[highlight_content]

नित्यविभूतिपरिच्छेदः

नित्यविभूतिपरिच्छेदः

*नित्यविभूतेर्लक्षणप्रमाणयोर्निरूपणम्*

     अथास्य नित्यविभूतिरुच्यते । त्रिगुणद्रव्यव्यतिरिक्तत्वे सति सत्त्व-वत्त्वम् , स्वयम्प्रकाशत्वे सति सत्त्ववत्त्वम्, तमोरहितत्वे सति सत्त्व-वत्त्वम्, निश्शेषाविद्यानिवृत्तिदेशविजातीयान्यत्वम्, इत्यादि तल्लक्षणम् ।

*आदित्यवर्णम् तमसः परस्तात्*, *तेह नाकम्* *क्षयन्तमस्य रजसः पराके* *यो अस्याध्यक्षः परमे व्योमन्* *तदक्षरे परमे व्योमन्* *सहस्रस्थूणे विमिते दृढ उग्रे* इत्यादिभिस्तत्सिद्धिः । एवञ्च सति *तद्विष्णोः परमम् पदम् सदापश्यन्ति सूरयः* इत्यत्रापि व्यतिरेक-निर्देशबलात् स्वरूपाद्भेदे सिद्धे पदशब्दस्वारस्यात्, सदादृश्यत्वबलाच्च सदापश्यदनेकद्रष्टृविशिष्टस्थानविशेषसिद्धिः । अगत्या च विशिष्टविधिः *यदाग्नेयोऽष्टाकपालः* इतिवत् । प्रपञ्चितश्चायम् स्थानविशेषो मोक्षधर्मे *एते वै निरयास्तात ! स्थानस्य परमात्मनः* इत्यादिभिः ।

*नित्यविभूतेरानन्त्यनिरूपणम्*

सा च विभूतिः केनचित्प्रदेशेनानन्ता, केनचित्तु अवच्छिन्ना । आनन्त्यतमःपरत्वयोः श्रुतयोरवर्जनीयत्वात् । आनन्त्यमात्रसाम्येऽपि अनन्त-त्रिगुणादपीयमधिकतरा;  न्यूनाधिकभाववचनात्, अनन्तेष्वेव मिथस्तारतम्यस्य सिद्धत्वात् । देशेऽपि निदर्शयामः । आदित्यादूर्ध्वमपि गगनदेशोऽनन्तः, भूमण्डलादनन्तरः, पाताळादनन्ततम इति । पाद-त्रिपादव्यपदेशश्च तदविषयोऽपि तद्देशतारतम्यस्यानुग्राहको भवति । अयञ्च विभागो न समचतुर्भागाभिप्रायः; *बुद्ध्यर्थः पादवत्* इत्युक्त-त्वात् ॥

*नित्यविभूतेः अचेतनत्व स्वयम्प्रकाशत्वादिनिरूपणम्*

अचेतना चेयम्; जीवेश्वरकोटिविलक्षणत्वात् । स्वयम्प्रकाशा च । *तत्रा- नन्दमया लोका भोगाश्रानन्दलक्षणाः*, *आनन्दम् नाम तम् लोकम् परमानन्दलक्षणम्* * तयोर्नौ परमव्योम निर्द्वन्द्वम् सुखमुत्तमम्* *षाड्गुण्यप्रसरो नित्यस्वाच्छन्द्याद्देशताम् गतः* इत्यादिसामर्थ्यात् । तथा *किमात्मिकैषा भगवतो व्यक्तिः* इति प्रश्ने *यदात्मको भगवान्* इति च सामान्यत उत्तरे कृते, पुनः *किमात्मको भगवान्* इति प्रश्ने *ज्ञानात्मकः इत्याद्युत्तरमुक्तम् । अतो दिव्यमङ्गळविग्रहस्य ज्ञानात्म-कत्वात् तद्द्रव्यात्मिकायाः सर्वस्या नित्यविभूतेर्ज्ञानात्मकत्वमुचितम् । ज्ञानात्मकत्वञ्चात्र स्वयम्प्रकाशत्वमेव । ज्ञानत्वेऽप्यात्मवत् अस्या निर्विषयत्वाकर्तृत्वे युक्ते । परस्मैभासमानत्वाच्च धर्मभूतज्ञानवत् पराक्त्वमुपपन्नम् । सुषुप्त्यादिकाले धर्मभूतज्ञानवत् बन्धकाले सा न प्रकाशते । तदा तु तद्वदेव ज्ञानविषयतयैव तत्सिद्धिः । बन्धरहितानाम् मतिवैभवे सत्यपि सा तन्निरपेक्षा; आत्मस्वरूपवत् । ज्ञानविषयत्वेऽपि स्वयम्प्रकाशत्वमपि अन्यत्राप्यभ्युपगतम् ।

एके तु निरतिशयदीप्तियोगात् ज्ञानावारकत्वाभावादेश्च स्वयम्प्रकाश-त्वज्ञानत्वादिव्यपदेशः; अत्यन्तानुकूलरूपरसगन्धादियोगाच्च आनन्द-सुखादिव्यपदेश इत्याहुः ॥

*नित्यविभूतेर्विविधरूपताया निरूपणम्*

*नित्यविभूतिः पञ्चोपनिषत्प्रतिपाद्यपञ्चभूतेन्द्रियमयी

इति निरूपणम्*

इयञ्च पञ्चोपनिषत्प्रतिपाद्यपञ्चभूतेन्द्रियमयी नित्यमुक्तेश्वराणा-मिच्छानुरूपशरीरेन्द्रियप्राणविषयरूपेणावतिष्ठते । त्रिगुणवदियमपि चतुर्विम्शतितत्त्वात्मिकेति केचित् । तथापि न तत्त्वानाम् प्रकृति-विकृतिभावः । दिव्यमङ्गळविग्रहादेर्नित्यत्वश्रवणात् । अप्राकृतानामपि महदादीनाम् सद्भाव आकाशादिवत् । न हि आकाशाद्युपात्तास्तत्र वाय्वादयः । तत्र च शरीरादीनाम् सम्स्थानादीनि प्रायशः प्राकृततुल्यानि । शरीराणाम् शुभाश्रयादीनाम् पाण्यादिमत्त्वश्रवणात् तत्रेन्द्रियसद्भाव-सिद्धिः । चक्षुरादिशब्दानाम् च प्रयुक्तानाम् गोलकादावमुख्यत्वात् । *इन्द्रियच्छिद्रविधुरा द्योतमानाश्च सर्वशः* इत्यादिवचनमुत्सर्गाप-वादनयेन कर्मकृतेन्द्रियप्रतिक्षेपपरम्; *अशरीरम् वाव सन्तम्* इत्यादिषु कर्मकृतशरीरादिप्रतिषेधवत् । *अभावम् बादरिः* इत्यधिकरणे *किम् मुक्तस्य देहेन्द्रियाणि सन्ति* इति चिन्तितत्वात् भूतेन्द्रियरूप-षोडशतत्फलसद्भावो भाष्यकारैरेव सूचितः । भट्टपराशरपादैश्च ईश्वरादीनाम् मनस्सद्भावो दर्शितः । यथा *यद्यप्येवम् तर्कः स्वातन्त्र्येण स्वान्तसमर्थनासमर्थः, तथापि आगमानुग्रहेण प्रभवति । सन्ति चागमाः *मनसैतान् कामान् पश्यन् रमते* *मनोऽस्य दिव्यम् चक्षुः* *सोऽन्यम् कामम् मनसा ध्यायीत* *मनसैवजगत् सृष्टम्* *एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च* इत्येवमादयः परावरप्रकरणेषु इति स्वयमु-क्तत्वात् । *बुद्धिरेवेदम् मन इति मतान्तरमाचार्याणाम्; बुद्धिमान् मनस्वी इत्यविशेषनिर्देशात्, क्षुभितम् मे मनः, प्रशस्तम् मे मन इति तदवस्था-परोक्ष्याच्च* इति मतान्तरमुक्तम् ।

विषयाश्चात्र भूषणायुधासनपरिवारायतनोद्यानवापिकाक्रीडापर्वतादयो-ऽतिविचित्रा नित्याः । केचित्तु कृतका अनित्याश्च । सन्ति हि तत्रापि तरुषु पल्लवकुसुमफलादयः परिणामाः, नदीषु फेनतरङ्गबुद्बुदादयः, विग्रहे च व्यूहविभवादयः । कालकृतकर्मा-धीनपरिणाममात्रम् हि तेषु निषेध्यम्, न तु भगवत्सङ्कल्पमात्रकृतमपि । तदेवम् शरीराण्यपि कानिचित् नित्यानामीश्वरस्य च नित्येच्छापरिग्रहात् नित्यानि । कानिचिदनित्ये-च्छापरिग्रहादनित्यानि । मुक्तानाम् तु कृतकान्येवानित्यान्यपि । ते हि कदाचिदशरीराः कदाचिच्च सशरीरा इति भाष्यादिषु प्रदर्शितम् । इन्द्रि-याणि तु तत्रत्यानि सर्वाण्यपि नित्यानि, तत्रत्यव्योमादिवदेवोपादान-निरपेक्षत्वात् । तत्र कानिचित् नित्यैः, ईश्वरेण, च नित्यपरिगृहीतानि, कानिचित् कदाचित् परिगृहीतानि । मुक्तैस्तु तत्परिग्रहः शरीरवत् कादाचित्क एव । नित्यमुक्तानाम् शरीरादिपरिग्रहो भगवदभिमत-तत्कैङ्कर्यरूपभोगाय । भगवतोऽपि स्वभोगाय, स्वशेषभूतनित्य-मुक्तानन्दनाय, मुमुक्षूपास्यत्वसिद्धये च । स च भगवतः स्वसङ्कल्पादेव । मुक्तनित्यानाम् तु कदाचित् परमपुरुषमात्रसङ्कल्पात्, कदाचित् परमपुरुषसङ्कल्पानुविधायि स्वसङ्कल्पाच्च । तथा च सूत्रम् *तन्वभावे सन्ध्यवदुपपत्तेः, भावे जाग्रद्वत्* इति ॥

*मुक्तनित्येश्वराणाम् कादाचित्केच्छा-

सङ्कल्पादिहेतुनिरूपणम्*

*ज्ञानस्य नित्यत्वैकत्वप्रतिपादनम्*

ननु नित्यस्यैकस्यैव ज्ञानस्य सम्सारदशायाम् कर्मणा सङ्कोच-विकासभेदात् सुखदुःखेच्छाद्वेषादिरूपावस्थाभेद उपपन्नः, ईश्वरस्य विपाकदशापन्नजीवकर्माख्य सहकारितारतम्यात् विषमत्रिगुणपरिणाम-हेतवः सन्तु नाम सङ्कल्पाः, अप्राकृतविचित्रदेहादिपरिणामेषु कर्मकाला-द्युपाधिविधुराणाम् सङ्कोचविकासरहितसमस्त वस्तुगोचरधियाम् मुक्त-नित्येश्वराणाम् कथम् कादाचित्केच्छासङ्कल्पतत्कृतानन्दादि ज्ञाना-वस्थाविशेषा घटन्ते? उच्यते ।

उल्लेखभेदाः क्रमशः सन्ति सर्वज्ञसम्विदि ।

न चेत्कार्येषु भूतैष्यद्वर्तमानादिधीः कथम् ॥

कर्माद्युपाध्यभावेऽपि मुक्तादीनाम् प्रवर्तते । इच्छासङ्कल्पदेहादिरीश्वरेच्छाविशेषतः ॥

ईशेच्छायास्तु वैषम्यम् व्यष्टौ कर्मविशेषतः ।

समष्टौ गुणवैषम्यात् तन्मूलात्कालतोऽपि वा ॥

कालस्य तादृशावस्था क्षणादीनाम् प्रवाहतः ।

सोऽप्युपाधिप्रवाहाद्वा यद्वा पूर्वक्षणादितः ॥

उपाधिभिः क्षणाद्यैर्वा पूर्वैरुपहितत्वतः ।

तेषूत्तरेषु हेतुः स्यादिच्छासन्ततिरैश्वरी ॥

अप्राकृतविचित्रार्थसिसृक्षा विषमा तु या ।

साऽपि प्रवाहानादित्वात् नोपाध्यन्तरमीक्षते ॥

इच्छासङ्कल्पसृष्टीनाम् चक्रवद्वा प्रवर्तनात् ।

स्यादीशबुद्ध्यवस्थानाम् तत्र बीजाङ्कुरक्रमः॥

आगमैरैश्वरीम् शक्तिम् अतर्क्यामुपगच्छताम् ।

ईशस्य तत्तत्सृष्ट्यादौ सहकार्यन्तरेण किम् ॥

अनित्यमपि विज्ञानमीशस्यास्तीति केचन ।

तदा त्वप्राकृताक्षादेस्तद्विकासोपयोगिता ॥

यथोक्तम् वरदविष्णुमिश्रैः *ईश्वरज्ञानस्य अनित्यस्य सर्वविषयनित्य-ज्ञानगृहीतग्राहित्वात्* इति । अतः सिद्धम् नित्यानित्येच्छाभेदात् ईश्वरा- देर्नित्यानित्यशरीरादिमत्त्वम् ।

*ईश्वरशरीरे सूक्ष्मव्यूहविभवादिभेदानाम्

निरूपणम्*

ईश्वरशरीरे च सूक्ष्मव्यूहविभवादिभेदाः श्रीमत्पञ्चरात्रादिभिः प्रपञ्चिता अवगन्तव्याः । सङ्ग्रहस्तु; सूक्ष्मम् केवलषाङ्गुण्यविग्रहम् वासुदेवाख्यम् परम् ब्रह्म पूर्वोक्तम् । परस्मिन्नेव शान्तोदितनित्योदितविभागोऽपि भाव्यः । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धरूपो व्यूहः । उत्तरोत्तरः पूर्वपूर्व-कारणकः । तत्र वासुदेवे ज्ञानादिगुणाः षडपि आविर्भूताः । सङ्कर्षणादिषु त्रिषु शास्त्रप्रवर्तनसम्हाराद्यौपयिकगुणद्वन्द्वत्रयोन्मेषेण चतुष्कमनाविर्भूतम् । सर्वे ते सर्वत्र सन्त्येव । एषाञ्च प्रत्येकमवान्तरावतारा अनन्ताः । पद्मनाभमत्स्यादिदशकादयो विभवभेदाः । स्वयम्व्यक्तदैवार्षादयस्तु अर्चावतारभेदाः । दैवादिष्वपि विशिष्टप्रतिष्ठानन्तरम् प्रसादोन्मुखेश्वर-सङ्कल्पाधीनमप्राकृतत्वमनुसन्धेयम् । प्राकृताप्राकृतसम्सर्गोऽपि नानु-पपन्नः ।

अन्यथा प्राकृतलोकेषु भगवदवताराः, परमपदेऽपि अर्चिरादिमार्गेण सूक्ष्मशरीरस्य, वैदिकपुत्रादेर्वागमनम् कथम् घटेत? हृत्पद्मकर्णिकामध्य- गतस्य अन्तर्यामिणः परस्य विशेषतः सूक्ष्मान्तर्याम्यवतारः । विचित्रा-च्च भगवत इव विग्रहस्यापि व्याप्त्यादिशक्तिः । तयैव धर्मिग्राहक-सिद्ध्या विपरीततर्काणाम् प्रतिक्षेपः । श्रीमद्गीतैकादशाध्याये च विग्रहस्य व्यापकत्वकारणत्वादिकम् व्यक्तमेव भाष्यकारैः प्रतिपादितम् ।

*इहैकस्थम् जगत् कृत्स्नम् पश्याद्य सचराचरम् । मम देहे गुडाकेश ! यच्चान्य द्दष्टुमिच्छसि ॥* इति *इह मम एकस्मिन् देहे तत्रापि एकस्थम् एकदेशस्थम्, सचराचरम् कृत्स्नम् जगत् पश्य । यच्चान्यत् द्रष्टुमिच्छसि, तदप्येकदेहैकदेश एव पश्य* इत्युक्तम् । तथा –

*तत्रैकस्थम् जगत्कृत्स्नम् प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥* इति *……..देवदेवस्य दिव्यशरीरेऽनेकधा प्रविभक्तम् ब्रह्मादिविविधविचित्रदेवतिर्यङ्मनुष्यस्थावरादिभोक्तृवर्गपृथिव्यन्तरिक्षस्वर्ग-पाताळातलवितलसुतलादि भोगस्थान भोग्यभोगोपकरणभेदभिन्नम् प्रकृतिपुरुषात्मकम् कृत्स्नम् जगत्* इत्युक्तम् । तथा

*सुदुर्दर्शमिदम् रूपम् दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यम् दर्शनकाङ्क्षिणः ॥* इति, *ममेदम् सर्वस्य प्रशासनेऽवस्थितम् सर्वाश्रयम् सर्वकारणभूतम् रूपम् यद्दृष्टवानसि, तत् सुदुर्दर्शम् न केनापि द्रष्टुम् शक्यम्* इत्याद्युक्तम् । अस्त्रभूषणाध्यायोक्तश्च सर्वाश्रयत्वप्रकारो-ऽनुसन्धेयः । अन्यत्रचोक्तम् भगवता पराशरेण

*समस्ताः शक्तयश्चैता नृप! यत्र प्रतिष्ठिताः ।

तद्विश्वरूपवैरूप्यम् रूपमन्यद्धरेर्महत् ॥

समस्तशक्तिरूपाणि तत्करोति जनेश्वर ! । देवातिर्यड्मनुष्याख्याचेष्टावन्ति स्वलीलया ॥* इत्यादि ।

एषु सर्वेषु भगवतो विग्रहेषु साम्सारिकफलप्रदान एव मात्रया तार-तम्यम् । निःश्रेयसम् तु व्यापकानुसन्धायिनाम् सर्वत्र हस्तापचेयम् । यच्च *विभवार्चनात्  व्यूहम् प्राप्य* इत्यादि, तत् व्यापकानुसन्धान-विधुराधिकारिविशेषापेक्षयेति मन्तव्यमिति ॥

सम्विद्या निरवद्यनन्दथुमयी निष्कृष्टसत्त्वाकृतिः स्वाच्छन्द्यात्कमलापतेर्भगवतो भोगाय लोकायते ।

चिन्तादूरतरा चिरन्तनतमोनिश्शेषमोक्षस्थली

चित्ते सन्निदधातु मे शुभतरस्वैरावतारात्मिका ॥

इति कवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु

श्रीन्यायसिद्धाञ्जने नित्यविभूतिपरिच्छेदश्चतुर्थः सम्पूर्णम् ॥ ४ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.