मान्निरुक्तसारवाक्यस्य पञ्चाग्निविदामप्रतीकालम्बनत्व समर्थनार्थं तदुपासने यथा कथञ्चित् ब्रह्मणो विषयत्वमस्त्येवेति एतावन्मात्रोपपादन परत्वात् ब्रह्मांशे निरतिशयप्रीतिरूपोपासनवतामेव ज्ञानिशब्दार्थत्वाच्च पञ्चाग्निविदां ज्ञानिकोटिनिवेशो दुर्लभ एवेति ॥

अथ त्रयोविंशी

कार्याधिकरणे हि न प्रतीकालम्बनत्वमप्रतीकालम्बनत्वं च फलनित्यत्वानित्यत्वयोः प्रहयोजकतया विवक्षितं तत्र प्रमाणाभावात्। न हि क्वचित् प्रतीकालम्बनमनित्यफलमित्यादिकं श्रूयते किन्तु फलनित्यत्वानित्यत्व साधकत्वत् क्रतुन्यायविषयतावच्छेदक विशिष्टोपासनसत्त्वमेव अप्रतीकालम्बनान्न यतीति बादरायण उभयथा च दोषादित्युक्तमर्थमुपपादयता सूत्रकारेण तत् क्रतुश्चेत्युक्तत्वात् तदेतदाह भगवान् भाष्यकारः तस्मादुभयविधान्नयतीति तदेतदाहतत् क्रतुश्चेति इत्यादिना। तथा च पञ्चाग्निविद् ब्रह्मविदोरपि फलमित्यतायास्तत् क्रतुन्यायविषयस्वोपास्य नित्यताप्रयुक्तत्वात् प्रकृते जिज्ञासोरपि प्रकृति विनिर्मुक्तात्मस्वरूपोपासकत्वात्तेनैव तत् क्रतुन्यायेन तत् प्राप्यकैवल्यनित्यताया अपि सिद्धत्वेन तदनित्यत्वसाधतकतयोपन्यस्तः प्रतीकोपासनसाध्यत्वादिति हेतुस्सोपाधिकोपीति नामादि प्राणपर्यन्तफलेष्वनित्येषु अनुत्योपासनसाध्यत्वलक्षणोपाधेस्साध्यव्यापकत्व दर्शनात् पूर्वपक्षिणा प्रतीकोपासन साध्यत्वेनाभिमते जिज्ञासुकर्तृक प्रकृतिविनिर्मुक्तात्म स्वरूपोपासनसाध्ये फले अनित्योपासनसाध्यत्व लक्षणोपाध्यभावेन तस्य साधनाव्यापकत्वाच्च तस्योपाधित्वानपायादिति  ।।

अथ चतुर्विंशी

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।

मामुपेत्ययुकौन्तेय पुनर्जन्म न विद्यते ॥

इति श्लोकभाष्ये ऐश्वर्यगतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनरावृत्तावपुनरावृत्तौ च हेतुमनन्तराहेत्यवतरणिकादानात् ऐश्वर्यगतिं प्राप्तानां प्राप्यस्थानविनाशाद्विनाशित्वमवर्जनीयम्। मां सर्वज्ञं सत्यसंकल्पं निखिलजगदुत्पत्तिस्थितिलयादिलीलं परमकारुणिकं सदैकरूपं प्राप्ताना विनाशप्रसङ्गाभावात् तेषां पुनर्जन्म नविद्यत इति व्याख्यानात् जिज्ञासोरनावृत्तिप्रतिपादकश्लोकेपि –   यस्ससर्वेषु भूतेषु नश्यत्सुनविनश्यति ।

अव्यक्तोऽक्षर इत्युक्तास्तमाहुः परमांगतिम् ॥

यं प्राप्य ननिवर्तन्ते तद्धामपरमं मम ।

इति प्राप्यविनाशाभावकथनपूर्वकं तदपुनरावृत्तिकथनाच्च कार्याधिकरणे प्रतीकविदां फलानित्यत्व प्रतिपादनपरे विशेषं च दर्शयतीति सूत्रचिन्तितेषु नामादि प्राणपर्यन्तोपासनफलवाक्येषु तत् क्रतुन्यायानुसारेणैव परिमितफलप्रतिपादनस्य भाषितत्वात्। मध्वधिकरणे मधुविदां ब्रह्मवित्त्वेऽपि तदेवं कार्यकारणोभयावस्थं ब्रह्मोपासीनः कल्पान्तरे वस्वादित्वं तदन्तेकारणं परं ब्रह्मैवाप्नोतीति तत् क्रतुन्यायात् कार्योपासनेनैवानित्यवसुलोकप्राप्तेर्भाषितत्वेना प्रतीकालम्बनत्वस्य तदंशेऽन्यथा सिद्धत्वाञ्च फलानित्यतायां प्राप्यतया अनित्योपासनमेव प्रयोजकं तन्नित्यतायां च तादृशतदुपासनमेव प्रयोजकमित्येव प्रयोज्यप्रयोजकभाव सिध्या प्रकृतजिज्ञासोः प्राप्यतया नित्यवस्तूपासकस्य फलनित्यत्वं सिद्धमेवेति हेतुस्सत् प्रतिपक्षितोपीति। एवेन प्रतीकालम्बनास्तु अचिन्मिश्रं केवलाचिद्वस्तुचेत्यादि प्रतीकोपासनलक्षण प्रदर्शनपरदीपादिवाक्येषु लक्षणया चकारस्यानुक्रसमुच्चायकत्वाश्रयणेनवा पाठान्तर प्रक्षेपेण वा अन्येन वा माहासाहसेन अचिद्वियुक्तचेतनोपासनाभिधानं परिकल्प्यजिज्ञासोरपि प्रतीकोपासकान्तर्भावे भाष्यकारसंमति संपादनपरिश्रमो निष्फलीकृतः। तथा तत् सम्पादनेनासिद्धिपरिहार प्रत्याशायामपि पूर्वोक्तसोपाधिकत्वसत् प्रतिपक्षयोर्दुरुद्धरत्वादिति ॥

अथ पञ्चविंशी

स एनान् ब्रह्मगमयगीति पञ्चाग्निविद्ब्रह्मविदोः साधारण्येन ब्रह्मप्राप्तिश्रवणेपि तस्या अनुभवरूपत्वं न सम्भवति कार्याधिकरणगतदर्शनाञ्चेति सूत्र भाष्ये ब्रह्मगमयतीति श्रुत्युक्तायाः प्राप्तेः परंज्योति रुपसंपद्येत्युक्तसम्पत्तिरूपत्वस्यानुगृहीतत्वात् । संपत्तिर्नाम नामरूपविभागानर्हतया कारणस्वरूपे लय एवेति अविभागोप्यवचनादिति सूत्रभाष्ये स्पष्टम् । अत्रेयं सम्पत्तिरात्यन्ति कलयरूपा तस्या हि सुखरूपत्वं विश्रमार्थत्वं च सुषुप्त्यादाविव दुरपह्नवम् । सुषुप्तिकाले सतासोम्ये तदा सम्पन्नो भवतीति ब्रह्मणि सम्पन्नस्य हि सुखमहमस्वाप्समिति सुखप्रत्यक्षं भाष्येऽनुगृहीतम् । प्राहुरप्यभियुक्ताः-

स्वापेसुखत्वजिज्ञानात्तद्विच्छेदे ऐषतः ।

इति सुषुप्त्यपेक्षयापि महाप्रलये संपत्तिर्विशिष्यते दीर्घकालविश्रान्त्यादि हेतुत्वात् तदपेक्षयाप्यात्यन्तिकलयात्मक सम्पत्तिर्निरतिशयानित्यविश्रान्तिरूपत्वात् नित्यसुखरूपत्वाच्च तदेवं सम्पत्तिवैलक्षण्यं श्रुतप्रकाशिकायामविभागाधिकरणे दर्शितम् । भारवाहकस्य देहि नस्सभारस्यैव यष्ट्यवष्टम्भेन विश्रमतुल्यस्सुषुप्तौ विश्रमः अपनीतभारस्य विश्रमतुल्यो महाप्रलयइत्यादिना परंज्योतिरूपसम्पद्येत्युक्तायाः सम्पत्तेर्लयात्मकत्वं च दहराधिकरणश्रुतप्रकाशिकायां स्पष्टम् । वाय्वादीनि च स्वकारणद्रव्यमुपगम्य कार्यावस्थां हित्वा कारणसदृशेन रूपेण विशिष्टानि भवन्ति वायुर्ह्यावहप्रवहादिरूपेण सप्तविधत्वं हित्वा वायुत्वमात्रेणावतिष्ठते विद्युच्च विद्युत्त्वं हित्वा तेजस्त्वेन अभ्रस्तनयित्नुचाभ्रत्वादि प्रहाणेन स्वकारणभूतरूपेण एवं जीवश्च मार्गविशेषेण गत्वा परं ब्रह्मप्राप्यसंसार्यवस्थाप्रहाणेन परमात्मतुल्यरूपेणाविर्भवतीत्येवमर्थे सति हि दृष्टान्तदार्ष्टान्तिकवाक्य सामञ्जस्यं भवतीति तत् प्रकरणार्थवर्णनात् सूत्रकारेणापि आसृत्युपक्रमाधिकरणे तदापीतेस्संसारव्यपदेशादिति सूत्रे ब्रह्मगमयतीत्यादिनोक्ता ब्रह्मप्राप्तिर्लयवाचिना अपीति शब्देन निर्दिष्टा श्रुतौ च यथा नद्यस्स्यन्दमाना स्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यमिति ब्रह्मप्राप्तेर्लयरूपत्वं दर्शितम्। लक्ष्मीतन्त्रे द्वादशाध्याये च

सप्तस्यात्यन्तिकी प्रोक्ता विलयो योगिनामपि ।

सूक्ष्माणि विनिवर्तन्ते शरीराणि तदासताम् ।

इति मोक्षस्य भगवत्स्वरूपे चेतनलयात्मकत्वं तस्य च लयस्य सूक्ष्मशरीरनिवृत्ति समानकालीनत्वं चोक्तम्। अस्याश्च ब्रह्मसम्पत्तेः सम्पद्याविर्भावस्स्वेनशब्दादित्यादिषु चेतन स्वरूपाविर्भावहेतुत्व स्योक्ततया तिरोधानकालीनत्वं सिद्धम्। इयं च सम्पत्तिश्चेतनस्य ब्रह्मात्मकस्वात्मावाप्तिरूपैव नामरूपविभागानर्हतया ब्रह्मस्वरूपपृथक् सिद्ध विशेषणत्वेन स्थितेरेव ब्रह्मात्मकत्वापत्तिरूपत्वात् इयन्तु तत् क्रतुन्यायात् पञ्चाग्निविदां प्रधानफलभूता ब्रह्मविदान्त्वप्रधानफलमेव तर्हि कथं स एनान् ब्रह्मगमयतीति गति श्रुतेरत्रैव पर्यवसानमिति चेत् भ्रान्तोसि अवहितमनाश्शृणु अर्चिरादिगतिर्हि आत्मयाथात्म्यविदः परमपुरुषस्येव साधारणीकाचनसाच पञ्चाग्निविप्राप्त्याभिप्रायेणाक्षराध्वेत्युच्यते परमपुरुषनिष्ठस्यैवासाधारणी तदन्यासा च वैष्णवाध्वेत्युच्यते छान्दोग्यबृहदारण्यकयोः पञ्चाग्निवित् प्रकरणयोरधीता ब्रह्मगमनपर्यन्तागतिरक्षराध्वा अक्षिविद्याप्रकरणयोरधीता सैव ब्रह्मपथशिरस्कावैष्णवाध्वा कौषीतकीपर्यङ्कविद्यायां हि स प्रजापतिलोकं स ब्रह्मलोकमित्यन्तेन पञ्चाग्निवित्साधारणीमक्षरगतिमभिधाय तस्य हवा एतस्य ब्रह्मलोकस्यारं हृद इत्यादि ब्रह्मविदसाधारणांशो ब्रह्मपथ आम्नातः अक्षिविद्यायामपि एषदेवपथो ब्रह्मपथ इति ब्रह्मपथशब्देन देवयानस्य विशेषणात् पञ्चाग्निवित्साधारणीगतिर्व्यावर्तिता तर्हि कथं भाष्ये अर्चिरादिरेकैवेत्युक्तमिति चेत्। विद्यानिष्ठानां स्मर्तव्यगतेर्ब्रह्मगमनपर्यन्तत्वेन तावन्मात्रस्यैव विद्यानिष्पत्त्यर्थत्वात् तदंशे भेदाभावेन विद्याशेषानुस्मृतिविषयभूतागतिरेकैवेत्युक्तमिति नानुपपत्तिः अक्षिविद्यायां ब्रह्मगमयतीति स्थाने पर्यङ्कविद्यायां स ब्रह्मलोकमिति पाठात् छान्दोग्ये पञ्चाग्निविद्यायां ब्रह्मगमयतीति स्थाने वाजसनेयपञ्चाग्निविद्यायां स एत्यब्रह्मलोकान् गमयतीति पाठाच्चाप्राकृतलोकावच्छिन्न ब्रह्मस्वरूपसम्बन्ध एव ब्रह्मगमनशब्दार्थ इति सिध्यति तत्रावच्छेदकलोकतात्पर्येणावच्छेद्यतात्पर्येण चोभयधापि प्रयोगसामञ्जस्यात् अयं च ब्रह्मस्वरूप सम्बन्धोविरजानदीगमनकाल भावी विरजाया एवाप्राकृतलोकसीमपरिच्छेदकत्वात् तथा च तत्तोयस्पर्शमात्रेणेत्युक्तमहाप्रभावविरजातोय स्पर्शकालीनोयः सूक्ष्मशरीरादिविमोकः सर्वरहस्यप्रसिद्धः तत् काल एव ब्रह्मस्वरूपे चेतनलयः परंज्योतिरूपसम्पद्येति स्वरूपाविर्भावहेतुतयोक्तः सम्पत्तिलक्षणो ब्रह्मगमनशब्दनिर्दिष्ट: आत्यन्तिकलयात्मकत्वेन लक्ष्मीतन्त्रोक्तो यथानद्यस्स्यन्दमानास्समुद्रे अथ सम्पत्स्य इत्यादि श्रुतिप्रतिपन्नः तदापीतेस्संसार व्यपदेश इति सौत्रपीतिशब्दवाच्यः विद्यानिष्पत्त्यर्थसाधारणार्चिरादि गतिकाष्ठाभूतः ब्रह्मात्मकप्राप्तिरूपः पञ्चाग्निविदां प्रधानफलभूतः परमपुरुषनिष्ठानाम प्रधानफलं चेति निश्चीयते तथा च स एनान् ब्रह्मगमयतीति पञ्चाग्निवित्साधारण्येन प्रतिपन्नाया ब्रह्मप्राप्तेः परमपुरुषनिष्ठप्रधानफलोपेक्षया भिन्नप्राप्तेः परमपुरुषनिष्ठप्रधानफलापेक्षया भिन्नत्वेन तावन्मात्रपर्यवसन्नस्य पञ्चाग्निविदः ज्ञानिकोटिनिवेशासम्भवेन निरुक्तहेतुरसिद्ध एवेति ।

एतदुक्तं भवति अर्चिरादिना तत्प्रथितेरित्यधिकरणे भाष्यकारैरर्चिरादिगति

वाक्यान्युपादाय तदैकार्थ्यप्रदर्शनवसरे कौषीतक्यधीतगतिवाक्ये सब्रह्मलोकमित्यन्तमेवोपादाय तस्य पञ्चाग्निवित्साधारणगति वाक्यैरैकार्थ्यनिर्णयात् कौषीतकीवाक्ये ब्रह्मलोकगमनानन्तरश्रुता आरहृदतटस्नानतिल्यकान्तारप्रवेश पञ्चशताप्सरः प्रत्युद्गमन ब्रह्मालङ्कारालंक्रियादयः परब्रह्मजितिजयव्यष्टिभोगादिसविभूतिकब्रह्मानुभवपर्यन्ता विशेषाः पञ्चाग्निनविदां नास्त्येवेति प्रतीतेः तत् प्रकरणे ब्रह्मविद्वान् ब्रह्मैवाभिप्रैतीति मध्ये मध्ये तेषां विशेषाणां परमपुरुषनिष्ठा साधारण्यस्याभ्यस्तत्वात् तमित्थं वित्पादेनाध्यारोहति य एवं वेदय एवं वेदेत्युपसंहाराच्च पञ्चाग्निविदां तादृशोपासनाभावेन तत्राप्येषां विशेषाणामुपसंहारायोगात्। श्रीभाष्यकार्याधिकरणभाष्ये सब्रह्मलोकमिति कौषीतकीपठित ब्रह्मलोकगमनसमानार्थकब्रह्मगमयतीति श्रुत्यर्थानुगुणोपासनमात्रस्यैव पञ्चाग्निविद्यायामगत्या कल्पितत्वेन पर्यङ्कारोहणब्रह्मजितिजयादिकं पञ्चाग्निविदां नास्त्येवेति प्रतीतेः ब्रह्मगमयतीति वत् पर्यङ्कारोहणादीनां पञ्चाग्निविद्याप्रकरणे कुत्रापि पाठाभावेन पञ्चाग्निविदा तदुपासनकल्पकतत् क्रतुन्यायाप्रवृत्त्या कल्पयितुमप्यशक्यत्वात् विकल्पो वा अविशिष्टफलत्वादिति सूत्रित फलाविशेषन्यायस्यापि ब्रह्मविन्मात्रविषयतायास्तत्रैव सिद्धतया विप्रतिपन्नेषु पञ्चाग्निवित्सुतन्न्यायस्याप्य प्रवृत्तेः कार्याधिकरणदीपे पञ्चाग्निविद् ब्रह्मविदोः फलभेदस्यैव सिद्धान्तितत्वाच्च ब्रह्मविदामप्रधानफलभूते ब्रह्मात्मकस्वात्मप्राप्तिलक्षणब्रह्मगमनमात्रे पर्यवसन्नोयं यं पञ्चाग्निविदिति शारीरकशास्त्रसारपरामर्शवतां दुरपह्णवमेवेति तादृशस्य पञ्चाग्निविदः परिशेषात् जिज्ञासुत्वमेव सिद्धमिति हेत्वसिद्धिरिति ।

अथ षड्विंशी

भाष्यकारैः अर्चिः प्रभृतिप्रजापतिपर्यन्तानां द्वादशदेवतानामेवातिवाहिकाधिकृतत्वेन निर्णीतत्वात् त्रियुगयुगपदारोहणालम्बसूत्रमित्यत्र त्रियुगयुगेति द्वादशसंख्याकानामेव

व्यवस्थापितत्वात् मुक्तोर्चिर्दिनपूर्वपक्षेत्यादिश्लोके वरुणेन्द्रधातृगमित इति प्रजापर्यन्तानामेवातिवहनस्य दर्शितत्वाच्च कैषीतकवाक्ये सवरुणलोकं स इन्द्रलोकं स प्रजापतिलोकमिति धातृपर्यन्ताति वाहिकगमनमुक्तातदनन्तरमुक्तस्य सब्रह्मलोकमित्यस्य ब्रह्मैव लोको ब्रह्मलोक इति कार्यादिकरणभाष्यप्रदर्शितव्युत्पत्त्या ब्रह्मगमयतीत्येतत्

समानार्थकत्वस्यैवावश्यवक्तव्यतया तस्मिन्नेव ब्रह्मगमने पर्यवसन्नानां पञ्चाग्निविदां

तदनन्दराधीत ब्रह्मयानप्राप्यपर्यङ्कारोहणपरब्रह्म संवादब्रह्मजिति जयव्यष्टिव्यशनादीना ततस्सुदूराधीतानां प्रसङ्गस्याप्यभावेन तेषां तद्भोगयोग्यज्ञानिकोटि निवेशासम्भवात् परिशेषाज्जिज्ञासुत्वमेवेति हेतुरसिद्ध एवेति ॥

अथ सप्तविंशी

ब्रह्मविदा प्रत्युद्गमनपूर्वकं सूरिदृश्यस्थानप्रापणार्थं नित्यपरिषदं प्रतिपरनियमप्रकारं प्रदर्शयति कौषीतकीवाक्ये तमित्थं विदागच्छति तं ब्रह्माह अभिधावतमम यशसा विरजां वा अयं नदीं प्रापत् नवा अयं जरिष्यतीति अयं ब्रह्मविद्विरजामुपाजगाम नायं मन्यवत्तत्र जीर्णोभविष्यति तस्मात् मद्भक्तप्रत्युद्गमननिबन्धमद्यशस्सिद्धये यूयं तं ब्रह्मविदमभिधावत इति परं ब्रह्माहेत्युक्त्या विरजानदीं प्राप्तानामनित्थंविदां पञ्चाग्निविद्यानिष्ठानां स्वरूपविरुद्धफलप्राप्तिलक्षणजीर्त्या तत्रैव पर्यवसानप्रतीत्या न तेषां ज्ञानित्वं किन्तु जिज्ञासुत्वमेवेति हेतुरसिद्ध इति ॥

अथाष्टाविंशी

अथ तत्रैव कौषीतकी प्रकरणे दिव्याप्सरोभिब्रह्मालंक्रियानन्तरं स आगच्छत्यारं ह्रदं तन्मनसात्येतीति ब्रह्मविद आरह्रदतरणमुक्ता तमित्वासंप्रतिविदोमज्जन्तीति स्वात्मोपासकानां तत्रैव पतनमुच्यते। अयमर्थः सम्प्रतिविदः प्रतिप्रतिकूलं स्वात्मानुभवं सं सम्यक्त्वेन जानन्तीति सम्प्रतिविदः परमप्राप्यत्वेन स्वात्मोपासकाः पञ्चाग्निविद इत्यर्थः । शङ्करेणाप्येवमेवास्य व्युत्पत्तेदर्शितत्वात् तदेवं भूताः पञ्चाग्निविदः तम् आरह्रदं इत्वा प्राप्तय मज्जन्ति तत्रैव निमग्नाभवन्ति न तु तन्तरन्तीति तेषां तत्रैव पतनं प्रतिपाद्यत इति तथा च भगवत्कैङ्कर्यविधुरकेवलात्मप्राप्तेर्नचात्मानन्नान्यदित्यनु गृहीतरीत्यात्यन्त प्रतिकूलत्वेन तामेव प्रधानफलत या स्वीकृत्य स्वात्मविशेष्यभूतं परं ब्रह्मापि वैपरीत्येनानुसन्धाय स्वात्मानमेवोपासीनानां पञ्चाग्निविदां सम्प्रतिविच्छब्दार्थत्वानपायात् तेषामारह्रद एव पर्यवसानस्य प्रमाणसिद्धत्वान्न तेषां ज्ञानित्वमिति परिशेषाज्जिज्ञासुत्वमेवेति निरुक्तहेतुरसिद्ध एवेति ॥

अथैकोनत्रिंशी

तद्य इत्थंविदुरित्यादिच्छान्दोग्यवाजसनेयवाक्ययोर्द्वयोरपि ब्रह्मविदामेवारण्यस्थिति पूर्वकोपासनस्य प्रतिपादितत्वात् तत्रारण्यशब्दस्य यत्रैकाग्रता तत्राविशेषादिति सूत्रविरोधेन देशविशेषनियमपरत्वायोगात् सर्वाश्रमिणां ब्रह्मविद्याधिकारित्वेन आश्रमविशेषवाचित्वायोगाच्च। अथ यदरण्यायनमित्या चक्षते ब्रह्मचर्यमेव तत् इति छान्दोग्यदहरविद्याप्रकरणाधीतरीत्या अरनामकस्यार्णवस्यारहृदस्यारण्यनामकार्णवस्य तदन्यस्य च परमपदस्थस्य प्रापकतयातारकतयाचारण्यायन शब्दनिर्दिष्टब्रह्मचर्यस्यैव तेन विवक्षणीयतया तादृशारण्यनिष्ठाहीनानां पञ्चाग्निविदामरण्यख्यार्णवद्वयप्राप्तिवैथुर्यात् तत् प्राप्तिमतामेव तदैरम्मदीयं सरः तदश्वत्थस्सोमसवनस्तदपराजिता प्रब्रह्मणः प्रभुविमतं हिरण्मयमित्यादि प्राप्यविशेषाभिधानात् तद्रहितानां तेषां ज्ञानिकोटिनिवेशासम्भवेन जिज्ञासुत्वमेव युक्तमिति हेतुरसिद्ध एवेति ॥

अथ त्रिंशी

तद्या एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोक इति तद्य एवैतावरञ्चण्यच्चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोक इति च ब्रह्मोपासकानामेव ऐरम्मदीय हृदादिचिह्नितसूरि दृश्यस्थानविशेषप्राप्तेरसाधारण्येनोक्ततया ब्रह्मात्मकात्मोपासकानां पञ्चाग्निविदां तदसम्भवेन निरुक्तरीत्या हेतुरसिद्ध एवेति ॥

अथैकत्रिंशी

शारीरकचरमाध्यायचरमपादप्रथमाधिकरणप्रथमसूत्रे मुक्तस्य प्रथमभाविस्वरूपाविर्भावहेतुभूता ब्रह्मसम्पत्तिरर्चिरादिगतिकाष्ठाभूता सम्पद्याविर्भावस्वेन शब्दादितिल्यबन्त सम्पत्तिशब्देन तिरोकालसमकालभाविनीति प्रदर्शिता, चरमे जगद्व्यापारवर्जाधिकरणे मुक्तस्य यथावस्थित स्वरूपाविर्भावान्तर भाविब्रह्मानुभवो विचारित इति तादृशानुभवापेक्षया तादृशसम्पत्तेः भेदस्यात्यन्तव्यक्तत्वेन तादृशसम्पत्तिमात्रपर्यवसन्नानां पञ्चाग्निविदां जिज्ञासुत्वमेवोचितमिति निरुक्तहेतुरसिद्ध एवेति ॥

अथ द्वात्रिंशी

पञ्चाग्निविद्ब्रह्मविदोर्गतिभेदानङ्गीकारे श्रुतोपनिषत्गत्यभिधानाच्चेत्यक्ष्याधिकरण सूत्रविरोधोदुष्टपरिहरः तथापि तत्रहि अक्षिविद्यावेद्यं अहं पक्षीकृत्य अर्चिरादिगतिस्मरणाङ्गकविद्यावेद्यत्वहेतुना परमात्मत्वं साध्यते । यदि च परमपुरषनिष्ठस्मर्तव्यैर्वार्चिरादिः पञ्चाग्निविदोपि स्मर्तव्यास्यात् तर्हि तस्य हेतोः पञ्चाग्निविद्यावेद्ये प्रत्यगात्मनिव्यभिचारः स्यात् तत्र परमात्मत्वरूप साध्याभावात् अर्चिरादि स्मृत्यङ्गकविद्यावेद्यत्वरूपहेतुसत्त्वाञ्च। यदि च तत् परिहाराय विशेषणतया वेद्यत्वमेव हेतुरित्युच्येत तर्हि ब्रह्मविद्यायां विशेषणतया वेद्ये प्रत्यगात्मनि व्यभिचारः अक्षिविद्यावेद्यस्य विशेषणतया वेद्यत्वाभावादसिद्धिश्च ब्रह्मनिष्ठप्रकारत्वानिरूपित तादृशविद्याविशेष्यत्वमेव हेतुरित्युक्तौ अक्षविद्यायामपि अहं ब्रह्मेत्यहंग्रहेणैवोपासनस्य कर्तव्यतया तद्वेद्यविशेष्यतया अभेदसम्बन्धावच्छिन्नाहं पदार्थब्रह्मनिष्ठप्रकारतानिरूपितत्वेन स्वरूपासिद्धेर्जागरूकत्वात् अन्येनयेनकेनापि रूपेण निवेशेऽपि हेतोरप्रयोजकत्वं दुर्वारम् । तस्मात् त्वन्मते तत् सूत्रविरोधो दुष्परिहर एव ।

गति भेदाङ्गीकारे पञ्चाग्निवित्स्मर्तव्यगतेः केवलाक्षरप्राप्तिसाधनत्वेनाक्षराध्वसंज्ञतया परब्रह्मप्रापकार्चिरादिगत्यपेक्षयाभिन्नत्वात् अक्षिविद्याप्रकरणे एष देवपथो ब्रह्मपथ इति ब्रह्मपथशब्देन ब्रह्मप्रापकार्चिरादि गतेरेवाभिधानप्रतीतेः । श्रीभाष्येऽपि श्रुतोपनिषत्कस्य अधिगतपरमपुरुषयाथात्म्यस्यानु सन्धेयतया श्रुत्यन्तरप्रतिपाद्यमाना अर्चिरादिकागतिर्यातामपुनरावृत्तिलक्षणपरमपुरुष प्राप्तिकरीमिति परमपुरुषनिष्ठानुसन्धेयत्वेन परमपुरुषशब्दवाच्यदिव्यमङ्गलविग्रहविशिष्टपरवासुदेव प्राप्तिकारित्वेन च गतेर्विशेषणात् तदनुसन्धानाङ्गकविद्यामुख्यविशेष्यत्वरूपहेतोः पञ्चाग्निविद्यावेद्यादिष्वभावेन न काचिदप्यनुपपत्तिः स्यादिति तदनुसारेणापि पञ्चाग्निविदां स्वात्मप्राप्तिलक्षणब्रह्मगमनपर्यन्तैव गतिरितिसिध्या तेषां जिज्ञासुकोटिनिवेश एवेति निरुक्तहेत्वसिद्धिरिति ॥

ननु कथं तर्हि ब्रह्मगमयतीति सकृच्छुतेनशब्देन पञ्चाग्निविदपेक्षया प्राधान्येन ब्रह्मगमनं ब्रह्मविदपेक्षया अप्राधान्येन तद्गमनं चोच्येत । नैषदोषः नह्यनेन प्राधान्यमप्राधान्यं वोच्यते किन्तु ब्रह्मगमनसामान्यमेव विशेषलाभस्तु योग्यतापरामर्शलभ्यः अन्नमयप्राणमयमनोमय विज्ञानमयानन्दमयोमेशुध्द्यन्तामित्यत्र शुद्धेर्विशेषलाभवदत्रापि तल्लाभोपपत्तेः नचैवमपि परंजैमिनिर्मुख्यत्वादित्युक्तमुख्यार्थ बाधलक्षणोदोषः ब्रह्मगमयतीत्यस्य ब्रह्मसंपत्तिपरत्वस्यैवोक्तत्वात् तर्हि साकथमात्मप्राप्तिरित्युच्यत इति चेत् तयोर्भेदाभावादिति ब्रूमः । तथा हि ब्रह्मात्मकात्मप्राप्तिर्नाम आत्मनोनामरूपविभागार्हतापादकाचित् सम्बन्धनिश्शेष विनिर्मोष एव आत्मनो ब्रह्मात्मकत्वस्य नित्यसिद्धत्वेन तस्या साध्यत्वात् । स चा चित्सम्बन्धविमोकोभावान्तरमभाव इति न्यायेन नामरूपविभागानर्हतया ब्रह्मस्वरूपेचेतनस्य लीनत्वमेवेति ब्रह्मसम्प्रत्तिरेव ब्रह्मात्मकात्मप्राप्तिरिति तयोरभिन्नत्वात् तस्मान्तकाचिदनुपपत्तिरिति  ॥

अथ त्रयस्त्रिंशी

अविभागेन दृष्टत्वादित्वधिकरणदीपे अहंब्रह्मास्मीत्युपासनेन यथावस्थितपरमात्मात्मकस्वात्मनो दृष्टत्वात् मुक्तः स्वात्मनोप्यात्मभूतं ब्रह्म अहं ब्रह्मास्मीत्यविभागेनैवानु भवतीति यथावस्थित ब्रह्मानुभवस्य समानाधिकरण्येनोपासनसाध्यताया अनुगृहीतत्वेन तेनैव तादृशोपासनरहितानां वैयधिकरण्येनैव ब्रह्मोपासीनानां पञ्चाग्निविदां अविभागेनानुभवरूप यथावस्थित ब्रह्मानुभवोनास्त्येवेति सिक्षाकार्याधिकरणदीपसिद्धान्तसिद्धायथावस्थितानु भव एव तेषां पर्यवसानमिति अयथोपासने प्राप्तिरप्ययथाभूतास्यादित्यात्मेति तूपगच्छन्तीत्याद्यधिकरणभाष्यश्रुतप्रकाशिका प्रतिपादितरीत्याशेषत्व लक्षणस्वस्वरूपविरुद्धस्वभोगान्वयस्य तन्मूलभूताविद्यातरु सम्भूतिबीजभूताहङ्कारममकारयोश्च पात्रभूते नित्यसंसारशब्दाभिलापार्हे तादृशब्रह्मस्वरूपसम्पत्ति सुखे यावदात्मभावितया मग्नानां तेषां न ज्ञानिकोटिनिवेशसम्भावनाशङ्कामप्यर्हतीति तेषां जिज्ञासुत्वस्यैव परिशेषात् सिध्या हेतुरसिद्ध एवेति ॥

अथ चतुस्त्रिंशी

एक आत्मनश्शरीरे भावादित्यधिकरणदीपसिद्धान्ते यथावस्थित स्वरूपमेवानुसन्धेयमन्यथा प्राप्योपासनयोः प्रकारभेदात् यथा क्रतुरस्मिन्निति विरुध्यत इत्यनुगृहीतत्वात् व्यतिरेकस्तद्भावभावित्वान्नतूपलब्धिवदिति सूत्रारथे सांसारिकस्वरूपान्मुक्तस्वरूपस्य योव्यतिरेकस्सोऽनुसन्धेयः कुतः तथोपासनभावभावित्वाद्व्यतिरिक्तस्वरूपप्राप्तेः यथा क्रतुरस्मिन् लोकेपुरुषो भवतीतिह्याह उपलब्धिवत् यथा ब्रह्मोपालब्धि यथावस्थित ब्रह्मानुसन्धानयुक्तस्यैव तथात्मोपलब्धिरपीत्यनुगृहीतत्वाच्च तत्क्रतुन्यायबलात् यथोपासनमेव फलदशायामात्मपरमात्मनोरनुभवोनान्यथेति सिद्धतया पञ्चाग्निविदामुपासनस्य देहात्मभावरूपभेद सम्बन्धेनैव ब्रह्मण आत्मविशेषणतया विषयीकरणात् फलदशायामपितथैवानु भवस्स्यादिति तेषामविभागेनानुभवरूप यथावस्थितब्रह्मानुभवहीनतया जिज्ञासुत्वमेव युक्तमितिहेतुरसिद्ध इति । एतेन अविभागेन दृष्टत्वादित्यधिकरणभाष्ये स एनान् ब्रह्मगमयतीत्युक्त ब्रह्मोपसम्पत्तेर्यथावस्थितात्मस्वरूपदर्शनहेतुत्वप्रतीत्या पञ्चाग्निविदामपि ब्रह्मसम्पत्त्यनन्तरमविभागेन ब्रह्मानुभवः सम्भवेदेवेति केषाञ्चित् भ्रान्तिर्निरस्ता सम्पत्तेः कारणत्वेऽपि अविभागेनोपासनलक्षणकारणान्तराभावेन तस्यायुक्तत्वात् ।

ननु अभेदसम्बन्धावच्छिन्न सत्यज्ञानत्वाद्यच्छिन्नप्रकारता निरुपिततुल्यवित्तिवेद्यत्वा प्रयुक्ताहन्त्वावच्छिन्नविशेष्यता शालिज्ञानं पञ्चाग्निविद्या अहन्त्वावच्छिन्नाभेद सम्बन्धावच्छिन्न प्रकारतानिरूपित तुल्यवित्तिवेद्यत्वप्रयुक्ताहन्त्वाद्य वच्छिन्नविशेष्यताशालिज्ञानं ब्रह्मविद्येति परिष्काराश्रयणात्। पञ्चाग्निविदामविभागेन ब्रह्मानुभवस्य न काचिदप्यनुपपत्तिरिति चेत् भ्रान्तोसि तथा सति निरुक्तयोर्द्विविधयोरपि ज्ञानयोर्ब्रह्मनिष्ठमुख्यविशेष्यताशालित्वेन आत्मविशेष्यकविद्या पञ्चाग्निविद्या परविशेष्यकविद्या परविद्येति सिद्धान्तोदोषस्य समुद्रघोषत्वापातात् तद्य इत्थं विदुरिति पञ्चाग्निविद्यामुख्यविशेष्यवाचकतच्छब्दस्य पूर्वपरामर्शित्वात् पूर्वं प्रत्यगात्मन एव द्युपर्जन्यपृथिवीपुरुषयोषिदात्मक पञ्चाग्निभूतभूतान्तर संसृष्टाद्भो विवेकस्य प्रकृतत्वाच्च जीनात्मन एवोपासनमिति प्रतीत्यातद्वाधापत्तेः तत्रापि परमात्मन एव प्रतिपाद्यत्वे तस्यैव सर्वहेयाकरत्वप्रसङ्गात् तद्य इत्थं विदुरिति भूतसूक्ष्मव्यतिरिक्तात्मस्वरूपोपासनमेव विदधातीत्यादिदीपादि सूक्तिविरोध प्रसङ्गात् अचिद्वियुक्तमात्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषतैकरसमित्यनुसन्धेयमिति श्रीगीताभाष्ये शेषत्वेनैव पञ्चाग्निविद्यावेद्योपासनस्यानुगृहीततया तद्य इत्थं विदुरित्यत्र तच्छब्दस्य विशेष्यपर्यन्तत्वे तदयोगात्। तच्चन्द्रिकायामपि अक्षरयाथात्म्यविदः परमात्मशरीरभूतस्वात्मोपासका इति श्रीवेदान्ताचार्यैरेव तदुपासनप्रकारस्य दर्शितत्वेन तस्य ब्रह्मपर्यन्तत्वेतदयोगात् तद्य इत्थं विदुर्येचेमेरण्ये इति भेदेनोपादानवैयर्थ्यात् सुप्रसिद्धसद्विद्यादि भेदान् उपासात्रैविध्यादित्युक्तोपासनभेदांश्चानादृत्य विशेष्यविशेषणभावभेदस्याकिञ्चित् करस्यादरणे नियामकाभावात् कार्याधिकरणे परंजैमिनिरित्यत्रैव परविशेष्यकविद्यानिष्ठानां सर्वेषामर्चिरादिगतिस्थापनस्यत्वयैवाङ्गीकृतत्वेनास्यापि तथात्वेन तेनैव चारितार्थ्यात् सिद्धान्त सूत्रवैयर्थ्यापाताच्च निरुक्तदिशाभेदोपपादना सम्भवादिति ।

अथ पञ्चत्रिंशी

श्रीवेदार्थसंग्रहश्रुतप्राकाशिकायां सोऽक्षरः परमस्स्वराडितिश्रुत्यर्थे परमस्वराडिदि मुक्तात्मोच्यते। तत्र परमशब्देन कैवल्यमोक्षव्यावृत्तिरित्यनुगृहीततया कैवल्यस्य मुक्तित्वाभावे तद्व्यावर्तनस्यासाङ्गत्यापत्त्या मोक्षभेदस्य श्रुत्यैव सिद्धत्वात् श्रीसहस्रनामाध्याये सूत्रकारेणापि मुक्तानां परमागतिरित्यत्रपरमशब्देन कैवल्यमुक्तिव्यावर्तनात् तत्र परेमेति विशेषणेन मुक्तानामेव केषाञ्चिदर्वाचीना गतिर्गम्यत इति तद्भाष्येऽनुगृहीतत्वात् । पुराणेष्वपि पाद्मोत्तरे –     विरजापरमव्योम्नोरन्तराकेवलं पदम् ।

तत्स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम् ।

इति नित्यविभूति विस्तारविवरणप्रकरणे –

विरजायाः परे पारे तद्विष्णोः परमं पदम् ।

इत्युक्तं सूरि दृश्यस्थानादर्वाकृकेवलपदमात्मोपासकप्राप्यमुक्तानिश्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ।

इति तद्देशानु भाव्यकैवल्यस्य मोक्षत्वदार्याय निश्रेयसं च निर्वाणं कैवल्यं मोक्ष

उच्यते । इति मुक्तिवाचकैस्सर्वैश्शब्दैस्तस्य वाच्यत्वमुक्ताश्रीशाङ्घ्रिभक्तिसेवैकसुखभोगविवर्जितम् । इति तस्य भगवदनुभवकैङ्कर्यादिवैधुर्यमप्युक्ता तदनन्तरं सूरिदृश्यस्थानानुभाव्यपरममोक्षाभिधानात् भगवता पराशरेणापि तथैवयोगिनाममृतं स्थानं स्वात्मसन्तोषकारिणाम् । इति स्वात्मोपासकमोक्षस्थानमुक्ता तदनन्तरं एकान्तिनस्सदा ब्रह्मध्यार्यिनो योगिनो हिये। तेषां तत्परमं स्थानं सद्वै पश्यन्ति सूरयः । इति

परमपुरुषनिष्ठपरममोक्षस्थानाभिधानात् तत् प्रकरणस्य च श्रीसहस्रनामभाष्ये

गीयते च निर्मुक्तजरामरणकैवल्यलक्षणा-

जरामरणमोक्षाय मामाश्रित्य यतन्ति य इति ।

संसारपरमपदयोर्मध्ये तेषां स्थानञ्चयोगिनाममृतं स्थानं स्यात्मसन्तोषकारिणाम्। इतिति श्रीपद्मोत्तरवचनैकार्थ्यस्य दर्शितत्वात् । श्रीपाञ्चरात्रेऽपि पाद्मसंहितायाम्भेदेनवाप्यभेदेन मिश्रेणैव चतुर्मुख । त्रिधैवमुक्तिरुदितेत्यादिना यथोपासनं मुक्तित्रैविध्याभिधानात् भगवताभाष्यकृतापि जिज्ञासाधिकरणे अविद्यानिवृत्तिरेव मोक्ष इति सर्वमोक्षसाधारणलक्षणमभिधाय अत्राधिकरणे त्रय्यन्तनिष्णाता सात्स्वाभाविकपरमात्मानुभवमेव मोक्षमाचक्षत इति त्रय्यन्तनिष्ठाशालिपरमपुरुषनिष्ठप्राप्यस्य परमोक्षविशेषस्यापि लक्षणस्योक्तत्वात् संसाराग्निविदीपन

व्यपगतप्राणात्ससंजीविनीमित्यत्रजीवनमुज्जीवनं संसारोन्मोचन समितिकैवल्यव्यावृत्तिरितिश्रुतप्रकाशिकानुगृहीतरीत्यामोक्षतारतभ्य सिद्धान्तसूचनात् कुरुकमिकवुणर्वत्तोडुनोक्तियित्यादिगाधायां पिन्नुं वीडिल्लौयिति स्वात्मानुभवमपि मुक्त्यन्तर्गतमेवाभिधाय वीडते इति भगवत् कैङ्कर्यपर्यन्तमोक्षस्यैव परत्वाभिधानस्य श्रीकुरुकेशाचार्यैरेवाङ्गीकृतत्वात् स्वात्मानुभूतिरिति याकिलमुक्तिरुक्तेति कैवल्यस्यापि मुक्तित्वेन निरुक्तप्रमाणप्रसिद्धेः श्रीकूरनाथगुरुभिः प्रदर्शितत्वाच्च मुक्तितारतम्यस्य प्रामाणिकैर्दुरपह्नवत्वात् तत्र परममोक्षस्य पर विद्यैक साध्यताया वाक्यान्वयाधिकरणे अमृतत्वस्य तु नाशास्ति वित्तेनेति वित्तिदीनां नित्यनिर्दोषनिरतिशयानन्दरूपामृतत्वप्राप्त्यनुपायतामुक्तेति भाष्यकारैर्निरतिशयमोक्षविशेषस्य परमपुरुषव्यतिरिक्तासाध्यत्वोक्तेः ततः पूर्वममृतत्वस्य परमपुरुषवेदनैकोपायताप्रतिपादनादिति तादृशनिरतिशयामृतत्वलक्षणमोक्षविशेषस्य परविद्यैकसाध्यत्वोक्तेश्च पञ्चाग्निविद्यारूपात्मोपासनसाध्यमोक्षस्य जघन्यतायाः प्रदर्शितत्वात् कार्याधिकरणदीपसिद्धान्ते परमपुरुषनिष्ठानामेव यथावस्थितपरिपूर्णब्रह्मप्राप्तिः

पञ्चाग्निविदांतु स्वोपासितात्मप्राप्तिमात्ररूपायथावस्थिता पूर्णमोक्ष एवेति स्फुटतरं प्रदर्शितत्वाच्चायं पञ्चाग्निषिजिज्ञासुगोष्ठीमेवार्हतीति निरुक्तहेतुरसिद्ध एवेति॥ एतेन वाक्यान्वयाधिकरणे

स्वात्मोपासनस्यामृतत्वावच्छिन्नानुपायत्वोक्तेस्तदधिकरणविचारितात्म विद्यावत् पञ्चाग्निविद्यापि अमृतत्वसाधकत्वात् ब्रह्मविद्यैवेति केषाञ्चित् भ्रान्तिर्निरस्ता। तत्रात्मोपासनस्यामृतत्वावच्छिन्नसाधनत्वस्यानुक्तत्वात् किन्तु तद्विशेषासाधनत्वमेव तस्य तत्रोच्यते नोचेन्नित्यनिर्दोषनिरतिशयानन्द रूपेति तत्रैवामृतत्वविशेषणवैयर्थ्यात्। ऐश्वर्यमात्र व्यावर्तनार्थं तदितिचेन्नानिरुक्तबहुप्रमाणसिद्धमोक्षान्तरव्यावृत्तेरप्यसंकोचसिद्धातयास्त्यागस्यामू लकत्वात् अमृतत्वेत्यनेनैवानित्य फलसामान्यव्यावृत्तिसिध्द्यानित्यनिर्दोषेत्यादीनां वैयर्थ्यस्यैव प्रसङ्गाञ्च। तर्हि कथं भवतां मते नित्यशब्दव्यावृत्तिरितिचेत् भगवद्व्यतिरिक्तकैवल्यादिगता भगवदिच्छायत्तत्वेन मृतत्वस्य तादृशान्याधीनत्वलक्षणोत्पत्तिव्यावर्तनेन तस्य शब्दस्य सप्रयोजनत्वात् वियदधिकरणे असम्भवस्तु सतोऽनुपपत्तेरिति सूत्रेण ब्रह्मव्यतिरिक्तस्य सर्वस्याप्यनुत्पत्तेर्निषिद्धत्वात् नात्माश्रुतेरित्यधिकरणभाष्ये कार्यताहि नाम एकस्य द्रव्यस्यावस्थान्तरापत्तिः तज्जीवस्याप्यस्त्येवेति जीवस्यापि कार्यताया उपपादितत्वाच्च। तथा च केवलात्मनिप्रयुज्यमानो नित्यशब्दो यथास्वरूपविकारलक्षणं कार्यत्वमचिद्गतं व्यावर्तयति तथा ब्रह्मस्वरूपगतामृतत्वे प्रयुज्यमानो नित्यशब्दोपि चेतनाचेतनगतस्वभावविकारस्वरूपविकार लक्षणं द्विविधकार्यत्वमपि व्यावर्तयत्येवेति नित्यशब्देन परमपुरुषनिष्ठप्राप्यब्रह्मामृतत्वविशेषणं सार्थकमेवेति॥ तदेवं वाक्यान्वयाधिकरणे नित्यनिर्दोषनिरतिशयानन्दरूपामृतत्वलक्षण परममोक्षं प्रत्येव स्वात्मोपासनस्य साधनताया निषिद्धत्वेन तस्य जघन्यमोक्षसाधनत्वस्याक्षततया न तस्य ब्रह्मविद्यात्वसम्भवः। किञ्च पञ्चाग्निविद्याया अपि ब्रह्मविद्यात्वेवाक्यान्वयाधिकरणोक्तरीत्या आत्मावारेदृष्टव्य इत्यादावात्मशब्दस्येव

तद्य इत्थं विदुरित्यत्रापि तुल्यन्यायेन तच्छब्दस्य ब्रह्मपर्यन्तत्वापत्त्या तयोर्द्वयोरपि विद्ययोरविशेषे सति पञ्चाग्निविद्यामात्रस्य तद्य इत्थं विदुरिति पृथक्करणपूर्वकं मैत्रेय्यात्मविद्यादीनां सर्वेषां येचेमेऽरण्य इत्यादिनैकीकरणे नियामकस्य कस्यचिन्निर्विक्तुमुशक्यत्वात् कार्याधिकरणदीपसिद्धान्ते पञ्चाग्निविन्मात्रस्या यथावस्थित ब्रह्मप्राप्तिप्रतिपादनस्य भाष्यकारकृत साङ्गत्यापत्तेश्चेति तेषां जिज्ञासुत्वमेव युक्तमिति हेतुरसिद्ध एवेति ॥

अथषट्त्रिंशी

अन्धतमः प्रविशन्ति येऽसम्भूतिमुपासते ततो भूय इवते तमो यउसम्भूत्यां रताइतीशावास्योपनिषदि आत्यन्तिकलयात्मकमसम्भूति शब्द वाच्यं प्रधानप्राप्यत्वे नोपासीनानां पञ्चाग्निविदां यावदात्मभाव्यहंकार ममकारान्वयलक्षणान्धतमः प्रवेशोक्तिपूर्वकम् अविभागेन ब्रह्मानुभवादिलक्षणे सम्भूतिशब्दवाच्ये स्वभोगान्वयलक्षणरतिमतां स्वार्थानुभवकैङ्कर्यनिष्ठानामारूढपतितन्यायेन ततोप्यतिशयित तादृशान्धतमः प्रवेशमप्यभिधाय-

सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह ।

विनाशेत मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते ॥

इति सम्भूतिविनाशशब्दवाच्ययोर विभागेनानुभवात्यन्तिकलययोः पूर्वोक्तयोः पूर्वोक्तरीत्यान्तरप्राधान्यमन्तरेण तावुभावपि केवलपार्थतयैकीकृत्योपासीनानामेव तत् क्रतुन्यायात् विनाशासम्भूति शब्दनिर्दिष्टब्रह्मसम्पत्ति लक्षणात्यन्तिकलयध्यानफलेन संसारतरणपूर्वकं सम्भूतिशब्दनिर्दिष्टाविभागेनानुभवाद्युपासनफलेन

निरतिशयामृतानन्दभोगस्योक्ततया ब्रह्मसम्पत्तिमात्रपर्यवसितानां पञ्चाग्निविदां

तादृशान्धतमः प्रवेशपात्राणां न ज्ञानिकोटि निवेशसम्भव इति जिज्ञासुत्वस्यैवोचितत्वात् हेतुरसिद्ध इति ॥

यत्त्वत्र कैश्चिदुक्तं श्रुतिवाक्ये सम्भूतिशब्द उपासनकालीनसम्भूतिपरः विनाशशब्दोपितदनुसारात् तत्कालीननिषिद्धनिवृत्तिपर इति तदयुक्तम्। धूत्वाशरीरमकृतं कृत आत्मा ब्रह्मलोकमभिसम्भवामि एतमितः  प्रेत्याभिसम्भवितास्मीत्यादिश्रुत्यन्तरप्रसिद्धसम्भूतिपरित्यागे मानाभावात् उपासनकालीनस्य सम्भूतेरुपासनासम्भवेन ये सम्भूतिमुपासत इत्यादिना बाधात्। एवं निषिद्धपरिहारस्या सम्भूतिशब्दार्थत्वेन तस्य विद्यङ्गत्वेन विनाशेन मृत्युं तीर्त्वति पृथक्फलकथानानुपपत्तेः मृत्युशब्देनोपासनविरोधिविषयप्रावण्यादेरेव विवक्षणे विनाशेन मृत्युं तीर्त्वत्यस्य विनाशेन विनाशमापाद्येत्युक्तिपर्यवसानेनात्माश्रयत्वमविद्ययामृत्युंतीर्त्वा विद्यायामृतमश्नुत इति पूर्वमेव निषिद्धपरिहाराद्यङ्गककर्मणाविद्याविरोधिमृत्युतरणस्य विद्ययाफलप्राप्तेश्चोक्तत्वेन तस्यैवात्राभिधाने पौनरुक्त्यापत्तेः निषिद्धपरिहारस्य निरुपाधिकविनाशशब्दार्थत्वस्यकुत्राप्यदर्शनेन तत्पदास्वारस्यं च। अस्मन्मते तु सम्भुतिशब्दोऽपि श्रुतिप्रसिध्यैवात्यन्तस्वरसः विनाशशब्दोऽपि लयकाष्ठारूपात्यान्तिकलयपरत्वेन नितरां स्वारस्यमश्नुते फलस्य यथोपासनभावित्वात् तत्तध्यानांशानां तत्तत्फलांशहेतुताया यथा क्रतुन्यायसिद्धतया पृथक् फलकीर्तनमप्युपपन्नम्। मृत्युतरणे विनाशस्यामृताशने सम्भूतेश्च करणत्वोक्तिरपि ज्ञायमानं लिङ्गं करणमितिरित्यास्वरसमेतस्माद्यतोक्त एवार्थः ॥ एतेन-

निरस्तातिशयाह्लादसुखभावैकलक्षणा ।

भेषजं भगवत्प्राप्तिरैकान्त्यात्यन्तिकी मता ।

इति श्लोके नित्यनिरवद्यनिरतिशयाह्लादलक्षणभगवत् प्राप्तेरेव तापत्रयभेषजत्वाभिधानात् मोक्षसाधनतया अवगता पञ्चाग्निविद्यापि तादृशभगवत्प्राप्तिफलैवेति केषांचित् भ्रान्तिर्निरस्ता। तथा सति तस्य वचनस्य पूर्वोक्तश्रुतिविरोधेना प्रामाण्यापातात्। तत्राहि विनाशध्यानमात्रस्य मृत्युतरणोपायत्वं गम्यते। किञ्च निरस्तातिशयेत्यत्र किमुच्यत इति वक्तव्यम्। नह्यत्यन्तमसतोऽतिशयस्यानेन निरास उपपद्यते नापिसतः मुद्गराभिधातेन घटादेरिवान्यगतस्यतिशयस्यानेन निरासायोगात्। तस्मादन्यातिशयविषयकेच्छादि निरास एवात्र निरासशब्दार्थो वक्तव्यः स च कैवल्यसाधारण इति सर्व सम्मतः पञ्चाग्निविद्भिरपि परमात्मानुभवोपेक्षापूर्वकं स्वात्मानुभव विलम्बेन कालक्षेपस्य श्रीवेदान्ताचार्यैरपि पक्षान्तरेऽनुगृहीतत्वात्। किञ्चास्य निरस्तातिशयत्वस्य यं लब्ध्वाचापरं लाभं मन्यते नाधिकं ततः इति सर्वात्मवित्साधारण्यं गीयते। अनुगृहीतं च श्रीपराङ्कुशमुनिना अत्तेतुपत्तेनिलितिगाधायां कैवल्यमोक्षस्यापि परमात्मानुभवानन्दातिशयनिरासकत्वम् अत एव हि तस्य प्रबलविरोधित्वं गत्वा श्रीभट्टनाथः प्रथममेडुनिलात्तिलित्यादिना तदत्याजयन् निरस्तातिशयाह्लादसुखेत्यत्र निरस्तातिशयशब्द आह्लादसुखविशेषणं तत्राह्लादशब्दस्सुखशब्दसमानाधिकरणो मोह सम्भेदवाचीति पूर्वाचार्यैर्व्याख्यातम्। तथा च तादृशेतरातिशयनिरासकस्य मोहात्मकसुखस्य वस्तुवैलक्षण्यैकसाध्यता नियमाभावस्य काकशब्दादिन्यायसिद्धत्वेना यथावस्थितपरप्राप्तावपि

निरस्तातिशयाह्लादसुखभावैकलक्षणेति विशेषणं न विरुध्यते। तथा ऐकान्त्यशब्दो दुःखासम्भिन्नपरः आत्यन्तिकशब्दो नित्यपर इति पूर्वाचार्यैरेवव्याख्यातम् । तथा च निरस्तातिशयेत्यादिश्लोकस्या यथावस्थित भगवत्प्राप्तिसाधारणत्वेन नात्र निरतिशयभगवत्प्राप्तेरेव संसारभेषजत्वाभिधानमिति ॥

वस्तुतस्तु तस्मिन् श्लोके मतेत्यानेन बहुमतत्वोक्त्या अबहुमतानेवं विधसंसारभेषजपरप्राप्तिसद्भावावगमेनानेन पञ्चाग्निनविदां बहुप्रमाणोपपत्ति सम्प्रदायसिद्धा यथावस्थितभगवत् प्राप्तिपर्यवसानबाधनं युज्यत इति ॥

अथ सप्तत्रिंशी

प्रमेयशेखरे श्रीमल्लोकाचार्यैरर्चिरादिना गतानां विरजास्रानानन्तरं दिव्यदेह प्राप्तेः पूर्वमेव सूक्ष्मविश्लेषापहतपाप्मत्वाद्याविर्भावयोरनुगृहीतत्वात् अर्चिरादिरहस्येऽपि विरजास्नानदशायोमेव स्वरूपतिरोधाननिवृत्तेरनुगृहीतत्वात् अध्यात्मचिन्तायामपिस्वस्वरूपाभिनिष्पत्त्यालब्धसाम्यं च मां कुरु ।

ततस्त्वैरम्मदीयाख्ये तटाकेऽश्वत्थमूलके ।

दिव्याप्सरोगणैः पञ्चशतसंख्यासमन्वितैः ।

इत्यादिना दिव्याप्सरः प्रत्युद्गमनात् पूर्वमेव स्वरूपाविर्भावस्यानुगृहीतत्वाच्च स एतान् ब्रह्मगमयति परंज्योतिरुपसम्पद्येत्यादिश्रुति सिद्धस्वरूपतिरोधान निवृत्तिहेतु भूतब्रह्मप्राप्तिर्विरजादेशावच्छिन्न ब्रह्मस्वरूपलय एव नान्यदिति सुदृढप्रमाणसिद्धत्वेन जिज्ञासोरपि तस्याङ्गीकारे विरोधाभावात् न तेन पञ्चाग्निविदां जिज्ञासुव्यतिरिक्तज्ञानिकोटिनिवेशसिद्धिरिति तेषां जिज्ञासुत्वां न पायाद्धेतुरसिद्ध एवेति ॥

अथाष्टत्रिंशी

तेनैव चापराधेन क्षये सत्यपि कर्मणाम् ।

तिरोहितेशानुकूल्यस्वात्मानं भोग्यमश्नुते ॥

इति श्रीवेदान्ताचार्याणां साक्षादाचार्यैर्वादिहं साम्बुवाहदेशिकैरपि केवलस्य सकलकर्मक्षयाङ्गीकारेण तस्य यावदात्मभाविब्रह्मानुभवराहित्यस्योपासनवैषम्यमेवमूलमिति दर्शितत्वेन तादृशोपासनाव्यतिरिक्तसकलकर्मक्षयस्याप्रतीकविद्याव्याप्यत्वेन तेनैव कैवल्यस्या प्रतीकोपासनसाध्यत्वसिध्या हेतुरसिद्ध एवेति ॥

अथैकोनचत्वारिंशी

अथात्मयाथात्म्यविदः परमपुरुषनिष्ठस्य साधारणीमर्चिरादिगतिमाहेति श्रीगीताभाष्यसूक्तिगतात्मयाथात्म्यविच्छब्दाभिहितस्य पञ्चाग्निविदः कैवल्यार्थिनो जिज्ञासोरनन्यत्वं श्रीमद्वेदान्ताचार्यैरेव तट्टीकायामनुगृहीतम् । तदियं तत् सूक्तिः न चात्र जिज्ञासोरन्य एवात्मयाथात्म्यविदिति भाष्यते जिज्ञासुसोरन्य एवात्मयाथात्म्यविदिति भाष्यते जिज्ञासुवेद्यतयोक्तस्वभावाविसर्गयोरत्र च पञ्चाग्निविद्योदाहरणात् मध्येति कैवल्यार्थिन एव मूर्धन्यानाड्या निष्क्रमणमानावृत्तिश्चोक्ता आत्मयाथात्म्याक्षरयाथात्म्यशब्दयोश्चात्र न भिन्नार्थत्वं तस्योपासने किञ्चिदस्ति विशेषः। अक्षर याथात्म्यविदः परमात्मशरीरभूतस्वात्मोपासकाः ज्ञानिनस्तु स्वात्मशरीरकपरमात्मोपासका इत्ययमेव विशेषस्तद्य इत्थं विदुर्येचेमेऽरण्य इति विभागनिर्देशाभिप्रेत इति भाष्यादिषूक्तः इत्याद्यभिधाय अत एव सप्तमे प्रकान्तो जिज्ञासुः परमात्मप्राप्तिकामज्ञानिव्यतिरिक्तत्वात् ब्रह्मात्मकस्वात्मानुसन्धायीति न भ्रमितव्यमित्यनुगृहीतम्। तथा चात्र श्रीगीताभाष्यव्याख्यानरूपतया अनन्यपरे प्रकरणे जिज्ञासोः पञ्चाग्निविदन्यत्व समर्थनादन्यत्र व्युत्पादनार्थतया अन्यपरेषुन्यायसिद्धाञ्जनादिषु एतद्विरुद्धतयानुगृहीतानां पक्षान्तराणां न तत्त्वपरत्वं वेदान्ताचार्यानुमतत्वं चेति सिद्धेः। तत्रापि न्यायसिद्धाञ्जने अन्ततो गत्वा जिज्ञासुपञ्चाग्निविदोरभेदसिद्धान्तनिष्कर्षस्यैव केचित्तु ब्रह्मभूतस्वात्मा केवलस्य भोगः ब्रह्मणस्तुविशेषानाड्यानिष्क्रमणमनावृत्तिश्चोक्ता आत्मयाथार्थ्याक्षरयाथात्म्य शब्दयोश्चात्र न भिन्नार्थत्वाम्। तस्योपासने किञ्चिदस्ति विशेषः अक्षरयाथात्म्यविदः परमात्मशरीरभूतस्वात्मोपासकाः ज्ञानिनस्तु स्वात्मशरीरकपरमात्मोपासका इत्ययमेव विशेषस्तद्य इत्थं विदुर्येचेमेऽरण्य इति विभागनिर्देशोऽभिप्रेत इति भाष्यादिषूक्तः इत्याद्यभिधाय अत एव सप्तमे प्रक्रान्तो जिज्ञासुः परमात्मप्राप्तिकामज्ञानिव्यतक्तत्वात् अब्रह्मात्मकस्वात्मानुसन्धायीति न भ्रमितव्यम् इत्यनुगृहीतम्। तथा चात्र श्रीगीताभाष्यव्याख्यानरूपतया अनन्यपरे प्रकरणे जिज्ञासोः पञ्चाग्निविदनन्यत्व समर्थनादन्यत्र व्युत्पादनार्थकतया अन्यपरेषु न्यायसिद्धाञ्जनादिष्वेतद्विरुद्धतयानुगृहीतानां पक्षान्तराणां न तत्त्वपरत्वं वेदान्ताचार्यानुमतत्वं चेति सिद्धेः तत्रापि न्यायसिद्धाञ्जने अन्ततो गत्वा जिज्ञासुपञ्चाग्निविदोरभेदसिद्धान्तनिष्कर्षस्यैव केचित्तु ब्रह्मभूतस्वात्माकेवलस्य भोगः ब्रह्मणस्तु विशेषणतया भारमात्रमस्तीति पूर्वाचार्यसिद्धान्तत्वेनानूदितत्वात् तस्यैव कार्याधिकरणदीपसिद्धान्तानु गृहीत पञ्चाग्निविद् ब्रह्मवित्फलभेदानुसारित्वाञ्च तत्रैव तेषां निर्भर इति सिद्धेश्च तत् सिद्धान्तानुसारेणापि जिज्ञासोरप्रतीकवित्त्वमेव सिद्धमिति हेतुरसिद्ध एवेति ॥

अथ चत्वारिंशी

इत्थं भूत बहुप्रमाणोपपत्ति सम्प्रदायानादरेण केवलमौरर्व्यमात्रावलम्बेन जिज्ञासोः पञ्चाग्निविद्व्यतिरेकोक्तौ जिज्ञासोः प्रतीकवित्त्वेनार्चिराद्यभावान्नित्यविभूत्यन्तर्गतपाद्मोत्तरावगत कैवल्य प्राप्त्य सम्भवात् तस्य प्रकृतिमण्डले किञ्चित् स्थानं कल्पनीयम्। तत् कल्पनेऽपि तत्र प्रकृति विनिर्मोकासम्भवात् प्रकृतिनिर्मुक्तात्मस्वरूपस्य जिज्ञासु प्राप्यताप्रतिपादकवचनानां गौणत्वमपि कल्पनीयम्। तत् कल्पनेऽपि तस्य गति विशेषासिध्यासोपि कल्पनीयः । अथ तत् कल्पनेऽपि शुक्लकृष्णेगतीह्येते इति द्वयोरेव गत्योः प्रामाणिकत्वाभिधायि वचनबाधोऽपि कल्पनीयः । अथास्यागतेर्जिज्ञासोरपुनरावृत्तिप्रमाणानुसारेणानावृत्तिश्च कल्पनीया । अथ तत् कल्पने एकयायात्यनावृत्तिमन्ययावर्ततेपुनरिति वचनविरोधात् तद्बोधोपि कल्पनीयः । अद्बाधकल्पनेऽपि जिज्ञासोरेव मूर्धन्यनाडीनिष्क्रमणादिलिङ्गेनार्चिरादि गति सध्यातद्विरोधात् सापि बाधनीया। अथैतत् सर्वकल्पनेऽपि नित्यविभूत्यन्तर्गततया पाद्मोत्तराधीतकेवलपदस्याधिकारि साधनगत्यादि सापेक्षत्वेन तेऽपि कल्पनीयाः । अथ तत् कल्पने तेनैव नित्यकैवल्यसिध्द्याभक्षितेऽपि लशुन इति न्यायापातभीत्या तस्यापि अनित्यत्वं कल्पनीयम् । अथ तदुपपादनाय तत् पदं प्राप्तानामारोह अवरोहो वा कल्पनीयः । अथारोहकल्पने तस्य श्रीशाङ्घ्रिभक्तिसेवैकसुखभोगविवर्जितम् इति तत्रत्यवचनविरोधापत्त्या सूरिदृश्यस्थानव्यतिरिक्तमूर्धदेशं परिकल्प्य तदारोह एव कल्पनीयः अथ तद्देशानुभाव्य फलविशेषतददिकारितत्साधन विशेषा अपि कल्पनीयाः ॥

अथावरोह कल्पनपक्षे आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुन इति नियमोपि बाधनीयः । अथ तद्बाधनेन तत्कल्पने तत् कैवल्यस्य निश्रेयसं च निर्वाणं कैवल्यं मोक्षउच्यत इति मोक्षान्तर्भावस्थापकवचनमपि बाधनीयम् । अथ पञ्चाग्निवेदोपि स्वात्मप्राप्तेः सर्वसम्प्रतिपन्नत्वेन तदनुभवस्थानान्तरं च किञ्चित् कल्पनीयम् । ते च सूक्ष्मपर्यन्त प्रकृति हेयताया उपासितत्वेन तदनुभवस्थान प्राकृतलोकान्तर्भावोपि कल्पनीयः । तत् कल्पनेऽपि अर्चिरादिना प्रस्थितस्य फलान्तरविलम्बाभावस्य कार्याधिकरणबादरि पक्षप्रतिक्षेपपक्षसिद्धत्वेन तदन्यगतेरपुनरावृत्त्यभावाच्च तस्यापि गत्यन्तरं कल्पनीयम् । अथ तत् कल्पनेऽपि तेन तत्र गतानां सूक्ष्मविश्लेषस्यापि कल्पनीयतया तदनन्तरं परमपदारोहस्य गत्यर्थशरीराद्यभावेन शरीरनिरपेक्षमेव गमनमपि कल्पनीयम् । तदेव कल्पनाजालं कस्य वा शास्त्रस्य मुख्यतानिर्वाहायेति विमृशन्तु भवन्तः । जिज्ञासुप्रकरणे श्रूयमाणाया अनावृत्तेरवरोहाभावमात्रपरत्वेन गौणार्था श्रयणात् तत् प्राप्ये प्रकृतिसम्बन्धविनिर्मोकोक्तीनां सर्वासां विवेकमात्रपरत्वेन गौणार्थाश्रयणात् जिज्ञासुप्राप्य विषयामृताक्षरादिशब्दानां चिरकालस्थायित्वमात्र परत्वेन गौणार्थाश्रयणाच्च जिज्ञासुविषयकं शास्त्रं सर्वं हतमेव। पञ्चाग्निविद्विषयशास्त्रेऽपि गतिवाक्ये अव्यवधानेनैव प्रतीयमानं ब्रह्मगमनं बाधित्वा मध्ये स्वात्मानुभवविलम्बकल्पनात् तद्य इत्थं विदुरिति स्वात्मोपासने प्रतीयमाने सति तद्बाधेन तत्र ब्रह्मविद्यात्वकल्पनात् मधुविद्यायामिवात्रानित्यफलप्राप्तिहेतुभूतकार्योपासन प्रसङ्गाभावेऽपि तादृशानित्यफलहेतुभूत केवलकार्यात्मोपासनकल्पनाच्च पञ्चाग्निविद्याशास्त्रमपि हतमेव ॥

ननु सर्वेच्यवनधर्माण इत्यादि कैवल्यानित्यताबोधकशास्त्रं सर्वं मुख्यतयानीतमितिचेत् धिकृत्वां बधिरं तस्य वचनस्य तत्परत्वासम्भवं सहृदयोद्धुष्टमपि यतस्त्वं न शृणोषि । तस्मात् प्रकृतिमुक्तात्मस्वरूपस्यैव यतस्त्वं न शृणोषि । तस्मात् प्रकृतिमुक्तात्मस्वरूपस्यैव जिज्ञासुध्येयत्व प्राप्यत्वादिवचनानां तदमृतत्वानावृत्त्यादिवचनानां च मुख्यत्वस्थेम्ने तस्य पञ्चाग्निविदनन्यत्वमेव गीताभाष्यस्वारस्यसिद्धमङ्गीकर्तव्यम् । इत्थं सति कैवल्यत्रयतदनुबन्ध्यादि कल्पनागौरवमपि न प्रसजेत्। ननु तर्हि कैवल्यं प्राप्तस्य ब्रह्मप्राप्तिर्नास्तीति सिद्धान्तविरोधः प्रसजेदवेतिचेत् तत्कल्पनागौरवं सहतामप्यविशिष्टमेव केवल्यं प्राप्तस्य तदनन्तरमैश्वर्यार्थिनामिव यदाकदाचित् ब्रह्मप्राप्तेरङ्गीकारात् इयांस्तु विशेषः अस्माभिः केवलस्य सुषुप्तिप्रलयादि साधारणसम्पत्तिशब्दवाच्यब्रह्मस्वरूपलयात्मक ब्रह्मप्राप्तिमात्रमङ्गीक्रियते । युष्माभिस्तु परमपुरुषनिष्ठासाधारणपरिपूर्णब्रह्मानुभवमपि तस्याङ्गीकृत्य सकलसम्प्रदायप्रमाणजातन्यायजात संक्षोभपूर्वकं सहस्रविकल्पनागौरवमप्याश्रीयत इति ।

ननु भवतां मते ब्रह्मगमयतीत्यस्य सम्पत्तिपरत्वास्वारस्यं सोढव्यमिति चेत् धिक्त्वां मूर्खं तत्स्वारस्यं हि पूर्वमेव दर्शितम् ब्रह्मगमयतीति हि गमनस्य सामान्यवाची शब्द: स च परंज्योतिरूपसम्पद्येति स्थानप्रमाणसहकृतसम्पत्तिरूपविशेषवाचिशब्देन तत्परत्वं नीत इति कार्याधिकरणगतेन दर्शनाच्चेति सूत्रेणैव दर्शितम् । तत्र सामान्यवाचिब्रह्मशब्दरस्य परंज्योतिः परत्वेन विशेषपर्यवसानं दर्शयतो जैमिनेरस्याप्यभिप्रेतत्वात् । तथा चैवं पञ्चाग्निविजिज्ञासोरनन्यत्वे पञ्चाग्निवद् ब्रह्मविदोर्भेदेनोपादानादिकं श्रीभाष्यकारैर्दीपे फलभेदोपपादनादिकं सर्वमप्युपपन्नं स्यादिति तत्तथात्वस्यैवाकामेनापि स्वीकर्तव्यत्वेन निरुक्तहेतुरसिद्ध एवेति सर्वं निरवद्यम् ॥

इति कैवल्यशतदूषण्यां द्वितीयभङ्गः॥

अथ जयदुक्तं कैवल्यमनित्यमज्ञानसंवलितत्वादिति तदपि न क्षोदक्षमं हेतोरप्रयोजकत्वात् अविनाशि प्राप्योपासनसाध्यत्वहेतुना सम्प्रतिपक्षितत्वाञ्च न चास्यापि हेतोरप्रयोजकत्वं तत् क्रतुन्यायेन न तच्छङ्कावारणात् न च तत् क्रतुन्या यस्यायोगव्यवच्छेदमात्रपरत्वेनानित्योपासकानां नित्यफलप्राप्तेः नित्योपासकानामनित्य फलप्राप्तेश्च तेनानिवारितत्वात् तस्य व्याप्तिप्रयोजकत्वाभावान्नात्रानुकूलतर्कत्व सम्भव इति शङ्काम् । तस्य बहुभिर्न्यायैरन्ययोगव्यवच्छेदकत्वस्यैव सिद्धेः तथा हि-

तत्रैयं प्रथमा कक्ष्या

तं यथायथोपासते तथैव भवतीति श्रुतौतथैवेत्येवकारेणानुपासिताकार प्राप्तेर्व्यवच्छेदात् अप्रतीकालम्बनानित्यादि सूत्रभाष्ये तथोपासीनस्तथैव प्राप्नोतीत्यर्थ इति भाष्यकारैरपि तथैव भाषितत्वाच्च तदुभयानुरोधेन तत् क्रतुन्यायस्यान्ययोगव्यवच्छेदकत्वसिद्धिर्दुरपह्नवा । न च विशेषण संगतैवकारस्यान्ययोगव्यवच्छेदकत्वाभावः शङ्क्यः । अयं विद्वानेवेत्यनेनाविद्वत्तव्यवच्छेद प्रतीतेरानुभाविकत्वात् सदेवसोम्येदमग्र आसीदित्यत्रेदंशब्दविशेषणीभूत सच्छब्दसंगतेनैवकारेणासत्त्वव्यावर्तनस्य भाष्यकारादिभिरनुगृहीतत्वाच्च व्यक्तं चेदं महासिद्धान्तश्रुतप्रकाशिकायामिति दुषणद्वयगर्भा प्रथमा कक्ष्या ॥

अथ द्वितीया

एक आत्मनश्शरीरेभावादित्यधिकरणदीपे कर्तृत्वभोक्तृत्वादि बद्धदशासाधारणाकार मात्रेण जीवोपासकस्य फलदशायामपहतपाप्मत्वाद्याकारेणापि जीवस्वरूपप्राप्तेत् क्रतुन्याय विरुद्धताया अन्यथा प्राप्योपास्ययोः प्रकारभेदाद्यथाक्रतुरिति विरुध्येतेत्यनुगृहीतत्वात् तदधिकरणभाष्ये तं यथायथोपासते तथैव भवतीति यथोपासनमेव हि प्राप्तिः श्रूयत ति सावधारणमेव भाषितत्वाच्च तत्सूक्तिद्वयनिर्णीतार्थकश्रुतिवाक्यद्वय भलात् तत्तथात्वसिद्धिर्दुरह्नवैवेति दूषणद्वयगर्भाद्वितीयाकक्ष्या ॥

अथ तृतीया

तद्य इत्थं विदुरित्यत्र कार्याधिकरणदीपभाष्यश्रुत प्रकाशिकादिषु फलबलादुपास्याकार विशेषस्य साधिततया तद्बलेनापि तत् सिद्धेश्च तत्र हि पञ्चाग्निविद्या ब्रह्मविषया ब्रह्मगमनफलकत्वादित्यनुमाने ब्रह्मगमनफलकत्वमस्तु ब्रह्मविषयकत्वं मास्त्वित्यप्रयोजकशङ्कायां तत् क्रतुन्याय एव हि अनुकूलतर्कतया विवक्षितः । यदि तत्क्रतुन्यायो अयोगव्यवच्छेदमात्रपरस्स्यात् तर्हि केवलजीवोपासकस्यापि ब्रह्मगमनसम्भवात् तन्यायस्य तदप्रयोजक शङ्कापरकत्वायोगेन तदनुमानमनुपपन्नमेव स्यादिति तद्बलेन तस्यान्ययोगव्यवच्छेदकताया आवश्यकत्वात् एवमेक आत्मनश्शरीरभावादित्यधिकरण सिद्धान्तादपि तत् सिद्धिर्द्रष्टव्येति दूषणद्वयगर्भातृतीया कक्ष्या ॥

अथ चतुर्थी

अप्रतीकालम्बनान्नायतीति बादरायण उभयधा च दोषात्तत्क्रतुश्चेति सूत्रे पञ्चाग्निविद् ब्रह्मविदोरुभयोरपि अप्रतीकालम्बनत्वसाधनार्थं सूत्रकारेणैव तत् क्रतुश्चेति तत् क्रतुन्या यस्योपात्तत्वात् तत्र प्रतिपन्नयोरुभयोरपि अप्रतीकालम्बनत्वं साधयितुं सूत्रकारस्तत्क्रतुश्चेत्युक्तवानित्यर्थ इति श्रुत प्रकाशिकायां तथैव सूत्र कृदभिप्रायस्यानुगृहीतत्वाच्च तदुभयबलादपि तत्तथात्वसिद्धिर्दुरपह्नवैवेति दूषणद्वयगर्भा चतुर्थकक्ष्या ॥

अथ पञ्चमी

कार्याधिकरणदीपे पञ्चाग्निविद् ब्रह्मविदोस्तत् क्रतुन्यायबलेन फलभेदस्य मुक्तकण्ठमनुगृहीतत्वात् ब्रह्मोपासकानां हिरण्यगर्भप्राप्तेस्तत् क्रतुन्यायप्रतिषिद्धत्वाभिधानपूर्वकं ते ब्रह्मलोक इति श्रुतेरन्यथानयनात् अचिन्मश्रं केवलाचिद्वस्तुचोपासीनानां तत् क्रतुन्यायादेव पुनरावृत्तिरवर्जनीयेति कार्योपासकानां नित्यफलप्राप्तेरपि तत् क्रतुन्यायेनैव निवारितत्वाच्च तद्बलेनापि तत्तथात्वसिद्धिर्दुरपह्नवैवेति दूषणत्रयगर्भा पञ्चमीकक्ष्या एव मन्यदपि द्रष्टव्यम् ॥

तदित्थं बहुभिर्न्यायैस्तत्क्रतुन्यायान्ययोगव्यवच्छेदकतायाः सिद्धत्वेन तत् सहकृतेन कैवल्यं नित्यमविनाशि प्राप्यविषयोपासनसाध्यत्वात् ब्रह्मप्राप्तिवदित्यनुमानेन कैवल्यनित्यतासिद्धेर्निष्प्रत्यूहतया तदनित्यत्वसाधकहेतुस्सत्प्रतिपक्षित एव ॥

किं च तत् क्रतुन्यायस्यायोगव्यवच्छेदमात्रपरत्वेऽपि नित्यफलोपासकस्य तत् क्रतुन्यायान्नित्यफलान्वयायोगव्यवच्छेदस्याक्षतत्वे न तद् बलेन कैवल्यनित्यत्वसिद्धिरनिवार्यैव ॥      अपि च नोपजनं स्मरन्निदं शरीरमितिश्रुत्याभगवत् प्राप्तावपि

कतिपयविषयाज्ञानस्योच्यमानतया अज्ञानसंवलितत्वहेतोर्व्यभिचरितत्वेन तेनानित्यत्वानुमानायोगाच्च । न चोपजनस्मरणादिजनितदुःखाभावमात्रं तत्र विवक्षितमिति वाच्यं लक्षणाप्रसङ्गात् अनादिकालमारभ्यक्रियासमभिहारेण स्वानुष्ठितभगवत्प्राप्तिकूल्यविशेषाणामनन्तानां स्मरणे सति दुःखस्यावश्यं भावेन तदभावायोगाच्च । यदि च तत् स्मरणे सत्यपि तदभाव इष्येत तर्हि मुक्तस्य कठोरचित्तत्वमेव स्यात् । न हि भगवद्विषयप्रेमार्द्रचित्तानां तद्विषयप्राप्तिकूल्यस्मरणे दुःखाभाव उपपद्यते । पूर्वानुष्ठितानां प्राप्तिकूल्यविशेषाणां तदानीं भगवदभिमतत्वेनैव भानान्नदोष इति वाच्यं तदानीमपि तत्राज्ञानसंवलनानपायात्। न हि प्रातिकूल्यविशेषावस्तुतोभगवदभिमताः यदि तेऽपि भगवदभिमता एव तर्हि संसारोऽप्युपादेया एव स्यात् । ईश्वरस्यपापकारिषु निग्रहोपि निर्हेतुक एव स्यात्। नह्याभिमत कारिषु निग्रहो युज्यते तस्मान्मुक्तिदशायां पूर्वप्रातिकूल्यस्मरणमेवावश्याभ्युपगन्तव्यमिति हेतोर्व्यभिचारो दुरुद्धर एव ।

अथ किञ्च न्यायसिद्धाञ्जने सूक्ष्मप्रकृतिसम्बन्धस्यैव सतो नित्यकैवल्यानुभवस्य कल्पान्तरे स्थापितत्वेनवेदान्ताचार्य सिद्धान्तानुसारेणापि हेतोर्व्यभिचारो दुरुद्धर एवेति सिद्धमज्ञानसंवलितत्वहेतुर्दुष्ट एवेति ॥

इति कैवल्यशतदूषण्यां तृतीयभङ्गः॥

अथ यदुक्तं ब्रह्मप्राप्त्युदर्कत्वात् कैवल्यमनित्यमिति तदप्यनुपपत्रं हेतोरसिद्धत्वात् । न च जिज्ञासुर्लभते भक्तिमिति प्रमाणबलात् तत् सिद्धिरिति वाच्यम् । मुच्येतार्तस्तथारोगादित्युक्तरुग्णसाहचर्याल्लिङ्गात् आरोग्यं भास्करादिच्छेच्छ्रियमिच्छेद्धुताशनात् ।

शङ्कराज्ज्ञानमन्विच्छेदित्युक्तज्ञानकामपरत्वावगमेन तस्य कैवल्यार्थिविषयकत्वायोगात्। किञ्च यूयं जिज्ञासवो भक्ता इति ज्ञान्यन्तर्गतैक तद्वितत्रितविषयेऽपि जिज्ञासुशब्दस्य तत्रैव प्रयुक्तत्वेन तस्य कैवल्यार्थिविषयत्वनिर्धारणस्याशक्त्यत्वाच्च ॥ अपि च-

आत्मार्थीचेत्रयोप्येते तत् कैवल्यस्य साधकाः इति श्रीगीतार्थ संग्रहे कर्मज्ञानभक्तियोगानां त्रयाणामपि कैवल्यसाधनताया अनुगृहीततया भक्तिश्चेत् परप्राप्तिफलैवेति नियमाभावेन जिज्ञासोर्भक्तिसिद्धावपि तस्य तेन ब्रह्मप्राप्त्यसिध्द्याहेत्वसिद्धेर्दुर्वारत्वाच्च । अथ किञ्च –

चतुर्विधाममजना भक्ता एव हितेश्रुताः ।

इत्यत्र जिज्ञासोरपि भक्तिनिष्ठतायास्त्वयैवाङ्गीकृतत्वेन तद्विरोधेनात्र जिज्ञासुर्लभते

भक्तिमिति भक्तिमिति भक्तिश्रवणमात्रेण जिज्ञासोर्ब्रह्मप्राप्त्यनुमानायोगाच्च ॥

अथ कैवल्यस्य ब्रह्मप्राप्त्यदर्कत्वं वदन्वादी प्रष्टव्यः किं कैवल्यं ब्रह्मप्राप्तिश्च एक विद्यासाध्यमुतभिन्नविद्यासाध्यंवेति । नतावदाद्यः एकस्योभयफलकत्वायोगात् । न च मधुविद्याया इव तदुपपद्यत इति वाच्यं मधुविद्यायाः कार्यनित्योभयविषयकत्वेन तत् सम्भवेपि प्रकृते तादृशविषयभेदस्याप्रामाणिकत्वेन तदयोगात् । न च पञ्चाग्निविद्यायां स्वात्मपरमात्मनोरुभयोरपि विषयतायाः प्रामाणिकत्वान्नदोष इति वाच्यम् । तथा सति ब्रह्मविद्याया अपि तदुभयविषयकत्वेन ज्ञानिनामपि कालभेदेनैव स्वात्मपरमात्मनोरनुभाव्यत्वापातात् । न च मधुविद्याफलकार्यनित्यानुभवयोरेककालावच्छेदा सम्भवात् ब्रह्मविद्याफलस्वात्मपरमात्मानुभवयोरेककालावच्छेदे विरोधाभावाद्युक्तं

ब्रह्मविद्याफलमात्मब्रह्मानुभवयोरेकर्यौगपद्यं कैवल्यब्रह्मानुभवयोर्मधुविद्याफलवदेव

यौगपद्यबाधात् कालभेदेनानुभाव्यत्वमेवावश्याश्रयणीयमिति वाच्यम् । पञ्चाग्निविद्यायां ब्रह्मात्मकत्वेनैवात्मन उपासिततया तत् फले केवलात्मनः पृथगनुभाव्यत्वायोगात् ।

न च पञ्चाग्निविदः केवलात्मोपासनस्याविकल्पनान्नदोष इति वाच्यं कल्पकाभावात् । अथ नापि द्वितीयः एकेनैवाधिकारिणा विद्याद्वयानुष्ठानायोगात् । विद्याद्वयानुष्ठाने परस्परप्रतिबन्धात् । कस्याश्चिदपि विद्यायाध्रुवस्मृतित्वापत्त्ययोगात् गुणप्रधानभावे गुणविद्याया निष्फलत्वेन फलान्तरसाधकत्वायोगात् । तस्मात् कैवल्यस्य ब्रह्मप्राप्त्युदर्कत्वे साधनानुपपत्तिर्दुरुद्धरैवेति हेत्वसिद्धिदुर्वारैव ॥

ननु-

ऐश्वर्यमक्षरगतिं परमं पदं वा

कस्मैचिदञ्जलिभरं वहते वितीर्य ॥

इत्येकस्यैव फलत्रयदानस्यानुगृहीततया तद् बलात् कैवल्यस्य ब्रह्मप्राप्त्युदर्कत्वं सिद्धमिति नानुपपत्तिरिति चेन्न। अत्र अस्मा इत्यनुक्तेः वाकारेणविकल्पस्यैवाभिधानेन समुच्चयोक्तेस्तद्विरोधाञ्च। न चात्र वाकारश्चकारार्थ एवेति वाच्यम् । निर्हेतुकस्वार्थत्यागार्थान्तरकल्पनयोरयोगात् । एतेन कैवल्यं भगवन्तं च मन्त्रोऽयं साधयिष्यति । इत्यादि कमपिव्याख्यातम् । अधिकारिभेदेन सर्वफलसाधनत्वस्यैव तत्रापि विवक्षितत्वात् । अथ कैवल्यस्य ब्रह्मप्राप्त्यदर्कत्वं वदन्वादीपुनः पृष्टव्यः कैवल्यं कदानुभाव्यमिति किमर्चिरादिमार्गमध्ये उत ततः प्रागेवेति। नतावदाद्यः उत्थायपरंज्योतिरुपसम्पद्येत्यव्यवधानवश्रुति विरोधात् । न च दक्षिणायनमृतानां ब्रह्मविदां चन्द्रसायुज्यवत् कैवल्यस्यापि विश्रममात्ररूपत्वेनाव्यवधायकत्वं युक्तं तथा सति तस्याफलत्व प्रसह्गात् । न चेष्टापत्तिः बहुशास्त्रविरोधापत्तेः कैवल्यं भगवन्तं च, ऐश्वर्याक्षरयाथात्म्यसर्वकामांश्च साक्षराम्, ऐश्वर्यमक्षरगतिं, संसृत्यक्षरवैष्णवाध्वस्वित्यादिषु पुरुषार्थकोटौ तस्यापि प्रतिपादितत्वात् तत्र तत्र तस्य पृथगेव साधनाधिकारस्थानानां प्रतिपादनाच्च । न हि चन्द्रसायुज्यं पुरुषार्थमध्ये क्वचित्परिगण्यते तत् साधनाधिकारादिकं वा क्वचिद्विशिष्यविधीयते ।

येतु शिष्टास्त्रयो भक्ताः फलकामाहि ते मताः । इत्यत्र कैवल्यस्यापि फलत्वेन त्वयैवाङ्गीकृतत्वेन तस्यात्र विश्रममात्रत्वोक्तिः स्ववचनविरुद्धैव । अपि च सर्वकामांश्च साक्षारानित्यादावैश्वर्यवत्कैवल्यस्यापि त्यागो विधीयते । यदि च तस्य । चन्द्रसायुज्यतौल्यं स्यात्तर्हि तत्त्याग एववनशक्यते वक्तुं विश्रममन्तराशिष्टमार्गगमनासम्भवेन गत्यर्थतया तस्यावश्यकत्वात् । न हि चन्द्र सायुज्यं क्वचित्त्याज्यतयोच्यते । किञ्चार्चिरादिमार्गभाविनां विश्रमादीनां विद्यामाहात्म्यमात्रायत्तत्वेन विद्यानिष्ठानां तत्त्यागायोगेन कैवल्यत्यागविधीनां सागरतरणविधिवन्मूकत्वापाताच्च। न च कैवल्यत्यागविधीनां विद्याविशेषत्यागविधौपर्यवसानान्नदोष इति वाच्यम् । तस्य विद्याविशेषस्यैवासिद्धेः । न च केवलात्मोपासनरूपैवसेति वाच्यम् । तस्या प्रतीकालम्बनत्वाभावेनार्चिरादिगतेरेवासिध्या गतिमध्यभाविकैवल्यकत्वायोगात् । न च पञ्चाग्निविद्यैवास्तु सेति वाच्यम्। तस्या ब्रह्मविद्यातौल्येनैव गत्याम्नानात् गतौविश्रमविलम्बादिना ब्रह्मविद्यागतिवैषम्यकल्पनस्य प्रमाणविरुद्धत्वात् तस्मात् गति मध्ये कैवल्यानुभवपक्षोत्यन्तानुपपन्न एव ॥

नापिगतेः प्राकृतस्यानुभवः सम्भवति। जिज्ञासोः प्रयाणकाले मूर्ध्न्याधायात्मनः प्राणमितिमूर्धन्यनाह्यानिष्क्रमणाभिधानात् स्थूलदेहावसान एव गत्यारम्भप्रतीत्या ततः पूर्वं तदनुभवायोगात् । न च मूर्ध्न्याधायेति निष्क्रमणवचनं सूक्ष्मदेहान्निष्क्रमणमेवेति शङ्क्यम् । सूक्ष्मदेहवियोगे सति गतेरेवासम्भवात् तदापीतेस्संसारव्यपदेशादिति ब्रह्मसम्पत्तिपर्यन्तं सूक्ष्मशरीरानुवृत्तेः प्रमाणसिद्धत्वाच्च । न च स्थूलशरीरावच्छेदेनैव कैवल्यानुभवोस्त्विति वाच्यम् । जरामरणमोक्षायेत्यस्य समुद्रघोषत्वापातात् ॥

किञ्च सूक्ष्मशरीरावच्छेदेन वा स्थूलशरीरावच्छेदेन वा कैवल्यानुभवो दुरुपपाद एव कैवल्यस्य प्रकृतिविनिर्मुक्तात्मस्वरूपावाप्तिरूपत्वेन तदवच्छेदेन तदसम्भवात् सूक्ष्मवियोगानन्तरं गतेरेवाभावात् । गति मध्ये ततः प्राग्वा कैवल्यानुभव इति मतं दुर्मततमेव ॥

ननु प्रकृतिविनिर्मुक्तात्मस्वरूपानुभव एव कैवल्यं न तु तद्विमुक्तात्मस्वरूपावाप्तिरूपं येनोक्तदोषाः प्रसज्येरन् विविक्तात्मानुभवस्य च प्रकृतिवैशिष्ट्यदशायामेव सम्भवान्नानुपपत्तिरिति चेन्न ।

अक्षरं ब्रह्म परमं स्वभावोध्यात्ममुच्यते ।

भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥

इति श्रीगीताष्टमाध्यायवचने तद् ब्रह्मोति निर्दिष्टं परममक्षरं नक्षरतीत्यक्षरं क्षेत्रज्ञसमष्टिरूपं तथा च श्रुतिः – अव्यक्तमक्षरेलीयते अक्षरंतमसिलीयते इत्यादिकं परममक्षरं प्रकृतिविनिर्मुक्तस्वरूपं स्वभावोऽध्यात्ममुच्यत इति स्वभावः प्रकृतिरनात्मभूतमात्मनि सम्बद्धमानं भूत सूक्ष्मतद्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतयोदितं तदुभयं प्राप्यत या त्याज्यतया च ज्ञातव्यमिति भाष्यकारैः कैवल्यार्थिनाः प्रकृतिविनिर्मुक्तात्मस्वरूपस्यैव प्राप्यतायाः

प्रकृतिसूक्ष्मतद्वासनादीनां त्याज्यतायाश्चानुगृहीततया तद्विरोधात् ॥ किञ्च-

ओमित्येकाक्षरं ब्रह्मव्याहरन्मामनुस्मरन् ।

यः प्रयाति त्यजन्देहं सयाति परमां गतिम्  ।

इत्यष्टमाध्यायवचने स परमां गतिं याति प्रकृति वियुक्तं मत्समानाकारमपुनरावृत्तिमात्मानं प्राप्नोतीत्यर्थ इति प्रकृतिवियुक्तात्मस्वरूपस्यैव कैवल्यार्थिप्राप्यतया भाषितत्वेन तद्विरोधाच्च । अपि च-

परस्तस्मात्तु भावोऽन्योव्यक्तोऽव्यक्तात्मनातनः ।

यः स सर्वेषु भूतेषु नश्यत्सुनविनश्यति ॥

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ॥

इत्यष्टमाध्यायवचनभाष्ये तस्मादव्यक्तादचेतन प्रकृतिरूपात् पुरुषार्थतया पर उत्कृष्टो भावोऽन्यो ज्ञानैकाकारतया तस्माद्विसजातीयो  व्यक्तस्वसंवेद्यस्वासाधारणाकार इत्यर्थः । सनातनः उत्पत्तिविनाशानर्हतया नित्यः यस्सर्वेषु वियदादिषु भूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र

स्थितोपि न विनश्यति सोव्यक्तोक्षर इत्युक्तः ।

येत्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।

कूटस्थोऽक्षर इत्यादिषु तं वेदविदः परमां गतिमाहुः अयमेव यः प्रयातित्यजन्देहं स याति परमां गतिं इत्यत्र परमं नियमस्थानमचेतन प्रकृतिरेकं नियमनस्थानं तत् संसृष्टरूपाजीवप्रकृतिद्वितीयं नियमनस्थानम् अचित्संसर्ग वियुक्तं स्वरूपेणावस्थितं परमं नियमानस्थानमित्यर्थः । तच्चापुनरावृत्तिरूपम् अथवा प्रकाशवाचिधामशब्दः प्रकाशश्चेहज्ञानमभिप्रेतं प्रकृतिसंसृष्टात् परिच्छिन्नज्ञानरूपादात्मनो अपरिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परमं धामेति परमनियमनस्थानभूतासंकुचितज्ञानप्रकृतिविनिर्मुक्तात्म स्वरूपस्यैव कैवल्यार्थिप्राप्यताया भाषितत्वेन तद्विरोधाच्च ॥

 अथ किञ्च अव्यक्तोऽक्षर इत्युक्त इति पूर्वोक्त वचनैकार्थतया

भाष्योदाहृतस्य-

द्विविमौपुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥

इति श्रीगीतापञ्चदशाध्यायवचनस्य भाष्येक्षरश्चाक्षरश्चेति द्वाविमौ पुरुषौलोके प्रधितौ तत्र क्षरशब्दनिर्दिष्टः पुरुषो जीव शब्दाभिलपनीयब्रह्मादिस्तम्बपर्यन्तक्षरणस्वभावाचित्संसृष्टसर्वभूतानि अत्राचित्संसर्गरूपैकोपाधिता पुरुष इत्येकत्वनिर्देशः अक्षरशब्दनिर्दिष्टः कूटस्थोचित्संसर्गवियुक्तस्वेनरूपेणावस्थितो मुक्तात्मा स क्वचित् संसर्गाभावात्

अचित्परिणामविशेषब्रह्मादिदेहसाधारणो न भवतीति कूटस्थ इत्युच्यते । तत्राचिद्वियोगरूपैकोपाधिना पुरुष इत्येकत्वनिर्देशः । कूटस्थ इत्यत्राप्येकत्वनिर्देशोऽचिद्वियोगरूपैकोपाधिनाभिहित इत्यादिना अक्षरशब्दस्य मुक्तपरत्वेनैव भाषणात् श्रीवेदान्तदीपस्यादौ कूटस्योऽक्षर उच्यत इति वचनमुपादाय कूटस्थः मुक्तस्वरूपमिति व्याख्याय-

येत्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।

सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥

इत्यादि व्यपदेशादिति तत् संवादतयां

मुक्तविषयकद्वादशाध्यायवचनस्योदाहृतत्वात् ।

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।

शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥

इति चतुर्दशाध्यायवचने अमृतस्याव्ययस्य ब्रह्मण इति कैवल्यस्य शाश्वतस्य धर्मस्येति ऐश्वर्यस्य ऐकान्तिकस्य सुखस्येति भगवदनुभवस्य च प्रतिपादितत्वेन भाषणात् जगाद्व्यापाराधिकरणश्रुतप्रकाशिकायामस्य कैवल्यविषयामृतशब्दस्यामृतं मोक्ष इति व्याख्यातत्वाच्च मुक्तस्वरूपस्यैव कैवल्यार्थिभिः प्राप्यगयादुरपह्नवतया सिद्धत्वाच्च ॥

तदेवं बहुभिः प्रमाणैः कैवल्यास्य प्रकृतिवियुक्तात्मस्वरूपावाप्तिरूपत्वसिध्या तस्य यावत् प्रकृतिसंसर्गमसम्भवात् प्रकृतिवियोगानन्तरमेव कैवल्यानुभवइत्यकामेनापि स्वीकरणीयमेवेतिमार्गमध्ये वा ततः प्रागेव वा कैवल्यानुभव इति मतं दुर्मतमेव ॥

नन्व स्त्वेवं तथापि मोक्षानन्तरमेव किञ्चित्कालमनुभूय ततः परं परं ब्रह्मप्राप्नोति केवल इति नानुपपत्तिरिति चेत् मैवम् परब्रह्मप्राप्तिमन्तरा मोक्षासम्भवात् । तदापीतेस्संसारव्यपदेशादिति सूत्रे ब्रह्मप्राप्तिपर्यन्तं देहसम्बन्धलक्षणसंसारनिवृत्त्युक्तेः ननु कथं तर्हि केवलस्य ब्रह्मप्राप्तिवैधुर्यवचनमिति चेत् भ्रान्तोसि सूरिदृश्यस्थानावच्छिन्नपरवासुदेव विग्रह विशेषादिविशिष्ट ब्रह्मानु भवो हि केवलस्य नास्तीति निषिध्यते । न हि सुषुप्तिप्रलयमरणादिकालीन सम्पत्तितुल्या ब्रह्मस्वरूपे चेतनात्यन्तिकलयात्मिका ब्रह्मप्राप्तिः केवलस्य नास्तीति निषिध्यते न चैवं केवलः प्रथमं ब्रह्मस्वरूपसम्पत्त्या किञ्चित्कालमात्मानमनुभूय तदनन्तरं सूरिदृश्यस्थानावच्छेदेन परवासुदेवमनुभवतीति नानुपपत्तिरिति वाच्यम् । तत्र प्रमाणाभावात् तेषां ज्ञानी नित्ययुक्त इति वचनभाष्ये मदेकप्राप्यस्यमया योगोनित्यः इतरयोस्तु यावत्स्वाभिलषितप्राप्तिमया योग इति कैवल्यार्थिनः फलदशायां भगवदनुभवाभावस्थानुगृहीत तया तद्विरोधाच्च न चैश्वर्यार्थिनामैश्वर्यानुभवानन्तरं साधनानुष्ठानेन कदाचिन्मोक्षप्राप्तिवत् कैवल्यार्थिनोपि भगवदनुभवः संभवतीति वाच्यं कैवल्यं प्राप्तानामुपासनार्थशरीराद्यभावेन तदयोगात् न च पुनरावृत्त्या तत् सम्भवः शङ्का: अपुनरावृत्तिः प्रतिपादकवचनशतविरोधात् । न च तत्रैव परित्यक्तं शरीरमुपादाय पुनरप्युपासनानुष्ठानां शङ्काम्। शरीरोपादानहेतुभूत कर्माद्यभावात् अर्चिरादिना गच्छतामुत्थानकाल एव हि सर्वकर्मनाशः प्रतिपादितः । न च विद्यामाहात्म्यादेव पुनरपि देहसम्बन्धसम्भवः शङ्काः तादृशविद्यामाहात्म्य विषयकप्रमाणस्य शशविषाणसोदारत्वात् । तस्मात् कैवल्यस्य ब्रह्मप्राप्त्युदर्कत्वं कथञ्चिदपि दुरुपपादमेवेति तस्य हेतोरसिद्धिर्दुर्वारैवेति तेन कैवल्यस्यानित्यत्वानुमानमनुपपन्नमेवेति कैवल्यानित्यत्वे प्रमाणाभावात् तन्नित्यत्वमपुनरावृत्तिग्राहक प्रमाणादिसिद्धमक्षतमेवेति तस्य क्रूरनिषिद्धत्वात् पराङ्कुशादिभिस्तस्य प्रथमतस्त्याजनं तन्नित्यताप्रयुक्तक्रौर्यातिशयनिबन्धनमेवेति सिद्धो न स्सिद्धान्त इति समञ्जसम् ॥

इति कैवल्यशतदूषण्यां चतुर्थभङ्गः समाप्तः

श्री श्रीनिवासदासेन श्रीभूतपुरवासिना ।

रचितावर्धतामेषा कैवल्यशतदूषणी ॥

हरिः ओम् ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.