[highlight_content]

नायमात्मा भाष्यम्

श्रीः

श्रीमते रामानुजाय नमः

मोर्‌मुन्नारय्यपरनामधेय वरदाचार्येण कृता

नायमात्मेति श्रुतिव्याख्या

नायमात्मा भाष्यम्

“नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्य स्तस्यैष आत्मा विवृणुते तनूं स्वाम्” (कठोपनिषत्-२-२३) इति श्रुतिः। अस्या स्त्वर्थोद्वेधा भाष्यकारै रभिहितः। साधनलक्षणस्य द्वितीयचरणे “परमतस्सेतून्मान” (शा-मी-३-२-३०) इत्याद्यधिकरणे “उपपत्तेश्च” (शा-मी-३-२-३४) इति सूत्रस्य विषयत्वेन इमां श्रुतिमुदाहृत्य

अस्या अर्थ स्सङ्ग्रहेण “अनन्योपायत्व श्रवणात्” इत्युक्तः; प्रथमसूत्रे परमपुरुषवरणीयताहेतुगुणविशेषपरत्वेन विस्तरेणेयं श्रुति र्व्याख्याता; उभयविधमपि भाष्यं श्रुतप्रकाशिकाचार्यै र्व्याख्यातम्; तदनुरोधेन तदुभयभाष्यानुगुणं तमिह विस्तृणीमहे। तत्र “अनन्योपायत्वश्रवणात्” इत्यभिवदतो भाष्यकारस्याऽयं भावः- परमपुरुषस्य स्वप्राप्तौ स्वस्यैव साधनत्वम्, नान्यस्येति। तथाहि – श्रुतेः पूर्वार्धेन साधनान्तरस्य भगवत्प्राप्त्युपायत्वं प्रतिषिध्यते, उत्तरार्धेन भगवत एव स्वप्राप्तौ स्वस्यैव साधनत्वमुच्यते। तत्र “नायमात्मा प्रवचनेन लभ्यः” इति प्रवचनपदेन मननं लक्ष्यते; मननफलत्वा- त्प्रवचनस्य, मननस्य आचार्यप्रवचनफलत्वा द्वा, प्रोच्यतेऽनेनेति करणव्युत्पत्त्या वा प्रवचनम्- मननम्। आत्मशब्देन- “आत्मावाऽरेद्रष्टव्य श्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” (बृहदा-) इति श्रुतिगतात्मशब्दः स्मार्यते; अनेन तत्रोक्त श्रवण मनन निदिध्यासनाना मनुपायत्व मुच्यत इति गम्यते। निषेधस्य प्रसङ्गसापेक्षत्वात्। अयमित्यनेन स्वेतरसमस्तवस्तुवैलक्षण्यं विवक्षितम्। तच्च “अमृतस्यैष सेतुः” (छान्दो-) “य आत्मदा बलदा” () “धातुः प्रसादान्महिमान मीशम्” () इत्यादि श्रुतिसिद्धं स्वस्योपायोपेयत्वरूपम्; तदुपपादक मात्मपदम्। “आप्नोतीति ह्यात्मा” ; नियन्तृतया व्याप्यधारक इत्यर्थः। अनेन स्वाधीनाशेष सत्तास्थितियत्नफलत्वं परमात्मनोऽवगम्यते। अनेन जीवात्मनः कर्तृत्वमपि “परात्तु तच्छ्रुतेः” (शा-मी-२-३-४०) इति सूत्रोक्तप्रकारेण परमात्मायत्तमिति सिद्ध्यति, अतः एवंभूतः परमात्मा न प्रवचनेन लभ्यः- लब्धुम्- प्राप्तुम्, योग्यो न भवति; अनेन- योग्यताप्रतिषेधात् नैरपेक्ष्यमेव सिद्धोपायस्य स्वरूप मित्यवगम्यते; “मामेकम्” (गी-१८-६६.) “मामेव” (गी-७-१४) “तमेव” (गी-) “त्वमेव” (भगवच्छा,) इत्यादिवचनात्। नमेधया- मेधाऽत्र निदिध्यासनम्, परिशेषात्। अत्र पृथक् नञ् प्रयोगो हि- श्रवणादीनां पृथक् साधनत्वनिषेधविवक्षया, मेधाशब्देन- अविच्छिन्नस्मृतिसन्तति रूपत्वाऽसकृदावृत्तिरूपत्व ध्रुवानुस्मृतित्वदर्शन समानाकारत्व भक्तिरूपापन्नत्वाद्याकारविशिष्टं मोक्षसाधनभूतं ध्यानं विवक्षितम्। “एवं प्रत्यक्षतापन्ना मपवर्गसाधनभूतां स्मृतिं विशिनष्टि” (श्रीभाष्ये लघुसिद्धान्ते) इत्यत्र भाष्ये ध्यानस्य विशेषान्तरविशिष्टत्वसिद्धिवत् भक्तिरूपत्वविशेषोपि सिद्ध इति मन्तव्यम्, तदानीमेव तस्याऽपवर्गसाधनत्वात्। अत स्तादृशेन मोक्षसाधनतया विहितेन उपासनात्मकेन भजनेन न लभ्य इत्यर्थः। नबहुना श्रुतेनेति – श्रुतमत्र श्रवणम् – मननपूर्वभावि वाक्यार्थावधारणम्। बहुनेति विशेषणेन श्रवणस्य साङ्गसशिरस्क स्वाध्यायाध्ययनजनिताऽऽपात प्रतीतिसञ्जात रागविशेषेण सदाचार्यसकाशमधिगत क्रमविशेषनियामकसङ्गति विशेषविशिष्ट पूर्वोत्तरमीमांसार्थवत्वरूपं पौष्कल्यं विवक्षितम्। तेन न लभ्य इति निर्देशेन – भक्त्युपाङ्गभूत कर्मज्ञानाभ्यामपि न लभ्यत इति सिद्ध्यति। अनेन श्रवणमनननिदिध्यासनानां पृथङ्निषेधेन –

“कर्मज्ञान मुपासनं च शरणव्रज्येति चाऽवस्थितान्

सन्मार्गा नपवर्गसाधनविधौ सद्वारकाद्वारकान्।

एकद्व्याकृति योगसंभृत पृथग्भावानुभावा निमान्

सम्यक्प्रेक्ष्य शरण्यसारथिगिरा मन्ते रमन्ते बुधाः॥”

(अधिकारसङ्ग्रहे)

इत्युक्तप्रकारेणाऽङ्गाङ्गियापार्थक्ये न च मोक्षसाधनत्वं नास्तीति गम्यते। अनेन त्रितयनिर्देशेन- अन्यद्देशवासादिक मप्युपलक्ष्यते। “सर्वधर्मा न्परित्यज्य” (गी-१८-६६) इत्युक्तत्वात्। तर्हि मोक्षोपायः क इत्याकाङ्क्षाया माह – “यमैवैष वृणुते तेन लभ्यः” इति। यमेव चेतन मेषपरमात्मैव वृणुते तेनैव लभ्य इत्यर्थः। यमिति सामान्योक्त्या “समोऽहं सर्वभूतेषु” (गी-९-२९) इत्युक्तप्रक्रियावतरणीयानां जात्याकार स्वभावज्ञानवृत्ता द्युत्कर्षापकर्षतारतम्यराहित्य मभिप्रेतम्। “देवानां दानवानां च सामान्य मधिदैवतम्” इति सर्वसाधारणत्वा द्भगवतः यमेवे त्येवकारेण- भगवदभिप्राय विशेष विषयीकृतत्वहेतुभूत माकिञ्चन्यादिकं यत्पदाभिप्रेत मिति सर्ववरणप्रसङ्गापादन मपोदितं वेदितव्यम्। आकिञ्चन्यम् – इष्टानिष्टसाधनप्रवृत्ति निवृत्तिपरिहारेण स्वरूपेणाऽवस्थानम्। तादृशाधिकारी क्वचिल्लभ्यते। पूर्वं नायमात्मेत्यादिना साधनान्तराणां निषिद्धत्वात्, साधनान्तरराहित्यं वरणीयस्य यत्पदाभिप्रेत मित्यवगम्यते। यमेव- साधनान्तरविरहित मेव। अनेन – अनन्यगतित्वम्

“अविद्यातो देवे परिबृढतयावा विदितया

स्वभक्ते र्भूम्नावा जगति गतिमन्या मविदुषाम्।” (भट्टर्‌मुक्त)

 इत्याचार्योक्त मभिप्रेतम्। एष इति पदेन निरपेक्षोपायत्वं परामृश्यते; तदन्वितेन एवकारेण तन्निरपेक्षोपायत्वं स्थिरीक्रियते।

ननु – कथमुपायस्य निरपेक्षत्वम्; तथासति बन्धस्याऽविशेषेण सर्वमुक्तिप्रसङ्गात्;

वैषम्यनैर्घृण्यादिप्रसङ्गा च्च। “एष एव साधुकर्म कारयति तंयमेभ्यो लोकेभ्य उन्निनीषति” (छान्दो-) इति तु आनुकूल्यव्यवस्थित विषयमित्यभाषि। “रक्ष्यापेक्षां प्रतीक्षते” (पाञ्च-) “कृतप्रयत्नापेक्षस्तु” (शा-मी-२-३-४१) इत्यादिना सापेक्षत्व मनेन प्रतीयते। अद्वेषाभिमुख्यादेः यादृच्छिकादे र्वाऽवश्याङ्गीकार्यत्वात् तैरेव सापेक्षत्वं दुर्निवारमिति चेत्; उच्यते – सर्वकारणस्य सर्वफलप्रदस्य निरवधिकदयस्य निरङ्कुशस्वतन्त्रस्य परमपुरुषस्य शास्त्रचेतने ष्ववस्थात्रय मस्ति- औदासीन्य मनुमन्तृत्वं प्रयोजयितृत्वं चेति; “कर्ता शास्त्रार्थवत्वात्” (शा-मी-२-३-३३) इत्युक्त जीवकर्तृत्वस्य “परात्तु तच्छ्रुतेः” (शा-मी-२-३-४०) इति परमात्माधीनत्वप्रतिपादनेन विधि निषेध शास्त्रानर्थक्यप्रसक्तौ, “कृतप्रयत्नापेक्षस्तु विहित प्रतिषिद्धावैयर्थ्यादिभ्यः” (शा-मी-२-३-४१) इति तत्परिहरणात्। प्रवृत्तस्य प्रवर्तको ह्यनुमन्ता, अप्रवृत्तस्य प्रवर्तकश्च प्रयोजयिता, प्रथमप्रवृत्तिदशायां परस्यौदासीन्यम्, द्वितीयादिप्रवृत्ति ष्वनुमन्तृत्वम्, अत्यन्तानुकूल्यप्रातिकूल्य व्यवसितविषयेषु प्रयोजयितृत्व ञ्चेति विभागः।

 ननु- “अन्तः प्रविष्ट श्शास्ता जनानां सर्वात्मा” (यजु-आर-प्र-३) “य आत्मान मन्तरो यमयति” (बृहदार-५-३) इत्यादिप्रक्रियया परमात्मनो निरङ्कुशस्वातन्त्रेण सर्वप्रवर्तकत्वे जीवस्य स्वाधीनप्रवृत्त्यभावेन कर्मफलभाक्तवं न स्यात्; अत एव विधिनिषेधशास्त्रवश्यत्वं च न स्यात्; परमात्मन स्तत्कर्मसापेक्षप्रवर्तकत्वे तदनुगुणफलप्रदत्वे च निरङ्कुशस्वातन्त्र्यं भजेत; सर्वप्रवृत्ते र्भगवदिच्छाधीनत्वे क्षेत्रज्ञस्य सुखादिभाक्त्वं नस्यात् (भङ्ग्यन्तरेणोपपादनाय पुनरुक्तिः) ; प्रथमप्रवृत्तेः स्वाधीनतया फलभाक्त्वसंभवे तत्र जीवप्रवत्तेः परमात्माधीनतया “परात्तु तच्छ्रुतेः” (शा-मी-२-३-४०) इत्युक्तं व्याहतं स्यात्; उपेक्षकत्वानुमन्तृत्वाभ्यां तादधीन्यसिद्धौ वैषम्यनैर्घृण्यादिप्रङ्गेन तदुभयाभ्युपगमायोगात्; तत्राऽपि कर्मसापेक्षत्वे च पूर्वोक्तदोषः किञ्च – उपेक्षकत्वञ्च – औदासीन्यम्; तच्च-तत्राभिसन्धिविरह इति वक्तुं न शक्यते, सर्वज्ञत्वा त्परमात्मानः अनुमन्तृत्वं च – प्रवृत्तस्य प्रवर्तकत्वम्; तत्राऽहितप्रवर्तकत्वे निवर्तनक्षमस्यापि तद्विषये प्रवर्तकत्वेन तदेन नैर्घृण्यम्; अप्रवृत्वस्य प्रवृत्तकत्व ञ्च- प्रयोजयितृत्वम्; एतच्च – प्रथमप्रवृत्त्यपेक्षया, द्वितीयादिप्रवृत्त्यपेक्षया वा; पूर्वत्र उपेक्षकत्वं न स्यात्, निर्दयत्वादि च स्यात्; उत्तरत्वाऽनुमन्तृत्व प्रयोजयितृत्वयो र्वैषम्यं न स्यात्; प्रयोजयितृत्वकल्पनवैयर्थ्यञ्च।

किञ्च – चेतनस्य प्राथमिकेच्छाप्रयत्नयो रुत्पत्तेः परमात्माधीनत्वाभावे तस्य सर्वकारणत्वं न स्यात्; पुण्यपापप्रवृत्त्यनुगुणेच्छादेः पूर्वकर्मफलरूपत्वेन तत्रकारणत्वाभावे सर्वफलप्रदत्वं च न स्यात्; अत स्तत्रापि कारणत्व मवश्याभ्युपगन्तव्यम्; ततश्च तत्रेश्वर स्सङ्कल्पतः कारणं स्यात्; “अयमिच्छेत्” “अयं प्रयतेत” इति तादृशामोघ तत्सङ्कल्पपरतन्त्रतया जीस्य स्वातन्त्र्याभावात् स्वतन्त्रकर्तृत्वं तन्निबन्धनभोक्तृत्वञ्च न स्यात्; औदासीन्याऽनुमन्तृत्व प्रयोजयितृत्वावस्थानां वैषम्यं च न स्यात्; प्रवर्तनं च परमात्मनोनवायूदकादिवत् प्रेरणेन, अपि त्विच्छाजननद्वारेण; अतो वैषम्य मित्यादिदोषशतोन्मेषेण पूर्वोक्तनिर्वाहो न घटत इति चेत्;

उच्यते – तादृशावस्थात्रयं न कल्प्यते; अपितु- “अन्तः प्रविष्ट श्शास्ता जनानाम्” (यजु-आरण-प्र-३) “अध्यक्ष श्चानुमन्ता च” (जि-स्तो-३) “एष एव साधुकर्म कारयति” (बृहदा-) इत्यादिश्रुतिबला दभ्युपगम्यते। श्रुतिश्च पूर्वोक्तसमस्तदोषपरिहर मभिप्रेत्य तथा वदति, तथाहि- जीवस्वातन्त्र्यं सर्वधा परमात्माधीनम्, स्वासाधारणधर्मत्वात् स्वाधीनं च, द्वयो स्साधारणधनवत्; तत्र भगवदधीनत्वांशे पारतन्त्र्याद्विधिनिषेधाऽगोचरत्वमेव, स्वांशे स्वातन्त्र्यात् विधिनिषेधगोचरत्वोपपत्तिः। अन्यसापेक्षप्रवृत्तावपि विधिनिषेधगोचरत्वं रथाकर्षणादिषु दृष्टम्। ततश्च साधारणद्रव्येपरानुमत्यास्वांशमादाय राज्ञ उपायनेदत्ते तत्प्रसादहेतुकफलान्वयः प्रथमप्रवृत्तस्यैव दृश्यते, न त्वनुमन्तुः, तद्वत् स्वस्यातन्त्र्यांशेन प्रथमत एव पुण्यादिषु परानुमत्या प्रवृत्तस्य जीवस्यैव कर्मपलभाक्त्वम्, न त्वनुमन्तुः परमात्मनः, तस्य नियन्तृत्वात्। “अनश्न न्नन्योऽभिचाकशीति” (ऋग्वे-३-म-१-आ-२२-सू-१६४) इति धर्मिग्राहकबाधाच्च न फलान्वयः। लोकेह्यनुमन्तुः फलान्वयो नानुमन्तृत्वप्रयुक्तः। अतो जीवस्य स्वातन्त्र्यं विधिनिषेधशास्त्रसाफल्यं परमात्मन स्तत्प्रवृत्त्यनुगुणफलदायित्वरूपनियन्तृत्वं फलान्वयश्च सिद्ध्यन्ति।

अथ- अंशे जीवस्य स्वातन्त्र्यात् प्रथमप्रवृत्तौ “अध्यक्षश्च” इत्याद्युक्तं परमात्मन उपेक्षकत्व मुपपन्नम्; अंशे परमात्मनः स्वातन्त्र्यात्, “अनुमन्ता च” इत्याद्युक्तमनुमन्तृत्वं प्रयोजयितृत्वं चोपपद्यते सर्वजीवानां सामान्येन चिच्छक्तिप्रवृत्तिशक्त्योः करणकळेबररूप परिकरलाभस्य च परमात्माधीनत्वात् कर्तृत्वमात्रं परायत्तम्, विशेषकर्तृत्वञ्च परानुमतिसापेक्षत्वात् परायत्तम्, अतो जीवस्य विधिनिषेधगोचरत्वायाऽंशे स्वातन्त्र्यम्, “कर्ता शास्त्रार्थवत्वात्” (शा-मी-२-३-३३) इत्यभ्युपगतम्। तर्हि नियमनश्रुतिसङ्कोचः प्रसजेत्, प्रथममुपेक्षकत्वादिति चेन्न; यावता विधिनिषेधशास्त्रानर्थक्यं परिह्रीयेत तावत्सङ्कोचस्याऽभिमतत्वात्, ततः परं सङ्कोच एवाऽनिष्टः। नच सोऽभ्युपगतः।

किञ्च- सङ्कोच एव नास्ति- तावत्संविच्छक्तिं प्रवृत्तिशक्तिं च दत्वा, शक्तिमत्वेसत्यनिर्वार्यत्वलक्षणं स्वातन्त्र्यं जीवस्याऽपाद्य, आद्यप्रवृत्तौ परस्य तूष्णींभावो न स्वातन्त्र्यवैकल्यावहः, किन्तु तदतिशयावह एव। यथा अमात्यादिषु राज्ञः, नच- जीवस्य स्वातन्त्र्यं पराधीनत्वं चेति व्याघातः; अमात्यस्वातन्त्र्ये तदभावात्; तदभावश्च राज्ञा तत्प्रवृत्तेरनिवारणात्। तस्मा न्नियमनश्रुते रसङ्कोचः।

यदुक्तम्- परमात्मनो जीवकर्मसापेक्षप्रवर्तकत्वे, तदनुगुणफलप्रदत्वे च निरङ्कुषस्वातन्त्र्यं भज्येतेति; तन्न- कर्मणोपि तत्सङ्कल्पाधीनत्वात्, यथासङ्कल्पं कुर्वतस्स्वातन्त्र्यपौष्कल्यमेव भवति। कर्मणोपि भगवदिच्छाधीनत्वं भाष्ये प्रपञ्चितम्- “अनभिज्ञो भवान् पुण्यापुण्यकर्मस्वरूपयोः” (शा-मी-२-२-३-सू,भा) इत्यारभ्य “स बगवान् पुरुषोत्तमः अवाप्तसमस्तकाम स्सर्वज्ञ स्सर्वेश्वर स्सत्यसङ्कल्प स्स्वमाहात्म्यानुगुणलीलाप्रवृत्तः ‘एतानि कर्माणि समीतचीनानि’ इति कर्मद्वैविध्यं संविधाय” इत्यादिना। तर्हि सर्वं कर्म तदिच्छाधीनञ्चेत्, ज्योतिष्टोमादेः पापत्वं ब्रह्महत्यादेः पुण्यत्वं च स्यादिति चेन्न; – अनादिपुण्यापुण्यव्यवस्थायाः भगवदनादिस्वातन्त्र्यनिबन्धनत्वा दिति ब्रूमः। तथाहि-

“वैकुण्ठे तु परेलोके श्रियासार्धं जगत्पतिः।

आस्ते विष्णु रचिन्त्यात्मा भक्तैर्भागवतै स्सह॥” (पाञ्च-)

इत्युक्तप्रक्रियया निरतिशयानन्दयुक्तः परमात्मा स्वमाहात्म्यानुगुणलीलाप्रवृत्त स्सन् स्वलीलोपकरणतया कांश्चिज्जीवविशेषा न्विभज्य, त्रिगुणंकालमपि तदुपकरणत्वेन परिकल्प्य, तेषां चिच्छक्तियोगं प्रवृत्तिनिवृत्तिशक्तियोगं च दत्वा तत्प्रवृत्तिनिवृत्त्यनुगुणपुण्यापुण्यव्यवस्था मपि परिकल्प्य, तद्ज्ञापकत्वेन शास्त्रं च प्रदर्श्य, तत्तत्कर्मसुप्रवृत्तस्य तत्तदनुगुणं सुखदुःखात्मकं फलं च प्रयच्छतीति परमात्मनो जीवकर्मानुगुणप्रवर्तकत्वे तदनुगुणफलप्रदत्वे च न निरङ्कुशस्वातन्त्र्यभङ्ग इति- राज्ञा मक्षादिभिर्द्यूतादिष्विव।

तर्हि सर्वप्रवृत्तेः तदिच्छाधीनत्वे पुण्यपापादिषु तस्यैव प्रवर्तकतया जीवस्य तत्फलभाक्त्वं न स्यात्, ईश्वरस्य निर्दयत्वविषमत्वादिप्रसङ्ग श्चेतिचेन्न; यथा पित्त्रो र्दोषः तदधीनवैभवत्वं च पुत्त्रस्य न हीयते, स्वकर्मानुगुणफलभाक्च स एव भवति, तद्वदेव जीवस्य तदधीनवैभवत्वं स्वप्रवृत्त्यनुगुणफलभाक्त्वं च भवति। परमात्मन स्तु सर्वेषा मविशेषेण युगपत्कलेबरदाना त्सदसद्विवेचकशास्त्रप्रदानाच्च सर्वसमत्वसदयत्वादिसिद्धि श्चेति नकिंचिदवहीनमिति। “करणकळेबरै र्घटयितुं दयमानमनाः” (र-स्त-२-४१) “मानं प्रदीपमिव कारुणिको ददाति” (र-स्त-२-१) इति ह्याचारोक्तिः।

यदुक्तम्- जीवप्रथमप्रवृत्तेः परमात्मानधीनतया तत्र तत्कर्तृत्वस्य परमात्मानधीनत्वं स्यादिति; तदसत्;- आदावेवकरणकळेबरसर्गतत्प्रदानादे श्चेतनसर्वकार्यसाधारणत्वात् पश्चादपि करणकळेबरव्याप्ति तद्धारणतत्सामर्थ्यापादनादे श्च सार्वकालीनत्वाच्च तन्मुखेन प्राथमिकेच्छादे रपि भगवदधीनतया तत्रापि तत्कर्तृत्वस्य परमात्माधीनत्वात्। तत एव प्राथमिकेच्छादावपिकारणत्वा न्न परमात्मन स्सर्वकारणत्वहानिः। अत एव न सर्वफलप्रदत्वहानिश्च।

यच्चोक्तम्- वैषम्यनैर्घृण्यादिप्रसङ्गेन भगवत औदासीन्यानुमन्तृत्वाभ्युपगमायोग इति; तदपि न;- साधारणविशेषोपकारवैषम्येण परिहृतत्वात्। तथाहि- देहेन्द्रियादिवैषम्यस्य भगवदनादिस्वातन्त्र्यव्यवस्थितस्वरूप पुण्यापुण्यरूपकर्मकृतत्वात्, गुणत्रयोद्भवाभिभवरूपविशेषणस्य रुचिवासनाविशेषोन्मेषस्य च तत्तद्देहारम्भकादृष्टवशादेव जन्मकाल एव सिद्धत्वात्, विषयविशेषसन्निधेश्च भोगादृष्टप्रवाहकारितत्वात्, गुणत्रयतारतम्यवासनाविशेषोद्भोधवस्तुस्वभाव विशेषरूपासाधारणकारणसचिवै स्साधारणकारणैः प्राथमिकेच्छानिष्पत्तिः तत एव प्रयत्नश्चेति तयो र्विशेषोपकाराभावा दीश्वर स्यौदासीन्यं युक्तम्। गुणविशेषस्य रुचिविशेषहेतुत्वम्- “आहारा स्सात्विकप्रियाः” (गी-१७-८) इत्यादिवचनै र्मनुष्यादीना मन्नादिष्वन्वयव्यतिरेकश्च सिद्धम्।

ननु- तत्तद्भोगादृष्टस्य फलप्रदानाय विषयसन्निधानादे रपीश्वरकारितत्वात् कथमौदासीन्यमिति चेन्न;- तत्राऽभिसन्धिविरहात्। सर्वज्ञस्य तस्याऽभिसन्धिविरहश्च- सर्वचेतनानां सामान्येन सुखदुःखप्रदानेच्छयैव विषयसन्निधापनात्, नतु साधनान्तरानुष्ठापनेच्छया, घटनिरीक्षणाय प्रदीपमारोपयन् पुरुषः पटार्थिपुरुषान्तरप्रवृत्तौ प्रवर्तकत्वनिवर्तकत्वयोरभावात् तत्रोदासीन एव दृश्यते; अतः प्रथमौदासीन्यमेव युक्तम्। अत एव सर्वज्ञस्या प्यभिसन्धिविरहो युज्यते। अनुमन्तृत्वा दौदासीन्यस्य भेदोऽपि सिद्ध्यति। एवमुदासीनत्वा ज्जीवस्वातन्त्र्यमपि जीवति। द्वितीयेच्छाप्रयत्नादिषु हेत्वन्तरासन्निधावपि तस्याऽपि विषयस्य बुद्धौ सन्निधापनात्, अबिसन्धीयमान विषयसन्निधापनमेव विशेषोपकारः। इदमेव चानुमन्तृत्वम्। एवं भगवतः प्रथमं पुण्यपापयोः प्रयोजयितृत्वं नास्ति- उपेक्षमाणत्वात्; पश्चादनुमन्तृत्व मस्त्येव; क्वचिद्विषये प्रयोजयितृत्व मप्यस्ति। एव मीश्वरस्याऽवस्थात्रययोगः स्वस्वातन्त्र्यविशेषकृत एव; तत्र च प्रमाणमपि दर्शितम्। अनुमन्तृत्वन्तु- प्रथमं हिताहितयोः प्रवत्तस्य केनचिद्विघ्नेन निवृत्तस्य तत्राऽविघ्नेन प्रवर्तनम्; प्रवृत्तस्य केनचिद्विघ्नेन निवृत्तस्य तत्राऽविघ्नेन प्रवर्तनम्; तदनन्तरं च तदनुगुणफलदानम्। तच्च तत्रहिते प्रवर्तन मनुग्रहरूपम्, अहिते तु निग्रहरूपम्। आज्ञातिलङ्घनप्रवृत्तत्वेन कुपितत्वादनुमतिः फलप्रदानं दण्डप्रकार एव। राज्ञ स्स्वशासनातिवृत्तिप्रवृत्तेऽनुमतिवत्।

ननु- अहितप्रवृत्तविषयेऽनुमन्तृत्वे प्रयोजयितृत्वे च भगवतो निर्दयत्वादिप्रसङ्ग इति चेन्न;- अस्थानदयायाः स्थाननिग्रहस्य च लोके गुणत्वदोषत्वदर्शनाभावात्। राजादीनां दण्ड्यादण्डनादे र्दोषत्वं शास्त्रवश्यक्षेत्रत्वप्रयुक्त मिति चेत्, तर्हि तेषा मनुग्रहादेर्गुणत्वमपि तत्प्रयुक्तं स्यात्, तत्त्रैव तयो स्तथात्वदर्शनात्। अतो निर्दयत्वहेतु रनैकान्तिकः। नच निवर्तनक्षमस्याऽपि कथमुपेक्षण मिति शङ्कनीयम्; सामान्येन शास्त्रद्वारा अहितप्रवृत्ते र्निवारितत्वात्। प्रवृत्तिविशेषकाले तु विशेषनिवारकत्वाभावरूपोपेक्षकत्वं स्वातन्त्र्यात्। तादृक्स्वातन्त्र्यस्य दोषत्वं प्रत्यक्षागोचरेश्वराभ्युपगमानभ्युपगमाभ्या माश्रयासिद्धि धर्मिग्राहकमान बाधितमिति श्रुतप्रकाशिकायां प्रपञ्चितम्। वरदगुरुभिश्च तत्वसारे इदं सर्वं श्लोकरूपेण सङ्गृह्य स्पष्ट मभिहितम्-

“दुष्कर्मस्वनिवर्तनानुमनने पुंसः करोत्यच्युत

स्वातन्त्र्येण निरङ्कुशेन सगुणश्रुत्या न दोषो हरेः।

दृष्ट श्चारिषु निग्रहो गुणतया लोके न दोषात्मना

नस्यादाश्रयसिद्धि रौपनिषदं नोचेत्प्रमाणं वचः॥” (तत्वसारे)

इति।

अतो न निर्दयत्वादिप्रसङ्गः। एवमीश्वरस्यौदासीन्य मनुमन्तृत्वं चोपपन्नम्, तयोर्भेदश्च सिद्धः। अत एव जीवस्य स्वातन्त्र्य मप्युपपन्नम्। स्वातन्त्र्यं च स्वेच्छानुगुणप्रवृत्तिनिवृत्तिसामर्थ्ये सत्यनिवार्यत्वम्।

ननु- पूर्ववासना तदधीनेच्छापरवशत्वा द्वायूदकादि प्रेरितस्येव न जीवनस्य स्वातन्त्र्य मितिचेन्न;- इच्छोत्पत्तेः प्रवृत्तिनिवृत्तिसामर्थ्यनाशकत्वाभावात्, ओदनेच्छायां जातायामपि तस्य विषसंपृक्तत्वज्ञानेन तदिच्छानिवारणसामर्थ्य मेव चेतनस्य दृश्यते; काष्ठविक्रयिकस्य महानिधिलाभोपायज्ञानेन तत्संपादनेच्छानिवारणं च दृश्यते; एवं प्रत्यवायस्य अतिशयितफलान्तरस्य वा ज्ञानेसतीच्छान्तरनिवारणसामर्थ्यदर्शनेन पुरुषस्य स्वातन्त्र्योपपत्तेः कर्तृत्वं युज्यते। इष्टतमेषु प्रवर्तकवासनावत् अनिष्टादिषु निवर्तकवासनायाश्च विद्यमानत्वात्; कृत्याऽकरणाऽकृत्यकरणेष्विच्छा निवारणक्षमोऽपि प्रत्यवायाऽनादरेण स्वेच्छां न निवारयतीत्येष एवापराधो जीवस्य दण्ड्यत्वे हेतुः। शास्त्रीयप्रत्यवायादिज्ञानसामर्थ्याभावा त्तिरश्चामशास्त्रवश्यत्वम्। तदानीमपिपरो जीवस्य स्वेच्छानिवारणादिसामर्थ्यं न नाशयति, अतस्तस्य स्वातन्त्र्यम्। ईदृशमेव (ईदृशम्- अनुमन्तृत्वनिर्वचनावसरोक्तम्) विशेषोपकारं प्रथमत एव केषुचि दीश्वरः करोति, तत्र प्रयोजयितृत्व मित्यवस्थात्रयवैषम्यम्। “अल्पानुकूल्येन विपुलापराधसहत्वा द्दयादिगुणानां विषयत्व मिति” (परायत्ताधिकरणे) “अन्यत्र दयाया स्सविषयत्वा दित्यर्थः” (परायत्ताधिकरणे) इति श्रुतप्रकाशिकानुसाराच्च यथोक्तमेव प्रयोजयितृत्वम्। अतोऽत्र पूर्वोक्तचोद्यानवकाशः। एतत्सर्वं

श्रुतप्रकाशिकायां विस्तरेण प्रतिपाद्य पुनरपि कारिकारूपेण सङ्गृहीतम्।

“अत्रायं सङ्ग्रहः- (परायत्ताधिकरणे)

वैयर्थ्यं यावता न स्याद्विधानप्रतिषेधयोः।

नियन्तृत्वश्रुते स्तावान् सङ्कोचो नत्वतः परः॥

बाह्यान्तःकरणव्याप्तितच्छक्त्याधानधारणैः।

साधारणोपकारै स्स्यादिच्छादेः कारणं परः॥

भोगादृष्टोपनीतार्थस्वभावा दावासनान्वितात्।

इच्छादे र्मनसोत्पत्तौ युक्तोदासीनताविभोः॥

अभिसन्ध्यन्तरप्राप्ते वतुन्यन्यत्र केनचित्।

उपयुक्ते प्युदास्तेहि तस्य प्रापयिता पुमान्॥

सामर्थ्ये सत्यवार्यत्वात् स्वतन्त्रो जीव उच्यते।

सह्योदने विषज्ञानात् स्वेच्छामपि नियच्छति॥

सन्निधापकवैधुर्येप्यर्थं बुद्धिस्थतां नयन्।

प्रयोजकोनुमन्ता च भवतीश स्तदा तदा॥

पूर्वप्रवृत्तेश्च फल मनुत्यादिकं भवेत्।

दयादीनां गुणानां च सुलभं विषयान्तरम्॥

अमात्यस्य स्वतन्त्रत्वे राज्ञस्तन्नावहीयते।

एवमेव परस्यापि जीवस्वातन्त्र्यदायिनः॥

न स्वातन्त्र्यं पराधीनस्वरूपा त्प्रच्युतं भवेत्।

स्वातन्त्र्यदायिना पुंसा तत्प्रवृत्त्यनिवारणात्॥

अतो जीवानां स्वातन्त्र्यं विधिनिषेधशस्त्रसाफल्यं परमात्मन स्सर्वकारणत्वं सर्वफलप्रदत्वं निरङ्कुशस्वातन्त्र्यम् अवस्थात्रयवैषम्यं दयादिगुणानां विषयवत्त्वं वैषम्यनैर्घृण्यपरिहार श्चेति सर्व मुपपन्नम्” इति। अतः- एवंविधनिरङ्कुशस्वातन्त्र्यमेव सिद्धोपायस्य भगवतो निरपेक्षत्वम्। “रक्ष्यापेक्षां प्रतीक्षते” (पाञ्च-) “कृतप्रयत्नापेक्षस्तु” (शा-मी-२-३-४१) इत्याद्युक्तं सापेक्षत्वं प्रथमप्रवृत्त्यपेक्षया; तत्र चौदासीन्यहेतुः स्वातन्त्र्य मेवेति पूर्वमेव प्रतिपादितम्। यादृच्छिकादेरपि भगवतैव संपादितत्वात्, तेनैव तस्य सुकृतत्वपरिकल्पनाच्च, तत्सापेक्षत्व मपि भगवदभिप्रायकम्; “तल्लब्ध्वावकाशप्रथमगुरुकृपागृह्यमाणः” () “घुणक्षतलिपिक्रमा दुपनिपातिनः पातिनः” () “निदानं तत्रापि स्वय मखिलनिर्माणनिपुणः” () इति हि वेदान्ताचार्योक्तिः। अतोयमेवैष वृणुत इति श्रुतेर्यथोक्त एवार्थः।

श्रीमद्भागवते चाऽस्या श्श्रुतेरर्थविवक्षयोक्तम्, “येषां सएव भगवान् दययेदनन्त स्सर्वात्मनाश्रुततपो यदि निर्व्यळीकम्। ते दुस्तरा मपितरन्ति च देवमायां नैषां ममाऽह मिति धीः श्वसृगालभक्ष्ये” इति। वृणुते – स्वीकरोति। “ननमेयम्” (रा-यु-३६-११) इति निर्बन्धरूपशासनातिवृत्तिव्यवसायविराममात्रेणाऽनाद्यनन्तकल्पोपचित दुर्विषहाऽनन्ताऽपराधानादरेण “मे भक्तः” इति स्वकीयत्वाभिमानेन “न त्यजेयं कथंचन” (रा-या-१८-३) इति केनचिद प्यविचाल्यतया स्वीकरोती त्यर्थः। तथा चोच्यते – “चितः परमचिल्लाभे प्रपत्तिरपिनोपधिः।

विपर्यये तु नैवास्य प्रतिषेधाय पातकम्॥” () इति, उक्तप्रकारेण तन्निर्हेतुकदयैवाऽऽत्मोज्जीवनकारण मित्युक्तं भवति। तेन लभ्य इति – तेन पुरुषेण स्ववरणीयेन लब्धुं योग्य इत्यर्थः। “ददामि” (गी-१०-१०) “नाशयामि” (गी-१०-११) इत्युक्तप्रकारेण वरणानन्तरं प्राप्तिपर्यन्तं संपादनीयाया अधिकारपूर्तेः भगवतैव संपाद्यत्वात्, योगभ्रंशाद्यभावेन भगवल्लाभपर्यवसान मवश्यं भावीति भावः। अयमर्थ श्श्रुतप्रकाशिकाचार्यैः अखिलेत्यादिभाष्ये भूतशब्दं विवृण्वद्भिः सुव्यक्तमुक्तः- “भगवद्ज्ञानेन लब्धसत्ताकत्वं भूतशब्दार्थः; (श्रीभाष्ये-मङ्गळश्लो-)

‘अस्ति ब्रह्मेतिचे द्वेद। सन्तमेनं ततो विदुः’ (तै-आ)

‘तेषामेवाऽनुकम्पार्थ महमज्ञानजं तमः। नाशया म्यात्मभावस्थः’ (गी)

‘ददामि बुद्धियोगं तम्’ (गी)

‘अहं स्मरामि मद्भक्तम्’ (वराहच-) इत्याद्युक्तप्रकारेण साक्षात्कारविरोधिनिवर्तनादिकं हि भगवत एव ? भर इति न स्वरूपप्रच्युतिसंभवः” इति।

“नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते।

स्वल्प मप्यस्य धर्मस्य त्रायते महतो भयात्॥” (गी-२-४०) इत्युक्तम् अत्र कैमुत्यसिद्धम्।

अथ तस्य कालक्षेपप्रकार माह- “तस्यैष आत्मा विवृणुते तनूं स्वाम्” इति। तस्य – स्वस्वीकृतस्य पुरुषस्य एष आत्मा- स्वीकरणकर्तैव परमात्मा, अत्राऽऽत्मशब्देन, सर्वस्मिन् वस्तुनि भगवदात्मकत्वानुसन्धानेनाऽनुकूलत्वप्रतिपत्ति हेतुभूतसर्वात्मकत्वं विवक्षितम्। स्वांतनूम्- स्वाऽसाधारण मप्राकृतदिव्यमङ्गलविग्रह मित्यर्थः। विवृणुते – प्रकाशयति; “परित्राणाय साधूनाम्” (गी-४-८) इतिवत्, अवलोकनाऽऽलापादिदानेन निरन्तराऽनुभाव्यो भवतीति भावः। अत एवंभूतं भगवतोऽनन्योपायत्व मेव निर्हेतुक मित्यभिप्रायेण “अनन्योपायत्वश्रवणात्” (शा-मी-३-२-३४-भा) इति अस्या अर्थ स्सङ्ग्रहेण भाष्येऽभिहितः॥

धीसारयोर प्ययमेवाऽर्थः प्रतिपादितः। दीपे तावत्- ‘उपपत्तेश्च’ (शा-मी-३-२-३४) ‘अमृतस्यैष सेतुः’ इत्यमृतस्य स्वस्य स्वयमेव प्रापक इति सेतुत्वव्यपदेशोपपत्तेश्च अन्यत्पर मस्तीति कल्पनं युज्यते। ‘नाऽयमात्मा प्रवचनेन लभ्यः – यमेवैष वृणुते तेन लभ्यः’ इति हि श्रूयते इति। सारेपि तत्रैव सूत्रे “प्राप्यस्यैव परमात्मनः प्रापकत्वोपपत्तेः; यथाह ‘यमेवैष वृणुते तेन लभ्यः’ इति। गद्ये – “केवलं मदीययैव दयया” (ग-त्र-१) इति; श्रीरङ्गगद्येच – “देहि मे कृपया नाथ नजाने गतिमन्यथा” इति। तथा पूर्वाचार्यै स्सर्वैरपि भगवद्दयायाः निरुपाधिकत्वं बहुशः प्रतिपादितम्। अतो यथोक्त एवाऽस्या श्श्रुतेरर्थः॥

भाष्ये प्रथमसूत्रे वेदार्थसङ्ग्रहे च भक्तिपरतया यदियं श्रुति र्व्याख्याता; सोप्यस्या श्श्रुतेरर्थो भवति। तर्हि तत्र भक्ते स्साधनत्वप्रतिपादनात् पूर्वोक्ताऽनन्योपायत्वेन विरुद्ध्यत इति चेन्न;- भक्तिस्तु द्विविधा साध्यभक्ति स्साधनभक्तिश्चेति; यद्यपि भक्ते स्साधनत्वांशेन विरोधः, तथाऽपि साध्यभक्ते र्भक्तिस्वरूपस्य च विरोधाभावेन, अनन्योपायस्याऽपि परमभक्तिपर्यन्ताऽधिकारपौष्कल्यसम्पत्तावेव प्राप्तिसिद्धेः, तत्र च कर्मज्ञानभक्तीनां स्वरूपत्यागाभावात्, अधिकारसंपत्तये सर्वेषा मनुष्ठेयत्वाच्च न विरोधगन्धः। “तदधिगमे” (शा-मी-४-१-१३) इत्याद्यधिकरणे “ब्रह्मविद्याप्राप्तौ” इति भाष्यस्य श्रुतप्रकाशिकायां, “ब्रह्मविद्याप्राप्तिः- साक्षात्काराऽवस्थोपासनलब्धि र्विवक्षिता; ‘तस्मिन्दृष्टे-क्षीयन्ते’ () इति हि विषयवाक्यम्- प्राप्तिः – उपक्रमः। विद्याप्राप्तिशब्द स्साधारण्यात् प्रपदननिष्पत्ते रपि द्योतकः” इति व्याख्यातत्वात्, प्रपदननिष्पत्त्यनन्तर मेव सर्वकर्मनिवृत्तिः प्रतिपाद्यते। किंच – भाष्ये प्रतिपादितायाश्च भक्तेः आकारद्वय मस्ति – साधनत्वं फलत्वं चेति; चतुर्थाध्यायारम्भभाष्ये “अथेदानीं विद्यास्वरूपविशोधनपूर्वकं विद्याफलं चिनित्यते” इत्यत्र श्रुतप्रकाशिकाचार्यैः “चतुर्थे फलमेव प्रधानतः प्रतिपाद्यम्, विद्याविषये पूर्वमनिरूपितांशश्च निरूप्यते, अस्य साध्यस्य इदं साधन मिति साध्यसाधनभावसंबन्धज्ञापनार्थं भक्तिरूपापन्नज्ञानस्य प्रीतिरूपतया फलकोटिनिवेशज्ञापनार्थं च” इति भक्ते राकारद्वयं हि प्रतिपादितम्। वेदान्ताचार्यैश्चाऽधिकरणसारावल्याम्, “मुक्तावस्थासमं च स्थिरभजनरसं दातुम्” (अधिकरणसारावली) इत्युक्तम्। “तदधिगमे” इत्यधिकरणभाष्ये च, “उपायभूतोपासनस्य उपास्य निरतिशयप्रियत्वेन स्वयमपि प्रियरूपत्वात् उपेयरूपत्व मप्यस्तीति अत्र तन्निरूपणं कृतम्; ‘दश्यमानो महोरगैः। न विवेदाऽऽत्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः’ () ‘तच्चित्तविमलाह्लादक्षीणपुण्यचय स्तदा’ () इत्यादिभिः प्रीतिरूपं ह्यवगम्यते” इति श्रुतप्रकाशिका। अतो भक्ते राकारद्वयस्य विद्यमानत्वात्, प्रपदनोपायनिष्ठस्य च भक्ते स्साधनत्वाकारमात्रस्य त्याज्यत्वात्, भक्तिस्वरूपस्य तत्प्राप्यत्वाकारस्यचाऽधिकारसंपत्त्यर्थ मत्यन्त मुपादेयत्वात्, प्राप्तिसमये च भगवतो वरणीयेनैव लभ्यत्वात्, वरणीयगुणभूताया भक्तेः प्राप्तिसमयाऽव्यवहित पूरववृत्तित्वावश्यंभावात् अनन्योपायस्याऽप्यधिकारिणः शरीरयात्राशेषतया कर्मज्ञानभजनप्रपदनानां कैङ्कर्यस्वरूपप्काशप्राप्यरुचिस्वरूप याथात्म्यज्ञानेष्वन्तर्भूततया तेनाऽऽकारेणाऽवश्य मनुष्ठेयत्वाच्चाऽस्या एव नायमात्मेत्यादि श्रुते र्वरणीयगुणविशेषपरतया भाष्यकारैर्व्याख्यानं नानुपपन्नम्। अत एवच “तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्ते रन्यत् न मे कल्पकोटिसहस्रेणापि साधन मस्तीति मन्वानः” (ग-त्र-३) इति वदद्भि रेव भष्यकारैः, “स्थानत्रयोदितपरभक्तियुक्तं मां कुरुष्व; परभक्तिपरज्ञानपरमभक्त्यैकस्वभावं मां कुरुष्व” (ग-त्र-१) “आदाय भक्तियोगाख्यं रत्नं सन्दर्शयामि” (ग-त्र-३) इति चाऽभिहितम्। “नित्यकैङ्कर्यप्राप्त्युपायभूत भक्तितदुपायसम्यग्ज्ञानतदुपायसमीचीनक्रिया तदनुगुणसात्विकताऽऽस्तिक्यादि समस्तात्मगुणविहीनः” (ग-त्र-२) इति स्थलान्तरे तैरेवोक्तम्। अन्यैश्चाभियुक्तैः, “एतावन्तं सन्दधानम्” () इत्यारभ्य “तां देवभक्तिरूपां कुरुष्व मे। परभक्तिं परज्ञानं परमां भक्तिसम्पदम्। आविष्कुरु” इत्यादिना “यावत्प्राप्त्यनुवर्तनम्” इत्यन्तंप्राप्तेः पूर्वकालावश्यंभाविना मधिकार पौष्कल्यार्थप्रार्थना कृता। अतोऽस्याश्श्रुतेः “अनन्योपायत्वश्रवणात्” इत्यादि भाष्यदीपसारगतवाक्यानां च सिद्धोपायतत्स्वरूपतत्कृत्यपरतया न परस्परविरोधगन्धः॥

तथा च प्राप्तिपूर्वक्षणभाविभक्तिपरत्व मस्याश्श्रुते र्वेदार्थसङ्ग्रहे स्फुटतरं प्रतिपादितम्। “तदेव ध्यानं पुनरपि विशिनष्टि (वे-स-११०७) ‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्य स्तस्यैष आत्मा विवृणुते तनूं स्वाम्’ इति भक्तिरूपापन्नाऽनुध्यानेनैव लभ्यते परः पुरुष इति। यथोक्तं भगवता- ‘पुरुष स्सपरः पार्थ भक्त्या लभ्य स्त्वनन्यया’ (गी-८-२२) ‘भक्त्या त्वनन्यया शक्य अहमेवंविधोर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप’ (गी-११-५४) ‘भक्त्या मामभिजानाति यावान् यश्चाऽस्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’ (गी-१८-५५) इति। तदनन्तरं मां तत एव भक्ते र्विशत इत्यर्थः। भक्ति रपि निरतिशयप्रियाऽनन्यप्रयोजनस्वेतरवैतृष्ण्यावहज्ञानविशेष एवेति तद्युक्त एव तेन परेणाऽऽत्मना वरणीयो भवति तेन लभ्यत इति श्रुत्यर्थः” इति, “यथोदितक्रमपरिणतभक्त्यैकलभ्यः” (वे-स-११-२७) इति च। तत्रैवाऽन्यत्र “सोऽयं परब्रह्मभूतः पुरुषोत्तमः निरतिशयपुण्यसञ्चयप्रक्षीणाऽशेषजन्मोपचितपापराशेः, परमपुरुषचरणारविन्दशरणागतिजनित तदाभिमुख्यस्य, सदाचार्योपबृंहितशास्त्राधिगत तत्त्वयाथात्म्यावबोधपूर्वकाऽहरहरुपचीयमानशमदमतपश्शौचक्षमाऽऽर्जव भयाऽभयस्थानविवेकदयाद्यहिंसाद्याऽऽत्मगुणोपेतस्य, वर्णाश्रमोचितपरमपुरुषाराधन नित्यनैमित्तिककर्मोपसंहृति निषिद्धपरिहारनिष्ठस्य, परमपुरुषचरणयुगळन्यस्ताऽऽत्माऽऽत्मीयस्य तत्प्रीतिकारिताऽनवरतस्तुति नमस्कृति यतनकीर्तनश्रवणवचनध्यानाऽर्चनप्रमाणादिप्रीतपरमकारुणिकपुरुषोत्तम प्रसादविध्वस्तस्वान्तध्वान्तस्य, अनन्यप्रयोजनाऽनवरतनिरतिशयप्रियविशदतमप्रत्यक्षतापन्नाऽनुध्यानरूपभक्त्यैकलभ्यः” (-वेस-) इति च। अस्यार्थश्च एतच्छ्रुतप्रकाशिकायां विस्तरेण द्रष्टव्यः॥

ननु- प्रपदनस्य सर्वाधिकारत्वात् वेदान्तविहिताया भक्तेश्चाऽधिकृताधिकारत्वात् कथं प्रपदननिष्ठे कर्मज्ञानाङ्गकभक्त्यनुष्ठानम्; यद्यपि त्रैवर्णिकेषु संभवति, तद्व्यतिरिक्तेषु न कथञ्चिदपि संभवति; अन्यथा अपशूद्राधिकरणन्यायविरोध स्स्यात्। प्रपदननिष्ठभक्ते र्व्यक्त्यन्तरत्वे वेदान्तविहितत्वाभावेन तदनुष्ठानं कामकारस्स्यात्; “कामाद्गोप्यः” (भाग-पु) इत्याद्युक्तभक्तिश्चेत् तस्या अपि पूर्वोक्तदोषः; तत्कथ मस्मिन्नधिकारिणि तदनुष्ठान मिति; उच्यते;- उपनयनाङ्गस्वाध्यायाध्ययन तदर्थश्रवणतन्मननसहकृत ध्रुवानुस्मृतित्वदर्शनसमानाकारत्वभक्तिरूपापन्नं यज्ञादिकर्माङ्गकं यद्ध्यानं तदधिकृताधिकार मेव; यत्तु जन्मान्तरसंस्कारवशा द्विदुरादिषु दृष्टम्, तत्र नाऽपशूद्राधिकरणनयविरोधः; यच्च केषुचिद्व्यक्तिविशेषेषु कर्मज्ञानस्थानीयभगवन्निरङ्कुशस्वाततन्त्र्यजनितदयाविशेषेण भक्ति र्जायते, तस्य भक्तिरूपापन्नज्ञानस्य सर्वाधिकारत्वात्, स्मर्यमाणात्यर्थप्रियत्वकृतप्रियत्ववत्तया प्राप्यरूपत्वात्, सिद्धोपायकार्यत्वेन च सत्वात्, तस्मिंश्चाऽहरहरनुष्ठीयमानत्वाऽभ्यासाधेयादिशयत्वाऽऽप्रयाणानुवर्तमानत्वाऽनवरतस्मृतिसन्ततिरूपत्वस्वस्ववर्णोचित कर्मदानतपोऽनशनाऽर्चनस्तुतिश्रवणकीर्तनयतनप्रभृति कर्मतत्सहकृताऽऽत्मयाथात्म्यज्ञानतदुभयहेतुभूत भगवच्चरणारविन्दशरणागतिप्रभृत्यङ्गकत्वादीनां विद्यमानत्वात्, अस्य सर्वस्योपायफलत्वेन साधनान्तरत्यागवचनविरोधाभावात्, ईदृश्या एव भक्तेः “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।

मामेवैष्यसि युक्त्वैव मात्मानं मत्परायणः॥” (गी-९-३४)

इति गीताशास्त्रे विहितत्वात्, तत्र च “समोऽहं सर्वभूतेषु” (गी-९-३४) इत्यारभ्य, “स्त्रियो वैश्या स्तथा शूद्राः” (गी-९-३२) इति सर्वाधिकारत्व स्योक्तत्वाच्च। एवंविधभक्तिपरतया च नायमात्मेत्यादिश्रुतिव्याख्यानं युज्यते॥

तथा च श्रीमद्गीताभाष्ये “ममेमं परम मतिलोकं स्वभावं शृणु” (गी-९-२९-भा) इतीमं श्लोक मवतार्य, “देवतिर्यङ्मनुष्यस्थावरात्मनाऽवस्थितेषु जातितश्चाऽऽकारतस्स्वभावतोज्ञानतश्चाऽत्यन्तोेत्कृष्टाऽपकृष्टरूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वेन समोऽहम्” इति गीताशास्त्रप्रतिपादितभक्ते स्सर्वाधिकारत्वं प्रतिपादितम्। इदं च भाष्यं वेदान्ताचार्यै र्भक्त्यधिकारिप्रतिपादनपर मिति तात्पर्यचन्द्रिकायां व्याख्यातम्- “अथ भक्तियोगाधिकारिप्रशंसनपरे समोऽह मिति श्लोके तु जात्याकारादितारतम्याऽनादरेण भक्तै स्स्वस्यैकरस्य मुच्यते” इत्यादिना विस्तरस्तु तत्रैव द्रष्टव्यः। एतच्छ्लोकभाष्यस्य चन्द्रिकायामेवाऽस्या स्सर्वाधिकारत्वे अपशूद्राधिकरणनयविरोधाभाव मभिप्रेत्य तिर्यगधिकरणविरोधाभावः, अस्याः कर्माङ्गकत्वसंभवः, जात्याद्यपकर्षस्याऽनिन्द्यात्मकत्वं च प्रतिपादितानि;- “तिरश्चामपि गजेन्द्रवानरेन्द्रादिषु पुण्याधिक्यनिबन्धनज्ञानविशेषवत्सु प्रथितम्; तस्मान्न तिर्यगधिकरणविरोधः” इति। अनेन – अपशूद्राधिकरणन्यायविरोधविरहोप्यभिप्रेतः। “स्त्रियो वैश्या स्तथा शूद्राः” इति शूद्राणाम प्यधिकारप्रतिपादनात्; “सत्वजातिप्रतिनियतधर्मैः भजनात् नाऽपकृष्टजातिनिर्देशविरोधः” (गी-९-२९-भा-चन्द्रि) इति च; “एवं समाश्रयणीयवरणस्वीकारयो र्जात्युत्कर्षो न किञ्चित्कर इत्युक्तम्” (गी-९-३०-भा-चन्द्रि) इति च। “मां हि पार्थ” (गा-९-३२) इत्यादिश्लोकभाष्ये च “स्त्रियो वैश्याश्शूद्राश्च पापयोनयोऽपि मां व्यपाश्रित्य परां गतिं यान्ति” इति सर्वाधिकारत्वं व्यक्त मुक्तम्। अत्र सर्वत्र समाश्रयणपदं भजनपर मिति “भक्त्यधिकारिप्रशंसनपरे” इति चन्द्रिकावाक्येन भजस्वेत्युत्तरश्लोकस्थभजनशब्देन (गी-९-३३) च ज्ञायते। अत्राऽपि चन्द्रिका – “जन्मत एव पापिष्ठानां जात्याद्यपकर्षेपि स्वसमाश्रयणमात्रेण फलसिद्धिं प्राक्प्रस्तुतां प्रपञ्च्य” इत्यादि। “अपिचेत्” (गी-९-३०) इत्यादिश्लोकभाष्ये च बहूक्तम्। “पत्रं पुष्पम्” इत्यादिश्लोकभाष्ये चचन्द्रिका – “य इति सामान्यनिर्देशेन – सापराधनिरपराध जडाऽजडादिविभागं न पश्यामीत्याद्यभिप्रेतम्” इत्यादिका। वेदार्थसङ्ग्रहे च, वरणीयगुणभूतायाभक्तेः प्राप्त्यव्यवहितपूर्वकालवृत्तित्वनियमम्, “यो मुमुक्षु र्वेदान्तविहितवेदनरूपध्यानादिनिष्ठः, यदा तस्य तस्मिन्नेवाऽनुध्याने अनवधिकातिशया प्रीति र्जायते, तदैव तेन लभ्यते परः पुरुषः” (वे-स-११११) इति प्रतिपाद्य, अस्या एव भक्तेः कर्मज्ञानानुगृहीतत्वम् “एवंविधपरभक्तिरूपज्ञानविश्ष स्योत्पादकः (वे-स-११२०) पूर्वोक्ताऽहरह रुपचीयमानज्ञानपूर्वककर्मानुगृहीतभक्तियोग एव; यथोक्तं भगवता पराशरेण – ‘वर्णाश्रमाचारवता पुरुषेणपरः पुमान्।

विष्णु राराध्यते पन्था नाऽन्य स्तत्तोषकारकः॥’

(वि-पु-३-८-९) इति। निखिलजगदुद्धरणायाऽवनितलेऽवतीर्णः परब्रह्मभूतः पुरुषोत्तमः स्वय मेवैतदुक्तवान् –

‘स्वकर्मनिरत स्सिद्धिं यथा विन्दति तच्छृणु।

यतः प्रवृत्ति र्भूतानां येन सर्वमिदं ततम्॥

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः।’

(गी-१८-४५) इति यथोचित क्रमपरिणतभक्त्यैकलभ्य एवेति भगवद्बोधायनटङ्क द्रविडगुहदेव कपर्दिभारुचिप्रभृत्यविगीत शिष्टपरिगृहीतपुरातनवेदवेदान्तव्याख्यान सुव्यक्तार्थश्रुतिनिकरदर्शितोऽयं पन्थाः” इति सम्प्रदायपरम्परानिर्देशपूर्वकं विस्तरेणोपपन्नं प्रतिपादितम्। अत्र सामान्येन “कर्मानुगृहीतभक्तियोग एव” इत्युक्तम्; नतु यज्ञाद्यनुगृहीतेति। अत एव स्वजातिप्रतिनियतधर्म एव विवक्षितः। उदाहृतवचने – “वर्णाश्रमाचारवता पुरुषेण परः पुमान्” (वि-पु-३-८-९) इत्यविशेषेणोक्तम्, नतु द्विजे नेति। भगवतश्च “निखिलजगदुद्धरणायाऽवनितलेऽवतीर्णः इति” विशेषणेन स्वोपदिष्टभक्ते र्निखिलजगदुद्धरणहेतुत्वं भगवतो विवक्षित मिति गम्यते। तद्वचनेन “स्वकर्मनिरतः-मानवः” इति सामान्येनोक्तम्; नतु यज्ञादिनिरतो द्विज इति। “यतः प्रवृत्तिः” (गी-१८-४६) इत्यादिना च सर्वेषा मप्यविशेषेण स्वाराधकत्वं स्वस्य च सर्वै राराध्यत्वं च गम्यते। स्वकर्मणा – स्वस्वजातिप्रतिनियतकर्मणे त्यर्थः। अस्मिन्नर्थे मन्दमतीनां विप्रतिपत्तिशमनाय संप्रदायप्रदर्शनं कृतम्। अयमेवाऽर्थो नवमेऽध्याये, “मन्मना भव” (गी-९-३३) इति श्लोकेन भगवतोपदिष्ट इति भष्यकारै रादितःप्रभृति गीताभाष्ये प्रपञ्चितः। तत्सर्वं विमत्सरैः प्रमाणपरतन्त्रैः साराऽसारवद्भि र्गरीयोभिः तत्रैव द्रष्टव्यम्॥

“मन्मना भव” (गी-९-३३) इत्यादिश्लोकभाष्ये चाऽयमेवाऽर्थः स्फुटतरं प्रतिपादितः। तथाहि – “भक्तिस्वरूप माह” इति “मन्मनाः” इत्यादिश्लोक मवतार्य, मन्मना इत्यत्राऽस्मच्छब्दस्य विवक्षित मर्थं “सर्वेश्वरेश्वरे” इत्यारभ्य “सर्वस्वामिनि” इत्यन्त मुक्त्वा “तैलधाराव दविच्छेदेन निविष्टमना भव” इति मनश्शब्दार्थ उक्तः। अस्यास्तु सर्वाधिकारभक्ते र्वेदान्तोदितत्वज्ञापनायैव तद्भाष्यचन्द्रिका – “निदिध्यासितव्यः” (बृ-उ-) “ध्यायीत” () “ध्रुवा स्मृतिः” () “आवृत्ति रसकृदुपदेशात्” (शा-मी-४-१-१) “इत्याद्यनुसन्धानेन मनश्शब्दस्याऽत्र ध्यानाख्यमनोवृत्ति विशेषविषयता माह” इति। मद्भक्तशब्दस्याऽपि भाष्यम् – “तदेव विशिनष्टि, मद्भक्तः – अत्यर्थमत्प्रियत्वेन युक्तो मन्मनाभवे त्युक्तः” इति। अस्याऽपि चन्द्रिका- “यमेवैष वृणुते तेनलभ्यः” इति “श्रुत्युपबृंहणता मभिप्रेत्याह” इति। एवं मद्भक्तशब्दार्थविषयतया श्रुति मुदाहरता चन्द्रिकाकारेणाऽस्या श्श्रुतेः प्राप्यरुचिभूतसाध्यभक्तिपरत्वं भाष्यकारै र्विवक्षित मिति स्फुटीकृतम्। मद्याजिपदभाष्यवाक्येषु यजनशब्दस्य पूर्वोक्तभक्तिरूपानुगुण मर्थमाह – “यजनं नाम – परिपूरणशेषवृत्तिः; औपचारिक सांस्पर्शिकाभ्यवहारादि सकलभोगप्रदानरूपो हि यागः” इति। अस्यापि चन्द्रिका – “भक्तिस्वरूप विशेषनिष्कर्षपरत्वात् तदसाधारणशास्त्रविशेषप्रतिपादित पूजाविश्षपरोयं यजनशब्द इत्यभिप्रायेणाऽऽह – यजनं नामेति। शेषवृत्तिः – कैङ्कर्यम्।इदं च – ‘पत्रं पुष्पम्’ (गी-९-२६) इत्यादिना प्रदर्शितस्य भगवच्छास्त्रप्रपञ्चितस्य सङ्ग्रहशासनम्; अतोऽत्र यजिः दर्शपूर्णमासादिविषय इति न भ्रमितव्यम्; ‘यज-देवपूजायाम्’ (भ्वा-उभ-सक-अनि) इत्येव च पठ्यते; ‘देवता मुद्दिश्य द्रव्यत्यागो यागः’ इति चाहुः; अग्निहोत्रादिव्यतिरिक्ते ष्वपि पञ्चमहायज्ञादिषु यजि र्निरूढः। अन्यत्राऽपि- ‘कृष्णो रिज्यते………’ () इत्यादयः प्रयोगाः, अतोऽत्र भगवच्छास्त्रप्रपञ्चितविषयोऽयं यजि रित्यभिप्रायेणाऽऽह औपचारिकेत्यादि” इति। “यज्ञदानेन” (बृहदा-६-४) इत्यादिश्रुतौ यज्ञशब्दस्य कैङ्कर्यपरत्व मपि विवक्षितम्। दानादिकन्तु सर्वसाधारणम्; एतदभिप्रायेण हि श्रुतप्रकाशिकायाम्- “अन्तरा चापि” (शा-मी-३-४-३६) इत्यधिकरणे “आश्रमधर्मानुपपत्तौ वर्णधर्मै रनुग्रह इत्यर्थः” इत्युक्तम्। अतोऽस्या भक्तेः “यज्ञेन” इत्याद्युक्तं कर्माङ्गकत्वं च न विरुध्यते। ज्ञानाङ्गकत्वं च – “स्थावरेष्वपि शापादिजातेषु क्वचिद्ज्ञानं महर्षयः कथयन्ति, ततश्च मनोवृत्तिरूपसमाश्रयणं तत्रापि संभवेदेव” इति तात्पर्यचन्द्रिकावाक्योक्तप्रकारे णोपपद्यते। अतः यामुनाचार्योक्तम्- “उभयपरिकर्मित स्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगैकलभ्यः” (आत्मसिद्धौ-) “स्वधर्मज्ञानवैराग्यसाध्यभक्त्यैकगोचरः” (गीतार्थसङ्ग्रहे-१-) इत्यादिक मप्युपपन्नतरम्। मत्परायणपदभाष्यं च- “अहमेव परमयनं यस्याऽसौ मत्परायणः, मया विनाऽऽत्मधारणाऽसंभावनया मदाश्रय इत्यर्थः” इति। अत्रापि चन्द्रिका- “एषैव भक्तेः परमा काष्ठा प्राप्ते रव्यवहितपूर्वभाविनीति फलाभिलाषज्ञापनार्थो मत्परायणशब्द इत्यभिप्रायः” इति। अत्राऽस्या भक्तेः प्राप्यरुचिरूपत्वं स्फुटतर मुक्तम्। एतच्छ्लोकनिगमनभाष्ये च सर्वं स्फुटतरं प्रतिपादितम्- “तदेवं लौकिकानि शरीरधारणार्थानि वैदिकानि नित्यनैमित्तिकानि कर्माणि मत्प्रीतये मत्प्रियो मच्छेषतैकरसः मयैव कारित इति कुर्वन् सततं मत्कीर्तनयतनस्तुतिनमस्कारादिकान् मत्प्रीत्या कुर्वाणः मन्नियाम्यं निखिलं जगत् मच्छेषतैकरस मित्यनुसन्दधानोऽत्यर्थमत्प्रिय मद्गुणगणं चाऽनुसन्धायाऽहरहरुक्तलक्षण मुपासनमुपाददानो मामेव प्राप्स्यसि” इति। अस्यापि चन्द्रिका – “अथ सुखग्रहणायाऽध्याय प्रधानाार्थभूत साङ्गोपाङ्गफलशिरस्कभक्तिस्वरूपं सङ्क्षेपेण निष्कृष्य वदन्नुपसंहरति” इत्यादिका। तैवोक्तलक्षणप्रतीक मुपादाय “अनन्यप्रयोजननमस्कारादि प्रेरकमदेकधारकत्वदशापर्यन्तनिरतिशयप्रीतिरूप मित्यर्थः” इति तद्विवृतम्। अत्र सर्वाधिकाराया स्साध्यभक्तेरपि वेदान्तोदित समस्ताकारविशिष्टत्व मविशिष्ट मिति भाष्यचन्द्रिकाकृतोभावः, अत एव एवंभूतभक्त्यभिप्रायेण हि पूर्वैः प्रपदनपरतया योजिताया द्रमिडोपनिषदो भक्तिपरतया भाष्यकारयोजन मितःपरे सर्वेप्याचार्या अङ्गीकुर्वन्ति। अपशूद्राधिकरणविरोधः – तस्या उपनयनाद्यपेक्षवेदान्तवाक्यैकजन्यत्वपक्षे; न पुनः “दिव्यं ददामि ते चक्षुः” (गी-११-८) इतिवत् भगवत्प्रसादविशेषेण वा, गीतोपदेशादिवत् कृष्णद्वैपायन शुकशौनकशठजित्प्रभृति महापुरुषोपदेशेन वा विदुरादिवत् पूर्वजन्मसुकृतविशेषेण वा जन्यते। अत एकस्या एव भक्तिव्यक्ते स्साधनत्वसाध्यत्व वेदान्तवाक्यजन्यत्वोपदेशादिजन्यत्वाऽधिकृताधिकारत्व सर्वाधिकारत्वयज्ञाद्यङ्गकत्वस्वस्ववर्णानुगुणकर्मज्ञानाङ्गकत्वरूपाऽऽकार

वैषम्येप्यहरहररनुवर्तमानत्वाऽभ्यासाधेयातिशयत्वाऽऽप्रयाणा दनुवर्तमानत्वध्रुवानुस्मृतित्वदर्शनसमाकारत्व प्रीतिरूपापन्नत्व ध्यानार्चनप्रणामस्तुतियतनकीर्तनाङ्गकत्वादीनां साधारण्यात्, अस्या श्चाऽनन्यसाध्यतयाऽनन्यप्रयोजनतया चाऽधिकारपौष्कल्यसिद्ध्यर्थं प्राप्ते रव्यवहितपूर्ववृत्तित्वरूपसाधनत्वव्यपदेशोपपत्त्या च, प्रथमसूत्रव्याख्याने नायमात्मेत्यादिश्रुते र्भक्तिपरतया व्याख्यानस्य, तृतीयाध्यायोक्ताऽनन्योपायत्वपरतया व्याख्यानं न विरोधावह मिति। विनियोगपृथक्त्वेनाऽर्थद्वयप्रतिपादकत्ववर्णनं श्रुते र्न विहन्यत इति सर्व मुपपन्नम्। अतः कामकारत्वदोषप्रसक्तिशङ्काऽत्र नाऽवतरति॥

अथास्या श्श्रुते र्भक्तिपरतया प्रतिपदार्थ स्तु श्रुतप्रकाशिकायां विस्तरेणोक्त इति कृत्वा तेन विरोधपरिहाररूपतया प्रतिपदार्थोपि तदभिप्रायानुसारेण किञ्चि ल्लिख्यते। तथा हि- “एवं प्रत्यक्षतापन्ना मपवर्गसाधनभूतां स्मृतिं विशिनष्टि” इत्यवतार्य “नायमात्मा” इत्यादिश्रुति मुदाहृत्य “अनेन” इत्यादिना “तेनैव लभ्यते पर आत्मेत्युक्तं भवति” इत्यन्तेन भाष्येण साश्रुति र्व्याख्याता भाष्यकारैः; भाष्यार्थोपि श्रुतप्रकाशिकायां प्रपञ्चितः; उभयत्रापि पूर्वोक्ताऽनन्योपायत्वप्रतिपादनस्य नकोपि विरोधो दृश्यते। ननु – “अपवर्गसाधनभूतां” इति भाष्यं विरुध्यत इति चेन्न; अनन्यसाधनेप्यधिकारिणि भक्तेः प्राप्तेः पूर्ववृत्तित्वरूपसाधनत्वस्याऽधिकारपौष्कल्यार्थतया वक्तुं शक्यत्वात् भाष्ये स्वतः प्रपदनाधिकारी नविवक्षित इति चेन्न;- “नानाशब्दादिभेदात् प्रपदनभजने सूचिते सूत्रकारैः” () “नानाशब्दादिभेदा दितितु कथयतासूत्रकारेण सम्यक् न्यासोपासेविभिन्नेयजनहवनवत् शब्दभेदा दभाक्तात्” (न्यासविंश-१०) इति वेदान्ताचार्यैः स्वतः प्रपदनस्य सूत्रकारविवक्षितोक्त्या भाष्यकारविवक्षाऽभावप्रतिपादनानुपपत्तेः। किञ्च – श्रुतप्रकाशिकायाम् अखिलेत्यादिभाष्यविवरणे “विशेषेण नताः प्रह्वीभूताः – विनताः – न्यासोपासनात्मकाऽशेषविद्याविशेषनिष्ठाविवक्षिताः” इत्युभयविधाधिकारिप्रतिपादनेन भाष्यस्य सर्वस्य प्रपदनाधिकारिविवक्षा विहिता। ततःप्रभृति श्रुतप्रकाशिकाया मापादचूड मुभयविधाधिकारिविवक्षा तत्र तत्र बहुशो द्रष्टव्या। अतोऽस्मिन्नधिकारिणि वेदान्ताचार्योक्तप्राप्तिपूर्ववृत्तित्वरूपार्थविवक्षया “अपवर्गसाधनभूताम्” इति पदं न विरुध्यते। अत एव एतत्पदव्यावर्त्यं प्रतीकोपासन मित्युक्तं श्रुतप्रकाशिकाचार्यैः- “अपवर्गसाधनभूता मिति प्रतीकोपासनव्यवच्छेदः” इति। नायमात्मेत्यादिपदानां पूर्वव दर्थः। अत्र प्रवचनमेधाश्रुतानां भक्तेरपेक्षितत्वेपि तत्तावन्मात्रसिद्ध्या अधिकारपौष्कल्यं न सिद्ध्यतीत्यभिप्रायेण भाष्ये – “केवलश्रवण” इत्याद्युक्तम्। अत एव “श्रवणमनन निदिध्यासनानां वक्ष्यमाणविशेषविरहिताना मित्यर्थः” इति श्रुतप्रकाशिकायां व्याख्यातम्। तत्रापि नकिञ्चि द्विरोधः प्रतीयते; तावन्मात्रेण प्राप्तिसिद्ध्यभावात्, तत्रापि मात्रशब्दसिद्धिः – “न पृथिव्या मग्नि श्चेतव्यः” (यजु-का-५-प्र-२) इतिव द्द्रष्टव्यम्। “यमेवैष आत्मा वृणुते तेनैव लभ्य इत्युक्तम्” इति भाष्यन्तु पूर्वोक्तार्थानुगुण मेव। तथापि- “प्रियतम एवहि वरणीयो भवति” “यस्याऽयं निरतिशयप्रियः स एवाऽस्य प्रियतमो भवति” इति च भाष्यद्वयं विरुध्यत इति चेन्न; अस्यां योजनायां वरणशब्दस्य न स्वीकीरमात्र मर्थः, किन्तु “क्षणेपि ते यद्विरहोतिदुस्सहः” (स्तो-र-५६) इत्युक्तप्रकारेण तस्मिन् भगवतो निरतिशयप्रीतिः; सा च भगवतः स्वाश्रितवरणार्थपुण्यक्षेत्र तदुपहृतपत्रपुष्पादितत्संबन्धिपदार्थपर्यन्ता; एतत्सर्वं श्रुतप्रकाशिकायां विस्तरेणोक्तम्। अत एवंभूतनिरतिशयप्रीत्या भगवतः स्वाश्रितसंश्लेषणं तस्य स्वस्मिन्निरतिशयप्रीतिमत्वरूपाधिकारपौष्कल्ये सत्येव सम्भवतीति “प्रियतम एवहि वरणीयो भवति” इत्युक्तम्। तदुपपादकम् – “यस्यायम्” इत्यादिभाष्यम्। एवंसत्येव तमप्प्रत्ययनिरतिशयपदयोः स्वारस्यम्, अत एव श्रुतप्रकाशिकायाम् – “चेतनत्वे सति भगवता वरणीयत्वं निरतिशयप्रीति मतएव” इत्युक्तम्। भाष्योदाहृतगीतावचनस्य चाऽयमेवाऽभिप्रायः। अत्र चेतनस्य भगवद्भक्तिमत्वोपाधिना तत्प्रीतिविषयत्वं चेद्विवक्षितम्, अकृतप्रत्युपकारन्यायेन परमपुरुषस्य निरुपाधिकसुहृदोपि हेयपुरुषसाधर्म्यात् वात्सल्यादिगुणाकरत्वं हीयेत; ज्ञानिशब्देन प्रियशब्दस्य पौनरुक्त्यं च; प्रथमम् “ज्ञानिनः” इत्युक्तत्वात् अधिकारः प्रतिपादितः, “प्रियोह्यहम्” इति पश्चादधिकारपौष्कल्यम्, “स च ममप्रियः” इति तदनन्तरं वरणीयत्व मिति गम्यते। अत्र च शब्द एवार्थे; स एव मम प्रियः – तदानी मेव प्रियो हि स इत्यर्थः। तेषा मित्यादिश्लोके (गी-१०-१०) च सततयुक्तानामिति प्राप्यत्वरा विवक्षिता; सततयोगम् – नित्ययोगम् – प्राप्तिम्, काङ्क्षमाणानामिति ह्यस्यार्थः। “भजताम्” इत्यनेन – प्राप्यत्वरया निरन्तरभजन मुच्यते – “प्रीतिपूर्वकं ददामि” इत्यन्वयः। “आत्मभावस्थः” इत्ययं वरणप्रकारः; तस्याऽनुषङ्गिकव्यापारो बुद्धियोगदानं अज्ञानजतमोनाशनं च; तदुभयं न वरणप्रकारान्तर्गतम्। भजता मित्यनेन भगवत्प्रियत्वहेतुप्राप्तिपूर्वभाविभजन मुक्त ञ्चेत्, “येन मामुपयान्ति – तं बुद्धियोगं ददामि” इत्यसङ्गतं स्यात्, तमोऽपि नाशयामीत्यपि तथा स्यात्; अतोऽत्र बुद्धियोगो नाम – ऐकान्तावहाऽप्रच्युताऽध्यवसायः; अज्ञान मपि तद्विरोधि; इदमु भयं निरन्तरमानससाक्षात्कारेण सिद्ध्यतीत्यात्मभावस्थपदाभिप्रायः। एवंभूतयोः प्राप्यकोट्यन्तर्भूतत्वज्ञापनपरम् – “स्मर्यमाणात्यर्थप्रियत्वेन स्वय मप्यत्यर्थप्रिया” इति भाष्यम्; “स्मर्यमाणस्य भगवद्विषयस्य निरुपाधिकस्य निरवधिकानुकूलत्वेन तद्विषयास्मृति रपि निरतिशयानुकूला भवति” इति अस्य श्रुतप्रकाशिका। अतोऽत्र भाष्ये न कुत्रापि “अनन्योपायत्वश्रवणात्” इति भाष्यस्य विरोधो दृश्यते। एवंभूतनिरतिशयप्रीतिमान् यदा भवति, अय मधिकारी तथा परमात्मनो वरणीयो भवति, तदानी मेव तेन वरणीयेन लभ्यते – प्राप्यते परमपुरुष इति “यमेवैष वृणुते तेन लभ्यः” इत्यस्यार्थः॥

अत्र भाष्ये “तस्यैष आत्मा विवृणुते तनूं स्वाम्” इत्ययमंशो न व्याख्यातः, पूर्वोक्तानुरोधेनाऽस्याऽर्थ उच्यते; – तस्य तादृशवरणीयस्य, एष आत्मा – तस्मि न्निरतिशयप्रीतिमान् परमात्मा, स्वां तनुम् – स्वासाधारणविग्रहजातम्, विवृणुते – “पश्यामि देवांस्तव देव देहे” (गी-११-८) इत्यादिप्रक्रियया प्रत्यभिसन्धानार्हम्, “पश्य मे योगमैश्वरम्” (गी-११-१५) इति प्रकाशयतीत्यर्थः। अयमेव बुद्धियोगदानरूपो वरणप्रकारः। अस्मिन्नेव शरीरे स्वरूपरूपगुणविभवचेष्टितादी न्यतीतानागतानि वर्तमानानि च, देशान्तरकालान्तरविप्रकृष्टान्यपि समानकालीनवत् समानदेशीयवत् सन्निकृष्टवत्प्रकाशयन्ननुभावयतीति तात्पर्यम्। एतत्प्रतिबन्धकाऽज्ञाननिरसनम् – “वि” इत्युपसर्गेण विवक्षितम्। तदेव तमोनाशनम्। अयमेव प्रकारो वेदार्थसङ्ग्रहे श्रीमद्गीताभाष्ये च कण्ठतः प्रतिपादितः। अतः न कस्यचित् केनचित् विरोधः, अतोऽस्याः नायमात्मेत्यादिश्रुतेः, निर्हेतुकभगवद्विषयीकारपरता, सिद्धोपायकृत्याधिकारपरता, सिद्धोपायकृत्याधिकारपौष्कल्यरूपभक्तिपरता च भाष्यकारेणोक्ता, पूर्वाचार्यै स्सर्वै रप्यविगानेन सर्वोज्जीवनहेतुतया च बहुषु प्रबन्धेषु सर्वत्र प्रतिपादितेति सर्वत्र द्रष्टव्यम्। श्रीमद्गीतार्थसङ्ग्रहे – यामुनाचार्यैः (अत्र पङ्क्तिर्दळिता) “कृपया केवलम्” (सो-र-४८) “मदीयैव कृपया” () “नयतस्ते प्रसादतः” () “कुरुष्व मामनुचरं दयया” () इत्यादिपूर्वाचार्यसूक्तिशतं द्रष्टव्यम्। विशिष्यवेदान्ताचार्यैः, द्रविडोपनिषत्सारे तात्पर्यरत्नावल्याञ्च, द्रविडोपनिषदाचार्यविवक्षितत्वेन तत्रतत्र निर्हेतुकत्वं प्रतिपादितम्। द्रविडोपनिषत्साराख्यप्रबन्धे प्रथमश्लोके “निरुपधिकसुहृत्” (द्र-सा-१) इति, “पञ्चमाद्यै रनितरगतिताम्” (द्र-सा-२) “फलमसौ फलावाप्तेर्हेतु स्स्वय मिति च निर्धार्यशतकैः” (द्र-सा-९) “अनन्योपाय स्तद्दृढयति” (द्र-सा-११) “निरवधिकनिर्हेतुकदयासरित्स्रोतः पद्मं शरणयति नाथस्य चरणम्” (द्र-सा-११) “दयानिघ्नम् – शरण्यं दीनीनाम्” (द्र-सा-१२) “अनाद्यन्तानन्तस्वरसकरुणानन्द इति नः प्रणेतुर्व्यापारः प्रपदनपिपासार्ह उदितः – चिरविघटितस्वात्मघटनस्फुरच्छक्तिम्” (द्र-सा-१३) “निदानं सिद्धीनां निरुपधिसुहृत्त्वं गणयति” (द्र-सा-१९) “स्वसंबन्धाद्गोप्ता” (द्र-सा-२०) “निरुपधिकसौहार्दपिशुनैः” (द्र-सा-२१) इति बहुशः; तात्पर्यरत्नावल्यां च “निरुपधिसुहृद्भावतः… स्वसिद्धे स्स्वयमिवकरणं श्रीधरः” (द्रमिडो-तात्प-८) “निरुपधिसुहृदम्” (द्रमिडो-तात्प-११५) “अव्याजोदारभावात्” (द्रमिडो-तात्प-१२) “श्रीमान् सीमातिलङ्घिस्थिरतरकरुणः” (द्रमिडो-तात्प-११७) “तत्प्रसादाद्युपाये” (द्रमिडो-तात्प-११८) इत्यादिभि र्निर्हेतुकविषयीकारः प्रपञ्चितः। इतरदिव्यसूरिप्रबन्धे ष्वपि अयमर्थः स्फुटतरः प्रतिपादित इति नाऽत्राऽऽस्तिकाग्रेसराणां विप्रतिपत्ति र्जायत इति सर्वं समञ्जसम्॥

श्रीमद्भागवते दशमस्कन्धे –

“येषां सेव भगवान् दयये दनन्त स्सर्वात्मनाश्रितपदो यदि निर्व्यळीकम्।

ते दुस्तरा मपितरन्ति च देवमायां नैषां ममाह मितिधी श्श्वसृगालभक्ष्ये” (भागवते-१०) इति श्लोकेस्फुटतरं प्रत्यपादि। भगवानित्यनेन – उपायत्वोपेयत्वोपयोगिगुणजातं विवक्षितम्, स इति तथात्वे प्रसिद्धि र्द्योत्यते, एवकारेण – तस्य निपेक्षोपायत्वम्, अतोस्य दयाया नकश्चिद्व्याजोस्तीति भावः। येषां दययेत् – यमेवैष वृणुते, येषामिति – भगवच्छासनातिवृत्तिव्यवसायनिवृत्तिमात्रवता मित्यर्थः; अयमर्थः “अनन्योपायत्वश्रवणात्” इति भाष्येणोक्तः अनन्तपदेन – सर्वत्र सर्वदा सर्वान्तर्यामित्वेन स्थितत्वात्, दयाकरणस्य उचितसमयदेशसन्निधानं विवक्षितम्। “सर्वात्मनाश्रितपदः” इत्यनेन “मातापिता” (सुबालो-) इत्यादि “गति र्नारायणः” (सुबालो-) “वासुदेव स्सर्वम्” (गी-७-१९) इत्याद्युक्तप्रकारेण भगवति निरतिशयप्रीतिमत्तया तच्चरणारविन्दशरणागत इत्यर्थविशेषोऽभिप्रेतः। अनेन – भगवन्निरेतुकदयाफल मधिकारपौष्कल्यम् “प्रियतमः” इत्यादिप्रथमसूत्रभाष्योक्त मभिहितम्। “श्रितप्रदः” इति समाश्रयणं दयाहेतुत्वे नोच्यत इति चेन्न; श्रितपदो भगवानिति योजनायां पदशब्दस्य वैयर्थ्यात्; दययेदिति योजनाया मपि यदि शब्दपौनरुक्त्यम्, लिङैव यदि शब्दार्थलब्धेः; व्यवहितान्वय श्च; अतः श्रितपदो यदीत्येव योजना; अनन्तश्रितपद इति योजनायां सन् इत्यध्याहारः। निर्व्यळीकम् – अकौटिल्येनेत्यर्थः। उपायाऽपायान्वयोऽत्र कौटिल्यम्। ते इत्युक्तपरामर्शः दुस्तराम् – “मम माया दुरत्यया” (गी-७-१४) इत्याद्युक्ताम्;

“अनन्त स्सर्वात्मनाश्रितपदो यदि निर्व्यळीकम्।

ते दुस्तरा मपितरन्ति च देवमायाम्॥” इति वचनव्यक्त्या

“दैवी ह्येषा गणमयी मम माया दुरत्यया।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते” (गी)

इति गीतावचनं स्मर्यते। च – एवार्थे; तरन्त्येवेत्यर्थः। देवः-क्रीडापरः, माया-प्रकृतिः; अनेन संसारोऽभिप्रेतः। दयये दित्यस्य, सर्वमुक्तिप्रसङ्गपरिहारार्थम्, “ननमेयम्” (रा-यु-३६-११) इति निर्बन्धाभावमात्र मपेक्षित मित्यभिप्रायेणाऽऽह, (नैषामित्यादि) श्वसृगालभक्ष्यः-देहः; ममाऽह मितिधीः नेति-अहङ्कारममकारनिवृत्ति रुच्यते। नेति-तस्यानिश्शेषनिर्वृत्ति र्विवक्षिता। एषा मिति सन्निहितपरामर्शात् – इदमपि दयाफलं मायातरणात्मक मिति ज्ञायते। संसारबीजभूतत्वादहन्ताममताधियोः।

तन्निवृत्तिः फलं साक्षात् दयोदयकरी च सा॥ (अत्र एका पङ्क्तिरस्फुटाक्षरा)

श्वसृगालभक्ष्य इत्यनेन देहभोगस्य तद्भोगपरवशानां च हेयत्वं द्योतत इति सर्व मनवद्यम्॥

इति मोर्‌मुन्नारय्यपरनामधेय वरदाचार्येण कृता

नायमात्मेति श्रुतिव्याख्या

समाप्ता

अनन्तदेशिकगुरो स्तनयं तत्त्वविद्वरम्।

वात्सल्यशीलजलधिं वन्दे वरददेशिकम्॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.