[highlight_content]

मुक्तिपदशक्तिवादः

श्रीः

श्रीमते रामानुजाय नमः

श्रीमते रम्यजामातृमुनये नमः

श्रीमद्वेङ्कटलक्ष्मणार्यसंयमिने नमः

श्रीमद्वेङ्कटलक्ष्मणार्यसंयमीन्द्रैः

अनुगृहीतः

मुक्तिपदशक्तिवादः

अञ्जनघनमदभञ्जनमपि च कयाचित्सुरञ्जितं कलया।

अञ्जनविधुरदृगञ्जनमञ्जनगिरिरञ्जनं भजे भावुकम्।। (1)

निजगळवकुळगळन्मधुललितकलालापनिगळितश्रीशम्।

करकलितबोधमुद्रं किमपि विनिद्रं समाश्रये भद्रम्।। (2)

निगमयुगलसारौ श्रावितौ येन धाम्ना परमपि परतन्त्रं पात्रमेवोपकल्प्य।

तदिह निखिलरक्षादीक्षितं नौमि नत्वा वरवरयतिवर्येत्यादिनामाभिलापैः।। (3)

कलशजलधिकन्याकान्तवीक्षामृतौघैः

अनुकलमभिषिक्तामार्यगोष्ठी विभाव्य।

विपुलमिह विचारं मुक्तिशब्दस्य शक्तेः

कलयति कुतुकाच्छ्रीशैलयोगीशदासः ॥ (४)

      अत्र तावन्मुक्तिशब्दशक्तिः विचार्यते। तदिदं सर्वसंप्रतिपन्नम् , “संसारनिवृत्तित्वमेव मुक्तिशब्दशक्यतावच्छेदकम्” इति।

      युक्तञ्चैतत् , प्रधानक्षेत्रज्ञपतिः गुणेशः संसारबन्धस्थितिमोशहेतुः इत्यादिश्रुत्या तत्तथात्वावगमात्। संसारो नाम स्वरूपतिरोधायकाचित्संसर्ग एव। तदापीतेस्संसारव्यपदेशात् इति सूत्रे अचित्संबन्धस्यैव संसारशब्देन व्यपदेशात्।

      ननु अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते। यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगाः”, इमे सत्याः कामाः अनृतापिधानाः इत्यादिषु कर्मणामेव तिरोधायकत्वमुक्तम्। तत्कथम् अचित्संसर्गस्य तदुच्यते, इति चेन्न। पराभिध्यानात् तिरोहितं ततो ह्यस्य बन्धविपर्ययौ, देहयोगाद्वा सोऽपि इत्याभ्यां सूत्राभ्यां सिद्धान्ते भगवत्सङ्कल्पात्मकानां कर्मणाम् अचिद्द्वारैव तिरोधायकतायाः सिद्धत्वात्। तद्युक्तम् , तिरोधायकाचित्संसर्गरूपसंसारनिवृतित्वमेव मुक्तिपदप्रवृत्तिनिमित्तमिति।

      एतेन , यज्जिज्ञासाधिकरणभाष्ये अविद्यानिवृत्तिरेव मोक्षः इत्यनुगृहीतम्, तदपि व्याख्यातम्। तत्रत्याविद्याशब्दस्य पुण्यपापकर्मपरत्वेऽपि अचिद्द्वारैव कर्मणां प्रतिबन्धकतया तन्निवृत्तिवाचकस्य अचिन्निवृत्तावेव पर्यवसानात्।

व्यासाचार्यैस्तु तत्रत्याविद्याशब्दः प्रतिबन्धकमात्रपरत्वेन व्याख्यातः। प्रतिबन्धकत्वमपि साक्षात् अचित्संबन्धस्यैव श्रूयते  तस्य तावदेव चिरं यावन्नविमोक्ष्येऽथ संपत्स्ये वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतःइति।

      तस्मान्निरुक्ताचित्सम्बन्धनिवृत्तित्वमेव मुक्तित्वम्। यत्तावत् अत्रधिकरणभाष्यम्  अविद्योच्छेदपूर्वकस्वाभाविकपरमात्मानुभवमेव मोक्षमाचक्षते इति। तच्च  न मुक्तिशब्दप्रवृत्तिनिमित्तपरम्। किन्तु मुक्तिस्वरूपयाथात्म्यप्रदर्शनपरम्। एतदुक्तं भवति  सिद्धान्ते अभावस्य भावान्तरत्वात् मुक्तिशब्दप्रतिपाद्यसंसारनिवृत्तिरूपः अभावः ब्रह्मविदां किं रूपः इति चेत्, स्वाभाविकपरमात्मानुभवरूप एव। न स्वरूपोच्छेदादिरूपः इति तत्स्वरूपप्रदर्शनमात्रपरं तद्भाष्यवचनमिति।

      अत एवानुगृहीतं त्रय्यन्तनिष्णाता आचक्षते इति। त्रय्यन्तनिष्णाताः ब्रह्मनिष्ठाः इत्यर्थः। शब्दनिष्ठायाः अर्थनिष्ठाद्वारकत्वात्। अनेन आत्मनिष्ठाः व्यावर्त्यन्ते। एतेन आत्मनिष्ठप्राप्यायाः मुक्तेः स्वाभाविकपरमात्मानुभवरूपत्वाभावेऽपि न क्षतिः। स्वाभाविकपरमात्मानुभवे अविद्योच्छेद पूर्वकत्वोक्तिः अविद्योच्छेदस्य स्वाभाविकपरमात्मानुभवात्मकत्वज्ञापनार्था। यदुच्छेदपूर्वको यो भावः, तदुच्छेदः तद्भावात्मकः इति नियमात्। घटोच्छेदपूर्वककपालत्वावस्थायां घटनाशात्मकत्वस्य, कपालोच्छेदपूर्वककापालिकावस्थायां कपालनाशात्मकत्वस्य च दर्शनात्।

      ब्रह्मविदां यः स्वाभाविकपरमात्मानुभवः प्राप्तिदशायां भवति, तस्याविद्योच्छेदपूर्वकत्वेन अविद्योच्छेदात्मकत्वात्, तद्गतमविद्योच्छेदस्वमात्रं निमित्तीकृत्य तमेव परमात्मानुभवं ब्रह्मविदो मोक्षशब्देन व्यवहरन्तीति तद्भाष्य निर्गलितोऽर्थः। येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके इति मोक्षदशायाम् आत्मनोऽसद्भावं शङ्कमानं नचिकेतसं प्रति मोक्षस्य भावान्तररूपत्वज्ञापनपूर्वकं तेन रूपेण आत्मसत्तायाः एव वक्तव्यत्वेन तदतिरिक्तमुक्तिपदशक्तिशिक्षायाः तत्र अप्रकृतत्वात्।

      किञ्च  स्वाभाविकपरमात्मानुभवस्य मुक्तिपदनिमित्तान्तर्भावे सर्वेषां मुक्तिशब्दानां गौणत्वमेव आपद्येत। तथाहि , ब्रह्मविद्याफलवाक्येष्वेव हि प्रायशो मुक्तिवाचकानि पदानि श्रूयन्ते। तत्र सर्वत्र तत्तद्विद्यायां मुक्तिपदवाच्यं भावयेत्इति हि विधिवाक्यार्थो वर्णनीयः। तच्च न सम्भवति। स्वाभाविकब्रह्मानुभवस्य मुक्तिपदवाच्यस्य स्वाभाविकत्वादेव अभाव्यत्वात्। कार्यमेव हि भाव्यम्। तद्दोषपरिहारार्थं सविरोषणे हि “ इति न्यायेन मुक्तिपदस्य विशेषणभूतअविद्योच्छेदमानपरत्वाश्रयणे भवति सर्वेषां प्रयोगाणां गौणत्वमिति।

        ननु  ब्रह्मानुभवस्यापि साध्यत्वाङ्गीकारान्न दोषः इति चेन्न। सम्पद्याविर्भावाधिकरणविरोधात्। “अयं प्रत्यगात्मा अर्चिरादिना परंज्योतिरुपसंपद्य यं दशाविशेषम् आपद्यते, स स्वरूपाविर्भावरूपः, नापूर्वाकारोत्पत्तिरूपः” इति। तद्भाष्यानुगृहीतत्वात्। उपात्तानि च तत्प्रमाणतया तत्रैव शौनकवचनानि

यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः।

दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा।।

यथोदपानकरणात् क्रियते न जलाम्बरम् ।

सदेव नीयते व्यक्तिम् असतस्सम्भवः कुतः ।।

तथा हेयगुणध्वंसात् अवबोधादयो गुणः ।

प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ।। इति।।

        लघुसिद्धान्तारंभभाष्यश्रुतप्रकाशिकायां च  “यद्यप्यनिष्टनिवृत्तिरिष्टप्राप्तिश्च द्वयमस्ति। तथापीष्टतमब्रह्मप्राप्तेः स्वतस्सिद्धायाः पृथगुपायसाध्यत्वाभावात् प्रतिबन्धनिवृत्तिरेव साध्या। स्वत एव सर्वसाक्षात्कारक्षमं ज्ञानं प्रतिबन्धके निवृत्ते सति ब्रह्मस्वरूपगुणविभवादिकं सर्वं साक्षात्करोति। यथा सेतौ भिन्ने जलं स्वयमेव गच्छति। न केनचिन्नेतव्यं, तद्वत्। यथा अश्मानयने मार्गसमीकरणतत्प्रापणे उभे अपि पृथग्यत्नसाध्ये न; तथेत्यर्थः। यद्वा भावान्तरस्यैव अभावत्वादविद्यानिवृत्तिरेव ब्रह्मप्राप्तिरित्यनुगृहीतम् ॥

      तस्माद् ब्रह्मानुभवस्य ब्रह्मानुभवत्वेन रूपेण असाध्यत्वात् तस्य मोक्षपदशक्यतावच्छेदकान्तर्भावाभ्युपगमे ब्रह्मविद्याफलवाक्यगतानां बहूनां मुक्तिवाचिशब्दानां गौणत्वापत्तिः दुष्परिहरैवेति संसारनिवृत्तित्वमात्रमेव मुक्तिशब्दशक्यतावच्छेदकम् इत्यकामेनापि स्वीकर्तव्यत्वात् अत्रधिकरणभाष्यवचनं ब्रह्मविद्याफलमोक्षस्वरूपप्रदर्शनमात्रपरमेव। येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके इति सर्वबन्धविनिर्मोक्षलक्षणमोक्षविशेषदशायाम् आत्मनस्सद्भावासद्भावौ शङ्कमानं प्रति तन्मोक्षस्वरूपस्यैव वक्तव्यतया प्रकृतत्वाच्च।।

      तथा च  ब्रह्मविद्याफलाविद्यानिवृत्तिप्राप्तिदशायां निरतिशयानन्दलक्षणो यस्स्वाभाविकपरमात्मानुभवः भावान्तरमभावः इति न्यायेन तद्गतमविद्यानिवृत्तित्वं निमित्तीकृत्य तमेव मोक्षपदेन सन्तो व्यवहरन्तीति न मुक्तस्य स्वरूपासत्त्वादिशङ्कावकाशः इत्येतावदेव अत्रधिकरणभाष्यवचनतात्पर्यमिति युक्तं संसारनिवृत्तित्वमेव मुक्तिशब्दशक्यतावच्छेदकमिति ॥

      किञ्च स्वाभाविकपरमात्मानुभवत्वस्यापि मुक्तिशब्दशक्यतावच्छेदककोटिप्रवेशे पञ्चाग्निविद्याफले मुक्तिव्यवहारभङ्गप्रसङ्गः। तत्र ब्रह्मानुभवसद्भावे प्रमाणाभावात्। न च एतान् ब्रह्म गमयति इत्यनेन तत्सिद्धिः शङ्क्या। गमयतीत्यस्य प्राप्तिमात्रवाचित्वेन अन्यथासिद्धत्वात्। देशविशेषावच्छिन्नब्रह्मस्वरूपसंबन्धस्यैव प्राप्तिशब्दार्थत्वात्।

        किञ्च  कार्याधिकरणगतेन दर्शनाच्च इति सूत्रेण ब्रह्म गमयतीत्यस्य परं ज्योतिरुपसम्पद्य इत्यनेन एकार्थतायाः दर्शितत्वेन तस्य संपत्तिरूपत्वसिद्ध्या तस्य अनुभवरूपत्वोक्तेः सम्पत्तिशब्दव्युत्पत्तिविरुद्धत्त्वाच्च ॥

      अपि च  परं ज्योतिरुपसम्पद्य इत्यत्र ल्यप् प्रत्ययेन संपत्तेः स्वरूपाविर्भावपूर्वकालीनत्वावगमेन तदनतिरिक्तायाः ब्रह्म गमयति इत्युक्तब्रह्मप्राप्तेः स्वरूपतिरोधानकालीनत्वावगमेन तस्या अनुभवरूपत्वोक्तेः बाधितत्वाच्च ॥

      यदुक्तं कैश्चित् , परं ज्योतिरुपसम्पद्य इत्यत्र ल्यप् प्रत्ययोऽविवक्षितार्थः इति। तत्संप्रदायानभिज्ञतानिबन्धनम्। उत्तराच्चेदाविर्भूतस्वरूपस्तु इति सूत्रभाष्यश्रुतप्रकाशिकायामेव तस्य कण्ठतो निरस्तत्वात्। तथा हि  उपसम्पद्येति निर्देशः, मुखं व्यादाय स्वपिति इतिवत् इति केचिद्व्याचक्षते। तदयुक्तम् इत्यारभ्य, ल्यबन्तपदस्य अविवक्षितक्रमत्वं च क्लिष्टम्। गत्यभावद्योतकम्। सम्पद्याविर्भाव इति सूत्रविरोधश्चेत्यादि।।”

        किञ्च  अविभागेन दृष्टत्वात् इति सूत्रभाष्यसिद्धान्ते परंज्योतिरुपसंपत्त्या निवृत्तविद्यातिरोधानस्येति वाक्येन संपत्तेराविर्भावहेतुत्वस्य अनुगृहीततया ल्यप् प्रत्ययस्य अविवक्षितार्थत्वोक्तेः तद्विरुद्धत्वाच्च। आविर्भावपूर्वकालावृत्तिनः तत्कारणत्वासंभवात्। तस्मात् परंज्योतिरुपसम्पद्येति श्रुतायाः संपत्तेः सुषुप्त्यादिसाधारणसंपत्तिशब्दव्युत्पत्तिबलात्, ल्यप् प्रत्ययबलाच्च अनुभवरूपत्वाभवसिद्ध्या तदनतिरिक्तत्वेन कार्याधिकरणगत दर्शनाच्च’ इति सूत्रसिद्धायाः ब्रह्म गमयति’ इत्युक्तब्रह्मगतेरपि अनुभवानात्मकत्वसिद्ध्या न पञ्चाग्निविदां ब्रह्मानुभवे एनान् ब्रह्म गमयति’ इति श्रुतिः प्रमाणम्।

        परञ्च अविभागेन दृष्टत्वात् इत्यधिकरणे अहं ब्रह्मास्मि’ इत्यविभागेन अनुभवस्यैवात्मनां स्वाभाविकतायाः सिद्धत्वेन पञ्चाग्निविदां तादृशानुभवप्रयोजकाहंग्रहोपासनाभावेनैव तादृशस्वाभाविकब्रह्मानुभवाभावस्य सिद्धत्वाच्च। न च तेषामप्यहंग्रहोपासनसंभवश्शक्यशङ्कः। तथा सति पञ्चाग्निविद्याया अपि ब्रह्मविशेष्यकतया विद्याभेदस्यैव दुर्निरूपत्वापातात्। न च  ‘अहम्’ इति स्वविशिष्टं ब्रह्मानुसन्धाय, तस्यैव स्वविशेषणत्वेन अनुसन्धानसंभवात् नानुपपत्तिरिति वाच्यम्। स्वस्यैव स्वशरीरितावच्छेदकत्वासंभवेन तथानुसन्धानस्य भ्रान्तिरूपत्वापातात्। न च स्वोपलक्षितं ब्रह्मैवाहमित्यनुसन्धाय तस्यैव स्वविशेषणतया अनुसन्धानं शक्यम्। अहमर्थोपलक्षितब्रह्मानुसन्धानस्य अहमित्याकारकत्वायोगात्। विशेष्यप्रतीत्यनन्तर्गतस्यैव उपलक्षणत्वनियमात्। न हि घटत्वोपलक्षितस्य वस्तुनो भानं घट इत्याकारकं भवेत्। तस्मात् पञ्चाग्निविद्यायां ब्रह्मणोऽहंग्रहणस्य दुर्लभतया न तन्निष्ठानां स्वाभाविकब्रह्मानुभवः इति॥

        अपरञ्च  कार्याधिकरणदीपे पञ्चाग्निविदां ब्रह्मात्मकात्मप्राप्तिमात्रस्य, ब्रह्मविदामेव यथावस्थितब्रह्मानुभवस्य च मुक्तकण्ठं व्यवस्थापितत्वेन पञ्चाग्निविदामपि स्वाभाविकब्रह्मानुभवोक्तेः तद्विरुद्धत्वाच्च। तदियं तत्सूक्तिः “पञ्चाग्निविदो हि प्रकृतिविविक्तब्रह्मात्मकात्मस्वरूपविदः ते च तत्प्राप्य पुनर्न निवर्तन्ते। परं ब्रह्मोपासीनास्तु यथावस्थितं परिपूर्णं परं ब्रह्मैव प्राप्य पुनर्न निवर्तन्ते। तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवंति। इत्युभयविधान् भेदेनोपादाय अर्चिरादिगतिश्रुतेः अपुनरावृत्तिश्रुतेश्च एवमिति निश्चीयते” इति।।

      अत्र ब्रह्मवित्प्राप्यस्य यथावस्थितत्वपरिपूर्णत्वादिविशेषणेन पञ्चाग्निवित्प्राप्यस्य अयथावस्थितत्वापरिपूर्णत्वादिकं ज्ञापितम्। अस्यां परिषदि अयं प्रधानः इत्युक्ते अन्येषाम् अप्राधान्यसिद्धिवत्, अत्राप्युक्तार्थसिद्धेः। तस्मात् पञ्चाग्निविदः स्वाभाविकब्रह्मानुभववैधुर्येण मुक्तिपदशक्यतावच्छेदककोटौ स्वाभाविकब्रह्मानुभवत्वस्यापि निवेशे पञ्चाग्निवित्फले मुक्तिव्यवहारभङ्गप्रसङ्गो दुर्वार एव।।

        किञ्च  केवलभेदोपासनसाध्यायां भेदमुक्तौ सामीप्यलक्षणायां अविभागेन अनुभवलक्षणब्रह्मानुभवाभावस्य तत्क्रतुन्यायसिद्धतया तत्रापि मुक्तिव्यवहारभङ्गप्रसङ्गो दुर्वार एव। न च  योऽन्यां देवतामुपास्तेऽन्योसावन्योऽहमस्मि वेद अकृत्स्नो ह्येषः इति निषेधात्, भेदेनोपासनमेव असिद्धमिति शङ्क्यम्। असिद्धत्वे तन्निषेधायोगात्। ‘योन्यां देवतामुपास्ते’ इति प्रसिद्धवन्निर्देशायोगाच्च॥

      न च  अन्यतः प्राप्तमुपासनमनूद्य शास्त्रं निषेधतीति शक्यं वक्तुम्। कळञ्जभक्षणादिवत् उपासनस्यान्यतः प्राप्त्यसंभवेन शास्त्रेणैव प्राप्तेः वक्तव्यत्वात्। न च  शास्त्रप्राप्तमेव शास्त्र निषेधयेत्। तथा सति शास्त्रस्य विप्रलम्भकत्वापातात्। तस्मात् अपशवो वा अन्ये गो अश्वेभ्यः इत्यत्र अपशुशब्दवत्, प्रकृते वेद इत्येतद्वाक्यमपि केवलभेदोपासनस्याप्रशस्तवेदनत्वमभिदधत् सत् अभेदोपासनविधेः अर्थवादतां लभते इति भेदोपासनं प्रामाणिकमेव। ज्ञापितश्चैतदुपासनसद्भावः तत्फलभूतायथावस्थितप्राप्तिसद्भावश्च आत्मत्वोपासना-धिकरणपूर्वपक्षभाष्ये “यथावस्थितञ्च ब्रह्मोपास्यम्। अयथोपासने प्राप्तिरपि अयथाभूता स्यात्। यथा ऋतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति इति न्यायात्। उपपादितञ्चेदमेव पञ्चाग्निविदाम् अयथावस्थितप्राप्तिज्ञापकेन पूर्वोदाहृतकार्याधिकरणदीपवाक्येनापि”॥

      ननु  न वयं केवलभेदेन ब्रह्मोपासनं नास्तीति वदामः। किन्तु  तस्य मुक्तिसाधनत्वं नास्तीत्येतावन्मात्रमेव। अत एवायथोपासने प्राप्तिरप्ययथाभूता स्यादिति भाग्यश्रुतप्रकाशिकायां “अयथाभूता स्यात् इति संसारित्वप्राप्तिस्स्यात्, इत्यर्थः”। इत्यनुगृहीतम्। तस्मात् केवलभेदोपासनस्य सांसारिकत्रिवर्गफलार्थत्वान्न तस्य मुक्तिसाधनत्वं प्रामाणिकमिति चेन्न। तर्हि पञ्चाग्निविद्याया अपि मुक्तिसाधनत्वाभावप्रसङ्गात्। तस्या अपि केवलभेदोपासनात्मकत्वात्। तत्रात्मत्वेन ब्रह्मानुसन्धानमस्तीति चेत्, किन्तेन, आत्मत्वेनानुसन्धानस्यैव भेदानुसन्धानात्मकत्वेन “पृथगात्मानं प्रेरितारञ्च मत्वा” इत्यादि श्रुतिसिद्धत्वात्। स्वशरीरं प्रति स्वस्थात्मत्वेन अनुसन्धानस्य विवेकरूपतया भेदानुसन्धानात्मकत्ववत्, स्वं प्रति ब्रह्मणः आत्मत्वानुसन्धानस्यापि जीवपरविवेकात्मकत्वेन भेदानुसन्धानरूपत्वात्। अनुग्रहीतञ्च  आत्मेति तूपगच्छन्ति इत्यादि सूत्रभाष्यान्ते  पृथगात्मानं प्रेरितारञ्च मत्वेति पृथक्त्वानुसन्धानविधानम् इति। “स्वशरीरात् स्वात्मनोऽधिकत्वानुसन्धानवत् स्वात्मनोऽपि परमात्मनोऽधिकत्वानुसन्धानात् पृथक्त्वानुसन्धानविधानञ्च रक्षितम्” इति च। तस्मात् पञ्चाग्निविदाम् आत्मत्वेन ब्रह्मोपासनसद्भावेऽपि तस्यापि केवलभेदोपासनात्मकत्वात् भेदोपासनस्य मुक्तिसाधनस्याभावनियमे पञ्चाग्निविद्याया अपि मुक्तिसाधनत्वाभावप्रसङ्गो दुर्वार एव।।

        तर्हि  श्रुतप्रकाशिकासूक्तेः कोऽर्थ इति चेत्, अग्निर्माणवकः इतिवत् अयथावस्थितप्राप्तेः संसारतुल्यतया तद् ज्ञापनार्थो गौणोऽयं निर्देशः। अन्यथा भेदोपासनफलतया सर्वसंप्रतिपन्नस्य कैवल्यस्य संसारान्तर्भावज्ञापकेन जीवनमुज्जीवनम्  संसारोन्मोचनम्। समिति कैवल्यव्यावृतिः इति स्ववचनेन साकं विरोधस्य दुरुद्धरत्वापातात्। अपि च,

भेदेन चाप्यभेदेन मिश्रेणैव चतुर्मुख ।

त्रिधैव मुक्तिरुदिता भेदे कैङ्कर्यलक्षणा ॥

मुक्तिर्यथेह लोकेषु परिचर्यापरा नराः।

देवस्य तद्वदेवैते वैकुण्ठे परमात्मनः।।

लोके तस्य समीपस्था मुक्तात्मानस्समाहिताः।
वसन्ति किङ्करास्सन्तः तत्प्रसादपरास्सदा।।

अभेदमुक्तिरत्यन्तमैक्यं स्यात्परजीवयोः।
आत्मनो भावना चैक्ये सोहमित्येवमात्मिका।।

यस्यैवमैक्यतापत्तिः जीवात्मपरमात्मनोः।

सिद्धान्ते मिश्ररूपे तु भेदे स्थित्वार्चनादिभिः।।

तोषयित्वा परं देवं ततो युक्तस्समाहितः।

विज्ञानेनैकतानेन परमात्मनि चिद्घने।।
ऐक्यं प्राप्नोति सा मुक्तिः उक्ता सायुज्यलक्षणा।।

        इति पाद्मसंहिताज्ञानपादाष्टमाध्यायवचनैः भेदाभेदमिश्ररूपमुक्तित्रैविध्यस्य, तासां मुक्तीनां तत्क्रतुन्यायात् तत्तदनुगुणकृतिसाध्यत्वस्य, तत्र भेदमुक्तेः, वैकुण्ठे तु परे लोकेइत्युक्तमुक्तप्राप्यदिव्यनगरावच्छिन्नसामीप्यलक्षणत्वस्य, सर्वलोकसाधारणस्वार्थकैङ्कर्यलक्षणकेवलभेदोपासनादिभगवदाराधनसाध्यत्वस्य च मुक्तकण्ठं प्रतिपादितत्वेन सामीप्यादिभेदमुक्तेः संसारान्तर्गतत्वोक्तिः दुरुक्तिरेव।।

      एतेन

लोकेषु विष्णोर्निवसंति केचित् समीपमिच्छन्ति च केचिदन्ये।

अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः ॥

इत्यत्र सालोक्यादिषु मुक्तित्वाश्रवणमात्रेण तेषां तदनन्तर्भावसिद्धिरिति केषा.

ञ्चित् शङ्का दूरोत्सारिता। “ लोके तस्य समीपस्थाः मुक्तात्मानः” इति

पूर्वोदाहृतवचनेन सामीप्यादेर्मुक्तित्वोक्तेः। “ मोक्षं सालोक्यसारूप्यं प्रार्थये न

कदाचन। इच्छाम्यहं महाभाग सायुज्यं तव सुव्रत।” इति जितन्तावचनेन

सालोक्यादीनामपि मोक्षान्त वसिद्धेश्च।।

न च  “ स तु मोक्ष उक्तः” इति वचन्नैवैतेषां वचनानां बाध

श्शक्यशङ्कः। अन्यथासिद्धस्य बाधकत्वायोगात्। “स तु मोक्ष उक्तः

इत्यस्य अन्यो मोक्षो नोक्त इत:पूर्व तव मयेत्यर्थपरत्वेनाप्यन्यथासिद्धेस्सु.

वचत्वात्। किञ्च  नद्यस्मिन् वचने सालोक्यादिकं न मुक्तिरित्युच्यते।

येनानेन वचनान्तरबाधरशंक्येतापि सायुज्यमात्रस्य मुक्तित्वोक्तिबलेन अन्येषां

मुक्तित्वं न्यायसिद्धमित्युक्तिरपि दुरुक्तिरेव। वचनविरोधे न्यायान

वतारात्। प्रत्युत सत्यपि सालोक्यादीनां मुक्त्यन्तर्भावकण्ठोक्तिदुचवतरे लचैव वाचस्यात्। न पनाहेता जिन्तावचच्योः। पञ्च

स्क प्रमाण इत्युच्यमाणतम श्रीपञ्चरात्रसारवचनस्य, तेनैव तत्र तत्र

स्वच्या विनियुक्तस सिलजितन्ताहयमनुवचनस्य चात्यन्द्राबललया ता.

मामेव नहिरुद्धानां बापनीयत्वात्। तस्मात् भेदोपासनसाध्यायाः भेदमुक्तेः

प्रमाणसिद्धतया प्रामाणिर्दुराहवत्वेन मुक्तिदशक्यतावच्छेदवकोटौ स्वा

भाविकप्रमानुभवत्वस्यापि निवेशे तत्र मुक्तिव्यवहारभङ्गाप्रसङ्गो दुर्वार एवेति।।

ब्रह्मानुभवस्यापि मुक्तिशब्दशक्यतावच्छेदकत्वे ब्रह्मानु

मवविधस्तथा सर्वसंप्रतिपन्ने कैवल्ये मुक्तिशब्दव्यव्हारमङ्गप्रसङ्गो दुर्वार एव।

न चायनिष्टः प्रसङ्गः इति वक्तुं शक्यम्। “ मुक्तानां परमा गतिः” इति

पञ्चनवेदसारभूतसहस्रनामाध्यायवचनात् ‘नुवानामेव केषाञ्चिदर्वाचीना गति

रयते। श्रूयते च निर्मुक्तजरामरणकैवल्यलक्षणा, “जरामरणमोझाय मामा

बित्य यतन्ति ये” इति संसारपरमपदयोनध्ये तेषां स्थानञ्च, “योगिनाममृतं

स्वानं स्वात्मसंतोपकारिणां” इत्यादि तद्भाप्यवचनात्, “स्वात्मानुभूतिरिति

या किल मच्चिा” इति श्रीवत्साकमिश्रवचनात्, “ जीवनमुज्जीवनसंसारो

मोचनम् ; समिति कैवल्यव्यावृत्तिः” इति श्रुतप्रकाशिकाचार्यवचनात्,

‘मुक्तिः कैवल्यनिर्वाण” इति कोशस्द्धिसमाख्याबलाच तत्र प्रामाणिकानां

मुक्तित्वव्यवहारस्य दुरपइयत्वेन तदयोगात् ॥

‘चतुर्विधा मन जना मक्ताः एव हि ते श्रुताः। तेषा

मैयान्तिनः टास्ते चैवानन्यदेवताः। अहमेव गतिस्तेषां निराशीः कर्मकारि

पाम्। ये तु शिष्टाख्यो भक्ताः फलकामा हि ते मताः। सर्वे च्यवनधर्माणः

प्रतिबुद्धन्तु मोक्षमा।” इति वचनैः पूर्वोकवचनानां बापन्शयः। अन्य

.

धारितैः तबाधायोगान्। नात्र ‘कैवल्यं न मोक्षः’ इति कण्ठोक्तिः

भूते। त्रिविधमक्तत्वावच्छेदेन च्यवनधर्मत्वं श्रूयते इति चेत्  किन्तेन !

वैवल्यार्थिनः तत्त्रिक्धिमत्तान्त वासिद्धेः ॥

“ चतुर्विधा भजन्ते मां जनास्सुकृतिनोऽर्जुन।

आता जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥” इति,

गीतोक्त चतुर्विवाधिकारिणामेवात्रापि प्रत्यभिज्ञानात्। तत्र ज्ञानिशब्दनिर्दिष्ट

स्यैवात्र एकान्तिप्रतिबुद्धशब्दाभ्यां निर्देशः इत्यौचित्याद्वक्तव्यत्वेन ज्ञानिव्यति.

रिक्तस्य कैवल्यार्थिनः अत्रोक्तत्रिविधभक्तान्तर्भावः एव सिद्ध्यतीति चेन्न।

“देवान् देवयजो यांति पितृन् यांति पितृव्रताः।

भूतानि यांति भूतेज्याः यांति मद्याजिनोऽपि माम् ॥” इति

श्रीगीतानवमाध्यायोक्तचतुर्विधाधिकारिणामेवात्र प्रत्यभिज्ञानात्। तथाहि

‘चतुर्विधा मम जनाः भक्ता एव हि ते श्रुताः।” इत्यनेन, “येश्यन्यदेवता

भक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥”

इति वचनार्थः प्रत्यभिज्ञायते। “तेषामेकान्तिनः श्रेष्ठाः ते चैवानन्यदेवताः”

इत्यादिना, “अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं ॥” इति वचनार्थः

प्रत्यभिज्ञायते। “ये तु शिष्टारूयो भक्ताः फलकामा हि ते मताः। सर्वे

च्यवनधर्माणः” इत्यनेन,

* अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च।

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥” इति वचनार्थः

प्रत्यभिज्ञायते। “प्रतिबुद्धस्तु” इत्यनेन “अभिजानन्ति तत्त्वेन” इत्युक्त

मभिज्ञानं प्रत्यभिज्ञायते। तस्मान्नवमाध्यायोक्तचतुर्विधाधिकारिणामेवात्र प्रत्य

भिज्ञापकबाहुल्यात् प्रतिबुद्धव्यतिरिक्तत्रिविधाधिकारिणां देवतान्तरपरत्वज्ञापकस्य

“ते चैवानन्यदेवताः” इत्यस्याटमाध्यायोक्तभगवदेकपरचतुर्विधाधिकारिपत्य

भिज्ञाभञ्जकत्वाच नात्र कैवल्यार्थिनः प्रतिपादनमिति नानेन कैवल्यमोक्षान्त

वज्ञापकवचनबाधः इति। अनुगृहीतञ्च यामुनाचार्यैरष्टमाध्यायोक्तानां चतुर्विधाधि

कारिणामैकान्त्यांशे तौल्यम्। “ऐकान्त्यं भगवत्येषां समानमधिकारिणाम्” इति।।

अथास्तु वा अष्टमाध्यायोक्ताधिकारिचतुष्टयस्यैव अत्र प्रत्यभिज्ञानम्।

तथापि नानुपपत्तिः। कैवल्यमुक्तित्वस्य निरपेक्षप्रमाणान्तरसिद्धत्वेन प्रत्यभिज्ञा

दिसापेक्षस्यास्य तद्बाधकत्वायोगात्। उक्तश्च पाझोत्तरखण्डे चतुस्त्रिंशेऽध्याये

“विरजापरमव्योन्नोरन्तरं केवलं स्मृतम्।

तत्स्थानमुपभोक्तव्यमव्यक्तनासेबिनाम् ॥

स्वात्मानुभवजानन्दसुखदं केवलं पदम्।

पर निश्श्रेयसं च निर्वाणं कैवल्यं मोक्ष उच्यते ॥

श्रीशांघ्रिभक्तिसेवैकरसभोगविवर्जितम् ॥

इत्यादिना कैवल्यस्य मोक्षान्तर्गतत्वं। अत्र “निश्श्रेयसञ्च निर्वाणं कैवल्यं मोक्ष

उच्यते “ इति मोक्षवाचकानां बहूनां पर्यायशब्दानां प्रयोगस्य कैवल्यविषय

मुक्तित्वव्यवहारमुख्यतास्थापनेकप्रयोजकत्वेन तस्य मोक्षान्त वो दुरपह्नव एवेति

तत्र तद्व्यवहारभङ्गप्रसङ्गोऽनिष्ट प्रसङ्ग एव।।

अपि च श्रीगीताभाष्ये कैवल्यार्थिप्राप्यविषयस्य “अव्यक्तोऽक्षर

इत्युक्तः तमाहुः परमां गतिम्” इति वचनगतस्याक्षरशब्दस्य “कूटस्थोऽक्षर

उच्यते” इति वचनगतकूटस्थाक्षरशब्दकार्थतया व्याख्यानात्। श्रीवेदान्त

दीपादौ “यूटस्थो मुक्तस्वरूपम् “ इति तद्वचनगतकूटस्थशब्दस्य मुक्तवाचितया

व्याख्यानाच्च कैवल्यं मुक्तिरेवेति सिद्धम् ॥

किञ्च “अक्षरं ब्रह्म परमं “ इत्याद्यष्टमाध्यायवचनभाष्ये कैवल्या

र्थिनां प्रकृतिविनिर्मुक्तात्मस्वरूपस्यैव प्राप्यतया वेद्यत्ववचनात्। आत्मसंबन्धि

भूतसूक्ष्मतद्वासनादीनां त्याज्यतया वेद्यत्ववचनात्। “ मुमुक्षुभिः ज्ञातव्यम् “

इति तेषां मुमुक्षुत्वव्यपदेशाच्च सिद्ध कैवल्यं मुक्तिरेवेति ॥ परञ्च

‘मूर्ध्नि आधायात्मनः प्राणं मनो हृदि निरुद्ध्य च।

यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥”

इत्यष्टमाध्यायवचने “आत्मनः प्राणं मून्याधाय

“ इति मूर्धन्यनाच्या निक

मणावगमेन तस्य “ शतश्चैका च हृदयस्य नायः तासां मूर्धानममिनिम्मतका।

तयो मायन्नमृतत्वमेति इति मोक्षकनियतत्वात् तस्य मूर्धन्यनाडीनिष्कायाप,

कत्वस्य चन्द्रिकायामङ्गीकृतत्वाच्च तहलेन ससिद्धेश्च ॥

कैवल्यार्थितामपुनरावृत्तेः श्रीगीताभाष्ये व्यक्तमनुाहीत.

त्वेन तस्याश्च “ शुमकृष्णे गती ह्येते जगतदशाश्वते मते। एकया यात्यनावृत्ति.

मन्ययावर्तते पुनः” इत्यष्टमाध्यायवचनेन अचिरादिगत्यसाधारण्यसिध्या तस्याश्च

मोक्षासाधारणत्वेन तद्वलेन सिद्धेश्च। तस्मात् कैवल्ये मोक्षव्यवहारस्य प्रामा.

णिकदुरपह्नवत्वेन मुक्तिपदशक्यतावच्छेदककोटी स्वाभाविकब्रह्मानुभवत्वस्थापि

प्रवेशे तत्र मुक्तिव्यवहारभङ्गाप्रसङ्गो दुर्वार एवेति ॥

किश्च  स्वाभाविकब्रह्मानुभवत्वल्य मुक्तिपदशक्यतावच्छेदकान्ताव

वदन् वादी प्रष्टव्यः। “ तस्य किं प्रयोजनम्” इति। न तावत् परमव्यावृत्ति;

प्रयोजनम्। संसारनिवृत्तिस्वरूपभेदमात्रेणैव तत्सिद्धेः। न हि परस्संसारनिवृत्तेः

परमसाम्यलक्षणत्वादिकमभ्युपगम्यते। तदभ्युपगमे वा तन्य भोगल्य मुक्तिपद.

शक्यतावच्छेदकत्वाङ्गीकारमात्रेण न तव्यावृत्तिः सिध्छन्। तेनापि तदभ्युपगम

संभवात्। तस्मात् संसारनिवृत्तिस्वरूपभेदमात्रेणैव परमतव्यावृत्त्या नात्र तत्प्रयो

जनम्। अथ  नापि मोक्षव्यवहारादिप्रसनादिपरिहारः। संसारनिवृत्तम्चन्मते

स्वाभाविकब्रह्मानुभवव्याप्यत्वेन ब्यापकधर्मेण व्याप्यातिव्याप्त्यादिवारणासंभवात्।

नच

न च  केपाश्चिसिद्धान्ते ब्रह्मानुभवरहिते कैवल्यादौ संसारनिवृत्तिसत्त्वेन

तत्रातिप्रसङ्गवारणमेव तस्य प्रयोजनमिति वाच्यम्। तन्मते तत्र मुक्तिव्यवहार

स्थापीष्टत्वेन तदयोगात् ॥

तस्मात् सर्वसंप्रतिपन्न संसारनिवृत्तित्वमेव मुक्तिशब्दशक्यतावच्छेदक,

नान्यदपीति पूर्वोक्तास्त्रधिकरणभाष्यस्य मुक्तिस्वरूपप्रदर्शनमात्रपरत्वात्, अविद्या

निवृत्तिरेव मोक्ष इति जिज्ञासाधिकरणमाष्यमेव मुक्तिशब्दशक्यतावच्छेदकशिक्षणापररिति पूर्वोतं तिरोधाय काचित्सम्बन्धनिवृत्रित्वमेव मुक्तिशब्दशक्य

तावच्छेदकम्। अत्र तिरोधायकत्वं नाम स्वप्रयोज्यत्वसंबन्धावच्छिन्नाधेयता

संबन्धेत तिरोधानविशिष्टत्वम्। तिरोधानं नाम ज्ञानगतस्सङ्कोचात्मकावस्था

विशेषः। तादृशाचित्सम्बन्धनिवृत्तित्वं नाम तादृशाचिन्निष्ठतिरोधायकतावच्छेदको

यस्सम्बन्धः तत्प्रतियोगिकध्वंसत्यम्। तथा च रिजास्नानकालीनसूक्ष्मशरीर.

सम्बन्धध्वंसे लक्षणसमन्वयः। तत्सम्बन्धस्य तदात्मस्वरूपतिरोधायकतायां सूक्ष्मा

चिनिष्ठायामवच्छेदकत्वात्। अत्र बन्धकालीनस्थूलशरीरसम्बन्धध्वंसमादायाति

प्रसङ्गवारणाय तादृशाचित्संसर्गबसे निदशेपत्वमपि विवक्षणीयम्। निश्शेषत्वं

नाम स्वसमानाधिकरणस्वप्रतियोगितावच्छेदकावच्छिन्नासमानकालीनत्वम्। अत्र

स्वपदं ध्वंसपरम् तथा च बन्धकालीनदेहसम्बन्धध्वंसस्य स्वसमानाधिकरणः

समानकालीनश्च यस्सूक्ष्मशरीरसम्बन्धः तस्य स्वप्रतियोगितावच्छेदकीभूतो योऽ

चिन्निष्ठतिरोधायकतावच्छेदकत्वरूपो. धर्मः। तदवच्छिन्नत्वात्। तमादाय

बन्धदशायां नातिप्रसङ्गः ॥

तथा च. स्वसमानाधिकरणतिरोधायकाचित्संसर्गासमानकालीना

चित्संसर्गध्वंसलं मुक्तिशब्दशक्यतावच्छेदकं इत्युक्तं भवति।।

इदन्तु , “चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं” इत्यादि

श्रुतिस्वारस्यानुसारान्मोक्षदशायामात्मनोऽचिद्विश्लेष एव। नाचिदंशध्वंसोऽपीति

पक्षामिप्रायेण संसर्गध्वंसपर्थन्तानुधावनम्। चित्संसृष्टाचिदंशस्य चिद्विश्लेष

एवनाशः इति पक्षे तु तिरोबायकाचिद्धंस एव मोक्षः। स यद्यपि प्रतियोगि

तासम्बन्धेन अचिद्गतः। तथापि दैशिकविशेषणतासम्बन्धेनैव तस्य मुक्त इतिः

व्यवहारप्रयोजकत्वान्नानुप्पत्तिः। चिद्विश्लेषजनितचित्संसृष्टाचिध्वंसस्य चिद

वच्छेदेनैव जायमानत्वात्। अत्रापि संसारदशायामतिप्रसङ्गवारणाय तिरोधाय

काचिदनवच्छिन्नत्वेन ध्वंसो विशेषणीयः। तथाच स्थूलशरीरध्वंसस्य बद्धेषु सूक्ष्मावच्छेदेनैव जायमानत्वात् नातिप्रसंगः। चरमशरीरध्वंसानां शुद्धस्वरूपा.

वच्छेदेनैव जायमानत्वान्नाव्याप्तिरसंभवो वेति सर्वमवदातम्।

यत्तु कैश्चिदुक्तम् , स्वसामानाधिकरण्यस्वसमानकालीनत्योभयसंबन्धेन

कर्मप्रागभावविशिष्टान्यो यः कर्मध्वंसः स्वसामानाधिकरण्यस्वोत्तरत्वोभयसम्बन्धेन

तद्विशिष्टानन्दत्वं मुक्तिपदशक्यतावच्छेदकमिति तच्चिन्त्यम्। विशेष्यवैयर्थ्यात्

विशेषणेऽपि कर्मध्वंसे कर्मविशिष्टान्यत्वनिवेशनेनैव सामञ्जस्ये प्रागभावपर्यन्तानु

धावनवैयर्थ्यात्। चरमकर्मकालीनोपान्त्यकर्मध्वंसमादाय बद्धदशायामतिप्रसङ्गाच्च।

किञ्च उत्थानकाल एव सर्वकर्मध्वंसस्य “साम्पराये तर्तव्याभावात्”

इत्यादि सिद्धत्वेन तद्दशायामतिप्रसङ्गाच्च। न च तदानीं मोक्षव्यवहारः

प्रामाणिकः। “ तदापीतेस्संसारव्यपदेशात्” इति सूत्रेण देशविशेषावच्छिन्न.

ब्रह्मप्राप्तिपर्यन्तं संसारव्यपदेशोक्तेः। तस्मादस्मदुक्तं तिरोधाय काचिदनवच्छिन्न

तादृशाचिद्धसत्त्वरूपसंसारनिवृत्तित्वमेव अनुगतमनतिप्रसक्तं लघुभूतं सर्वसंप्रतिपन्न

चेति तदेव मुक्तिमोक्षादिशब्दशक्यतावच्छेदकं सर्वेरादरणीयं इत्यास्तां विस्तरः॥

ननु  अनेकार्थकल्यनायोगात् भगवच्छब्दवत् मुक्तिशब्दस्यापि कुत्र

चिन्मुख्यत्वं तदन्यत्र गौणत्वमेवेति किमिति नाभ्युपगतमिति चेत् भ्रान्तोऽसि।

न ह्यत्र योगवृत्तिनिमित्चमुच्यते ; येनात्र भगवच्छब्दन्यायावतारस्स्यात्। किन्तु

मुक्तिमोक्षामृतनिर्वाणनिश्श्रेय सादिमुक्तिरूढसर्वपर्यायसाधारणं रूढिप्रवृत्तिनिमित्त.

मेव। यथा शरीरतन्वाकाररूपादिसर्वपर्यायसाधारणं रूढिनिमित्तमपृथक्सिद्धाधा

राधेयभावादिकं तद्वत् ॥

तथा च मुक्तिमोक्षादिशब्दानां कैवल्यादिष्वपि मुख्यतायाः पाद्मोत्तर

खण्डादिसिद्धत्वेन तत्र सर्वत्रानुगतमनतिप्रसक्तं च यत्तदेव मुक्त्यादिशब्दरूढि.

निमित्तं वक्तव्यमिति यथोक्तमेव तदुपपन्नतरमिति सर्व समञ्जसम्।

श्रीवाधूलमहाचार्यचिन्तासन्तानजन्मना।

श्री श्रीनिवासदासेन कृतेयं कृतिरेधताम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.