[highlight_content]

बुद्धिपरिच्छेदः

श्रीः

श्रीमते रामानुजाय नमः

बुद्धिपरिच्छेदः

*बुद्धेः लक्षणम् स्वयम्प्रकाशत्वम् च*

 

अथ मतिर्निरूप्यते । सकर्मकावभासत्वम्, सकर्तृकावभासत्वम्, इत्यादितल्लक्षणम् । न्यायतत्त्वे तु प्रथमाधिकरणे लक्षणान्तराणि बहूनि दूषयित्वा,

*अत्यन्तवेगिताऽत्यन्तसौक्ष्म्यम् निर्भरता तथा । स्वसत्ताकालभाव्याप्तिर्ज्ञाने लक्ष्मचतुष्टयम् ॥

इति स्वोक्तलक्षणोपसम्हारः कृतः । अत्र यावदपेक्षितम् विशेषण-मूह्यम् । सा च विषयप्रकाशवेलायाम् स्वाश्रयस्यैव आत्मनः स्वयम्प्रभा । अन्यकालान्यपुरुषगता तु स्मृत्यनुमानादिविषयः सम्सारिणाम् । इतरेषाम् तु सर्वज्ञतया अन्यकालान्यपुरुषनिष्ठाऽपि स्वकीयेन प्रत्यक्षेण विषयीक्रियते । तथा च भाष्यम् * यत्तु अनुभूतेः स्वयम्प्रकाशत्वमुक्तम्; तद्विषयप्रकाशनवेलायाम् ज्ञातुरात्मनस्तथैव, न तु सर्वेषाम् सर्वदा तथैवेति नियमोऽस्ति* इति ।

धियः स्वयम्प्रकाशत्वे वेद्मीत्याद्युपलम्भनम् ।

मानसाध्यक्षभङ्गादिरपि मानमितीष्यताम् ॥

किञ्च

स्वधीविशेषम् सर्वज्ञोऽप्यध्यक्षयति वा न वा ।

आद्ये सिद्धा स्वतस्सिद्धिः अन्यत्रासर्ववेदिता ॥

ज्ञानमस्तीति विज्ञानम् स्वात्मानम् साधयेन्न वा ।

पूर्वत्र स्वप्रकाशत्वम् सर्वासिद्धिरतोऽन्यथा ॥

* बुद्धेः प्राकट्यानुमेयत्ववादनिरासः*

प्राकट्यानुमेयत्ववादिनम् प्रत्युच्यते

*प्राकट्यानुमाननिरूपणम् तत्खण्डनञ्च*

कल्प्यैव धीश्चेत्कल्प्येत तत्सामग्र्येव लाघवात् । प्रत्यक्षायास्ततोऽन्यत्वक्लृप्तौ नैवम् प्रसज्यते ॥

ज्ञानयोगः प्रकाशोऽत्र तदसिद्धौ न सिध्यति ।

कर्मकर्तृक्रियातन्त्रम् ज्ञानम् प्रत्ययभेदतः ॥

प्रकाशते ज्ञायत इत्येतद्धातुविभेदतः ।

भिनत्तिपातयत्यादौ यथा करणकर्मणोः ॥

व्यवहारार्थनियतिप्रकाश्यत्वानि बुद्धितः ।

स्वभावनियमो ह्येष प्राकट्येऽपि न लङ्घ्यते ॥

तत्रैवैतत्करणवत् तस्यैवास्तु प्रकाशकम् ।

प्राकट्यजन्म भूतैष्यदभावज्ञाततासु किम् ॥

आत्मसिद्धौ प्रकाशपदार्थनिर्णयार्थे *कस्तर्हि प्रकाशते पदार्थः? इति प्रश्ने *अनुभवादूरत्वम् स्मृतिनिमित्तम्* इति न्यायतत्त्वग्रन्थस्मारण-पूर्वकम् *सम्विददूरत्वम् प्रकाशः* इत्यभिधाय, अदूरविकल्पम् प्रति चाभिहितम् –

* भवत्वनुभवादूरम् दूरादन्यद्विरोधि वा ।

तद्भावश्च प्रकाशत्वम् किमत्र बहु जल्प्यते ॥* इति ।

भाष्यञ्च *प्रकाशश्च चिदचिदशेषपदार्थसाधारणञ्च व्यवहारानुगुण्यम्* इति । तदेवम् न बुद्धिः प्रकाशानुमेया । किम् तु स्वतस्सिद्धैव ॥

 

*भट्टपराशरपादीयस्य सम्वित्स्वयम्प्रकाशत्वसमर्थनस्य

निरूपणम्*

प्रपञ्चितञ्चैतत् सर्वम् तत्त्वरत्नाकरे भट्टपराशरपादैः । यथा

*धियः प्रत्यक्षभावत्वात् परतस्तदसम्भवात् ।

पारिशेष्यात्स्वतोभानम् प्रमाणाञ्च ततस्ततः ॥

प्रतीतेाहरणतः सन्देहपरिवर्जनात् ।

सत्तायाम् सिद्धवत्कारात् ज्ञानम् भातीति भावितम् ॥

परस्यादर्शनाद्व्याप्तादन्वयिव्यतिरेकितः ।

अर्थापत्तेश्च युक्तेश्च वचनाञ्च स्वदृङ्मतिः ॥* इति सङ्ग्रहः ।

*व्याप्तादन्वयिव्यतिरेकितः* इत्यस्य विवरणदशायाञ्चैवमुक्तम्, *विप्रतिपन्ना सम्वित् स्वगतव्यवहारम् प्रति स्वाधीनकिञ्चित्कारे सजातीयसम्बन्धानपेक्षा व्यवहारहेतुत्वात् अथेन्द्रियदीपादिवत् । न च चक्षुषः सजातीयतेजोऽपेक्षया अनैकान्त्यम्; तस्येन्द्रियत्वेन,  आहङ्कारि-कत्वेन वा, आलोकाद्भिन्नजातीयत्वात् । अन्यच्च, ज्ञानसम्स्कारः स्वैकार्थसमवायिज्ञानानुभवानपेक्षः सम्स्कारत्वात् अन्यसम्स्कारवत्, विषयसम्स्कारो ज्ञानसम्स्कारेण सहोत्पद्यते विषयसम्स्कारत्वात् इदमहञ्जानामीतिज्ञानप्रभवसम्स्कारवत् । न च उभयविषयज्ञानपूर्व-कत्वम् प्रयोजकम्; ज्ञानपूर्वत्वेन व्याप्तिसिद्धेः व्यर्थविशेषणत्वात् इत्यस्यानन्तरम् *पुनश्च* इत्युक्त्वा *सम्विदनन्याधीनस्वधर्मव्यवहारा* इत्यादिभाष्योपात्तमेवानुमानमुक्तम् । अत्र प्रयोगनिष्कर्षः स्वयमेव भाव्यः।

*व्यतिरेकि चास्ति लिङ्गम्* इत्यभिधायाजडत्वज्ञानत्वादीनि प्रयुज्य समर्थितानि । प्रत्यक्षत्वानुपपत्तिः, व्यवहारविशेषकरत्वानुपपत्तिश्च, अर्थापत्ती समर्थिते । ज्ञानम् न परप्रकाश्यम्, घटादिवदर्थाप्रकाशकत्व-प्रसङ्गादित्यादितकाश्च प्रतिपादिताः ।

*वचनानि च* इत्युक्त्वा *अत्रायम् पुरुषः स्वयम् ज्योतिर्भवति*, *आत्मैवास्य ज्योतिः*, *स्वेन ज्योतिषाऽऽस्ते*, *आत्मसम्वेद्यम् तज्ज्ञानम् ब्रह्मसञ्ज्ञितम्* इत्यादीनि ज्ञानपदवाच्यजीवस्य स्वयञ्ज्यो-तिष्ट्वपराणि ज्ञानपदाभिधेयायाम् सम्विद्यपि सम्भवलाघवाभ्याम् स्वप्रकाशत्वम् सम्भावयन्तीति, मणितरणिदीपतत्प्रभासाधर्म्येण जीवतत् ज्ञानसमर्थनानि च,*यथा प्रकाशयत्येकः कृत्स्नम् लोकमिमम् रविः । क्षेत्रम् क्षेत्री तथा कृत्स्नम् प्रकाशयति भारत ॥* इत्येवम्विधानि ज्ञानात्मनोः स्वयम्प्रभावत्त्वेन सजातीयत्वम् ज्ञापयन्ति, न च किञ्चिदनिष्टम् प्रसज्यते* इत्युक्तम् । वेद्यत्वादिसाध-कानि व्यवहार्यत्ववस्तुत्वप्रमेयत्वक्रियात्वाद्यनुमानानि योग्यानुपलम्भ-सिद्धसाधनासिद्ध्यादिभिर्दूषितानि । अधीकर्मणः सिद्धिरप्यज्ञातघटादि-सद्भाववत्, कदाचिद्धीकर्मत्वस्य ज्ञानेऽपि विद्यमानत्वात्, अङ्गुळ्यग्रचो- द्यस्य कर्मत्वाद्यनभ्युपगमेन परिहृतत्वाच्च समर्थिता । स्वयम्प्रकाशत्वे सहोपलम्भनियमादभेदभयमपि विरुद्धप्रत्यक्षावरुद्धसाध्यत्व विरुद्धत्वा-प्रयोजकत्वप्रभृतिभिरनुमानदूषणात् निश्शेषितम् । मानसप्रत्यक्षमङ्गसङ्ग्रहे च एवमुक्तम्

*योग्यानवग्रहात्स्वेन सम्भवादनवस्थितेः ।

इति बाधकहेतुभ्यः साधनद्वितयस्य च ॥

असिद्धिव्यभिचाराभ्याम् वैकल्यात्साध्यसाधने ।

इत्यसाधनबाधाभ्याम् न धीर्मानसगोचरः ।

इति स्वतस्सिद्धिरेव सम्वित्सिद्धौ च पद्धतिः।* इति ।

अखण्डवाक्यार्थखण्डनानन्तरञ्च  प्राकट्यमानसप्रत्यक्षभङ्गपूर्व-कमेता एव युक्तयः पुनः प्रतिपादिताः । तत्र क्षणिकात्मविशेषगुणत्वादि साधनद्वितयम् । तत्र क्षणिकत्वादेरसिद्धिः, प्रायश्चित्तधर्मैरनैकान्ति-कत्वमप्युक्तम् । एवम् पराभिमतजीवन पूर्वकप्रयत्नेनापि द्रष्टव्यम् ॥

*वरदविष्णुमिश्रवचनतात्पर्यनिरूपणम्*

*वरदविष्णुमिश्रोक्तेः अन्यपरत्वेन निर्वाहनिरूपणम्*

यत्तु वरदविष्णुमिश्रैः *सुखदुःखे ज्ञानरूपे एव* इत्युक्त्वा अनन्तरमुक्तम् *इच्छाद्वेषप्रयत्ना मानसप्रत्यक्षाः* इति; तत् नूनमिच्छादि-गुणान्तरसद्भावाभिमानमूलम् वा, परमतमूलम् वा । सुखदुःखयोर्ज्ञान-रूपत्वे च इच्छादिषु को विशेषः?

मिथस्सम्श्रयधीबाधमध्यावस्थोपलम्भनैः ।

न स्यात्परस्पराभावमात्रता सुखदुःखयोः ॥

*ज्ञानसङ्कोचविकासनिरूपणम्*

*बद्धजीवबुद्धेः कर्मानुगुण्येन सङ्कोचविकासनिरूपणम्*

इयम् च प्रतिपुरुषनियता सर्वगोचरस्वभावाऽपि सम्सारावस्थायाम् कर्मणा सङ्कुचिता तत्तत्कर्मानुगुणतारतम्यवती इन्द्रियाधीनप्रसरणा । तत एव तत्तत्प्रतिनियतविषया प्रसरणभेदाधीनप्रलयोदयभेदव्यपदेशवती च । तथा चोक्तम् भाष्ये *तमिममिन्द्रियद्वारा ज्ञानप्रसरमपेक्ष्य उदयास्त-मयव्यपदेशः प्रवर्तते* इति । एतेन नित्यत्वेन कथमिन्द्रियाद्यपेक्षेति चोद्य दत्तोत्तरम् ॥

*धारावाहिकविज्ञानविषये मतभेदनिरूपणम्*

*धारावाहिकविज्ञानस्य एकत्वनिरूपणम्*

*धारावाहिकधीपङ्क्तिः स्वकालीनार्थभासिका ।

मेधातिरेकसद्भावात् नैरपेक्ष्यादपि प्रमा ॥

स्तम्भः स्तम्भः स्तम्भ इति धीर्धारावाहिका मता । धारावाहिकविज्ञानमेकम् ज्ञानम् मतम् हि नः ॥

प्रतिबन्धाम्शमोक्षाद्यैर्नित्यम् ज्ञानम् हि जायते ।

चिरमप्रतिबन्धेन चिरम् तिष्ठति भासकम् ॥

चिरस्थितार्थधीरेव न धारावाहिका तु सा । नहीश्वरादिविज्ञानमागमादिकमिष्यते ॥

नित्यम् हि तदतो नित्यम् सर्वेषाम् ज्ञानमागमात्* इत्यादि ॥

 

*बद्धबुद्धेः प्रत्यक्षादिविभागस्य

उपाधिमूलत्वनिरूपणम्*

उक्तम् हि सन्मात्रग्राहिप्रत्यक्षभङ्गे भट्टपराशरपादैः सङ्कोचेऽपि करणसम्प्रयोगावधिकस्थैर्याभ्युपगमात् इति । अस्मिन्नपि पक्षे यदा- त्विन्द्रियसम्योगाः क्षणिकाः, तदा ज्ञानस्यापि क्षणिकत्वमेष्टव्यमेव । अन्ये तु ज्ञानस्य क्षणिकत्वे ध्यानस्य सन्ततिरूपत्वे च स्मृति-भाष्यादिदर्शनात् द्वितीयः पक्ष इति ॥

अस्याः स्वतः प्रत्यक्षस्वभावाया एव प्रत्यक्षानुमित्यादिदृष्टि-श्रुतिमत्यादिविभागोऽपि करणभेदोपाधिकः । सर्वप्रसरणेष्वपि स्वात्मनि प्रत्यक्षप्रकाशात्मिकैव । निरतिशयवेगित्वात् निरतिशयसूक्ष्मत्वाच्च सहसैव विप्रकृष्टसम्बन्धः, अप्रतिघातश्च । सम्योगलक्षणश्चास्याः सम्बन्धः । तथोक्तम् भाष्यादिषु *सम्बन्धश्च सम्योगलक्षणः – ज्ञानञ्च द्रव्यमेव इत्यादिकण्ठोक्त्या ॥

 

*बुद्धिविषये द्वादशप्रश्नीतत्समाधानानाम्

निरूपणम्

ननु बुद्धेर्नित्यत्वे किम् प्रमाणम्? तथात्वे कथम् जागरसुषुप्त्यादि-भेदसिद्धिः? किञ्च प्रमाणम् प्रसरणे? कथञ्च आत्मगुणभूताया बुद्धे-र्द्रव्यत्वम्? किञ्च द्रव्यत्वे प्रमाणम्? कथञ्च आत्मधर्मभूतायास्तस्याः स्वाश्रयादन्यत्र गमनम्? कथञ्च उपचयविरळभावाभावे परिमा-णान्तरयोगः? कथञ्च अतीतानागतैः सम्बन्धः सम्योगः?  कथञ्च  गुणादिभिः?  कथम् वा मध्यस्थितानाम् सम्बद्धानामप्रकाशत्वम्?  कथञ्च मुक्तबुद्धेर्युगपत्क्रमेण वा अनन्तदेशसम्योगः? कथञ्च व्याप्तायाम् स्वबुद्धिचन्द्रिकायाम् प्लवमानस्य स्वलालातन्तुविताने गलन्त्या लूतिकाया इव सञ्चाराधीनतत्तद्बुद्धिप्रदेशसम्योगस्य स्वबुद्ध्या सह बुद्ध्यन्तरव्यावृत्तः स्वाभाविकः सम्बन्धः? इति ।

तत्र पूर्वस्मिन् आगम उत्तरम् । यथा *न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते, नहि द्रष्टुर्दृष्टेर्विपरि-लोपो विद्यते, अविनाशित्वात्* इत्यादि । व्याख्यात-ञ्चैतत् आत्मसिद्धौ *ज्ञातुरविनाशित्वादेव ज्ञानस्यापि अविनाशित्वमुपपादयन्ती श्रुतिरियम् ज्ञातृस्वरूपप्रयुक्तम् ज्ञानमिति दर्शयति* इति । अत्र स्मृतिरपि –

*यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः ।

दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ॥

यथोदपानकरणात् क्रियते न जलाम्बरम् ।

सदेव नीयते व्यक्तिमसतः सम्भवः कुतः ॥

तथा हेयगुणध्वम्सादवबोधादयो गुणाः ।

प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥* इत्यादि ।

 

*बुद्धिः नित्या इत्यत्र व्याससूत्रम्*

प्रमाणमितिनिरूपणम्

सूत्रञ्च *ज्ञोऽत एव* इति, *यावदात्मभावित्वाञ्च न दोषस्तदर्शनात्* इति च ।

द्वितीये तु प्रतिबन्धकम् तमः । यथा दाहकस्य वह्नेर्मण्यादि-सन्निधावदाहकत्वम्, तदपगमे च हेत्वन्तरनिरपेक्षदाहकत्वम्, तद्वत् तमोविशेष सन्निधानासन्निधानाभ्यार्श स्वापादिसिद्धिः । उक्तञ्च  *पुम्स्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्* इति । अतो जागरादि-दशानियतप्रसरणा विषयप्रकाशवेलायामेव बुद्धिः प्रकाशते, नान्यदेति सुस्थम् । यत्तु षर्ड्यासङ्क्षेपे श्रीराममिश्रैरुक्तम् सत्यम् स्वतःसिद्धिः । सा सुषुप्तावपि नास्फूर्तिः । स्वाश्रयायैव हि सा भाति । स एव विशेष इति स्वावसरे वक्ष्यामः । अव्यवहारनियमस्तु करणो-परतिनियमात्* इति । एवम्प्रकारमेव विवरणेऽप्युक्तम् । तदेतत् वैभववाद इति मन्तव्यम् । अन्यथा *पुम्स्त्वादिवत्त्वस्य सतोऽभि-व्यक्तियोगात्* इति सूत्रेण तद्भाष्येण च विरोधात् । सर्वविषयप्रकाशनशीलायाः सम्विदो यथा समस्तबाह्यविषयवैमुख्यम् तथान्तरविषयविमुखत्वमपि भवतीति किमत्र चित्रम्? यत्तु भाष्ये *एवम् हि सुप्तोत्थितस्य परामर्शः, सुखमहमस्वा-प्समिति । अनेन प्रत्यवमर्शेन  तदानीमेवाहमर्थस्यैवात्मनः सुखित्वर्थ ज्ञातृत्वञ्च ज्ञायते* इत्युक्तम्, तत् स्वरूपानुकूल्यविवक्षया प्रत्यत्त्क-विवक्षया चेति न विरोधः ।

तृतीये तु भगवद्यामुनमुनि-भिरेवमेवोक्तम्, यथा *अत इन्द्रियेण सह चैतन्यमपि निस्सृत्य तेनतेनार्थेन सन्निकृष्यते हस्तादिनेव त्वगि-न्द्रियम्* इत्याद्यभिधाय *व्योमवदमूर्तस्य न क्रियावत्त्वमिति चेत्* इत्याशङ्कय *केयम् मूर्तिर्नाम? यद्विरहिणः क्रियाऽयोगः* इत्यादिना परिहृत्य व्यवहितविप्रकृष्टसम्बन्ध-प्रकारञ्च प्रसाध्य *यथाऽऽह भगवान् *तदस्य हरति प्रज्ञाम् वायुर्नाव-मिवाम्भसि इति । थाका हिते

*मनुश्च इन्द्रियाणाम् हि चरताम् यद्येकम् क्षरतीन्द्रियम् ।

तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥* इति* । इति ।

 

*बुद्धेः प्रसरणशीलत्वे श्रुतेः

प्रमाणत्वनिरूपणम्*

अस्ति चात्र श्रुतिः *प्रज्ञा च तस्मात्प्रसृता पुराणी* इति । अन्य-परत्वम् श्रुतिस्मृत्योरिति चेत् स्वरसप्रतीतेर्बाधकाभावात् । बाधिताम्शे हि तत् ।

चतुर्थे निदर्शनम् प्रभाऽऽदि । यथोक्तम् भाष्ये *प्रभाद्रव्यस्य दीपगुणभूतस्येव ज्ञानस्यापि आत्मगुणभूतस्य द्रव्यत्वमविरुद्धम् इति । प्रभायाञ्च वक्तव्यम् प्रागेव उक्तम् , प्रपञ्चितञ्चैव भाष्ये । क्वचिदा-श्रितस्यैव द्रव्यस्य अन्याश्रयित्वमवयविवादिनाम् तु अवर्जनीयम् । किञ्च न तावदस्माकमद्रव्यमेव गुण इति वैशेषिकादिवत्  निर्बन्धो; विशेषणादिवत् , यो यदाश्रितस्वभावः स तस्य गुण इति हि गुणलक्षणम् । न तु पारिभाषिकम्, सर्वव्यवहारविरोधात् । एवञ्च गुणेषु कश्चिद्विशेषः, द्रव्यात्मकगुणाः केवलगुणाश्चेति । पूर्वे ज्ञानादयः, उत्तरे सत्त्वरजस्तमःप्रभृतयो वक्ष्यन्ते । तत्र गुणैकरूपत्वमात्रादेव सत्त्वादिषु गुणशब्दस्य मुख्यत्वम्, ज्ञानादिषु गौणत्वम् । *अस्याश्च इति भाष्यस्य विवरणेऽप्युक्तम् *नित्यपारतन्त्र्याद्गौणो गुणव्यपदेशः* इति । तस्मिन्स्तु पक्षे गुणत्वानभ्युपगमात् न चोद्यावकाशः । अन्ये तु तस्यैव प्रवृत्तिनिमि-त्तत्वेन मुख्यत्वोपपत्तेः, गौणत्वकल्पनम् नानुमन्यन्ते । *अस्याश्च* इत्यादिभाष्यम् तु साधारणम् । *प्रभाद्रव्यस्य* इत्यादिभाष्यम्, *यद्यपि प्रभा प्रभावद्द्दव्यगुणभूता, तथापि शौक्लयादिवत् न गुणः* इत्यादि-भाष्यञ्च  मुख्यपक्षस्वरसम् । यत्तु सत्त्वादीनाम् द्रव्यत्वप्रतिक्षेपेण  *गुणा इत्येव च सत्त्वादीनाम् प्रसिद्धिः* इति भाष्यम्, तदपि – अवधारण-स्वारस्यात् द्रव्यत्वाप्रसिद्धेः । एवम् वरदनारायणभट्टारकपक्षेऽपि न चोद्यावकाशः, ज्ञाने द्रव्यशब्दस्य औपचारिकत्वात् । अयमेव गुणः केषाञ्चिद्विवक्षान्तरेण जातिगुणक्रियाद्रव्यरूपेणापि हि विकल्प्यते । यथा – अनेकेषाम् धर्मिणामन्तरङ्गो धर्मविशेषो जातिः । यन्निरूपिते वस्तुनि प्रायशो विशेषाकाङ्क्षाशान्तिः सोऽन्तरङ्गः । तदनुप्राणितस्य तस्य विशेषकः सिद्धो गुणः । तथाविधम् साध्यम् क्रिया । एतैर्विशिष्टम् द्रव्यमिति । एवमेव हि जातिगुणक्रियाद्रव्यवाचित्वम् शब्दानाम् । अत्र आवान्तरगुणशब्दः कथासामान्यविशेषयोर्वादशब्दवत् । अत्र च एकमेव वस्तु द्विधा, त्रिधा, चतुर्धा वा विकल्पयितुम् शक्यम् । यथा ज्ञानमेव च सम्योगादिमत्तया द्रव्यम् । तदेव आत्मनः प्रत्यक्तया निरूपितस्वरूपस्य विशेषकतया गुणः । जानात्यादिनिर्देशे क्रिया । एवमन्यत्रापि चिन्त्यम् । सत्त्वम् द्रव्यम्, असत्त्वमद्रव्यम् इति वदताम् तु सर्वेषाम् गुणानाम् द्रव्यत्वम् विवक्षितमित्यलम् प्रसक्तानुप्रसक्त्या ॥

 

*बुद्धेः द्रव्यत्वे प्रमाणनिरूपणम्*

पञ्चमे तु ब्रूमः – बुद्धिर्द्रव्यम् प्रसरणादिमत्त्वात् सम्प्रतिपन्नवत्, अत्रैव साध्ये ज्ञानत्वादात्मवत् इत्यादि । वरदविष्णुमित्रैस्तु एवमुक्तम् – *ज्ञान द्रव्यम् सम्योगादृष्टान्यत्वे सति भावनाकारणत्वात् आत्मवत्* इति ।

षष्ठस्य चतुर्थ एव दत्तमुत्तरम् । यदि तु स्वाश्रयत्यागोऽभिमतः; स नेष्यते । उक्तम् हि अत्रैव चोद्ये भगवद्यामुनमुनिभिः – *आत्मप्रहाणा-नभ्युपगमात् अविहायैवात्मानम् इतस्ततश्चेतना इन्द्रियादिद्वारा निस्सरति, विच्छिन्नायाश्च तस्याः सन्धानासम्भवः शास्त्र एवोक्तः* इति ।

सप्तमस्य  अहिकुण्डलदृष्टान्तेन निरासः । न च तावता बहळविरलत्वादिप्रसङ्गः; भिदुरभागवत्स्वेव तथाव्याप्तेः । अस्तु वा बहळत्वादि, तथापि न तथा द्रष्टुम् , स्पष्टुम् वा शक्यम्; अतीन्द्रियत्वात् स्पर्शादिरहितत्वाच्च । न च विरळत्वे सरन्ध्रत्वनियमः; सर्वदेशनिरन्तर-सम्योगयोग्यस्वरूपत्वात् । कथम् तदल्पदेशे पूर्णम्? इति चेत् स्पर्श शून्यत्वेनाप्रतिघातात् । उक्तम् हि निरतिशयसूक्ष्मत्वम् न्यायतत्त्वे । एतेन एकस्य द्रव्यस्य कालभेदे-ऽपि नानापरिमाणत्वम् नास्तीति वदन्तः प्रत्युक्ताः । कालभेदस्यैव विरोधशामकत्वात्, अवयव्यभावाच्च । एवम् तर्हि आत्मनस्तत्तद्देहानुरूपविविधपरिमाणवादिनो दिगम्बरान् प्रति *अन्त्यावस्थितेश्चोभय-नित्यत्वादविशेषः* इति सौत्रम् चोद्यमत्रापि स्यादिति चेन्न; तत्र केव:युक्त्यादिमूलार्थप्रतिक्षेपे तात्पर्यात् ।

अष्टमस्य उत्तरमात्मसिद्धौ ।  तथाहि – *कथमतीतानागतयोरस-तोश्चैतन्येन सम्प्रयोगः* इत्याशङ्कय विषयविषयिभावप्रकाशमानत्व-सङ्ख्यादियोगदवीयोदेशवर्तिज्ञानशीघ्र-सम्योग प्रतिबन्दीभिः परिहृतम् । तथा *अतीतानागततया तावप्यद्यापि विद्यते इति तेन रूपेण बोधसन्निकर्षे नानुपपत्तिः* इति च तद्द्रव्यसत्तया सम्योगोपपत्ति-रुपपादिता । तत्रैवमाशयः – यथा कैश्चिदसतोरेव भूतभविष्यतोः सामान्यात्मना अद्यापिवृत्तेः प्राकट्याश्रयत्वमुपपादितम्, तथा तद्द्रव्यात्मनाऽपि वृत्तेः सम्योगोऽपि उपपन्न एव । विशिष्टेना-सम्योगश्चेत् विशेषाकारेण न प्राकट्यमिति तुल्यमिति ।

नवमस्य तु अनभ्युपगम उत्तरम् । नहि गुणादिभिरपि सम्बन्धः सम्योग एव, किम् तु सम्योगिनिष्ठता । यथा परेषाम् सम्युक्तसमवायादि । *सम्बन्धश्च सम्योगलक्षणः* इत्यादिवचनानाम् सम्योगावश्यम्भावे तात्पर्यम् । उक्तञ्च षडथसङ्ग्रहे श्रीराममिश्रैः – *सम्योगस्तदर्हेषु विषयत्वाकारः । अनर्हेषु ततस्तदन्वयिषु । * इति । अस्यार्थः – सम्योगार्हवस्तुनि वर्तमानत्वादिविशिष्टद्रव्यप्रकाशनम् सम्योगः । सम्योगानर्हाणाम् तु रूपादीनाम् प्रकाशनम् तदन्वयिषु आश्रयेषु कारणेषु कार्येषु च यथा-सम्भवम् सम्योग इति । यत्तु  *नैरन्तर्यापरपर्याय-मत्यन्तसामीप्यमात्रञ्च सम्योगः । स एव परतन्त्राश्रितः समवाय-पदपरिभाषाभूमिर्वैशे-षिकाणामपीति नार्थान्तरत्व मुररीकृत्य विकल्पः सम्भवति* इत्यात्म-सिद्धावुक्तम्, तदपि पराभ्युपगतसमवायानभ्युपगमात् स्वमते समवायस्य स्वरूपविशेषानतिरेकात् अतिरिक्तसम्बन्धाभावपरम्, न तु गुणगुणिनोः सम्योगलक्षणसम्बन्धपरम् । गुणगुणिनौ सम्युक्ताविति – यदि केचित् प्रयुञ्जीरन्, तदानीमौपचारिकोऽयम् व्यवहार इति ज्ञाप-यितुम् *नैरन्त-र्यापरपर्यायम्* इत्युक्तम् । निरन्तरत्वमात्रात् सम्युक्त-त्वव्यवहारः तावति वैशेषिका युक्त्याभासैरान्तरत्वम् पर्यभाषन्तेत्युक्तम् भवति । अन्यथा गुणस्य सम्योगवत्त्वे तस्यापि द्रव्यत्वम् स्यात्, द्रव्य-लक्षणत्वात्तस्य । अवस्थायोगित्वम् द्रव्यलक्षणमस्त्विति वचनेऽपि गुणानाम् ज्ञानसम्योगलक्षणावस्थायोगित्वात् – द्रव्यत्वम् दुष्परिहरम् । न च द्रव्याद्रव्यविभागो मा भूदिति वाच्यम्; भाष्यकारैरेव सत्त्वरजस्तम-सामद्रव्यत्वसमर्थनात् । अतो यथोक्त एवार्थः । यद्वा नैरन्तर्यमात्र-मङ्गीकृत्य सम्योगमपि केचिन्नेच्छन्ति, तन्मतेनोक्तमिति मन्तव्यम् ।

दशमस्य नायनम् तेजो निदर्शनम् । योग्यता अत्र नियामिकेति चेन्न; अत्रापि तुल्यत्वात् । ज्ञानसम्योगे सति का अपरा योग्यता? इति चेत् -इन्द्रियसम्योगे सति का अपरा? इत्यपि सुवचत्वात् । ज्ञानायोग्यत्वे तस्य वस्तुनः केनचिदपि ज्ञानेनाप्रकाश्यत्वम् स्यादिति चेन्न;  ज्ञापका-योग्यत्वेऽपि तुल्यत्वात् । स्वभावादेव किञ्चित् ज्ञापकम् क्वचिदेव  शक्तमिति चेत्; तर्हि तत्रैव ज्ञानमिति । अस्तु तर्हि सामग्रीस्वभावादेव ज्ञानस्य प्रतिविषयम् प्रतिनियमः, किम् सम्बन्धेनाधिकेन? इति चेन्न; ईश्वरज्ञानस्य नित्यस्य तदभावात्, निर्विषयत्वेन अज्ञानत्वप्रसङ्गा-दीश्वराभावप्रसङ्गात् । अनित्येषु ज्ञानेष्वयम् नियम इति चेत्; सत्यम्, तथापि सम्युक्तसमवायाद्यविशेषेऽपि रसादिपरिहारेण रूपादौ वर्तमानस्य चक्षुरादेः स्वभावनियमे सत्यपि सम्युक्तसमवायादिपरिग्रहवत् क्षन्तव्यम् । उक्तञ्च न्यायकुलिशे – *सम्योगस्तु  प्रसरणवैभवादिप्रतिपादक-शास्त्र बलादाश्रितः* इति । योग्यतामात्रेण रूपान्तरादीनामपि ग्रहणप्रसङ्गात् तत्परिहाराय सम्बन्धविशेषाङ्गीकार इति चेत्; तर्हि अत्रापि योग्यता-मात्रेण सर्वदा प्रकाशः स्यादिति तत्परिहाराय सम्बन्धपरिग्रहः  सामग्र्येव अत्रातिप्रसङ्गम् निवारयेदिति चेन्न; तत्रापि तुल्यत्वात् । सम्बन्धोऽपि तत्र सामग्रीनिविष्ट इति चेत्; तत्रापि तस्य निवेशः किम् न स्यात्? तत्सम्बन्धसामग्र्यैव तन्नियमस्याप्युपपत्तेः । तत्रैव सम्बन्ध इत्यपि हि सामग्रीस्वभावादेव ।

एकादशे वेगातिशयः, शक्तिविशेषः, ईश्वर सङ्कल्पो वा प्रतिवक्तारः । इष्टञ्च विचित्रवेगित्वम् नायनतापनादिमहसाम् । तच्च काष्ठाप्राप्तम् युगपत्, त्रिचतुरक्षणेन वा, विश्वमास्कन्दते इति विश्वसिहि ।

द्वादशे तु स्वाभाविकम् तदीयत्वम् तदाश्रितत्वञ्चेति सञ्चारेऽपि न दोषः; यथा व्यापकात्मवादिनः शरीरेन्द्रियादीनाम्, यथैव ईश्वरमनु-मन्यमानस्य तदीशितव्यानाम् यथा वा लोके दासभृत्यादिद्वन्द्वानाम् । यथा च प्रभाप्रभावदादेः, यथाच वैशेषिकादीनाम् चलाचलत्वेऽपि अयुतसिद्धयोरवयवावयविनोः; यथाच अस्मत्पक्षे शरीरिणः पुरीतदादि-सञ्चारेऽपि शरीराणाम्, इति व्यपगतघनदुर्दिनो बोधभानुरौपनिषदानाम् ॥

सुखादीनाम् बुद्धिविशेषत्वनिरूपणम्*

*बुद्धिरेव उपाधिभेदात् सुखदुःखादिरूपा इति

निरूपणम्*

बुद्धिरेव उपाधिभेदात् सुखदुःखेच्छाद्वेषप्रयत्नरूपा । सुखादिजनकतया-ऽभ्युपगतज्ञानातिरेके प्रमाणाभावात् । इच्छामिद्वेष्मीत्यादि व्यवहारस्य स्मरामीत्यादिवत् ज्ञानविशेषेणैव उपपत्तेः । वैषयिकसुखदुःखरूपत्वम् ज्ञानस्य विषयाधीनमित्यनुकूलत्वप्रतिकूलत्वाविशेषात् विषयस्यापि सुखदुःखशब्दवाच्यत्वमस्त्येव । प्रपञ्चितमिदम् भूमाधिकरणे । तथा वेदार्थसङ्ग्रहे – *विषयायत्तत्वात् ज्ञानस्य सुखरूपतया ब्रह्मैव सुखम्* इत्युक्तम् । सुषुप्त्याद्यवस्थासु प्रयत्नो नास्त्येव; अनुपलम्भात् । अदृष्टादि-वशाच्च निश्वसितादिसिद्धिः । परैरपि तत्रैव प्रयत्नकारणतयाऽदृष्टादि-कमभ्युपगतम् । तन्निश्वासाद्यर्थमेव भवतु । अतो मध्ये प्रयत्नकल्पक-प्रमाणम् स्पन्दत्वादिहेतुरन्यथासिद्धः । उक्तञ्च *अन्तराभूतग्रामवत्* इत्याद्यधिकरणे भाष्ये – *प्रत्यगात्मनः सुषुप्तौ प्राणनम् प्रति कर्तृत्वा- भावात्* इत्यादि, *तस्य सुषुप्तिमूर्छादौ प्राणनादेरकर्तृत्वात्* इत्यादि च । कर्तृत्वा भावेऽपि कृतिविजातीयकल्पनम् प्रयत्नकृतिशब्दपर्यायत्व-प्रसिद्धिगौरवाभ्याम् प्रतिहतम् ।

ननु आत्मगुणाः सुखादयो मा भूवन्, मनोवृत्तिभेदास्तु भविष्यन्ति । तथा च आत्मसिद्धावुक्तम् – *यत्तु सुखादि-निदर्शनेन आत्मविशेषगुणतया चित्ततेरागन्तुकत्वमुपपादितम्, तदपि गुणवृत्तापरिज्ञानेन* इत्युपक्रम्य *सुखदाखे च नात्मधर्मौ इन्द्रियसौष्ठवनाशयोरेव तद्भावोपपादनात् । व्याकरिष्यते चैतदन्तिमपादार्थसमर्थनावसर इति । साधनविकलता च निदर्शनस्य । रागद्वेषादयोऽपि मनोवस्थाविशेषाः, न साक्षादात्मगुणाः । विज्ञायते हि *कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्री-र्धीर्भीरेतत्सर्वम् मन एव* इति । गीयते च – *इच्छा द्वेषः सुखम् दुःखम् सङ्घातश्चेतनाधृतिः । एतत्क्षेत्रम् समासेन इति गीताञ्चोदाहृत्य तदर्थम् शरीरलक्षणञ्चोपपाद्य, पुनः *किमिदम् धीः* इति धीशब्द-सहपाठमाशङ्क्य *उत्प्रेक्षाभिप्रायम् तत्, न ज्ञप्तिविषयम्; तस्याः स्वाभाविकत्वस्य तस्यामेव श्रुतौ श्रूयमाणत्वात् । श्रूयते हि – *न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते* इति-इत्याद्युक्तम् । तथा *पञ्चवृत्तिर्मनोवद्यद्व्यपदिश्यते* इति सूत्रे *यथा न कामादिकम् मनसस्तत्त्वान्तरम् । *कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीभीरेतत्सर्वम् मन एव* इति वचनात्, एवम् *प्राणो व्यानोऽपान उदानस्समान इत्येतत्सर्वम् प्राण एव* इति वचनाद-पानादयोऽपि प्राणस्यैव वृत्तिविशेषाः, न तत्त्वान्तरमित्यवगम्यते* इति भाष्यम् । तत्कथम् सुखादीनामात्मगुणत्वम्?

अत्रोच्यते – अश्रुतसिद्धान्तस्य पुस्तकनिरीक्षणात् अयम् दोषः । तथाहि । आत्मसिद्धौ तावत् – *यत्तु सुखादिनिदर्शनेन* इत्यस्यानन्तरम्, *स्वरूपोपाधयो धर्मा यावदाश्रयभाविनः । नैवम् सुखादिबोधस्तु स्वरूपोपाधिरात्मनः ॥

यथा च बोधोपाधिरात्मभावस्तथोपपादितम्* इति स्वाभाविकत्वा-स्वाभाविकत्वाभ्याम् बोधमात्रस्य सुखादेश्च भेदमभिधाय *सुखदुःखेच नात्मधर्मौ इत्यादि तु वैभववादेन, मतान्तरेण वा अभिहितम् । अन्यथा कथमेवमुपसम्हारारम्भे ब्रूयात् – *तदेवमात्मस्वभावभूतस्य चैतन्यस्य विषयसम्श्लेषविशेषगोचर एव निश्चयसम्शयादिव्यवहारभेदः, तद्विशेषभाजि चैतन्ये वा* इति । आगन्तुकत्वे इन्द्रियोपाधिकत्वाद्यविशेषात् । न च तथोक्तम्, अन्यथा चोक्तम् ।

ननु अश्रुतसिद्धन्तास्येति भवत एव दोषः; न स्यात् – न्यायतत्त्वशास्त्र-प्रकरणम् हि आत्मसिद्धिः। तत्र च शास्त्रे ज्ञाननिरूपणात्मकप्रथमपाद-षष्ठाधिकरणे सर्वम् स्पष्टम् । सूत्रभाष्ययोश्च अयम् भावः – तत्तदवस्थ-ज्ञानजनकत्वावस्थाभेदभिन्नम् मनः, तैस्तैर्व्यपदिश्यते इति । नियूढञ्च तुल्यन्यायमन्यत् *सप्त गतेः* इत्यधिकरणे – *अध्यवसायाभिमान-चिन्तावृत्तिभेदात् मन एव बुद्ध्यह-ङ्कारचित्तशब्दैर्व्यपदिश्यते* इति । उक्तञ्च वेदार्थसङ्ग्रहे – *दुःखाज्ञान-मला धर्माः प्रकृतेस्ते न चात्मनः* इत्यत्र प्रकृतिसम्सर्गकृतकर्ममूलत्वात् नात्मस्वरूपप्रयुक्तधर्मा इत्यर्थः । प्राप्ताप्राप्तविवेकेन प्रकृतेरेव धर्मा इत्युक्तम्* इति । तथा तत्रैव – *भक्तिशब्दश्च प्रीतिविशेषे वर्तते । प्रीतिश्च ज्ञानविशेष एव* इत्युक्त्वा *ननु च सुखम् प्रीतिरिति नार्थान्तरम् । सुखञ्च ज्ञानविशेषसाध्यम् पदार्थान्तरमिति हि लौकिकाः* इति चोद्यम् कृत्वा *नैवम्; येन ज्ञानविशेषेण तत् साध्यमित्युच्यते, स एव ज्ञानविशेषः सुखम् । एतदुक्तम् भवति –विषयज्ञानानि सुखदुःखमध्यस्थसाधारणानि । तानि च विषयाधीन-विशेषाणि तथा भवन्ति, येन विषयविशेषेण विशेषितम् ज्ञानम् सुखस्य जनकमित्यभिमतम् – तद्विषयज्ञानमेव सुखम् । तदतिरेकि पदार्थान्तरम् नोपलभ्यते । तेनैव सुखित्वव्यवहारोपपत्तेश्च* इत्याद्युक्तम् । *इच्छा द्वेषः* इत्यादिभगवद्गीतावचनम् तु तत्रैव भाष्यकारैर्निर्व्यूढम् *इच्छा द्वेषः सुखम् दुःखमिति क्षेत्रकार्याणि क्षेत्रविकारा उच्यन्ते । यद्यपि इच्छाद्वेष-सुखदुःखान्यात्मधर्मभूतानि, तथापि आत्मनः क्षेत्रसम्बन्धप्रयुक्तानीति क्षेत्रकार्यनयाक्षेत्र विकारा उच्यन्ते । तेषाम् पुरुषधर्मत्वम् । *पुरुषः सुखदुःखानाम् भोक्तृत्वे हेतुरुच्यते ।* इति वक्ष्यते* इति । उक्तञ्च श्रीराममिश्रैः पडर्थसङ्क्षेपे – *वेद्यभेदधीभेदः सुखम्, अन्यादृष्टेः ।* इत्यादि । उक्तञ्च श्रीवरदविष्णुमिश्रैरपि – *सुखदुःखे तावत् अनुकूलप्रतिकूलविषये ज्ञाने एवेति गुणेष्वन्तर्भाव एव ।* इत्यादि । उक्तञ्च सङ्गतिमालायाम् श्रीविष्णुचित्तैः – *एवम् परमात्मनः पावकप्रकाशौष्ण्यादिस्थानीयम् जीवस्वरूपमपि सुषुप्तिसम्हारयोः परमात्मनो भेदकसम्शयनिर्णयविपर्य-यायथाज्ञानप्रत्यक्षानुमानागमरागद्वेषलोभमोहमदमात्सर्यधैर्यविचिकित्सा-श्रद्धालज्जाभयाद्यनन्तज्ञान प्रसरणरूपविकारभेदशून्यम्* इत्यादि तत्सिद्धम् सुखादयो बुद्धिविशेषा इति ॥

 

*ईश्वरज्ञानस्य इच्छाद्याकारत्वसमर्थनम्

तर्हि नित्यसर्वविषयस्य ईश्वरज्ञानस्य कथमिच्छाद्याकारत्वम्? इति चेत्; उपाधिविशेषाद्वा, अनित्यज्ञानान्तरसद्भावाद्वा, यथातथावा भवतु । अभ्युपगतम् हि इन्द्रियजन्म अनित्यमपि ज्ञानमीश्वरस्यास्तीति वरदविष्णुमिश्रादिभिः – *ईश्वरज्ञानस्यानित्यस्य सर्वविषयनित्यज्ञान-गृहीतग्राहित्वात्* इति, *अस्यापि इन्द्रियजत्वात्* इति च । प्रज्ञापरित्राणे स्वयम्सिद्धिप्रकरण एवमुक्तम् –

*सुखदुःखे च विज्ञानविशेषाविति केचन ।

तन्न साधु शरीरस्य पादादिषु हि ते अमू ॥

तत्रतत्रात्मनस्तस्यासन्निधानादणुत्वतः ।

तद्धर्मभूतविज्ञानस्यापि नैवास्ति सन्निधिः ॥ इत्युक्त्वा,

अनन्तरम् जीवस्य बन्धमोक्षावस्थयोर्द्वयोरपि अणुत्वमुपपाद्य,

*यावदाश्रयवर्त्येव विगीतम् ज्ञानमुच्यते ॥

धर्मत्वे सति धीत्वेन ब्रह्मविज्ञानवत्ततः ।

गुणत्वमेव ज्ञानस्य न तु द्रव्यत्वसम्भवः ॥

अतीतानागता अर्था अपि भान्ति च धीबलात् ।

सम्योगमनपेक्ष्यैव सर्वत्राप्यर्थकृत्यकृत् ॥

तस्माद्विषयविषयिभावः सम्बन्ध एव हि ।

ज्ञानार्थयोस्तु सम्बन्धः सोऽखिलैरपि सम्विदः ॥

स्वतस्सर्वार्थसम्बन्धिन्येषा धीः सर्वगोच्यते ।

अगत्वा सर्वसम्बन्धि सर्वग्राहि प्रचक्षते ॥

स्वाश्रयायुक्तवस्तुष्वप्यस्याः कार्यकरत्वतः ।

गुणवैरूप्यसद्भावात् द्रव्यता भाष्यभाषिता ॥

स्वाश्रयश्लिष्ट एवार्थे स्पर्शाद्याः कार्यकारिणः ।

दाहस्फोटादिकार्यम् ते कुर्वते नेदृशी हि धीः ॥

गुणवैरूप्यमेवास्या द्रव्यशब्देन लक्ष्यते ।

भावान्तरम् तदा प्राप्तम् शक्तिवत्ज्ञानमप्यतः ॥

द्रव्यत्वपक्षे ज्ञानस्य परिणामानिरूपणात् ।

वैयर्थ्याच्च गुणो वा तद्भावान्तरमथापि वा ॥

देहदेशोत्थमप्येतत् सुखत् दुःखञ्च देहिनः ।

आत्मनो धीमहिम्नैव भासेते ते तथातथा ।

अनात्मकशरीरे तददृष्टेरात्मनो गुणौ ।

इति चेन्नाशरीरस्यासम्भवान्नात्मनो गुणौ ॥

सकर्मकात्तु देहस्य गुणौ ते आत्मनो गुणात् ।

ज्ञानाद्भात इति प्राज्ञैः परिकल्प्यमिति स्थितिः ॥ कर्मिणश्चेतनस्यानुभाव्यत्वेनैव सम्भवः ।

तयोरिति प्रकाशेनाव्यभिचारोऽन्यथा वृथा ॥

इच्छादयो न देहैकदेशवर्तिन इत्यतः ।

आत्मनः स्युर्गुणा ज्ञानविशेषाश्च प्रकीर्तिताः ॥

जलाधारेष्वनेकेषु भास्करस्योपलब्धिवत् ।

अणोरप्यात्मनोऽनेकदेहेष्वस्तूपलम्भनम् ॥

योगिनाम् शक्तिवैचित्र्यात् ईश्वरानुग्रहेण वा ।

बहुदेहाः प्रवर्तन्ते एकदेहवदञ्जसा ॥

अन्तराळाग्रहातेषाम् स्वात्मनश्च स्वयेच्छया ।

सन्निधानोपलब्धिः स्यात् तत्रतत्राहमित्यपि ॥

प्रतिदेहम् विविक्तानि मनःप्रभृतिकान्यपि ।

इन्द्रियाणीश्वरेच्छाद्यैः प्रवर्तन्ते तु योगिनः ॥

मुक्तश्चानेकदेहान्सङ्गृह्णाति स्वेच्छयैव तु ।

सर्वज्ञ एव कामान्नी कामरूप्यनुसञ्चरेत् ॥

प्रदीपः प्रभयेवात्मा ज्ञानेनाखिलमाविशेत् ।

इत्यादिव्यवहारश्च प्रकाश्यत्वनिबन्धनः ॥

अतीतानागता नार्थाः प्रभया भान्ति जातुचित् ।

ते च ज्ञानेन भान्त्यातो न साम्यम् सर्वथा मतम् ॥

स्वरूपेणाणुरात्माऽयम् गुणद्वारेण सर्वगः ।

उभयव्यवहारोऽपि युज्यते प्रत्यगात्मनः ॥

परमात्मा स्वरूपेणाप्यशेषव्यापकः श्रुतेः ।

सर्वान्तर्याम्यनन्तश्च तथाऽतः सर्वगो मतः ॥

अक्षव्यापृत्यभावेन सुषुप्तौ नार्थभासनम् ।

धियो धीमात्रमात्मा च तदा स्वैरम् प्रकाशते ॥

अस्वाप्सम् सुखमेतावत्कालमित्युत्थितः पुमान् ।

परामृशम्स्तदाप्यात्मभासनम् विविनक्ति हि ॥

मामन्यञ्च न जानामीत्येवमादिनिषेधधीः ।

मानुष्यादिविशिष्टात्मपरागर्थैकगोचरा ॥

अहम् शब्दानुविद्धा धीः सुषुप्तौ नास्ति तत्र तु ।

प्रत्यगर्थस्वरूपम् तु भात्यर्थाग्राहिधीगुणम् ॥*

इत्यस्यानन्तरमहमर्थत्वमात्मानः प्रतिपाद्य, ज्ञानस्यानुमेयत्वपक्षञ्च निरस्य, पुनरपि सुखदुःखे प्रयुज्य

*प्रतिकूलानुकूले तु दुःखमन्यच्च कर्मिणः ।

भोक्तुर्भातोऽनयोस्तेन प्रकाशाव्यभिचारिता ॥

प्रकाशव्यभिचारे तु तत्सत्तैव वृथा भवेत् ।

भोगार्थम् तु तदुत्पत्तिर्भोगो न स्यादभासने ॥

इच्छाद्वेषप्रयत्नादिशब्दैर्धीरभिधीयते ।

अर्थभेदानुविद्धास्ते धीविशेषाः प्रकीर्तिताः ॥

न च देहैकदेशेषु प्रकाशन्ते सुखादिवत् ।

किन्त्वात्मस्था नहीच्छा मे पाद इत्यस्ति धीर्नृणाम् ॥

पादे दुःखन्ते हस्तयोर्मे सुखमित्यादिकाऽस्ति धीः ।

धीभेदास्तत इच्छाद्याः सुखदुःखे तनोर्गुणौ ॥* इत्युपसम्हृतम् ।

पाणिपादादिदेहैकदेशवर्तितया उपलम्भेन सुखदुःखयोर्देहैकधर्मत्वम्, इच्छादेस्तु तथाऽनुपलम्भेन ज्ञानविशेषत्वोपपत्तिः, ज्ञानस्य स्वाश्रयादन्य-त्रावर्तमानत्वम्, सम्योगमनपेक्ष्य विषयविषयिभावेन प्रकाशकत्वम्, अद्रव्यत्वम् इत्याद्यर्था भाष्यादिविरुद्धाः परतन्त्रदन्तिदन्तादन्तितन्द्रा-लुतया परिगृहीताः । न्यायसुदशने तु तैरेव सुखदुःखयोरात्मधर्मत्व- ञ्चोक्तम् – तथा हि *भाष्ये मनुष्यादिपिण्डविशिष्टस्यात्मनः सुखित्व-वचनम् न विशेषणभूतशरीरस्यापि, आत्ममात्रस्यैव सुखाश्रयत्वात् । किम् तु शरीरे वर्तमानस्यैव आत्मनो वैषयिकसुखादिमत्त्वमिति तद्विशिष्टात्मनस्तद्वत्त्वम् अयमात्मा सुखीत्यनेनापि प्रतीयत इत्यर्थः* ॥

 

*अदृष्टस्य ईश्वरप्रीतिकोपात्मकत्वनिरूपणम्*

एवमदृष्टमपि ईश्वरप्रीतिकोपात्मकमेव । तद्विषयत्वप्रतिनियमादेव च क्षेत्रज्ञानाम् कर्मफलनियमोपपत्तिः । शास्त्रगम्यत्वाच्चास्य तथात्वमव-सीयते । तथा च द्रमिडाचार्यभाष्यम् – *फलसम्बिभन्त्सया कर्मभि-रात्मानम् पिप्रीषन्ति ।* इत्यादि । भाष्यमपि – *शास्त्रैकसमधिगम्ये  एव* इत्यादि । सूत्रकारैरेव एतद्विशदमुपपादितम् – *फलमत उपपत्तेः ।* इत्यादिभिः । यत्त शरीरादिकम् भोक्तृविशेषगुणप्रेरितभूतपूर्वकम् तद्भोग-साधनत्वात् स्रगादिवदिति सिद्धे ज्ञानाद्यनुपपत्तेः परिशेषात् जीवसमवेता-दृष्टसिद्धिरिति वैशेषिकादिभिः स्वीक्रियते, तदसत्; अस्मदुक्तादृष्टादेव नियमोपपत्तौ विपक्षे बाधकाभावात् । न च अन्यत्र भोगप्रसङ्गः; नियामकस्येच्छादेरध्यक्षत्वात् । एवञ्च सति अग्नीन्द्रादि-देवताप्रीत्यादेरपि श्रुतिसिद्धत्वेनैव अदृष्टतया स्वीकारे न दोषः । तेषामपि फलप्रदातृत्वमीश्वराधीनम् । सर्वत्र साधारणमीश्वरप्रीत्यात्मकमदृष्टम् ।  तथा च स्वयमेवाह – *अहम् हि सर्वयज्ञानाम् भोक्ता च प्रभुरेव च* इति । ईश्वरज्ञानस्य कोपाद्यात्मकत्वम् विविधकर्मोपाधिकम् । न चैष दोषः; स्वाज्ञापरिपालनानुरूपगुणत्वात् । एवम् सौशील्यवात्सल्यसौहार्द-प्रभृतयोऽपि बुद्धिविशेषाः ॥

*रत्यादिस्थायिभावानाम्

बुद्धिपरिणामत्वनिरूपणम्*

*भरतादिभिः उक्तरत्यादिस्यायिभावानामपि

ज्ञानस्वरूपत्वनिरूपणम्*

भरतादिपठिताश्च रत्यादयः स्थायिभावास्तत्परिणामरूपाः । सञ्चारिभावेषु च निर्वेदादयः स्वावमाननादिरूपबुद्धिविशेषा एव । ग्लान्यादयस्तु शरीराद्यवस्थाविशेषाः । स्वप्नशब्दस्यापि स्वप्नदर्श-नाभिप्रायत्वे बुद्धिविशेषविषयत्वम् व्यक्तम् । सुषुप्तयभिप्रायत्वेऽपि अमूर्छितस्य जीवतः समस्तज्ञानप्रसररहितावस्थाविषयत्वम् । एवम् जाड्यादिष्वपि चिन्त्यम् । निद्रा तर्हि कस्यावस्था चिन्तालस्यक्ल-मादिभिः सम्मीलतो मनसो, ज्ञानस्यैव वा । सैव च सुषुप्त्यादिकारणम् । कथम् तर्हि *अभावप्रत्ययालम्बना वृत्तिर्निद्रा* इति पारमर्षम् सूत्रम्? इत्थम् । समाधिमधिगच्छतो वृत्त्यन्तरवत् निरोद्धव्यत्वाभिप्रायम्, निरोध-परत्वात् प्रकरणस्येत्ययमर्थ आत्मसिद्धावुक्तः । बुद्धेश्च निर्विषयत्वनिरा-श्रयत्वनिर्धर्मकत्वादिगोचरा दुरूहाः शून्यवादवत् उपलम्भविरोधादिभि-र्दूषणीयाः । असत्ख्यात्यात्मख्यात्यनिर्वचनीयख्यात्यादयश्च न्यायपरि-शुद्धावस्माभिर्दूषिताः । तथा प्रमाणप्रमेयादिकम् व्यवहारौपयिकम-खिलमपि तत्रैव प्रपञ्चितमिति नेह प्रस्तूयते । वैशेषिकशैलीमनुसृत्य यथावस्थितपदार्थस्वरूपम् हि अत्र विशोध्यते इति ॥

 

*अन्तिमश्लोकार्थनिरूपणम्*

माहाभाग्यवशम्वदीकृतयतिक्षोणीशवाणीशता

भूयाद्भोगसमेधकश्रुतिशिरः प्रासादमासेदुषी ।

नित्यानन्दविभूतिसन्निधिसदासामोददामोदर-

स्वैरालिङ्गनदोर्ललित्यललितोन्मेषा मनीषा मम ॥

॥ इति कवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य

श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु

श्रीन्यायसिद्धाञ्जने बुद्धिपरिच्छेदः पञ्चमः सम्पूर्णः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.