[highlight_content]

प्रपत्त्यनुपायत्व विचारः

श्रीमते रामानुजाय नमः

श्रीमद्वेदमार्ग प्रतिष्टापनाचार्योभयवेदान्त

प्रवर्तन धुरीणराय् . श्रीमत्परमहंस परिव्राजकाचार्य वर्यरान

ऎम्बार् जीयर् स्वामि ऎन्नुम् . तिरुवेङ्गडरामानुजस्वामि अरुळिच्चॆय्त



प्रपत्त्यनुपायत्व विचारः




आत्मना मात्मरक्षार्थ मस्थानभयवारकः।

अव्या दव्याजबन्धोर्न स्सेव्य स्सेव्येतरः करः॥




स्थितंताव दनालोचित विशेषाशेषलोकशरण्य श्श्रीनिधिरेव

सकलजीव सञ्जीवनोपाय इति निखिल निगम तात्पर्य पर्यवसान

भूमिरिति;

अथ तन्निष्ठानां तच्चरणशरणवरणमधिकारि विशेषणमात्र

मित्यभिधीयते। तदिद मगायि गीताचार्येण-([1]१ गी-१८-६६) “अहंत्वा सर्वपापेभ्यो

मोक्षयिष्यामि माशुचः” इति। अस्य चाऽयमर्थो रहस्यवेदिभिरादिश्यते

-तमेकमेव शरणंगतस्य स एव भगवान् साधनमिति, युक्तञ्चैतत् - युष्म

च्छब्देन शरणागताधिकार्युपादानात्, अहं मोक्षयिष्यामीत्युपाय

तत्कृत्याभिधानाच्च, तत्तात्पर्यकत्वोपपत्तेः। अत्र सिद्धरूपापि शरणागति

रधिकारविशेषणतया प्रतिपिपादयिषता; ([2]२ मुमुक्षुप्पडि-३-६९) “अप्राप्तनाय् ऎन्नैये उपाय

माकप्पत्तियिरुक्किर उन्नै” इति रहस्यवेदसूक्तेः। अप्राप्तिर्नाम- भगव

दनन्य शरणत्वरूप  स्वरूपात्मिकाच; सैवशरणवरणयोग्यतारूपतया

सिद्धरूपशरणागतिरिति चोच्यत इति युक्तमत्र तस्याश्च प्रतिपिपादयि-

षितत्वम्। न चैवं तस्या अविधेयत्वप्रसङ्गः; इष्टत्वात्। न चैवमशास्त्री-

यत्वम्; शास्त्रोपात्तत्वमात्रेणापि तत्सिद्धेः। न चात्र तदुपादानासंभवशङ्का;

ब्रह्मवदात्मनोपि प्राप्यान्तर्गततया तत्स्वरूपान्तर्गत सिद्धरूपशरणाग

त्युपादानस्यापि साक्षात्परम्परयावा प्रयोजनपर्यवसायित्वात्; ज्ञापितं

चास्याः ([3]३ मुमुक्षुप्पडि-३-४६) स्वरूपनिष्ठम्” इति प्राप्यान्तर्गतत्वम्, प्रसिद्धं च प्रत्यचोपि स्वतः

पुरुषार्थत्वादिकम्, ([4]४ शा-मी-४-४-३) “आत्माप्रकरणात्” इत्यादिषु। किञ्च - अस्या

अधिकारिविशेषणतयोपादानस्य परम्परया प्रयोजन पर्यवसानानपायाच्च।




न च - ([5]५ रहस्यत्रयसारे) “फलादिभ्यो विभिन्नत्वात् प्रपत्तेर्विद्ध्यनन्वयात्। विधेयान्तरहानेश्चनाधिकारि विशेषणम्” इति प्रपत्ते रधिकारिविशेषणत्वा-

संभवश्शङ्क्यः; ([6]६) “फलादिभ्योप्यभिन्नत्वात् प्रपत्तेर्विद्ध्यतोन्वयात्।

विधेयान्तसत्वाच्चाप्यधिकारि विशेषणम्” इति तत्प्रतिष्ठापनसंभवात्।

तथाहि - प्रपत्ते रधिकारिविशेषणताहि, फलकामनारूपतया फलतया

निमित्ततया च स्यात्; तत्र आद्ये  ([7]७ पाञ्च) “प्रार्थनामति श्शरणागतिः”

इत्युक्तलक्षण सिद्धोपाय फलोपधान प्रार्थनात्मक प्रपत्ते र्योग्यतावस्थ

सिद्धोपायफलकामनारूपत्वस्य दुरपह्नवतयातेनरूपेण तदधिकारिविशे-

षणत्वोपपत्तिः। अथ द्वितीयेपि, यथावस्थित पारमार्थिक भगवच्चरणार-

विन्द शरणागते र्भगवदेकशरणत्वरूप स्वरूपाविर्भावात्मकत्वेनाऽनवरत

भोग्य फलात्मकतायाः द्वयपूर्वखण्ड क्रियावर्तमान प्रत्ययादिसिद्धत्वेन दुरप-

ह्नवतया तेन रूपेण तथात्वोपपत्तिः। नच फलस्य स्वरूपेण विशेषणत्वास-

म्भवः; स्वविषयककामनावत्व संबन्धेन तस्यापि विशेषणत्वोपपत्तेः।

अथ तृतीयेपि, प्रपत्तेर्निमित्ततयाऽधिकारिविशेषणत्वं हि निषिद्धतया

केवलया च स्यात्; तत्राद्ये, ([8]८ मुमुक्षुप्पडि-३-७५) “कलङ्गि उपायबुद्ध्या पण्णुम् प्रपत्तियुम्

पातकत्तोडॊक्कुम्” इत्यनुगृहीतरीत्या प्रपत्तिविशेषणस्य निषिद्धनिमित्ता-

न्तर्गतताया अपि सर्वपापशब्दसिद्धत्वे न दुरपह्नवतयातेन रूपेण तथा-

त्वोपपत्तिः। नचैवंप्रपत्तेः परिहरणीयताप्रसङ्गः; तेन रूपेण तथात्वस्ये-

ष्टत्वात्। अथ तत्र द्वितीयेपि, ([9]९) “जगतिगतिमन्याम विदुषांगतिर्गम्य

श्चासौ हरिः” इत्यनुगृहीतरीत्या अनन्यशरणत्वाविर्भावात्मिकायाः प्रपत्तेः

केवलनिमित्ततायाः सिद्धोपायाधिकारिविशेषणतया जितन्तआदिसिद्ध-

त्वे नदुरपह्नवतयातेन रूपेण तथात्वोपपत्तिः। एवम्- ([10]१० अष्टश्लोक्याम्.३) “स्वातन्त्र्यं

निजरक्षणम्” इत्याद्यनुगृहीतरीत्या सर्वेषां चेतनानां भगवदनन्यरक्षकत-

त्वात्मकानन्य शरणत्वरूपस्वरूपस्य तादृशस्वरूपविशिष्ट सर्वचेतनविष-

येपि भगवतएव रक्षणप्राप्तेश्चाऽष्टाक्षर नमःपदादिसिद्धतया दुरपह्नवत्वेन

सिद्धरूपशरणागतेरपि केवलनिमित्ततया सिद्धोपायाधिकारि विशेषण-

त्वोपपत्तिः।




नचात्र विधिप्रत्यययोगः परिपन्थीति वाच्यम्, विकल्पासहत्वात्; किं

सिद्धरूपायाश्शरणागतेः केवलनिमित्तत्वे विधिप्रत्ययविरोधः प्रतिपाद-

यिषितः, उत साध्यरूपायास्तस्यास्तथात्त्वे; नतावदाद्यः-तद्विषयकविधि-

प्रत्ययस्यैव गगनकुसुमसमत्वात्। नापि द्वितीयः-तस्यापि विकल्पासह-

त्वात्;- किं तदधिकारि विशेषणत्वग्राहक वाक्यान्तर्गत विधिप्रत्यययोग

विरोधः प्रतिपादयिषितः, उत वाक्यान्तरगत तद्विरोधो वा; नतावदाद्यः-

([11]११ गी-१८-६६) “अहंत्वा” इत्यादिवाक्ये विधिप्रत्ययाश्रवणात्। नापि द्वितीयः

-([12]१२ मुण्डके-१-२-१२) “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्” इत्यादिषु

वाक्यान्तरविहिताया एव गुरूपसत्त्यादेर्वाक्यान्तरे अधिकारिविशेषणत्वे-

नाप्युपादानदर्शनेन वाक्यान्तरीय विधिप्रत्यययोगस्य वाक्यान्तरोपात्ताधि-

कारि विशेषणत्वेन साक मविरोधदर्शनात्।अभ्युपगतं चाऽऽचार्यैः वा-

क्यान्तरविहितायाः प्रपत्तेरेव प्रपन्नासाधारण धर्मद्वयस्मरणादिविधिषु

केवलनिमित्ततयाऽधिकारिविशेषणत्वमपि। तस्मात् सिद्धं फलकामना-

रूपतया फलतया निमित्ततया च प्रपत्तेरधिकारिविशेषणत्वमुपपद्यत एवेति।




न चैवमपि- विधेयान्तरासिद्ध्या तथात्वासंभवशङ्का; अधिकारिविशेषणानां

नियोज्यतावच्छेदकत्वनियमे प्रमाणाभावात्। नच- प्रायोदर्शनमात्रेण तत्सिद्धिः;

पार्थिवत्वलोह लेख्यत्वयोर्व्यभिचारात्। अधिकारिविशेषणानां नियोज्यताव-

च्छेदकत्वं न तावदधिकारिविशेषणताप्रयुक्तम्; किं तु- उपायगताधिकारि

यत्नसाध्यत्वरूपोपाधि निबन्धनम्। अतः यत्रोपायस्य सिद्धत्वम्, तत्र तद-

धिकारिविशेषणस्य नियोज्यतावच्छेदकत्वाभावोन नः क्षति मावहतीति

युक्तं प्रपत्तेर्विधेयान्तराभावेपि सिद्धोपायाधिकारि विशेषणत्वम्। ननु- सर्वाधिकारि विशेषणसाधारण मधिकारिविशेषणत्वं किन्नामेति चेत्;

-उपायान्वयितावच्छेदकत्वमेवेतिब्रूमः, सिद्धंच प्रपत्ते स्सिद्धोपायान्वयि

तावच्छेदकत्वम्, ([13]१३ ति-वाय्-९-१०-६) “शरणमाकुम् तनताळडैन्दार्‌क्कॆल्लाम्” इत्या-

दि दिव्यसूरिसूक्तिभिः। तस्मात् नविधेयान्तरासिद्धावपि प्रपत्तेरधिकारि

विशेषणत्वविरोधः।




अथवा- स्यान्नामाऽधिकारिविशेषणानां नियोज्यतावच्छेदकत्वनियमोपि;

तथापि न प्रपत्तेरधिकारिविशेषणत्वहानिः; प्रपन्नंप्रति सिद्धोपायस्यैव

विधीयमानत्वात्। न च सिद्धस्य प्रवृत्त्यसाध्यत्वाद्विधेयत्वासंभवः;- तस्यो

त्पाद्यत्वलक्षण साध्यत्वासंभवेपि प्राप्यत्वलक्षण साध्यत्वानपायेन तत्सा-

ध्यकविध्युपपत्तेः। उत्पाद्य विकार्य संस्कार्य प्राप्यभेदेन साध्य चातुर्विध्यं

हि सिद्धान्तम्। विधीयते च लक्ष्मीतन्त्रे प्रपन्नप्राप्यतया सिद्धोपायः ([14]१४)

“एवं मां शरणं प्राप्य वीतशोकभयक्लमः। मामेव शरणं प्राप्य मामेवान्ते समश्नुते” इति। अत्र “एवं मां शरणं प्राप्य” इत्यधिकारिविशेषणतया

शरणागतिमनूद्य तद्विशिष्टं प्रति “मामेव शरणं प्राप्य” इति प्राप्यतयासि-

द्धोपायविधानात्। किं च- प्रतिबन्धकविनिर्मोक विशिष्टवेषेण सिद्धोपा-

यस्यापि साध्यत्वसंभवेन तद्विधेरक्षतत्वाच्च।नच- विशिष्टोपादानस्य विशेषण

मात्रार्थकत्वेन प्रतिबन्धकविनिर्मोकमात्रस्यैव साध्यतया विधेयता स्यादिति

वाच्यम्;- तथासति लौकिक वैदिक कार्यकारणभावमात्र भङ्गप्रसङ्गात्।

-घटत्वाद्यवयवस्थाविशिष्टं प्रति कपालत्वाद्यवस्थाविशिष्टं हि कारणमि-

त्युच्यते; तत्राप्युक्तन्यायेन तत्तदवस्थामात्रस्य कार्यकारणभावापातात्।

अस्त्विति चेत्, ([15]१५ शा-मी-२-१-१५) “तदनन्यत्वमारम्भणशब्दादिभ्यः” इत्यादि सिद्धकार्य

कारणाभेद सिद्धान्तभङ्गप्रसङ्गात्। नच- तत्रप्रमाणबलाद्विशिष्टस्य साध्यताऽ-

भ्युपगम्यते, इहतु तदभावात्तदनभ्युपगम इति वाच्यम्; ([16]१६ भारते) द्रौपद्या सहि-

तास्सर्वे नमश्चक्रुर्जनार्दनम्” ([17]१७) “रक्षिष्यतीति विश्वासादभीष्टोपायकल्पनम्”

([18]१८ मनुस्मृतौ) “स्वाभीष्टे परसंबन्धे स्वशक्त्या हीनसाधनः। तत्प्राप्त्युपायं तत्पादौ कृत्वा

विश्वासपूर्वकम्” इत्यादि व्यवहारानुगुण्येन इहापि विशिष्टवेषेण साध्यताया

अवश्याभ्युपेयत्वात्।

नचैवमपि- सिद्धोपायगत प्रतिबन्धकविनिर्मोकस्य कर्तृव्यापाररूपत्वाभावेन तस्य

साक्षात्कृत्य साध्यत्वेन विधेयत्वासिद्धिः; स्वरक्षणार्थ स्वप्रवृत्तीनामेव सिद्धोपाय

फलोपधानप्रतिबन्धकतया तन्निवृत्तिरूप तद्विनिर्मोकस्य कर्तृव्यापाररूपत्वेन सा-

क्षाद्विधेयत्वोपपत्तेः। नच- तादृशविधिवाक्य दौर्लभ्यम्; ([19]१४) “तेन चेदविवादस्ते मागङ्गां माकुरून्गमः” ([20]२०) “अपायोपायसंज्जौतु पूर्वराशी परित्यजेत्” ([21]) “तमंशं नैवकुर्वीत मनीषी पूर्वराशिवत्” इत्यादीनां सुलभत्वात्। नच-आशुतरविना-

शिनीनां चेतनवृत्तीनां प्रतिबन्धकत्वानुपपत्तिः;स्वजन्यभगवन्मनःकालुष्यात्मकादृष्ट-

वत्तासंबन्धेन तदुपपत्तेः।

अथवा-अस्तुमनः कालुष्यविशेषाणामेव प्रतिबन्धकता; तथापि- नतद्विनिर्मोकस्य

कर्तृव्यापारासाध्यत्वम्; परम्परयापि तदुपपत्तेः। नचैवम्- कालुष्यविनिर्मोकस्य भगवत्प्रसादात्मकत्वेन तस्य पारम्पर्येण साध्यत्वोक्तौ औचित्यात् स्वर्गादिवत् फलरूपत्वस्य तद्धेतुभूतावान्तर व्यापाररूपत्वस्य वा प्रसङ्गः; कालुष्यशान्तिरूप

प्रसादस्याऽभावरूपत्वेन तस्य स्वर्गादितुल्यतया फलादिरूपत्वाभावात्। नच-तस्य, भावान्तरमभावइति न्यायेन स्वाभाविकभगवत्प्रीतिरूपत्वाश्रयणेन तथात्वप्रसङ्गः;

तथासति - तस्येष्टप्रसङ्गरूपत्वात्। नचैवम्- सिद्धोपायस्य निमित्तमात्राधिकारत्व-

हानिः; अस्यचोद्यस्य जीवनादिनिमित्तकस्थलेपि तुल्यत्वात्। तत्राप्युक्तदिशाप- रम्परया कर्तृव्यापारसाध्यस्य प्रत्यवायपरिहारादे स्सिद्धान्ते भगवत्प्रीतिरूपत्वात्। किंच- ([22]२२) “परिबृढतयावा विदितया जगतिगति मन्यामविदुषां गतिर्गम्यश्चा-

सौ हरिः” इत्याद्यनुगृहीतरीत्या सिद्धोपायं प्रति जीवनादिवत् स्वरूपयाथात्म्य

ज्ञानरूपत्वेनाऽऽकारेण निमित्तभूताया एव शरणागतेः, ([23]२३ पाञ्च) “याच्ञाप्रपत्ति श्शरणागतिः” ([24]२४ पाञ्च) “प्रार्थनामति श्शरणागतिः” इत्यादिभिः प्रमाणैः फलकामनारूपत्वस्यापि सिद्धत्वेन तदधिकारक सिद्धोपायस्य तन्त्रप्रयुक्ताग्नि-

होत्रन्यायेन संवलिताधिकारत्वस्य सिद्ध्या सिद्धोपायस्य केवलनैमित्तिकत्व भ-

ङ्गप्रसङ्गस्येष्टप्रसङ्गरूपत्वाच्च। न चैवमपि- विधेयान्तराभावेन  सिद्धोपायफलो-

पधान प्रतिबन्धकविनिर्मोकस्याऽसाध्यत्व प्रसङ्गः; ([25]२५ पाञ्च) “उपायापायसंयोगे

निष्ठया हीयतेऽनया। अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत्। प्रायश्चित्ति रियं

सात्र यत्पुनश्शरणं व्रजेत्। उपायानामुपायत्व स्वीकारेप्येतदेव हि।” इत्यादि-

विहितस्य प्रायश्चित्तविशेषस्यैव जागरूकत्वात्।

अथवा- मास्तु सिद्धोपायस्य विशिष्टवेषेण विधेयत्वाश्रयणम्, तथापि नप्रपत्तेस्सिद्धोपायनियोज्यतावच्छेदकत्वहानिः; अज्ञातज्ञापनरूपविधौ

तस्य स्वरूपत एव विषयत्वोपपत्तेः। नच- ([26]२६) “अमृतस्यैषसेतुः” इत्यादि-

शास्त्रैः प्रपत्यविशिष्टस्यापि सिद्धोपायज्ञानदर्शनेन तद्विशिष्टस्यैव तदधिकार-

त्वासिद्धिः; लोकदर्शनमात्रस्य शास्त्रीयनियमभञ्जकत्वायोगात्। तथासति - शूद्रा-

णामपि क्वचिद्वेदाध्ययनादिदर्शनेन तेषां त्रैवर्णिकाधिकारत्व भङ्गप्रसङ्गात्। नचेह

तदधिकारत्वनियमज्ञापकशास्त्र दौर्लभ्यम्; ([27]२७) “शीलवान्वैष्णवश्शुचिः” ([28]२८) “शिष्यस्तेहं शाधि मां त्वां प्रपन्नम्” ([29]२९) “शरणमुपगतश्शासत्र विश्वास

शाली” इत्यादिभि स्तन्नियमसिद्धेः। नच - प्रपत्तेश्शास्त्राधिगम्यत्वेन सिद्धोपाय शास्त्रश्रवण तत्प्रपदनयो रन्योन्याश्रयप्रसङ्गः; ([30]३० मुमुक्षुप्पडि-३-९०) “अर्जुनन् कृष्णनुडैय आनै-

त्तॊळि(ழி)ल् कळालुम् ऋषिकळ् वाक्यङ्गळालुम्” इत्यादिना श्रीवङ्गिपुरेशपूर्णा-

नुगृहीतरीत्या श्रवणमन्तरेणापि प्रपदनसंभवात्। नचैवम्- प्रपन्नस्य पुनस्सिद्धोपाय

ज्ञाननैरर्थक्यम्; प्रपन्नोत्तरवृत्तीनामिव स्वयंप्रयोजनभगवत्प्रीत्यर्थत्वसंभवात्; ([31]३१ मुमुक्षुप्पडि)

“सत्वम् तलैयॆडुत्तपोतु” इत्याद्यनुगृहीतरीत्या भयनिवृत्त्याद्यर्थकत्वसंभवाच्च। किंच
  • अलौकिकश्रेयस्साधनानां सर्वेषां तत्तदधिकारिविशेणावच्छिन्न तत्तद्विधिमूलक कर्तृव्यापारोपात्ततयैव तत्तत्फलोपधायकत्व दर्शनेन, प्रकृतेपि सिद्धप्रपदनेन पुंसा साधनतया ज्ञायमानं ब्रह्मैव साधनमित्यवश्यं
वक्तव्यत्वेन तत्सार्थक्यसंभवाच्च। नचैवम्- ब्रह्मज्ञानस्यैव विधेयतया साध-

नत्वप्रसङ्गः; विधेयत्वस्य प्रपन्नोत्तरवृत्यन्तर्गत द्वयार्थानुसन्धानादिषु व्यभिचरितत्वेन साधनत्वाऽसाधकत्वात्। अत एवहि कर्तृव्यापारकृति साध्यतामात्रं लिङादेर्वाच्यं शब्दानुशासनसिद्धम्, नान्यदलौकिकमिति भाष्यकारमत मुपपद्यते। किंच- सिद्धोपायविधायकशास्त्रेषु एकपदैवका-

रादिभिस्तद्ज्ञानादीनां साधनत्वस्य निषिद्धतया तद्विरोधेन तदसंभवाच्च।

अपिच- ([32]३२) “अमृतस्यैषसेतुः” ([33]३३) “साकाष्ठासापरागतिः” ([34]३४ कठोपनि-२-२३) “यमैवैषवृणुते तेनलभ्यः” ([35]३५) “विष्णुपोतं विना नान्यत्किञ्चिदस्ति परायणम्” ([36]३६ जि-स्तो-१०) “त्वत्पादकमलादन्य न्नमे जन्मान्तरेष्वपि। निमित्तं कुशलस्यास्ति” इत्यादि बहुप्रमाणानुगृहीतेन शरणपदेन ब्रह्मणएवोपायभावस्य कण्ठोक्ततया तद्विरोधेन तद्ज्ञानस्य उपायत्वकल्पनायोगाच्च।

एतेन, “मामेकं शरणं व्रज” इत्यादेस्साधनत्वेन ब्रह्मानुसन्धानविधानपरत्वे ब्रह्मणस्साधनत्वासिद्ध्या केवलदृष्टिविधिमात्रपरत्वमेव स्यादिति मिथ्याज्ञानादपवर्गप्रसङ्गः” इति यदुक्तम्, तदपि परास्तम्। “अमृतस्यैषसेतुः” इत्यादिभिरेव तत्सिद्धेः। नच तेषां रक्षकत्वमात्रविषयता;

तस्य सर्वसाधारणत्वेन “अमृतस्य” इत्यादिविशेषोपादानानुपपत्तेः; ([37]३७ पाञ्च)

“उपाये गृहरक्षित्रोः” इत्यादि शरणशब्दार्थनिष्कर्षक वचनविरोधात्; कूलान्तरप्राप्तिकरणवाचि सेतुशब्दादिस्वारस्यविरोधापत्तेश्च। नचैवमपि

तादृशसाधनत्वज्ञानस्य श्रवणमात्रसंपाद्यत्वेन विधिव्यापारविषयत्वासंभवः;

हेत्वन्तरप्राप्तस्यापि धात्वर्थस्याऽविलम्बितसिद्धिलाभाय लोके विधिदर्शनेन

तन्न्यायेनाऽत्रापि विधिविषयत्वसंभवात्। नचैवम्, कुदृष्टिमतोत्थानप्रसङ्गः;

अस्य ज्ञानस्य मोक्षसाधनत्वानभ्युपगमात्; मोक्षस्य केवलसिद्धोपायसाध्यत्वं हि अस्मत्सिद्धान्तसिद्धम्। नच- अविधेयज्ञानस्य परम्परया यथाकथञ्चिन्मोक्षोपयुक्तत्वमात्रेण कुमतिमतोत्थानप्रसङ्गः; तथासति तस्य सर्वेषां तुल्यत्वात्।




नचैवम्, समर्पणपर्यन्तसाधनत्वबुद्धिविशेषस्यैव प्रपत्तित्वाभ्युपगमात्, अधिकारविधेययोरैक्यप्रसङ्गः; प्रपत्तिव्यक्तोरभिन्नत्वात्। नोचेत् प्रपन्नकर्तव्यतया नित्यविहितस्य प्रपत्तेरपि हानप्रसङ्गात्। किंच - गोप्तृत्ववरणात्मकसाधनत्वबुद्धि रधिकारिविशेषणम्, करणत्वबुद्धिरूपं शरणवरणं विधेयमिति तयो र्भेदोपपादनसंभवाच्च।




नचैवम्, कर्तरि ब्रह्मणि करणत्वबुद्धेः महापराधरूपता; तथासति (३८ सहस्रना-४१) “करणं कारणं कर्ता” इति सहस्रनामस्तोत्रे करणमित्यस्य परिहरणीयत्वापपत्तेः। यदिच कर्तृत्वसमानाधिकरणस्य करणत्वस्य गुणरूपतया तस्य स्तुतिपरत्वमुच्येत, तर्हि सर्वत्र दीयतां दृष्टिः। नचैवम् -

ब्रह्मणः करणत्वे करणस्यच कर्तृनिरूपितस्वरूपत्वेन कर्त्रपेक्षायां परिशेषादौचित्या च्चाधिकार्येन कर्तेति प्रतीयेतेति पारतन्त्र्यविरोधप्रसङ्गः;

अस्य चोद्यस्याङ्गप्रपत्तिस्थलेपि तुल्यत्वात्। तन्निष्ठानाम् ([38]३९) “तस्य च वशीकरणं तच्छरणागतिः” इत्युक्तरीत्या ब्रह्मवशीकरणात्मक शरणागतिकर्तृत्वाभ्युपगमात्। यदिच - तत्र धात्वर्थस्वभावात् कर्तृत्वविशेषसिद्धिरभ्युपगम्येत; तर्हि प्रकृतेरपि ब्रह्मणा करणेन फलं प्राप्नोति प्रपन्न इत्यत्र परार्थप्राप्तिलक्षणधात्वर्थस्वभावादपि तत्कर्तृत्वविशेषलाभो निष्कण्टक एवेति पश्यतु भवान्। किंच - ([39]४०) “अहं हि शरणं प्राप्तो नरेणाऽनन्यचेतसा। प्रापयाम्यात्मनाऽऽत्मानं निर्धूताखिलकल्मषम्” इत्यादिना भगवत्करणकक्रियायां भगवतएव कर्तृत्वस्य सिद्धत्वेन तद्विरोधो नचेतनस्य तत्र स्वतन्त्रतया कर्तृत्वाश्रयणस्याऽत्यन्तानुचितत्वात्। नच करणत्व कर्तृत्वयोर्लोके विरोधदर्शनात् भगवत्करणकक्रियायां भगवतः कर्तृत्वासंभवः; तथासति जगत्सृष्टावुपादानतया करणभूतस्य कर्तृत्वत्यागप्रसङ्गात्। नच तत्र प्रमाणबलात् तत्सिद्धिः; प्रकृतेपि प्रमाणानामुदाहृतत्वात्तत्सिद्धिः। नच भगवतो मोक्षकरणत्वपराणां वचनानां निरपेक्षमोक्षप्रदान कर्तृत्वमात्रपरतयाऽन्यथासिद्धता; जगदुपादानत्वपराणामपि वचनानां निरपेक्षकर्तृतापरतयाप्यन्यथासिद्धिप्रसङ्गात्।  नच उपादाननिरपेक्षसृष्टे र्लोकेऽदर्शनात् तदनुपपत्तिः; करणनिरपेक्षरक्षणस्यापि लोकेऽदर्शनेन तस्याप्यनुपपन्नत्वात्। नच- विचित्रशक्तौ भगवति तदुपपत्तिः; तथैवात्राप्युपपत्तिः। तस्मात् जगत्सृष्टाविव मोक्षप्रदानेपि ब्रह्मणः करणत्वकर्तृत्वयो रविरुद्धत्वात्, न भगवत्करणक्रियायां भगवतः कर्तृत्वासंभवः। नचैवम्, प्रपत्ते रधिकारिविशेषणत्वे ([40]४१ भगवच्छास्त्रे) “तेनतेनाप्यते तत्तन्न्यासेनैव महामुने” इत्यादौ तस्य साधनत्वोक्ते रमुख्यत्वापत्तिः; केषांचित्प्रपत्तिविशेषाणां भक्तितुल्यतया अस्माभिस्साधनत्वाभ्युपगमेन तेषां वचनानां तद्विषयतया विरोधाभावात्। प्रकृते सर्वप्रपत्तीनां साधनत्वनियम एव निषेध्यते। ([41]४२) “अमृतस्यैष सेतुः” इत्यादि बहुप्रमाणमूलकस्य भगवतः करणत्वव्यपदेशस्याऽमुख्यत्वपरिहाराय सिद्धोपायनिष्ठानुष्ठेयानां प्रपत्तीनाम् अधिकारविशेषणमात्रत्व मकामेनापि स्वीकर्तव्यमेवेति सर्वमवदातम्।।

समाप्तः

प्रपत्यनुपायत्वविचारः



 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.