[highlight_content]

सारनिष्कर्षटिप्पणी

।। श्री ।।

श्रीमते रामानुजाय नमः

॥ सारनिष्कर्षटिप्पणी ॥

सारोक्तसारनिष्कर्षटिप्पणी रच्यते मया

वागाभरणमीमांसाभाष्यसिद्धाञ्जनात्मिका

अथातस्तत्र भगवान्निगमान्तगुरुः सारनिष्कर्षाधिकारे पूर्वाधिकारप्रकृतं रहस्यत्रयस्य सकलनिगमान्तशब्दराशिसारतमत्वं प्रतिष्ठापयितुं तस्य रहस्यत्रयव्यतिरिक्तसर्ववेदान्तभागानामसारत्वादिसिद्ध्यधीनत्वेन, प्रमाणमुखेन तदेतत्सर्वं व्यवस्थापयिष्यन् वक्ष्यमाणार्थं सङ्गृह्णाति –

श्रुतिपथविपरीतं क्ष्वेलकल्पं श्रुतौ

प्रकृतिपुरुषभोगप्रापकांशो पथ्यः

तदिह विबुधगुप्तं मृत्युगीता विचिन्व

न्त्वुपनिषदमृताब्धेरुत्तमं सारमार्याः

इति । अत्रायं वक्ष्यमाणसंग्रहः – अलौकिकार्थानां प्रत्यक्षाद्यपरिच्छेद्यत्वात् शब्दैकसमधिगम्यत्वं सम्प्रतिपन्नं, स च शब्दो द्विविधः लोकिको वैदिकश्चेति । तत्र लौकिकस्य भ्रमप्रमादादिसम्भावनया स्वतः प्रामाण्यायोगात् साक्षादलोकिकार्थप्रमितिकरणत्वाभावादत्यन्तासारभूत एवेति तत्त्याग उपादानं वा नविधेयः,त्यागस्य स्वतस्सिद्धत्वात् उपादानस्य चान्येच्छाधीनात्वात् । तस्माद्वेदेष्वेव विवेकः कार्यः ।

स च वेदः पञ्चभागात्मकः । तत्र प्रकृतिप्राकृतभोगगप्रतिपादकांशः आसारशब्दवाच्यः प्रथमः । प्रकृतिविमुक्तकेवलात्मानुभवादिरूपामुष्मिकप्रतिपादकांशो द्वितीयः, अल्पसारशब्दवाच्यः परप्राप्तिगर्भात्मप्राप्तिलक्षण स्वार्थानुभवप्रतिपादकांशस्सार -शब्दवाच्यः तृतीयः । स्वार्थकैङ्कर्यपर्यन्तमोक्षलक्षणसातिशयपरमात्मप्राप्तिप्रतिपादकांशः सारतरशब्दवाच्यस्तुरीयः । परार्थानुभवकैङ्कर्यलक्षणमोक्षरूपात्यन्तातिशयितपरमात्मानुभवप्रतिपादकांशः सारतमशब्दवाच्यश्चरमः । अत्र चरमकोटिव्यतिरिक्तांशानां सर्वेषां ममेतिद्व्यक्षरो मृत्युरित्युक्तमृत्युदुष्टत्वात् तन्मृत्युभीतानां विवेकिनां चरमांश एक एवोपादेयः । तदन्ये त्याज्या इति ज्ञापयितुं मातापितृसहस्रेभ्योपि वत्सलतरेण शास्त्रेण असारमित्यादिस्मृतिसिद्धेन, पूर्वेषां चतुर्णामंशानां त्यागश्चरमस्यैवोपादानं च  विधीयत इति, तेनैव शास्त्रेण रहस्यत्रयस्य सकलाध्यात्म शब्दराशिसारतमत्वसिद्धिरिति ॥ तदिदं सर्वं संगृह्णाति श्रुतिपथविपरीतमित्यादिनेति ।

तत्र प्रथमं ननु वक्ष्यमाणवचने शास्त्रशब्दस्य लक्षणया बाह्यादिसाधारण्यमवश्यमाश्रयणीयम् । नोचेत् बाह्यदीनां निषेधासिद्ध्या रहस्यत्रयवत्तेषामप्युपादेयत्वप्रसङ्गात् । तत्कथमत्र श्रुतौ चेत्यनेन वक्ष्यमाणवचनगतसप्तम्यन्तशास्त्रशब्दसंग्रहो वेदासाधारणशब्देन क्रियत इति शङ्कायामुत्तरमाह – श्रुतिपथविपरीतं क्ष्वेलकल्पमिति । अयं भावः बाह्यकुदृष्टीनामत्र प्रतिपिपादयिषितो निषेधः किं सांख्यं त्यजेत्, पाशुपतं त्यजेदिति प्रातिस्विकरूपेण तत्तद्धर्मावच्छिन्नकर्मकः, नोचेत् बाह्यकुदृष्टिमात्रासाधारणवेदविरुद्धत्वरूपैकधर्मपुरस्कारेण, वेदविपरीतं त्यजेदिति वेदविपरीतत्वधर्मावच्छिन्नकर्मकः, आहोस्वित् स्वविषयकशाब्दप्रमाकरणतासम्बन्धावच्छिन्नसारत्वावच्छिन्नप्रतियोगिताका भाववत्त्वलक्षणसारत्वरूपसकलपौरुषेयवाक्यसाधारणैकधर्मपुरस्कारेणासारं त्यजेदिति आसारत्वावच्छिन्नकर्मको वा नाद्यः, बाह्यकुदृष्टिग्रन्थानां भूतभविष्यत्कालोत्पत्तिकानामनन्तत्वेन प्रातिस्विकरूपेण तन्निषेधस्यात्यन्तमशक्यत्वात्, असारमित्यादिश्लोके तथा निषेधादर्शनेन निष्प्रयोजनशास्त्रशब्दलक्षणायोगाच्च ।

नापि द्वितीयः, वेदविपरीतत्वहेतुनैव तेषां त्यागस्य सिद्धतया वेदविपरीतं त्यजेदिति तत्त्यागविध्ययोगात्, वचने तादृशनिषेध ज्ञापकशब्दाभावच्च, असारशब्दे नञो विरोधिपरत्वाश्रयणेन असारं त्यजेदित्यस्य सारविरोधि त्यजेदित्यर्थवर्णनेऽपि सारविरोधित्यागस्य सारेच्छानिबन्धनत्वेन तेनैव तत्सिध्यातद्विधानायोगाच्च ॥

अथ नापि तृतीयः, प्रयोजनमनुद्दिश्य नमन्दोपि प्रवर्तत इति न्यायेन सारत्वावच्छिन्नशून्यत्वज्ञानेनैव तत्त्यागसिद्ध्या तद्विधानायोगात् तस्मात् विषभोजननिषेधानुपपत्तिवत् बाह्यादिनिषेधानुपपत्तेर्दुरपह्नवत्वान्नसारमित्यादिवचने शास्त्रशब्दस्य लक्षणाश्रयणं युक्तमिति तस्य मुख्यार्थवेदपरत्वात् श्रुतिपथविपरीतमित्यादितदर्थसङ्ग्रहश्लोके, श्रुतौचेति सप्तम्यन्तशास्त्रशब्दार्थसंग्रहणमुपपन्नतरमेवेति श्रुतिपथविपरीतं क्ष्वेलकल्पमित्युक्त्या हि बाह्यकुदृष्टयोर्निषेधायोग्यत्वं स्फुटतरमवगम्यते ।

एतेन श्रुतिपथविपरीतं क्ष्वेलकल्पमित्यनेन वक्ष्यमाणवचनगतासारशब्दार्थः संगृहीत इति केषाञ्चिदुक्तिः परास्ता तथासति अप्रसक्तप्रतिषेधापातात् । न हि विषं न भुञ्जीतेति निषेध उपपद्यते । किञ्च असारं त्यजेदिति निषेधबलादेवासारांशस्यात्यल्पसारवत्त्व- सिद्ध्या अत्यल्पसारवदंशस्याल्पसारांशापेक्षया जघन्यत्वानपायेन तस्याल्पसारांशजघन्यकोटिवाच्यसारशब्दवाच्यत्वोपपत्तिश्च वचनस्थासारशब्द अत्यल्पसारांशपर एवेत्यभिप्रेत्य वेदान्ताचार्यैः वेदान्तार्भावेनैवात्यल्पसारांशस्यापि दर्शयिष्यमाणत्वेन तद्विरोधाच्च । यदि च ऐहलौकिकैश्वर्यप्रतिपादकांशस्य वचनस्थाल्पसारशब्दार्थत्वेमेवाचार्याणामभिमतं, तर्हि कथं तस्यात्यल्प सारत्वोक्तिरुपपद्येतः । अत्यल्पसारो हि अल्पसारापेक्षया जघन्यः । अल्पसारापेक्षया जघन्यकोटिश्च वचने असारशब्देनैवोपात्तः । तस्मात् आचार्याणां मते वचनस्थासारशब्दो नात्यन्तासारवाची । तथा सति तन्निषेधायोगात् । किन्तु अत्यल्पसारभूतैहिकफलतत्साधनादिप्रतिपादकांशवाच्येवेत्यग्रे स्पष्टीभविष्यतीति । तथा च श्रुतिपथविपरीतं क्ष्वेलकल्पमित्यनेन बाह्यकुदृष्ट्यादिविवेकस्यान्यतः सिद्धत्वेनानवसारग्रतत्वमुक्तम् ।

अथ वक्ष्यमाणवचनस्थशास्त्रशब्दप्रतिपाद्यवेदान्तर्गतेषु असारादिपञ्चभागेषु प्रथममसारशब्दवाच्यं संगृह्णाति –

श्रुतौ प्रकृतिपुरुषभोगप्रापकांशो पथ्यः – इति ॥

अत्र पुरुषभोगशब्देन हिरण्यगर्भादिसायुज्यमभिधीयते, नकैवल्यम् । कैवल्यप्रतिपादकांशस्य उपनिषदन्तर्गतत्वेन पूर्वभागे तदयोगात् ॥ उपनिषदमृताब्धेरुत्तमं सारमित्युपनिषदन्तर्गतभागानामनन्तरमेव वक्ष्यमाणत्वेन तद्बहिर्भूतभागस्यैवात्राभिधानात् प्रकृतिविनिर्मुक्तात्मानुभवरूपकैवल्यस्य पञ्चाग्निविद्याफलत्वात्, प्रकृतिसंसृष्टस्यैव सतस्तद्विविक्तानुभवस्य प्राणविद्यादिफलत्वाच्चात्मानुभवानां सर्वेषामुपनिषदन्तर्गतप्रतीकाप्रतीकान्यतरालम्बनैकसाध्यतायाः संप्रतिपन्नत्वात् । तस्मादत्र पुरुषभोगशब्देन ब्रह्माग्नीन्द्रादिप्राप्तिरेवाभिधीयत इति युक्तं प्रकृतिभोगशब्देन च

स्वर्गादिदेशावच्छिन्नामृतपानस्रक्चन्दनाङ्गरागानुलेपनोपवन विहारमन्दमारुतनिषेवणादिकमुच्यते ।

नन्विदं सर्वं प्रमाणस्थासारशब्दवाच्यं न भवितुमर्हति महानन्दरूपत्वादि चेत्, भ्रान्तोसि ।

स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिरिति तेषां निर्वृतिशून्यत्वस्य कण्ठोक्तत्वात् । किञ्च प्रकृते सारशब्दस्य स्वरसतः प्राप्यभूतस्थिरांशवाचित्वेनास्थिरभोगप्रापकांशेष्व सारशब्दो मुख्य एव । सारो बलेस्थिरांशे चेति कोशात्, वस्तुवस्त्वात्मकं कुत इत्येषां तन्निषेधाच्च । तस्मादस्थिरत्वप्रयोजककर्मोपाधिशून्यस्थिरसुखमेव सारशब्दार्थ इति तच्छून्यत्वात् कर्मकाण्डस्यासारशब्दवाच्यत्वं युक्तमेवेति ।

अत्र नपथ्य इत्यपथ्यत्वोक्त्या असारभागस्य तादात्विकात्यल्पसुखत्त्वं प्रतीयते । तेन तन्निषेधानुपपत्तिशङ्कापरिहारोपि सूचितः । तच्छङ्कापरिहाराय असारभागस्यात्यल्पं सारवत्त्वं हि वक्ष्यति । एतदुक्तं भवति – असारभागस्य सारशब्दवाच्यस्थिरसुखशून्यत्वेऽपि तादात्विकास्थिरसुखानुभवलिप्सया अपथ्यान्नभोजनप्रवृत्तबालादिन्यायेन ये तदुपादाने प्रवर्तन्ते तान्प्रत्ययमसारं त्यजेदिति निषेधविधिरिति नानुपपत्तिरिति ॥

अथ उपनिषदन्तर्गतान् अल्पसारसारसारतरसारतमशब्दवाच्यान् भागान्  संगृह्णाति-तदिह विबुधगुप्तमित्यादिना । अत्र तच्छब्दः पूर्वोक्तपथ्यत्वपरामर्शकः । अपथ्यत्वादेव हेतोरित्यर्थः । येनापथ्यत्वहेतुना असारांशस्त्यक्तस्तेनैव हेतुना अल्पसारसारसारतरभागा अपि त्याज्या इति भावः ।

ननु ऐश्वर्यप्रतिपादकांशस्यानित्यफलतया युक्तमपथ्यत्वम् । कथमेतेषामपि तथात्वमिति शङ्कायामाह – मृत्युभीता इति ॥

अयं भावः – यद्यपि स्वर्गादीनामिव प्राप्तपदभ्रंशलक्षणो नाशः कैवल्यादीनां नास्ति, तथापि ममेति द्व्यक्षरो मृत्युर्नममेति शाश्वतमिति प्रमाणानुसारात्, स्वातिशयार्थस्वभोगान्वयरूपाणां कैवल्यादीनां शेषत्वादिरूपयथावस्थित स्वस्वरूपनाशाधायकत्वानपायात् तादृशमृत्युभीतानां तेषामप्यपथ्यत्वम विशिष्टमेवेति युक्तं तत्त्यागपूर्वकं तेषां तद्रहितसारतमांशमात्रान्वषणमिति ॥

ननु कथं नित्यस्यात्मस्वरूपस्या नाश इति चेत्, धिक् त्वामान्धं, येनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानोपपादनं न जानासि । सत्यज्ञानादिस्वरूपस्य ब्रह्मणोपि कार्यत्वमङ्गीकुर्वतां सिद्धान्तेन चेतनस्वरूपनाशो दुरुपपाद इति पश्यतु भवान् । उपनिषदमृताब्धेरुत्तमं सारमित्यनेन वक्ष्यमाणप्रमाणे भजनीयत्वेन विवक्षितस्य सारतमांशस्य उपनिषदुत्तमसारत्वोक्त्या तस्य च उपनिषत्सारोपनिषदुत्सारोपनिषदुत्तरसारैत्त्रितयनिरूपितस्वरूपत्वेन ते त्रयोपि त्याज्यभागाः प्रदर्शिताभवन्ति । तत्रोपनिषत्सारभागः वचनस्थाल्पसारशब्दवाच्यः कैवल्यप्रतिपादकांशः, उपनिषदुत्सारभागः वचनस्थसारशब्दवाच्यस्वार्थानुभवप्रतिपादकांशः, उपनिषदुत्तरसारभागः

वचनस्थसारतरशब्दवाच्यस्वार्थकैङ्कर्यप्रतिपादकांशः । उपनिषदुत्तमसारभागस्तु वचनस्थसारतमशब्दवाच्यपरार्थानुभवकैङ्कर्यप्रतिपादकांशो रहस्यत्रयात्मा, सर्वेषां ममकारान्वयभीतानामात्मयाथात्म्यविवेकिनामुपादेय इति विवेकः ।

अत्रार्या विचिन्वन्तीत्येनेन रहस्यत्रयमविचिन्वतामनार्यत्वं व्यज्यते । मृत्युभीता विचिन्वन्तीत्यनेन रहस्यत्रयमविचिन्वतां सर्वेषामन्ततो गत्वा स्वरूपनाश एवेत्यपि गम्यते । एतेन विस्तरतरविचाराक्षमाणां विलम्बाक्षमाणां च रहस्यत्रयमधिकरणीयं, तदन्येषां तु उपनिषद्भागेनैवोज्जीवनसिद्धिरित्याचार्याणामाशय इति केषाञ्चिद् भ्रान्तिर्दूरोत्सारिता ॥

यद्येवं रहस्यत्रयमेव सर्वेषां भजनीयं स्यात्, तर्हि भगवता बादरायणेन किमिति तन्न विचारितमित्याशङ्कायामुत्तरमुक्तम् – विबुधगुप्तमित्यनेन । अयं भावः- भगवता बादरायणेन प्रबन्धरूपेण रहस्यत्रयार्थाप्रणयनं न तदनपेक्षितत्वनिबन्धनं, किन्तु मन्त्रं यत्नेन गोपयेत् इत्युक्तगुह्यतमत्वनिबन्धनमेव । यथा जैमिनिना शारीरकशास्त्रगोपनं, तद्वदेव । तस्मात् जैमिनिबादरायणबोधायनटङ्कद्रमिडगुहदेवश्रीवत्साङ्कमिश्रादीनां सर्वेषामतिगुह्ये रहस्यत्रय एव तात्पर्यात्तदितरसर्वत्यागपूर्वकं तदेव सर्वैर्विवेकिभिरुपादेयमिति ॥

एवं संगृहीतमर्थं प्रतिष्ठापयितुं तदुपयोगितया रहस्यत्रयस्यैव वक्ष्यमाणवचनस्थसारतमशब्दार्थत्वसम्भवं प्रमाणतो व्यवस्थापयन् सिद्धान्तं प्रतिजानीते – इन्दरहस्यत्रयत्तिल् तिरुमन्त्रं सर्वमष्टाक्षरान्तस्स्थमेन् गिरपडिये तन्नर्थत्तैयरियवे एल्लावर्थङ्गकैयुमरिन्दरुंबडियायिरुक्कैयालुं चरमश्लोकं

सर्वधर्मान्तरित्यज्यमामेकं शरणं व्रज

न्नुं शोल्लुकिर उपायमोन्नैयुमे अवलम्बिक्क सर्वोपायफलसिद्धियुण्डामेन्नुस्थापिक्कैयालुं द्वयमुंकठसुत्यादिक किल् शोल्लुकिरपडिये तन्नैयोरुक्कालुच्चरित्तवनै सर्वप्रकास्तालु कृतकृत्यनाक्कवल्ल वैभवत्तै उडैत्तायिकक्कैयालुं रहस्यत्रयमे ममुक्षुवुक्कादरणीयमिति

अत्रायं भावः नतावदस्मिन्नधिकारे उपासनशास्त्रस्य न्यासशास्त्रस्य वा सारतमत्वेनोपादेयत्वं प्रतिपिपादयिषितं, तयोः सकलशास्त्रनिरतिशयसारतया प्रमाणोपपत्तिसिद्धेन रहस्यत्रयेन सातिशयत्वेनोपादेयताप्रयोजकसारतमत्वायोगात् । नह्यापेक्षिकं सारतमत्वं स्वाश्रयमात्रोपादेयतायां प्रयोजकं स्यात्, किन्तु मुख्यमेव । मुख्यञ्च सारतमत्वं रहस्यत्रयस्यैव संभवति । तदन्यगतानां सारतमत्वानां रहस्यत्रयावधिकासारत्वसमानाधिकरणत्वेन मुख्यत्वायोगात् रहस्यत्रयस्य तु – ऋचो यजूंषि सामानि तथैवाथर्वणानि , सर्वमष्टाक्षरान्तस्थमित्यादिभिः प्रमाणैरष्टक्षरावच्छेदेन -स्वेतरसकलशास्त्रतात्पर्यविषयीभूतमुमुक्षुज्ञातव्य सकलार्थितत्त्वयाथात्म्यप्रतिपादक -त्वसिद्धेः, चरमश्लोकावच्छेदेन सिद्धोपायप्रतिपादकतया तस्य च सिद्धोपायस्य शारीरक- मीमांसापराधिकरणफलाधिकरणाभ्यां सर्वप्रकारसर्वफलसाधनत्व व्यवस्थापनात् ।

ये वेदविदो विप्रा ये चाध्यात्मविदो जनाः

ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्

इत्यन्यत्रापि सिद्धोपायस्यैव सकलफलसाधनत्वव्यवस्थापनाच्च, सकलशास्त्रतात्पर्यविषयीभूतोपाययाथात्म्यप्रतिपादकत्वसिद्धेः कठवल्ल्याख्यकठश्रुतौ अथातश्श्रीमद्वयोत्पत्तिरित्यारभ्य यत्सकृदुच्चारेण संसारविमोचनं भवति सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति सर्वपुरुषार्थसिद्धिर्भवति सर्ववेदपारायणपुण्यं लभते श्रीमन्नारायणस्य प्रियो भवतीति सकृद्वयोच्चारणमात्रस्यैव सकलपुरुषार्थसाधनप्रवृत्ताधिकारिकृत्यरूपत्वप्रतिपादनात्, द्वयावच्छेदेन तस्य सर्वाधिकारिकृत्यसमवायरूपत्वसिद्धेः, तत्पूर्वखण्डावच्छेदेन तत्त्वतो भगवद्वेदनप्रतिपादनेन विदुः कृष्णं ब्राह्मणास्तत्त्वतो ये तेषां राजन् सर्वयज्ञाः समाप्ताः इत्युक्तरीत्या शास्त्रीयसर्वप्रकारभगवदाराधनकाष्ठाप्रतिपादकत्वात् । उत्तरखण्डावच्छेदेन सर्वप्रकारभगवन्नित्यकैङ्कर्यप्रार्थनाप्रतिपादनेन सकलामुष्मिकफलकाष्ठाप्रतिपादनाञ्च, तत्त्वहितपुरुषार्थाधिकारिकृत्यानां सर्वेषां सर्वशास्त्रपरमतात्पर्यगोचराणां रहस्यत्रय एव निरवशेषनिष्कलङ्क प्रतिपादनात् । तस्यैव प्रमाणोपपत्तिभ्यां मुख्यसारतमत्वोपपत्तेस्तदन्यस्य तदनुपपत्तेश्च तस्यैवोपादेयत्वमस्मिन्नधिकारे व्यवस्थाप्यत इति ।

एतेनासारमित्यादि – वक्ष्यमाणवचने सारतमशब्देन न्यासशास्त्रमुपासनशास्त्रं तदुभयं वोच्यते न रहस्यत्रयमिति केषाञ्चिदुक्तिर्दुरुक्तिरेवेति प्रदर्शितम् । तथा सति

प्रकृतार्थ – वैपरीत्यसाधनेनास्याधिकारस्यासाङ्गत्यापत्तेः अयं हि प्रबन्धः रहस्यत्रयविचारात्मकः न तु न्यासादिविचारात्मकः । शारीरकमीमांसायामेव न्यासोपासनलक्षणसर्वविधब्रह्मविद्याविचाराणां समाप्तत्वात् । यदि च तत्र कस्य – चिदसमाप्तिः स्यात् तर्हि शास्त्रं परिसमाप्तमिति भगवान् भाष्यकारो न वक्ष्येत् । परितस्समाप्तिर्हि तत्रैवोच्यते । –

किञ्च सकलशास्त्रसारतमत्वेन निरुक्तबहुप्रमाणोपपत्तिसिद्धस्य रहस्यत्रयस्य शारीरकसूत्रेषु कुत्राप्यविचारितत्वेन तस्य सारतमशब्दार्थत्वं च दुरुपपादम् । न च नानाशब्दादिभेदादित्यादिषु शरणं प्रपद्ये शरणं व्रजेत्येतदपि विवक्षितमेव, पृथक् तद्विषये सूत्र प्रणयनाभावस्तु विचारप्रतिक्षेप्यार्थविप्रतिपत्त्यभावादेवोपपद्यत इति वाच्यम् । तथा सति रहस्यविचारात्मकस्यास्य प्रबन्धस्यानारम्भप्रसङ्गात्, एतत् प्रतिक्षेप्यविप्रतिपत्त्यभावात् ।

नचात्यन्तमन्दमतीनामेवायं ग्रन्थारम्भ इति नानुपपत्तिरिति वाच्यम् । तर्हि भवादृशान्महामतीन् प्रत्यस्य ग्रन्थस्य त्याज्यत्वापत्तेः । इष्टप्रसङ्गोयमिति चेच्छान्तं पापम् । कोक्ळत्तुणियिलेन्कोतेन्तिर्कामुलेण् कूर्मतियीर् इति गाधायां महामतीनामयं प्रबन्धोनुपादेय इति ज्ञानवतां गर्हितत्वात् ।

किञ्च नानाविदश्रुतिस्मृतीतिहास सपुराणपाञ्चरात्रनिरुक्तिसम्प्रदायन्यायकलापादिनिरूपणेनाचार्यैर्बहुग्रन्थप्रणयनेन प्रतिपादितं रहस्यत्रयार्थं कथमिव सुव्यक्तं मनुषे, यदर्थग्रहणार्थमष्टादशकृत्वो गोष्ठीपूर्णमुपासन्नस्तत्रभगवान् भाष्यकारोपीति सांप्रदायिको घण्टाघोषः । न हि शारीरकमीमांसाश्रवणार्थमप्येवं विधोपसक्तिस्तस्य श्रूयते । तस्मादेवं रहस्यत्रयस्य दुरूहार्थत्वेऽपि भगवता बादरायणेन शारीरकमीमांसायां तद्विचाराकरणं तस्य तदनन्तर्भावं साधयत्येव । तस्मान्न शारीरकविचारितन्यासोपासनपरवाक्यजातस्य सारतमशब्दार्थत्वसम्भवः ॥

किञ्च यद्ययमाचार्यप्रबन्धो मन्दाधिकार्यर्थ एव स्यात्, तर्हि सारनिष्कर्षाधिकारस्थाने मुख्यानुकल्पनिष्कर्षाधिकार एव कर्तव्यः स्यात्, मन्दाधिकारिणामनुकल्पस्यैवावश्यविचारणीयत्वात् । मुख्याधिकारिभजनीयं सारतमं भक्तिशास्त्रं, तदपेक्षया मन्दाधिकार्युपजीव्यं ततोऽप्यनुकल्पभूतं वैदिकन्यासशास्त्रं, तदपेक्षयामन्दाधिकार्युपजीव्यं ततोऽप्यनुकल्पभूतं मन्त्रकं तान्त्रिकप्रपत्तिशास्त्रं, तस्यापि संग्रहमिदं रहस्यत्रयम् । तस्मादिदमेव सर्वमन्दोपजीव्यमिति ह्यत्र वक्तव्यं स्यात् । नह्यत्र तथोच्यते । प्रत्युत सर्वमष्टाक्षरान्तस्थमित्यादिना रहस्यत्रयस्यैव सारतमत्वप्रतिपादनपूर्वकं रहस्यत्रयमे मुक्षुवुक्कादरणीयमिति मुमुक्षुत्वावच्छेदेन रहस्यत्रयस्यैकस्यैवादरणीयत्वमुच्यते ।

अपिचासारमित्यादिवचने यदि रहस्यत्रयान्यस्य कस्यचित् सारतमतया भजनीयत्वमुच्येत, तर्हि एतदधिकारसिद्धान्तसाधकतया तद्वचनोदाहरणं विपरीतमेवापद्येत । न हि रहस्यत्रयान्यस्य कस्यचित् सारतमतया भजनीयत्वे प्रतिपादिते सति, रहस्यत्रयस्य विचारणीयता सिध्येत् ।

ननु रहस्यत्रयगर्भस्यैव वेदान्तशास्त्रस्य सारतमतया भजनीयत्वेन वचनविवक्षितत्वान्न दोष इति चेन्न, तथासति निर्हेतुकपूर्वकाण्डविद्वेषायोगात्, पूर्वोत्तरभागयोरेकशास्त्रत्वेन तस्यापि रहस्यत्रयगर्भतया सारतमशब्दार्थत्वसम्भवात् । यदि च पूर्वकाण्डस्य यथावस्थितानभिसंहितफलकर्मपरत्वयोजनायामुत्तरभागेनैकशास्त्रत्वेपि तत्तत्फलाभिसन्धियुक्तकर्मपरत्वयोजनायां शास्त्रभेदोऽवर्जनीय एवेति नानुपपत्तिरित्युच्येत, तदापि कैवल्यप्रतिपादकांशस्य सारतमत्वापत्तेर्दुर्वारत्वात् । तस्यानभिसंहितफलपञ्चाग्निविद्याफलत्वात् । यदि च कैवल्यास्यापि स्वर्गादीनामिव स्वरूपविरुद्धफलत्वाविशेषात् तत्प्रतिपादकांशस्यापि भिन्नशास्त्रत्वमेवेत्युच्येत, तर्हि तन्यायेनैव स्वार्थानुभवस्वार्थकैङ्कर्ययोरपि नमः – पदप्रतिपन्नयथावस्थितस्वरूपविरोधित्वेन – न्यासोपासनलक्षणतत्साधन प्रतिपादकांशयोरपि रहस्यत्रयापेक्षया भिन्नशास्त्रत्वमवर्जनीयमेवेति रहस्यगर्भतया न्यासोपासनशास्त्रयोः सारतमत्वोक्तिर्दुरुक्तिरेव । अनुगृहीतं च श्रीपाञ्चरात्ररक्षायामिज्याव्याख्यानारम्भे परमैकान्तिपदार्थकथनावसरे स्वार्थानुभवकैङ्कर्ययोरपि कैवल्याविशिष्टत्वम् ।

नन्वस्तु स्वार्थताबुद्धेः स्वरूपविरुद्धत्वन्यासोपासनंशास्त्रनिष्ठानां तदन्वयसद्भावे किं मानमिति चेत्, तत्तदधिकारिबोधग्राहकप्रमाणमेव तत्र मानमिति ब्रूमः । अधिकारबोधयुक्तेषु विद्यते भावभावना, अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु इति मत्फलसाधनत्वान्मदर्थमिदं कर्मेति कर्मस्वैश्वर्यबोधलक्षणो योऽधिकारबोधः, तद्वतामेव ब्रह्मोपासीत ब्रह्मणि न्यसेदित्यादिधात्वर्थरूपकर्तव्यविषयकान्तरप्रयत्नान्वयो, नान्येषामिति भगवता पराशरेणोक्ततया साधनफलस्वार्थताबुद्धेर्भावनात्रयव्यापकत्वस्य सिद्धत्वात् ।

नन्वस्त्वेवं साधनदशायां फलदशायां ममकारान्वयो न स्यादिति तु नाशङ्कनीयम् । तथासति यथाक्रतुन्यायविरोधात् । अयथोपासने प्राप्तिरप्ययथाभूता स्यात्, यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्यभवतीति न्यायादिति श्रीभाष्येऽनुगृहीतत्वात् । दीपे च पञ्चाग्निविदामयथोपासीनानाम् अयथावस्थितप्राप्तेः सिद्धान्तितत्वाच्च, स्वार्थपराणां प्राप्तिदशायामपि यथोपासनमेव स्वार्थप्राप्तिसिद्धेः सिद्धान्तसिद्धत्वात् । अपि च बृहदारण्यके मैत्रेयीब्राह्मणे –

वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवतीत्यारभ्य, वा अरे सर्वस्य कामाय सर्वं प्रियं भवति आत्मनस्तु कामाय सर्वं प्रियं भवति, आत्मा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य

इति स्वार्थानुभवार्थमेव भगवदुपासनस्य विहितत्वेन तद्बलेन न्यासोपासनशास्त्राणामपि स्वार्थगर्भत्वसिद्धेर्निष्प्रत्यूहत्वाच्च । इदञ्च वाक्यान्वयाधिकरणसिद्धान्ते आत्मावा अरे इत्यादेर्द्वितीययोजनायां, तत्रायमर्थः यस्मत्पत्यादीनामिष्टसंपत्तये तत्परवशेन तत्पत्यादयः प्रियत्वेन नोपादीयन्ते, अपि त्वात्मेष्टसंपत्तये स्वतन्त्रेण स्वप्रियत्वेनोपादीयन्ते, तस्माद्य एवात्मनो निरुपाधिकनिर्दोषनिरतिशयप्रियः परमात्मा, एव हि द्रष्टव्यः दुःखमिश्राल्पसुखदुःखोदर्का परायत्ततत्स्वभावाः पतिजायापुत्रवित्तादयो विषया इति भाष्ये स्वातन्त्र्येण ब्रह्मोपासने प्रवृत्तानां पतिजायादितौल्येन स्वार्थतयैव ब्रह्मोपादानस्य प्रदर्शनपूर्वकं तदधिकारिकर्तृकभगवद्ध्यानविधिपरत्वेन योजितत्वेन, तद्बलेनापि न्यासोपासनयोः स्वार्थत्वसिद्धेश्च । अतश्च अधिगताल्पास्थिरफलकेवलकर्मज्ञानतया संजातमोक्षाभिलाषस्य, अनन्तस्थिरफलब्रह्मजिज्ञासा ह्यनन्तरभाविनीति भाष्ये ब्रह्मविद्याधिकारिणः अल्पास्थिरत्वज्ञानमात्रेण कर्मफलत्यागस्यानन्तस्थिरफलत्वज्ञानेनैव ब्रह्मोपादानस्य चानुगृहीतत्वात् तथा उभयलिङ्गाधिकरणभाष्यादौ, दोषदर्शनात् वैराग्योदयाय जीवस्थावस्थाविशेषा निरूपिताः इदानीं ब्रह्मप्राप्तितृष्णाजननाय प्राप्यस्य ब्रह्मणो निर्दोषत्वकल्याणगुणात्मकत्वप्रतिपादनायारभते इति भाष्ये दोषज्ञानात् ब्रह्मेतरत्यागस्य, गुणज्ञानात् ब्रह्मोपादानस्य च ब्रह्मोपासकानामनुगृहीतत्वात्, विकल्पोऽविशिष्टफलत्वादिति सूत्रे, स्वरुच्यैव कस्याश्चित् ब्रह्मविद्याया उपादानस्योक्तत्वात् एकया विद्यया स्वोदरे पूरिते सति किमन्ययेति विद्यान्तरोपेक्षाया उक्तत्वात्, भोगमात्रसाम्यलिङ्गादिति परब्रह्मतुल्यभोगे सर्वेषामुपासननिष्ठानां पर्यवसानाच्च आमूलचूडं स्वार्थनिष्टविषयकतायाः शारीरकाशास्त्रेऽवगमात् तद्बलेनापि तत्सिद्धेश्च । एतच्च कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्ध्यर्थ्यादिभ्य इति सूत्रोक्तरीत्या मुमुक्षुर्ब्रह्मोपासीत, ओमित्यात्मानं युञ्जीतेति शास्त्रविहितन्यासोपासनयोः चेतनानां स्वफलार्थं स्वेच्छयैव प्रथमप्रवृत्तेर्वक्तव्यतया, प्रथमप्रवृत्तानामेव फलं नानुमन्तृणामिति सिद्धान्तानुसारेण तयोर्न्यासोपासनयोः अनुमन्तुर्भगवतः फलान्वयाभावस्य, प्रथमप्रवृत्तानां तदनुष्ठातॄणामेव फलान्वयस्य च सिद्धत्वात् शास्त्रफलं प्रयोक्तरीति न्यायाच्च तयोः स्वार्थपरत्वस्य दुरपह्नवत्वेन तेन तत्सिद्धेश्च ॥

अन्यच्च-

निरस्ताखिक्तदुःखोहमनन्तानन्दभाक् स्वराट्

भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते

इति स्वोदरम्भरणार्थमेव उपासकानां प्रवृत्तेः व्यक्तमेवोक्तत्वेन तद्बलेन तत्सिद्धेश्च ॥

ननु फलसङ्गकर्तृत्वत्यागादिकं न्यासोपासननिष्ठानामुक्तं, तत्कथं तेषां स्वभोगान्वय उच्यत इति चेत्, सत्यमुक्तम् । तत् किंरूपमिति विवेचनीयम् । यद्यात्यन्तिकः फलादित्या गोवास्तवः स्यात्तर्हि न्यासोपासनयोः साधनत्वसिद्धान्त एव परित्यक्तः स्यात् । यदि चाहार्यात्मकः स्यात् तर्हि मिथ्याज्ञानादपवर्गः स्वीकृतः स्यात् । अतः स्वातन्त्र्येण फलान्वयादिरूपफलसङ्गादित्याग एवात्रानुष्ठेय इति नानेन तेषां स्वार्थपरत्वस्य किञ्चित्बाधकमिति ॥

परञ्च, ब्रह्मोपासनफलवाक्येषु कुत्रापि नमः पदाश्रवणात्, रहस्यत्रय एव तच्छ्रवणात् सूत्रकारेणापि आनन्दादयः प्रधानस्येत्यादिना आनन्ददीनामिव नमः पदार्थपारार्थ्यानुसन्धानस्य सर्वविद्यासाधारण्यमाहकन्यायाप्रदर्शनात् नानाशब्दादिभेदादिति सूत्रोक्तन्यायेन, ब्रह्मोपासीत, ब्रह्मणिन्यसेत्, शरणं व्रजेदिति विहितानां विद्यानां शब्दादिभेदादेव भिन्नतया अन्यप्रकरणाधीतानाम् अन्यत्रोपसंहारायोगाच्च न्यासोपासनफलयोः केवलपारार्थ्ये किञ्चित् प्रमाणमस्तीति तन्निष्ठानां स्वार्थपरत्वमक्षतमेवेति । तदेवं बहुभिर्न्यायैः न्यासोपासनशास्त्रयोः स्वार्थगर्भत्वसिद्ध्या तयोः कैवल्यशास्त्रस्येव रहस्यत्रयापेक्षया भिन्नशास्त्रत्वमेवेति रहस्यत्रयशास्त्रस्यैव सारतमत्वोपपत्त्या तदेवासारमित्यादिवचनस्थसारतमशब्दवाच्यं भवितुमर्हति, नान्यत् सातिशयं न्यासोपासनादिशास्त्रमिति तस्य सारतमशब्दार्थत्वोक्तिर्दुरुक्तिरेवेति सिद्धम् ॥

तदेतत् सर्वमभिप्रेत्यानुगृहीतं रहस्यत्रयमे मुमुक्षुवुक्कादरणीयमिति अत्र रहस्यत्रयमे इत्यत्रैवकारेण तद्व्यतिरिक्तन्यासोपासनादिसर्वशास्त्रस्यानादरणीयत्वमपि प्रतिज्ञातम् । मुमुक्षुवुक्कित्यनेन निरतिशयमोक्षकामाः सर्वे विवक्षिताः अनुपाधिकनिर्देश इति न्यायात् । अथोक्तार्थे प्रमाणमाह – असारमल्पसारं सारं सारतरं त्यजेत् भजेत्सारतमं शास्त्रं रत्नाकर इवामृतम् ॥ इति ॥

अत्र कश्चिज्जनो जल्पतिस्म नेदं – वचनमार्षमिति, तदसत् । श्रीमद्रहस्यत्रयसारटीकायां सारप्रकाशिकायामेवास्य वचनस्यार्षत्वेनाङ्गीकृतत्वात् । तदियं तत्सूक्तिःननु रहस्यत्रयमेव मुमुक्षुवुक्कादरणीयमित्यवधारणं नोपपद्यते अन्यस्यापि सद्भावे तस्याप्युपादेयत्वादित्यत्र इतरस्य सर्वस्याप्यनुपादेयत्वं वक्तुमसाराल्पसारसारसारतरसारतमेषु सारतमस्योपादेयत्वं सदृष्टान्तं बोधयद्वचनमुपादाय व्याकरोति असारमित्यादिना महावाक्येनेति किञ्च रहस्य वचनस्याचार्यकपोलकल्पितत्वे एतदधिकरणसिद्धान्तस्याप्रामाणिकत्वं स्यात् । सर्वमष्टाक्षरान्तस्थमित्यादिकमेवात्र प्रमाणमिति चेन्न, तस्याष्टाक्षराद्युपादेयत्वांशोपपादकत्वसम्भवेऽपि तदितरत्याज्यताप्रामाण्यायोगात् ।

न चाष्टाक्षराद्युपादेयत्वमेवैतदधिकारसिद्धान्तः, रहस्यत्रयमेउपादेयमिति सावधारणप्रतिज्ञानव्याघातात् । न च सर्वमष्टाक्षरान्तस्थमित्यनेनैव तदितरेषां त्यागसिद्धिरिति वाच्यम् । द्वयचरमश्लोकयोरपि त्याज्यताप्रसङ्गात्, अकारो वै सर्वा वागिति वचनेनाष्टाक्षरस्यापि त्यागप्रसङ्गाच्च । अपि च लोके व्याख्यानार्थस्य सर्वस्य मूले सत्त्वेपि, व्याख्यानस्यात्यन्तोपादेयत्वदर्शनेन सर्वमष्टाक्षरान्तस्थमिति वचनेन सर्वेषामष्टाक्षरविवरणत्वसिद्ध्या सर्वेषामवश्योपादेयत्वस्यैव सिद्धिप्रसङ्गाच्च ।

किञ्च अस्य वचनस्याचार्यकल्पितत्वं वदन्वादीपृष्टव्यः किमर्थेयं कल्पितेति । वक्ष्यमाणार्थसंग्रहार्थेति चेत्, तर्हि प्रथमश्लोकेन कृतकरत्वं, तत्रैव तत्संग्रहस्य कृतत्वात् । तत्र संगृहीत एवार्थोऽत्र किञ्चिद्विवरणेन व्यवस्थाप्यत इति चेत्, तर्हि त्यजेद्भजेदिति विधिनिषेधरूपस्यास्य पूर्वप्राप्तार्थविवरणरूपत्वं दुरुपपादम् । त्याज्यांशस्यासाराल्पसारसारसारतररूपेण चतुर्धा व्यवस्थापनमनुपपन्नममूलकत्वात्, अत्यन्तासारात्यसारासारात्यन्ताल्पसारात्यल्पसाराल्पसारसारतरभेदेन त्याज्यांशानां सप्तधापि विभागसम्भवात् । यदि लाघवाच्चतुर्धाविभाग इतीष्येत, तर्हि सारासारभेदेन द्वेधैव । विभागः स्यात्, यत्सारभूतं तदुपाददीतेति वचने द्वेधैव विभागस्य कृतत्वात् । सारासारविवेकज्ञा इत्यादिष्वपि तथैव दर्शनात् ॥

ननु शब्दजातेषु पञ्चातिरिक्तकोट्यदर्शनात् पञ्चधाविभाग इति चेत्, न । बाह्यकुदृष्ट्योः कोटिद्वयरूपत्वात् वेदाङ्गकोट्युपबृंहणकोट्योश्च सत्त्वात् अत्यन्तासारांशो बाह्यग्रन्थः, अत्यसारांशः कुदृष्टि ग्रन्थः, असारांशः वेदाङ्गकोटिः, अत्यन्ताल्पसारांश उपबृंहणकोटिः, अत्यल्पसारांशो वेदान्तर्गतैहिकप्रतिपादकांशः, अल्पसारांश आमुष्मिकप्रतिपादकांश इत्यादिरूपेणापि विभागस्य कर्तुं शक्यत्वात् । तस्मादसारमित्यादिवचनमार्षप्रमाणमेवेति यावन्नाभ्युपगम्येत न तावत्पर्यन्तमुक्तदोषातिलङ्घनसिद्धिरिति ॥

नन्वस्मिन्वचने प्रमाणैकदेशभूतशास्त्रसारतमत्वस्य कुत्रचित् सिद्धावपि नेदं प्रकृतार्थसाधने पर्याप्नोति, प्रबलप्रमाणभूतप्रत्यक्षापेक्षया वेदापेक्षाया च सारतमत्वस्यास्मादसिद्धेरित्याशङ्कायां प्रत्यक्षादीनां प्रकृतालौकिकार्थप्रमाणत्वाभावात्, शास्त्रशब्दस्य वेदैकपरत्वाच्च शास्त्रसारतमनिष्कर्षकस्यास्य वचनस्य प्रकृतार्थविषयसकल -प्रमाणसारतमत्वसाधने पर्याप्तत्वान्न दोष इति दर्शयन् प्रमाणोपपत्तिभ्यां धर्माणां वेदैकप्रमाणकत्वमाह – पारमपुरुषार्थमुं तदुपायमुं प्रत्यक्षादि प्रमाणङ्गकाल् अरियवोण्णातपडियाले अवैत्तुक्कु शास्त्राद्वेद्मिजनार्दनम्,

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति

न्नुं शोल्लुकिरपडिये शब्दमे प्रमाणमिति

अत्र अरियवोण्णातपडियालित्यन्तेन अलौकिकार्थानां वेदैकप्रमाणत्वे तेषामतीन्द्रियत्वलक्षणोपपत्तिरुक्ता । अथ अवैत्तुक्कित्यादिना तत्र वचनत्रयं प्रमाणयति । तत्र शास्त्राद्वेद्मि जनार्दनमित्यत्र सिद्धोपायोपेयभूतसर्ववेदप्रतिपाद्यभगवत्स्वरूपयाथात्म्यज्ञानजनकतावच्छेदकत्वेन शास्त्रत्वस्योपादानात् शास्त्रत्वस्य भगवत्प्रतिपादकप्रमाणत्वानतिरिक्तवृत्तित्व सिद्धेः, तस्मात् शास्त्रं प्रमाणिमिति – वचनेऽपि धर्माधर्मव्यवस्थाप्रमापकत्वानतिरिक्त वृत्तित्वेन शास्त्रत्वस्योपादानाच्च अलौकिकसिद्ध साध्योपायोपेयप्रमापकत्वानतिरिक्तवृत्तिधर्मश्शास्त्रत्वमिति निश्चीयते ॥

अथ शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीति वचनेन वेदनिष्ठानामेव समस्तालौकिकार्थवेदनफलब्रह्मप्राप्त्युक्त्या वेदानामेव समस्तालोकिकार्थप्रमापकत्वमिति सिद्ध्यति । तथा चैतद्वचनत्रयम् अलौकिकार्थप्रमापकं यत्तच्छास्त्रं अलौकिकार्थप्रमापका वेदाः अलौकिकार्थप्रमापकं शास्त्रमिति ज्ञानविशिष्टज्ञानद्वयं संपाद्य शास्त्रशब्दवाच्यत्ववेदत्वयोः समनैयत्यं साधयत्येवेति वचनत्रयमुदाहृतवतामाचार्याणां तात्पर्यमित्यनुसन्धेयम् ॥

ननु उपबृंहणानामपि धर्मप्रमापकत्वसत्त्वेन तत्र वेदत्वाभावात् वेदेष्वपि निरर्थकमन्त्रेषु धर्मप्रमापकत्वाभावाच्च कथं तयोरनतिरिक्तवृत्तित्वमिति चेत् भ्रान्तोसि ।

धर्मे प्रतीयमाने हि वेदेन करणात्मना

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।।

इत्यादिना वेदव्यतिरिक्ताप्तशब्दानां वेदोपकारकत्वोक्त्या तेषां साक्षात्प्रमाकरणत्वायोगात् । तावन्ति हरिनामानीति वेदाक्षराणां सर्वेषां हरिनामत्वज्ञापकप्रमाणविदां सर्वैरपि वेदाक्षरैर्भगवद्विषयप्रमाजननाच्च ॥

केचित्तु बाह्यकुदृष्टिग्रन्थादिसाधारणं शास्त्रशब्दप्रवृत्तिनिमित्तं मन्यन्ते । तन्मते शास्त्रशब्दघटितमाचार्योपात्तवचनद्वयमनर्थकमेव स्यात् । तथाहि शास्त्राद्वेद्मि जनार्दनमित्यस्य शास्त्रत्वावच्छिन्नजनकतानिरूपितजन्य – ताशालिजनार्दनविषयकयथावस्थितशास्त्रबुद्धित्वावच्छिन्नश्रयोऽहमिति बोधक्रमः । यदि च शास्त्रत्व बाह्यादिसाधारणं स्यात्, तर्हि तेषामयथावस्थितज्ञानहेतुत्वेन व्यभिचारात्, शास्त्रत्वेन यथावस्थितभगवद्विषयशाब्दबुद्धित्वेन कार्यकारणभाव एव न स्यात् । न चात्र शास्त्रशब्दस्य सच्छास्त्रपरत्वमाश्रीयत इति वाच्यम्, लक्षणापत्तेः। अति प्रसक्तं निमित्तं परिकल्प्य पुनर्लक्षणाश्रयणापेक्षया प्रथमत एवानतिप्रसक्ततया निमित्तकल्पनस्यैवोचितत्वात् । नापि वेद्मीत्यस्य भ्रमप्रमासाधारणवेदनत्वावच्छिन्नपरतया न दोष इति वाच्यम् । यथावस्थितवेदनस्यैव तत्र प्रकृतत्वात् । मायां सेव इत्यादिविशेषणत्रयेण यथावस्थितवेदनस्यैव उक्तिप्रतीतेश्च । वेद्मीत्यत्र शब्दत एव यथावस्थितज्ञानाप्रतीत्यस्वारस्यादेव आचार्यैर्द्वितीयवचनस्य उदाहृतत्वाच्च । तत्र हि प्रमाणशब्देन तत्कष्ठोक्तम् । त्वत्कर्तृककार्याकार्यव्यवस्थाविषयकप्रमात्वावच्छिन्नकार्यतानिरूपितशास्त्रत्वावच्छिन्नकार-णताशालि शास्त्रमिति हि, शास्त्रं प्रमाणन्ते कार्याकार्यव्यवस्थितावित्यस्य बोधः । तथा च यदि शास्त्रत्वं कुदृष्ट्यादिसाधारणं स्यात्, तथा तेषां कार्याकार्यव्यवस्थितिवैपरीत्यबुद्धिहेतुत्वेन शास्त्रं प्रमाणमित्युक्तिरसङ्गतैव स्यात् । न चात्रापि शास्त्रशब्दः सच्छास्त्रपर इति वक्तुं युक्तम् । सर्वत्र लक्षणाकल्पनस्य अत्यन्तहेयत्वात् । कथं तर्हि मोहशास्त्राणि कारयेत्युक्तिरितिचेत्, मोहः शास्त्रस्य येषु तानि मोहशास्त्राणीति शास्त्रनिष्ठाभेदसंबन्धावच्छिन्नप्रकारतानिरूपितभ्रमविशेष्यतामादाय तद्व्यवहारोपपत्तेः । तस्माच्छास्त्रत्वं बाह्यादिसाधारणमित्युक्तिर्दुरुक्तिरेव ॥

अपरे तु वेदाङ्गादिसाधारणं शास्त्रत्वं मन्यन्ते । तन्मतेऽपि शास्त्रत्वावच्छिन्नस्य कार्याकार्यव्यवस्थापकत्ववचनं विरुध्यत एव । अपशूद्राधिकरणे इतिहासपुराणे अपि वेदोपबृंहणं कुर्वती एवोपायभावमनुभवत इति वेदव्यतिरिक्तस्य साक्षात्प्रमाकरणत्वनिषेधात्, शासनाच्छास्त्रं शासनं प्रवर्तनमिति कर्त्रधिकरणभाष्ये अनुगृहीतत्वेन, वेदव्यतिरिक्तस्य तदसंभवाच्च, न हि मूलभूतश्रुत्यनुमानमन्तरा स्मृत्यादीनां प्रवर्तकत्वमिष्यते । तदनुमाने च स्मृतीनामनुमितश्रुतिजन्यप्रवर्तनं प्रत्यन्यथासिद्धत्वमेव ॥

किञ्च रचनानुपपत्त्याधिकरणे पुण्यापुण्यस्वरूपे हि शास्त्रैकसमधिगम्ये शास्त्रं चानादिनिधनाविच्छिन्नपाठसंप्रदायानाघ्रातप्रमादादि दोषगन्धवेदाख्याक्षरराशिरिति भाषितम् । कपिलागमादिव्यावृत्त्यर्थमाह शास्त्रं चेतीति तत्र श्रुतप्रकाशिका । तस्माद्वेदस्यैकस्यैव शास्त्रशब्दमुख्यार्थत्वं साक्षादलौकिकार्थप्रमाणत्वं च नान्यस्येति मुक्तकण्ठं भाष्यकारैरेवानुगृहीतत्वेन, तदनादरेण शास्त्रत्वं कुदृष्ट्यादिसाधारणमिति परिकल्पनपूर्वकं तस्माच्छास्त्रं प्रमाणमित्यादौ लक्षणाकल्पनमविवेककृत्यमेव ॥

अपि च, वेदाच्छास्त्रं परं नास्तीत्यत्र परशब्द उत्कर्षवाचीति, तन्न नेत्येतस्मादन्यत्परमस्ति तस्माद्धान्यन्यपरः किञ्च नास एकः समस्तं यदि हास्ति किञ्चित्तदच्युतो नास्ति परं ततोन्यत् इत्यादिश्रुतिस्मृतिषु पञ्चम्यन्तपदस्यान्यार्थकशब्दान्वयबाहुल्यदर्शनेन प्रथमोपस्थितस्य परशब्दभिन्नार्थकत्वस्य त्यागे मानाभावात् । किञ्च परशब्दस्योत्कृष्टपरत्वे समाभ्यनुज्ञापत्तेः न च शास्त्रान्तरेण समनिषेधसिद्धिः । परशब्दस्य प्रथमोपस्थितभिन्नार्थकत्वाश्रयणेनैव समोत्कृष्टोभयनिषेधे सम्भवति, तद्विहायार्थान्तरमाश्रित्य समाभ्यनुज्ञां सम्पाद्य तत्परिहाराय शास्त्रान्तरगवेषणस्य कीलोत्पाटिवानरव्यापारतुल्यत्वात् । अपि च येन शास्त्रान्तरेण समाभ्यनुज्ञावारणं चिकीर्षितमायुष्मता, तेनैवोत्कृष्टनिषेधस्यापि कैमुतिकन्यायेन सिद्ध्या वेदाच्छास्त्रं परन्नास्तीति वचनं व्यर्थमेवेति दत्तजलाञ्जल्येव स्यात् ॥

अथ यदुक्तं तेनैव, यस्मात्परन्नापरमस्ति किञ्चिदित्यत्र परशब्दस्यापरशब्देन पौनरुक्त्यापत्त्या परशब्दस्योत्कृष्टपरत्ववत्, अत्रापि उत्कृष्टपरत्वमेव परशब्दस्य युक्तमिति, तदप्यत्यन्तानुपपन्नम् । पौनरुक्त्यभिया तत्र तदर्थाश्रयणोपि अत्र पौनरुक्त्याद्यभावात्, प्रत्युतोत्कृष्टपरत्वाश्रयण एव समाभ्यनुज्ञादोषप्रसङ्गाच्चभिन्नार्थकत्वस्यैवावश्याश्रयणीयत्वात् । किञ्च यस्मात्परं नापरमस्तीत्यत्रापि पञ्चम्यन्तपदान्वितार्थकशब्दस्य उत्कृष्टार्थकत्वमाश्रितम् । किन्तु तदनन्वितस्यैव यदपरं परन्नास्तीत्येव भाष्यकारैस्तदन्वयस्य दर्शितत्वात् । तस्मात् पञ्चम्यन्तपदान्वितान्यार्थकशब्दस्य भिन्नार्थकत्वमेवेति प्रायिकदर्शनं तत्राप्यनुगतमेवेति त्वदुक्तो दृष्टान्तः तवैव विपरीतफलः ॥

अपि च यस्मात्परं नापरमस्तिकिञ्चिदित्यत्र परशब्दस्य उत्कृष्टपरत्वाश्रयणं पौनरुक्त्यपरिहारार्थमित्युक्तमप्ययुक्तमेव । कस्यचिच्छब्दस्य तद्व्यक्तित्वावच्छिन्नभेदपरत्वं, तदितरस्य ज्ञानत्वाद्यवच्छिन्नभेदपरत्वं चाश्रित्य पौनरुक्त्यपरिहारस्य कर्तुं शक्यत्वात् ॥

यद्यन्योस्ति परः कोपि मत्तः पार्थिवसत्तम,

इत्यत्र अन्यपरशब्दयोरुभयोरपि पञ्चम्यन्तान्वितत्वेन भेदपरत्वे सति, पौनरुक्त्यपरिहारस्य पूर्वाचार्यैस्तथैव कृतत्वात् । इदञ्च, यस्मात्परं नापरमस्ति किञ्चिदित्यत्रापि समाभ्यनुज्ञापरिहारार्थमेव परशब्दं पञ्चम्यन्तान्वितं विभज्य भाष्यकारैस्तस्योत्कृष्टार्थकत्वाश्रयणात् समाभ्यनुज्ञाप्रसङ्ग एव तत्रापि परशब्दस्य अर्थविशेषाश्रयणे प्रयोजनकमिति, प्रकृतेऽपि तत्प्रसङ्गस्य तुल्यत्वेन परशब्दस्य यदर्थाश्रयणे समाभ्यनुज्ञा वारिता स्यात्, तदर्थ एवाश्रयणीय इति त्वदुदाहृतदृष्टान्तेनैव सिद्धतया अत्र परशब्दो भिन्नार्थकएवेति, यस्मात्परमित्यत्र परशब्दस्य अर्थान्तराश्रयणं समाभ्यनुज्ञावारणार्थमेवेति व्यासार्यैरेवानुगृहीतम् ॥ यस्मादिति पञ्चम्यन्तपदेन अत्र परशब्दोभिन्नार्थकएवेति, यस्मात् परमित्यत्र परशब्दस्यान्वये सति समनिषेधो नकृतः स्यात् अपरशब्देन पञ्चम्यन्तपदस्य अन्वये सति समाभ्यधिकोभयनिषेधः कृतः स्यादिति ।

अदश्च दैवं केशवात्परमिति चरमपादे द्वैतिनिषेधार्थं समांभ्यनुज्ञापरिहारार्थं च परशब्दस्य नानयोर्विद्यते परमित्यत्रेव भिन्नार्थकत्वाश्रयणस्यैव आवश्यकत्वात्, तदनुसारेणात्रापि भिन्नार्थकत्वमेव युक्तम् । नो चेत् तृतीयपादे समाभ्यनुज्ञापरिहाराय शास्त्रान्तरगवेषणदोषः चरमपादे समाभ्यनुज्ञावारणार्थमत्यन्तभिन्नाभ्यनुज्ञावारणार्थं च शास्त्रान्तरद्वयगवेषणदोषौ चेति त्रयो दोषा दुष्परिहरा एवेति । एतच्च सर्वशास्त्रविप्रतिपन्नान्प्रति गङ्गातीरे व्यासकृतशपथमिदं सत्यं सत्यमित्यादिवचनमिति श्रीशख्यातिध्वजत्वादि- त्यादिना दर्शनाय दर्शनदायिभिर्विरोधिगोष्ठ्यां प्रतिष्ठापितत्वेन तादृशेऽस्मिन्वचने यदि समाभ्यनुज्ञा स्यात्, तर्हि तस्य केनापि शास्त्रेण परिहारो न शक्यते कर्तुमिति मूर्तिसाम्यसिद्धान्तो द्वैतिसिद्धान्तो वेदतुल्यप्रमाणान्तरवादिबाह्यादिसिद्धान्तश्च सुप्रतिष्ठित एव स्यादिति वेदाच्छास्त्रात्परमित्यादौ परशब्दो भिन्नार्थक इत्येवाश्रयणीयमिति ।

एतेन धर्मशास्त्राङ्गमिश्रिताः, पुराणं धर्मशास्त्रं च इत्यादि – व्यवहारबलात् शास्त्रशब्दप्रवृत्तिनिमित्तं स्मृत्याद्यनुगतं कल्पनीयमिति परास्तम् । व्यासकर्तृकशपथरूपेण प्रबलप्रमाणेनैव वेदव्यतिरिक्तस्य शास्त्रत्वाभावसिद्ध्या हि वचनविरोध इति न्यायेन तत्कल्पनायोगाद् । न च धर्मशास्त्राङ्गमिश्रिताः पुराणं धर्मशास्त्रं चेत्यादीनामपि वचनत्वादेव न दोष इति वाच्यम् । तत्र स्मृत्यादिषु शास्त्रशब्दप्रयोगोपि प्रयोगसामान्यं मुख्यमेवेति नियमाभावेन, अन्यथासिद्ध्यर्हतया तावन्मात्रेण स्मृत्यादीनां शास्त्रशब्दवाच्यत्वसिद्ध्ययोगात् शपथवचने तु गौणशब्देन शपथकरणायोगात्, वेदाद्भिन्नं गौणमुख्यसाधारणशास्त्रशब्दव्यवहारविषयं नास्तीत्युक्ते बाधापत्तेश्च । शास्त्रशब्दस्य मुख्यार्थपरत्वस्यैवावश्यकतया तेनैव वेदव्यतिरिक्तानां शब्दानां शास्त्रशब्दमुख्यार्थत्वाभावः सिद्ध्यति । यथा, यस्मात्परं नापरमस्तीति भगवद्व्यतिरिक्तस्य परत्वनिषेधे कृते भगवतोन्यत्र प्रयुज्यमानानां परः पराणामित्यादिपरशब्दानां गौणार्थकत्वमेव सिद्ध्यति । तद्वदेव वेदाद्भिन्नस्य शास्त्रत्वनिषेधे कृते, तत्र शास्त्रशब्दप्रयोगश्चेत् गौण एवेति सिद्ध्यतीति न किञ्चिदपि हीनमिति ।

किञ्च अनन्यथासिद्धस्य प्रयोगस्यैव शक्तिकल्पकतया, वेदाङ्गानां वेदोपबृंहणानां च वेदसामीप्यादेव सामीप्यात्तु तद्व्यपदेश इति न्यायेन अन्यथासिद्धतया, तस्य शक्तिकल्पकत्वायोगात् । अनेकार्थकल्पनायोगात् ब्रह्मशब्दवत्, वेदे मुख्यत्वस्यान्यत्र गौणत्वस्यैवचाङ्गीकर्तुमुचितत्वाच्च न वेदव्यतिरिक्ते शास्त्रशब्दशक्तिसिद्धिरिति ॥

ननु न शास्त्रत्वं नाम जातिः, किन्तु स्वजन्यशाब्दाबोधद्वारकप्रवृत्तिकारणत्वमेव । पाचकादिपदवत् शास्त्रपदस्यापि शासनाच्छास्त्रमिति व्युत्पत्त्या केवलयौगिकत्वस्य कर्त्रधिकरणभाष्ये प्रदर्शितत्वात् । तथा च शाब्दबोधद्वारकप्रवृत्तिकारणत्वस्य उपबृंहणादिसाधारण्यात्, तेषामपि शास्त्रशब्दमुख्यार्थत्वं युक्तमेवेति चेन्न । तथा सति घटमानयेत्यादिलौकिकवाक्यस्यापि शास्त्रशब्दमुख्यार्थत्वापत्तेः । अप्रवर्तकानां सिद्धपरवाक्यानां वेदान्तर्गतानामपि शास्त्रत्वानापत्तेश्च । शास्त्रंच वेदाख्याक्षरराशिरिति व्यतिरोकानवस्थितेश्चानपेक्षितत्वादिति सूत्रभाष्ये वेदाख्याक्षरराशित्वावच्छेदेन शास्त्रत्वस्यानुगृहीततया शास्त्रशब्दस्य योगरूढत्वावगमाच्च ।

नन्वेवमपि शास्त्रशब्दो यौगिकरूढोऽस्तु, रूढ्या सर्ववेदासाधारणः योगात्तूपबृंहणादिसाधारण एवेति निरर्गलैवास्मत्समीहितसिद्धिरितिचेत्, अलमल्पसन्तोषेण । वेदोपबृंहणादिषु वेदसंबन्धेनैव शास्त्रशब्दव्यवहारोपपत्तौ नानार्थवृत्तिकल्पनायोगात् । न हि गङ्गातीरे गङ्गाशब्दप्रयोगमात्रेण तत्र शक्तिकल्पनं युज्यते । ननु नास्याभिवृत्तिः कल्प्यते, भाष्यकारैरेव वेदोपबृंहणसाधारणी योगवृत्तिर्दर्शितेति चेत् भ्रान्तोसि । न हि भाष्यकारैः शास्त्रबोधद्वारकप्रवृत्तिसामान्यकारणत्वमात्रं योगप्रवृत्तिनिमित्तं दर्शितं, किन्तु तादृशधर्मप्रवृत्तिकारणत्वमेव । धर्माधर्मस्वरूपे हि शास्त्रैकसमधिगम्ये इति   अत्रानुगृहीतत्वात् । घटमानयेत्यादिवाक्येषु अतिप्रसक्तिवारणाय अवश्यं तथैव वक्तव्यत्वाच्च ।

अस्त्वेवमपि स्मृत्यादीनां शास्त्रत्वं न दुष्यतीति चेन्न, वेदव्यतिरिक्तस्य धर्मप्रमितिकरणत्वायोगात् ।

धर्मे प्रमीयमाणे हि वेदेन करणात्मना

इति कर्तव्यताभागं मीमांसा पूरयिष्यति

इति भट्टाचार्यावचनात् ॥

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्

बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति

इति बृहस्पतिवचनाच्च वेदस्यैकस्यैव धर्मप्रमितिकरणतया, उपबृंहणानां वेदेन शाब्दज्ञाने जननीये तदितिकर्तव्यतारूपमीमांसालक्षणतत्सहकारितामात्रेण उपकरणकोटिनिविष्टतायाश्च सिद्धत्वात् । तस्माद्वेदव्यतिरिक्तस्य शास्त्रशब्दयोगार्थत्वस्याप्यसम्भवेन शास्त्रशब्दो वेदमात्रवाची योगारूढ एवेति सिद्धमिति, वेदाच्छास्त्रं परं नास्तीत्यत्र परशब्दभिन्नार्थकत्वस्य न कोपि दोष इति ॥

किञ्च शास्त्रशब्दस्य बाह्यादिसाधारण्यमिच्छतां मते सकलशास्त्रसंक्षोभो दुर्वार एव स्यात् । तथाहि, तन्मते कपिलहिरण्यगर्भनैयायिकवैशेषिकसुगतार्हतपशुपतिग्रन्थानां सर्वेषां शास्त्रत्वाविशेषात् ॥

आर्षं धर्मोपदेशं वेदशास्त्राविरोधिना

यस्तर्केणानुसन्धत्ते धर्म वेद नेतरः

इति मनुवचने वेदविरुद्धतर्काणामिव शास्त्र – विरुद्धतर्काणामपि त्याज्यत्वोक्त्या कापिलाद्यविरोधेनैव ब्रह्ममीमांसायाः कर्तव्यतया स्मृत्यनवकाशदोषप्रसङ्ग इत्यादिना भगवता बादरायणेन तत्प्रतिक्षेपस्या- साङ्गत्यापातात् । न च वेदशास्त्राविरोधिनेत्यत्र वेदशास्त्रशब्दयोः सामानाधिकरण्याश्रयणात् न दोष इति वाच्यम् । प्रथमोपस्थितं वैयधिकरण्यं परित्यज्य स्वाभिमतार्थे गलहस्तिकया मनुवचनस्य पातने, तस्यैव महादोषत्वात् । वेदशास्त्रयोरविरोधिनेति हि प्रथमत एव प्रतीयते । यद्येवं मनुवचनेन प्रथमप्रतीतस्यार्थस्य परित्यागः स्वाभिमतसाधनार्थमेव केवलमाश्रीयेत, तर्हि यद्वै किञ्चनमनुरवदत् तद्भेषजमिति श्रुत्यर्थविदः प्रामाणिकाः परिहसेयुः । अस्मात्सिद्धान्तेतु वेदव्यतिरिक्तशास्त्राभावस्य वेदाच्छास्त्रं परं नास्तीत्यादिवचनसिद्धतया वैयधिकरण्यासम्भवात् युक्तं सामानाधिकरण्याश्रयणम् ॥

ननु वेदविच्छास्त्रविदित्यादौ वेदशब्दसमभिव्याहृतशास्त्रशब्दस्य वेदाङ्गतदुपबृंहणपरतया बहुश: प्रयोगदर्शनेन युक्तमत्रापि गौणार्थपरतया वैयधिकरण्याश्रयणमिति चेन्न । तथा सति शास्त्रशब्दस्य गौणत्वापातात्, तदपेक्षया मुख्यार्थपरत्वेन सामानाधिकरण्याश्रयणस्यैव युक्तत्वात् । न च सामानाधिकरण्याश्रयणे वेदशास्त्रशब्दयोरन्यतरवैयर्थ्यापत्त्या युक्तं शास्त्रशब्दस्य गौणार्थपरत्वमेवेति चेन्मैवम् तदानीमपि तद्दोषानतिलङ्घनात्, शास्त्रशब्दगौणार्थोपबृंहणादिविरोधस्य वेदविरोध एव पर्यवसानात् । न हि वेदाद्वारेणावेदस्य धर्मप्रामाण्यं सिद्धान्तानुमतं, शास्त्रशब्दस्य वैयधिकरण्य पक्षेतु अयमेव विशेषः यच्छास्त्रशब्दस्य मुख्यार्थपरत्वे सम्भवति, तद्विहाय गौणार्थाश्रयणमिति । तदेतत्सर्वमभिसन्धायानुगृहीतमार्षमित्यादिवचनमुपादाय णत्वाधिकरणभाष्यान्ते वेदाख्यशास्त्राविरोधिनेत्यर्थः । अतो वेदविरोधित्वेन वेदार्थविशदीकरणरूपवेदोपबृंहणतर्कोपादानाय सांख्यस्मृतिर्नादरणीयेति ।

यदि च वेदव्यतिरिक्तस्य शास्त्रशब्दमुख्यार्थत्वं भाष्यकारसम्मतं स्यात्, तर्ह्येवमत्र स न वक्ष्येदेव । किन्तु शास्त्रशब्दस्य वैयधिकरण्यमेवाश्रित्य । वेदशास्त्रयोरविरोधेनेत्यर्थ इत्येव वक्ष्येत् । तथार्थवर्णने सत्येव तदा शब्दस्वारस्यासिद्धेः। किञ्च यदि वेदव्यतिरिक्तशास्त्रसद्भावे सति वेदाख्यशास्त्रविरोधमात्रं तद्दूषणमित्युच्येत, तर्हि वेदव्यतिरिक्तत्वदभिमतशास्त्रान्तर्गतोपबृंहणादिविरुद्धतर्कस्य सत्तर्कत्वमापद्येत । न वेदमस्माकमपि तुल्यम् । उपबृंहणादीनामस्ममन्मते केवलवेदोपकरणमात्रत्वे तदनुमिततन्मूलभूतस्यैव तत्र प्रमितिजननद्वारा प्रवर्तकत्वलक्षणशास्त्रत्वाङ्गीकारेण उपबृंहणविरोधस्य वेदविरोधरूपतया विरोधाभावात् । न च त्वयाप्येवं वक्तुं शक्यम्, तथा सति उपबृंहणानां पृथक् शास्त्रत्वमिति त्वत्पक्षपरित्यागप्रसङ्गात् ।

ननु नवयमुपबृंहणादीनां श्रुतिनैरपेक्ष्येण पृथक् शास्त्रत्वं वदामः । किन्तु पुरुषबुद्धिमूलकशब्दप्रमाणेन अलौकिकार्थयोग्यतानिश्चयायोगात् पौरुषेयैस्स्मृत्यादिभिः अपौरुषं वेदमनुमाय तैरेव वेदैर्योग्यतां निश्चित्य, तन्निश्चयसहकृतैः स्मृत्यादिभिरेव वाक्यार्थो निर्णीयत इति तेषां श्रुतिसापेक्षत्वमङ्गीक्रियत एव । किन्तु स्मृत्याद्यर्थबोधे स्मृतीनामेव करणत्वं वेदसत्कृतार्थज्ञानविषयाप्रमात्वशङ्कानिरासमात्रेणैवोपयोगोऽङ्गीक्रियत इति अयमेव विशेषः ॥

तथा च स्मृतिविरुद्धतर्काणां तदप्रामाण्यशङ्कावारकश्रुतिविरोध एव पर्यवसानात्, नानुपपत्तिरिति चेन्मैवम् । स्मृत्याद्यनुमितश्रुतीनामप्रामाण्यशङ्कावारकत्वमात्राभ्युपगमे स्मृतिविरुद्धतर्कस्मृत्यनुमितश्रुत्योः भिन्नविषयत्वेन तस्य तर्कस्य वेदविरुद्धताया एव दुरुपपादत्वात् । न हि चैत्रवचनं प्रमाणमेवेति वचनं चैत्रोक्तार्थविशेषस्य अतथात्वग्राहकन्यायेन साकं साक्षाद्विरुध्यते । किञ्च-

धर्मेप्रमीयमाणे हि वेदेन करणात्मना,

आदौ वेदाः प्रमाणं स्मृतिरूपकुरुते स इतिहासैः पुराणैरित्यादिप्रमाणैर्वेदस्यैव प्रमाकरणतायाः स्मृत्यादीनामुपकारितामात्रत्वस्य च सिद्धतया स्मृतेः करणत्वस्य वेदानामुपकारितायाश्च तद्विपरीतत्वेन हेयत्वाच्च ॥

अपि च भ्रमप्रमासाधारण्येन प्रमाणान्तराप्राप्तार्थबोधकशब्दत्वं शास्त्रत्वमित्युक्तौ लौकिकवाक्येष्वतिप्रसङ्गेन तद्वारणाय प्रमाणान्तराप्राप्तार्थविषयक- प्रमाजनकशब्दत्वमेव शास्त्रत्वमित्यवश्यवक्तव्यतया, वेदामूलककेवलपौरुषेयवाक्यस्य अलौकिकार्थप्रमापकत्वमसंभावितमिति बाधज्ञानसत्त्वात्, घटमानयेति लौकिकविषयशब्दात् शाब्दबोधवत् अलौकिकार्थविषयपौरुषेयशब्दात् शाब्दबोधानुदयेन, स्मृत्यर्थबोधं प्रति स्मृतीनां कारणत्वासम्भवाच्च । नह्युन्मत्तवाक्यमप्रमाणमिति ज्ञानवतामुन्मत्तवाक्यात् शाब्दबोधो जायते ।

अथास्तु वा शाब्दबोधः, तथा पूर्वोक्तरीत्या लौकिकवाक्येऽतिव्याप्तिवारणाय प्रमात्वेन निर्णीयमानालौकिकार्थविषयकज्ञानजनकशब्दत्वमेव शास्त्रत्वमिति त्वया अवश्यमङ्गीकरणीयत्वेन तादृशज्ञानजनकतायाः पौरुषेयवाक्येष्वसम्भवात् स्मृत्यादीनां शास्त्रत्वासंभवाच्च ॥

अपि च शासनं च प्रवर्तनमिति प्रवर्तनस्यैव शास्त्रशब्दावयवार्थत्वेन भाष्यकारैरनुगृहीतत्वेन प्रमापकत्वस्य अवयवार्थत्वायोगात्, शास्त्रं वेदाख्याक्षरराशिरिति भाष्ये वेदाख्याक्षरराशिसामान्ये शास्त्रशब्दप्रयोगात् तदन्तर्गतहुम्फडादिशब्देषु अलौकिकार्थप्रमापकत्वानङ्गीकारपक्षे अलौकिकार्थप्रमापकत्वस्य तत्साधारण्याभावेन रूढिप्रवृत्तिनिमित्तत्वायोगाच्च, अलोकिकार्थप्रमापकत्वस्य शास्त्रशब्दप्रवृत्तिनिमित्तत्वाङ्गीकारेण स्मृत्यादीनां शास्त्रत्वोपपादनप्रत्याशापि निरवकाशैव । शास्त्रं वेदाख्याक्षरराशिरिति भाष्यकारैर्वेदेष्वेव शास्त्रत्वस्य नियमिततया शास्त्रशब्दरूढिनिमित्तं शास्त्रत्वं सकलवेदसाधारणमनितरसाधारणं चान्यदेवाश्रयणीयमिति स्मृतीनां तादृशशास्त्रत्वाभावात् तेषु शास्त्रत्वव्यवहारगौणताया दुरपवत्वाच्च ॥

नन्वेवं शास्त्रशब्दरूढिवृत्तिनिमित्ततया विवक्षितं सकलवेदसाधारणमनितरसाधारणं च शास्त्रत्वं किं जातिरुपाधिर्वा । न तावज्जातिः, श्रोत्रग्राह्यत्वापत्तेः । न चेष्टापत्तिः, इदं शास्त्रं न वेति सन्देहानुदयप्रसङ्गात् । अथ नाप्युपाधिः, विकल्पासहत्वात् । स किमखण्ड: सखण्डो वा ! नाद्यः, अतिरिक्तपदार्थाङ्गीकारापत्तेः । नापि द्वितीयः, निर्वक्तुमशक्यत्वात्। न च लिङ्लोट्- तव्यप्रत्ययादिघटितवाक्यत्वमेव तत्, घटमानयेत्यादिलौकिकवाक्यस्यापि शास्त्रत्वापत्तेः । सिद्धपरवेदवाक्यानां शास्त्रत्वानापत्तेश्च । न च सिद्धपरवेदवाक्यानाम् उपासनादिकार्यपरवेदवाक्यैरेकवाक्यत्वाश्रयणान्न – दोषः, विधिप्रत्ययघटितालौकिकवाक्यत्वमेव शास्त्रपदप्रवृत्तिनिमित्तमित्यङ्गीकारात्, न घटमानयेत्यादौ अतिप्रसङ्गोपीति चेन्मैवम् ।  सिद्धब्रह्मपुराणामुपनिषदामुपासनवाक्येनैकवाक्यतायाः सूत्रकारानभिमतत्वेन तन्मते वेदान्तानां शास्त्रत्वाभावप्रसङ्गात् । न च तस्यापि तदभिमतिः शङ्क्या, ब्रह्ममीमांसाप्रथमसूत्रवैयर्थ्यापातात् । वेदान्तानां सिद्धे व्युत्पत्तिसमर्थनेन ब्रह्मपरत्वोपपादनेन शास्त्रारम्भघटकं हि तत् सूत्रम् । यदि वेदानां कार्यपरोपासनेन एकवाक्यता सूत्रकाराभिमता स्यात्, तर्हि कर्मपरवाच्यान्वितयूपारुण्यादिसिद्धद्रव्यगुणादिपरवाक्यानामिव उपासनवाक्यान्वितब्रह्मपरवाक्यानामपि विचारस्यारम्भणीयताया अनुपपत्त्यभावेन, प्रथमसूत्रपूर्वपक्षस्यैवानुत्थानात् तत्सूत्रवैयर्थ्यापत्तेदुर्वारत्वात् । तस्माच्छास्त्रपदप्रवृत्तिनिमित्तस्य निर्वक्तुमशक्यत्वात्, यत्र यत्र प्रामाणिकानां शास्त्रशब्दव्यवहारस्तावदन्यान्यतमत्वमेव, लाघवात् तादृशव्यवहारविषयतावच्छेदकतया सिद्धशक्तिविशेष एव वा शास्त्रशब्दप्रवृत्तिनिमित्तमित्यवश्याश्रयणीयत्वात् बाह्यादीनामपि शास्त्रशब्दमुख्यार्थत्वं दुरपह्नवमेवेति चेत्,

मैवम् । शास्त्रं च वेदाख्याक्षरराशिरिति भाष्यानुसारात् वेदत्वमेव शास्त्रशब्दप्रवृत्तिनिमित्तमिति सिद्धत्वेन शक्त्यन्तरादिकल्पनायोगात् । किन्नामवेदत्वमिति चेत्, अस्य चोद्यस्यत्वन्मतेऽपि तुल्यत्वेन तन्निर्वचनभरस्यास्मदसाधारणत्वाभावात् । तस्मात् वेदव्यतिरिक्तस्य शास्त्रत्वाभावात् शास्त्रद्वेद्मि जनार्दनम्, तस्माच्छास्त्रं प्रमाणन्ते कार्याकार्यव्यवस्थिताविति आचार्योपात्तवचनद्वये स्वरसतः प्रतीयमानयोः  शास्त्रत्वेन जनार्दनविषययथावस्थितवेदनत्वेन कार्याकार्यव्यवस्थाविवेकत्वेन कार्यकारणभावयोरनुपपत्त्यभावेन तत्र शास्त्रपदलक्षणादिमतानामनुपपन्नतया वेदस्यैव शास्त्रत्वं नान्यस्येति, तद्वचनद्वयात् सिद्ध्यत्येवेति शास्त्रान्तर्भावेन सारासारविवेकस्य असारमित्यादिवचनस्य अलौकिक -साध्यसाधनादिलक्षणप्रकृतार्थविषययावत्प्रमाणसारनिष्कर्षकत्वसिद्धेर्नानुपपत्तिरिति।

एवं वचनद्वयेऽपि शास्त्रशब्दोक्तस्य वेदात्मकत्वस्य कार्यकारणभावबलात् प्रतीतावपि, तस्योन्नेयत्वेन अव्यक्तत्वात् तद्व्यक्तीकरणार्थमेव तृतीयवचनमुपात्तम् । तत्र हि शब्दब्रह्मशब्देन वेद एव हि प्रसिद्धिप्रचुरेण सुस्पष्टं वेद एवाभिधीयते । शास्त्रशब्दस्यापि वेदैकनिष्ठत्वेऽपि वेदविच्छास्त्रविदित्यादावन्यत्रापि लाक्षणिकप्रयोगप्राचुर्यात्, अस्ति तस्य सन्देहसहत्वं केवलब्रह्मशब्दस्यापि वेदस्तत्त्वं तपो ब्रह्मेति बहुष्वर्थेषु प्रयोगादस्ति सन्देहसहत्वम् । शब्दब्रह्मशब्दस्तु तादृशेतरसाधारण्यप्रसक्त्यभावात् सुस्पष्टं वेदबोधक एव ॥ तथा च वेदैकपरतादृशशब्दब्रह्मशब्दघटित प्रमाणोपादानस्य पूर्वोदाहृतवचनद्वयगतशास्त्रशब्दविशेषण निर्धारणार्थत्वेन तेन भजेत्सारतमं शास्त्रमिति शास्त्रशब्दार्थविशेषनिर्णयसिद्ध्या, शास्त्रस्य वेदव्यतिरिक्तत्वशङ्कयोत्थितस्य असारमित्यादिवचनं प्रकृतसारनिष्कर्षाधिकारसिद्धान्तसाधने न पर्याप्नोतीति पूर्वपक्षस्य मूलोन्मूलनं कृतमित्यनुसन्धेयम् ।

अथ सारतमव्यतिरिक्तसारादित्यागविधायकेन असारमित्यादिवचनेन यत्सारभूतं

तदुपाददीतेति सारसामान्योपादानविधायकतया प्रतीयमानवचनविरोधभ्रमवारणाय तदैकार्थ्यं दर्शयति – इव्विडत्तिले, – अनन्तपारं बहुवेदितव्य

मल्पश्च कालो बहवश्च विघ्नाः

यत् सारभूतं तदुपाददीत

हंसो यथाक्षीरमिवाम्बुमिश्रम्

एन् किरश्लोकत्तिल् सारभूत मेन् गिरपदत्तालेप्रतिपन्नमान निरुपाधिकसारत्तै विषयीकरिक्किर् सारभूतशब्दमुपादेयमिति ॥

अयं भावः – अनन्तपारमिति श्लोके सारभूतशब्देन सारसामान्यं नाभिधीयते । तथा सति भूतशब्दवैयर्थ्यात् । किन्तु वास्तवसारत्वविशिष्टमेवाभिधीयते । शब्दस्य वास्तवसारत्वमर्थद्वारकम् । तथा च यच्छास्त्रं वस्तु- सत्ताप्रयुक्तसारत्ववद्विषयकं, तदेवोपाददीत नान्यदित्युक्तं भवति । वस्तुसत्ताप्रयुक्तं सारत्वं हि परार्थकैङ्कर्यतत्साधनसिद्धोपायादिरूपरहस्यत्रयार्थस्यैव सम्भवति । परार्थकैङ्कर्यस्यैव शेषभूतचेतनानां स्वतस्सिद्धताया दासभूताः स्वतस्सर्व इत्यादि- सिद्धत्वात्, उपायोपेयत्वे तदिह तव तत्त्वं तु गुणाविति भगवदुपायताया एव स्वतस्सिद्धत्वाच्च, कर्मज्ञानाद्युपायभावानामैश्वर्याद्युपेयभावानां च भगवत्संकल्पोपाधिकत्वेन स्वतस्सिद्धत्वाभावात् ।

न च चेतनस्वरूपस्यापि इच्छात एव तव विश्वपदार्थसत्तेति भगवदिच्छाप्रयुक्तत्वेन परार्थकैङ्कर्यस्यापि सोपाधिकसारत्वं शङ्क्यम् । लीलार्थभगवत्सङ्कल्पस्यैवात्र उपाधिशब्दार्थत्वात् । न हि चेतनस्वरूप प्रयोजकेच्छा लीलार्थसंकल्पान्तर्गता । स भगवान् पुरुषोत्तमः स्वमाहात्म्यानुगुणलीलाप्रवृत्तेः एतानि कर्माणि समीचीनानि एतानि चासमीचीनानि इति कर्मद्वैविध्यं विधायेत्यादिना पुण्यापुण्यादीनामेव लीलार्थभगवत्- संकल्पकल्पितत्वस्य भाषितत्वात्, त्रिविधचेतनानामपि भोगोपकरणत्वेन लीलोपकरणत्वासम्भवाच्च । यदि च बन्धानां लीलोपकरणत्वमेव स्वरूपं स्यात्, तर्हि मायाया इव चेतनानामपि लीलाविषयत्वं स्वरूपानुरूपमेवेति संसारस्योपादेयत्वमेव स्यात् ।

न च कैवल्यादीनां नित्यविभूत्यन्तर्गतत्वेन तेषां लीलार्थत्वाभावः शङ्क्यः, तेषां लीलान्तर्गतसंहारविशेषरूपात्यन्तिकप्रलयात्मकत्वेन तत्र लीलार्थताया दुरपह्नवत्वात् । परार्थकैमर्यादीनां तु परब्रह्मसंपत्तिरूपात्यन्तिकप्रलयातीतत्वेन युक्तस्तस्य लीलान्तर्भावः । न च स्वार्थानुभवादीनामपि लीलानन्तर्भावः शङ्क्यः, स्वार्थत्वस्य स्वरूपविरुद्धत्वादेव लीलान्तर्भावासिद्धेः । प्राप्ताप्राप्तविवेकेनैव हि निरुपाधिकत्वौपाधिकत्वयोर्निर्णयः कर्त्रधिकरणभाष्ये प्रदर्शितः । तस्मात् परार्थकैङ्कर्यतत्साधनादिकमेव निरुपाधिकसारमिति तद्विषयस्य सारतमशास्त्रस्यैवात्र सारभूतशब्देनाभिधानात् नानयोर्विरोध इति ॥

अथासारमित्यादिवचने असारशब्दस्य बाह्यादिविषयत्वभ्रमं वारयितुं बाह्यादीनामत्यन्तासारतया तदुपादानस्यैवाप्रसक्तत्वेन त्यागविधिकर्मत्वायोगात् विधीयमानत्यागकर्मपरासारशब्दवाच्यत्वानर्हत्वं बाह्यादीनां दर्शयति – बाह्या कुदृष्टिशास्त्रङ्गलसारङ्गलाकैयाले अनुपादेयङ्गलिति ॥

अयमर्थः – बाह्यकुदृष्टिशास्त्राणां सारसामान्यशून्यत्वात् प्रयोजनमनुद्दिश्य मन्दोपि प्रवर्तत इति न्यायेन तत्प्रवृत्तेरेवासम्भवात् तानि स्वत एवानुपादेयानीति । तथा च स्वत एवानुपादेयानां क्ष्वेलकल्पतया निषेधायोगात् न सारसामान्यशून्यबाह्यादिग्रन्था वचनस्थासारशब्दविषया इति भावः । अत एव हि अनुगृहीतं संग्रहे – श्रुतिपथविपरीतं क्ष्वेलकल्पमिति । अत्र बाह्यकुदृष्टि शास्त्रशब्दे बाह्याश्च कुदृष्टयश्च शास्त्रं च बाह्यकुदृष्टिशास्त्राणि इति समासो द्रष्टव्यः । नोचेत् शास्त्रशब्दस्य अत्यन्तगौणत्वापातात् । न हि वेदविरुद्धानां शास्त्रशब्दवेदसम्बन्धगन्धो वाप्यस्ति येन तस्यौपाचिकत्वं वा स्यात् । किञ्च न शब्दशास्त्राभिरतस्य मोक्ष इत्यादिनान्यत्र निषिद्धानां व्याकरणादीनां त्यागस्योपादानस्य वात्राकथनेन न्यूनतापत्तेश्च तस्मात् बाह्यकुदृष्टिशब्दौ या वेदबाह्यास्स्मृतयो याः काश्चन कुदृष्टयः इत्युक्तबाह्यकुदृष्टिग्रन्थविषयौ, शास्त्रशब्दो वेदाङ्गशीक्षादिपरः । अनन्तरवाक्येवेदविति वेदस्योपात्तत्वात् वेदशब्दसमभिव्याहृतशास्त्रशब्दस्यशिक्षादिपरत्वस्वारस्यात् । तथा च बाह्यकुदृष्टिग्रन्थानां वेदाङ्गानां प्रतिपादकतासम्बन्धेन सारसामान्यशून्यत्वात् प्रयोजनार्थिनां तदुपादानस्यैवाप्रसक्तत्वात्, तत्त्यागो नात्र विधेय इति तेषामसारमित्यादिवचनगतासारशब्दान्तर्भावो न युज्यत इत्युक्तं भवति । ननु वेदाङ्गानां वेदोपकारकत्वेन तदुपादानप्रसक्तिरस्तीति चेन्न, तेनाकारेण तस्य पृथग्विधिनिषेधयोरयोगात् । वेदत्यागोपादानविधिभ्यामेव तयोरपि प्राप्ते तस्मात् स्वातन्त्र्येणानुपादेयत्वमेवात्र विवक्षितमिति नानुपपत्तिः ॥

अथासारमित्यादि वचनविवेचितांस्त्याज्योपादेयशास्त्रभागान् विशिष्य दर्शयन् प्रकृतग्रन्थविषयस्य रहस्यत्रयस्यैव सारतमत्वात् भजनीयतां निगमयति – वेदात्तिलित्यादिना ॥

अत्रेयं मूलवाक्यव्यवस्था-वेदत्तिल् पूर्वभागत्तिल् ऐहिकफलसाधनप्रतिपादकमान प्रदेशमत्यल्पमाकैयाले अनुपादेयम् । आमुकप्रतिपादकांश ऐहिकफलत्तिलतिशयित फलत्तेयुडैत्ताकैयाले शिलर्कु सारमेन्नलायिरुन्दते याकिलुं दुःखमूलत्वादिदोषदुष्टम् । आकैयाले अनुपादेयम् । आत्मतत्प्राप्तितत् साधनमात्रत्तै प्रतिपादिक्कुमंशमुं सारतरमायिरुन्ददेयाकिलुम् अत्यन्तातिशयितमान परमात्मानुभवसापेक्षर्क्कनुपादेयम् । परमात्मतत् प्राप्तितदुपायङ्गकै वेकियिडुं प्रदेशमुं सारतममाकैयाले विवेकिक्कुपादेयम् । अव्वंशत्तिलुं प्रधानप्रतितन्त्रमान तत्त्वहितङ्गक्किनुडै संग्रहमाकैयाले मिकवुं सारतममायिरुक्कुं रहस्यत्रयमुम् आकैयाले – बहुभ्यश्च महद्भ्यश्च शास्त्रेभ्योमतिमान्तरः। सर्वतस्सारमादद्यात्पुष्पेभ्य इव षट्पदः । एन् गिरपडिये इन्दरहस्यत्रयमुं मुमुक्षुवान इव्वात्मावुकु मिकवुमुपादेयमाकक्कडवतु इति ।

अत्र प्रथमवाक्येन वेदत्तिल् पूर्वभागत्तिल् ऐहिकफलसाधनप्रतिपादकमान प्रदेशमत्यल्पसारमाकैयाले अनुपादेयमित्यनेन वचने, शास्त्रे असारं त्यजेदिति वाक्यं व्याख्यातम् । तत्र वेदत्तिलित्यनेन सप्तम्यन्यशास्त्रशब्दो व्याख्यातः । वेदत्तिलिति एतदुत्तरवाक्येष्यप्यन्वेति, पूर्वभागेऽपि ब्रह्मप्रतिपादकांशसद्भावमभिप्रेत्योक्तं प्रदेशमिति । अत एव हि उच्यते, ये वेदविदो विप्रा इति । अत्र ऐहिकशब्देन प्राकृतभोगाः सर्वे विवक्षिताः पादोस्येहाभवत्पुनः तमेवं विद्वानमृत इह भवतीत्यादिष्विहशब्देन प्रकृतिमण्डलबोधनात् । आह च भगवान् बादरायणः – ऐहिकमप्रस्तुतप्रतिबन्ध इति । तथा च, श्रुतौ प्रकृतिपुरुषभोगप्रापकांशो पथ्यः इत्युक्तमेवात्र विवृतं भवति । तत्र हि भूम्यन्तरिक्षादिप्राकृतदेशावच्छिन्नस्रक्चन्दनचन्द्रिकाद्यचेतन – भोगा अग्नीन्द्रपुत्रभार्यादिचेतनभोगाश्च उच्यन्त इति पूर्वमेवोक्तम् । अत्यल्पसारमाकैयाले इत्यनेन वचनस्थासारशब्दो व्याख्यातः । अयं भावः- असारशब्दस्य सारसामान्यशून्यपरत्वे तत्प्रवृत्तेरेवाप्रसक्तततया तन्निषेधायोगात् असारशब्दः स्वोत्तरपदार्थान्वययोग्यतानुसारेण अत्यल्पसारविषय एव । अत्यल्पसारस्य च अल्पसारादधःकोटित्वेन अल्पसाराधः कोटिविषयासारशब्दवाच्यत्वमपि तस्यैव युज्यते । तस्मादसारशब्दोत्यल्पसारभूतप्राकृतचेतनाचेतनभोगपर इत्येवाश्रयणीयमिति ॥

केचित्तु वेदत्तिलित्यादिकमल्पसारशब्दार्थ इति वदन्ति । तन्न, तथा सति अत्यल्पसारमाकैयाले इत्याचार्यसूक्तिविरोधात् । अत्यल्पसारशब्देन हि अल्पसाराज्जघन्यकोटिरेव स्वरसतोवगम्यते, नाल्पसारकोटिः । अतिशब्दविरोधात् । यद्यत्राल्पसारांशविषयकत्वमेवाचार्याणामभिप्रेतं स्यात् तदा मौलाल्पसारशब्दे अतिशब्दप्रक्षेपः किमर्थस्यात् । प्रत्यभिज्ञाभञ्जको हि सः निरर्थकः प्रक्षेपः । तस्मादसारशब्दव्याख्यानमेवैतत् ॥

अथाल्पसारं त्यजेदिति वाक्यविषयं दर्शयति – आमुष्मिकप्रतिपादकांश ऐहिकफलत्तिलतिशयितफलत्तैयुडैत्ताकैयाले शिलर्कुसारमेन्नलायिरुन्दतेयाकिलुं दुःखमूलत्वादिदोषदुष्टमिति द्वितीयवाक्येन ।। अत्र आमुष्मिकप्रतिपादकांशमित्यनेन कैवल्यपरभागोभिधीयते, यस्यैव ऐश्वर्यापेक्षया अतिशयितत्वात् । केषाञ्चित् सारत्वेन प्रतीयमानत्वात् ।

क्लेशोधिकतरस्तेषामव्यक्तासक्तचेतसाम्

अव्यक्ताहि गतिर्दुःखं देहवद्भिरवाप्यते

इत्यादिना दुःखमूलत्वादिदोषसिद्धेश्च । तथा च केषाञ्चित् भ्रान्तानां कैवल्यकामानां कैवल्यस्य सारत्वप्रकारकभ्रमविशेष्यत्वेऽपि, निरवधिकदुःखमूलत्वादिदोषदुष्टत्वात् तस्य वस्तुतो विद्यमानमपि ऐश्वर्यापेक्षया किञ्चिदाधिक्यम् अकिञ्चित्करमेवेति प्राकृतभोगवदेव तदपि त्याज्यमेवेति ॥ अत्र शिलर्क्किति कैवल्यपरविषयकानादरोक्तिस्तेषां निन्द्यताज्ञापनार्था । सारमेन्नलायिरुन्दतेयाकिलुमिति केषाञ्चित् सारत्वेन प्रतीयमानत्वोक्त्या प्रामाणिकानां तस्य सारत्वं नेष्टमिति गम्यते । अत एव हि सर्वं तदूषजलजोषमहं जुषेयेति अल्पसारत्वमेव प्रामाणिकैस्तस्य प्रदर्शितम् ॥

अत्र केचिदिदं वाक्यं सारशब्दविषयप्रदर्शनपरमिति वदन्ति । तदसत्, तथा सति शिलर्कुसारमायिरुन्दतेयाकिलुमित्याचार्य सूक्तिस्वारस्यविरोधस्य दुष्परिहरत्वात् । ऊषजलप्रायत्वेन प्रामाणिकैरुक्तस्य सारशब्दार्थत्वायोगाच्च ॥

अथ सारं त्यजेदिति वाक्यविषयं दर्शयति – आकैयाले अनुपादेयम्, आत्मतत्प्राप्ति साधनमात्रत्तै प्रतिपादिक्कुमंशमुमिति तृतीयवाक्येन । अत्र आकैयालित्यनेन दुःखमूलत्वादिदोषदुष्टत्वं परामृश्यते, दुःखमूलत्वादिदोषदुष्टत्वादेवेत्यर्थः । आदिशब्देन स्वरूपविरुद्धत्वाति शयत्वादिकमभिप्रेतेम् । आत्मतत्प्राप्तीत्यत्र आत्मशब्देन आत्मा वारे द्रष्टव्य इत्युक्त आत्माविवक्षितः। निरुपाधिकात्मशब्दस्य तत्रैव मुख्यवृत्तताया भाषितत्वात् । अत्र केवलात्मशब्देन परमात्मनिर्देशो मैत्रेयात्मविद्याज्ञापनार्थः । आत्मा अरे इत्यादिना तत्र तथानिर्देशात् । अत्र तद्विद्याज्ञापनं च स्वार्थानुभवलक्षणमोक्षसद्भावज्ञापनार्थम् । तत्र नवा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय इत्यात्मानन्दायैव परमात्मश्रवणमननानां विहिततायाः कल्पान्तरे भाषितत्वेन, तद्विद्यायाः स्वार्थानुभवार्थत्वेन सिद्धत्वात् । स्वानुभवार्थपरमात्मकर्मकप्राप्तितत्साधनादिपरभागस्यापि कैवल्यपरभागतुल्यत्वात् तद्वदनुपादेयमेवेत्युक्तं भवति ।

ननु कथं स्वात्मानुभवस्य कैवल्यवद्दुःखमूलत्वमितिचेत् उच्यते । स्वार्थानुभवपराणां स्वकर्तृकपरमात्मकर्मकानुभवानन्दरूपस्वसुखस्यैव निरतिशयप्रियतया परमात्मनोपि तदर्थतयैवेष्टताया आत्मनस्तु कामायेत्यभ्याससिद्धत्वेन, भगवतो निरतिशयप्रियत्वाभावात् । भगवति निरतिशयप्रीतिविधुराणां च स्वयमुपस्थितस्य स्वीकार एवेति लघुसिद्धान्तश्रुतप्रकाशिकायां भगवद्वरणीयत्वाभावस्यानुगृहीतत्वात्  भगवद्वरणानर्हाणां च तेषां कैवल्यार्थ्यविशिष्टत्वेन तद्भोगस्य कैवल्यवद्दुःखमूलत्वसिद्धिरनिवार्यैवेति ॥

अत्र केचित् – आत्मतत्प्राप्तीत्यादेः कैवल्यपरत्वमाश्रित्य सारतरशब्दविषयतामिच्छन्ति, तदसत् । अतिगर्ह्यस्य कैवल्यस्य सारतरत्वायोगात् । निरुपपदात्मशब्दस्य परमात्मपरत्वस्वारस्यविरोधाच्च । कैवल्यभागस्य सारतरत्वे रहस्यत्रयस्य भजनीयकोट्युत्तीर्णत्वापाताच्च । तस्माद्यथोक्त एवार्थः। अत्र सारत्वानुक्तिस्तु तस्यानुक्तिसिद्धत्वाभिप्रायेण पूर्ववाक्ये केषाञ्चित् सारत्वेन प्रतीयमानस्य वस्तुतोसारस्योक्तत्वात्, उत्तरवाक्ये सारतराभिधानाच्च मध्यवाक्यस्य सारविषयताया अनुक्तिसिद्धत्वात् । अस्यैव सारतरविषयत्वपक्षेतु सारविषयं वाक्यं मृग्यमेव । न च पूर्ववाक्यस्य सारविषयत्वं युक्तम् । तस्य वस्तुतस्सारत्वे केषाञ्चित् सारत्वेन प्रतीयमानत्वोक्तिविरोधात् । न हि वस्तुतः सारं केषाञ्चिदेव सारत्वेन प्रतीयते, येन तथोक्तिरुपपद्येत । तस्माद्यथोक्त एवार्थः ।

अथ सारतरं त्यजेदितिवाक्यविषयं दर्शयति – सारतरमायिरुन्दतेयाकिलुम् अत्यन्तातिशयितमानपरमात्मानुभवसापेक्षनुक्कु अनुपादेयम् । परमात्मतत्प्राप्तितदुपायङ्गकै वेकियिडुं प्रदेशमुमिति तूरियवाक्येन । अत्रात्यन्तातिशयितपरमात्मानुभवेत्यनेन सातिशयपरमात्मानुभवेत्यनेन सातिशयपरमात्मानुभवसद्भावो ज्ञाप्यते । परमात्मानुभवशब्देन परमात्मकर्मकानुभवो विवक्षितः । परमात्मकर्तृकचेतनानुभवो नाम शेषभूतचेतनवस्त्वाहितातिशयभाक्त्वमेव । तथा च कैङ्कर्यमेव परमात्मानुभवशब्देनोक्तं भवति ।

ननु कथमनुभवशब्देन कैङ्कर्यमुच्यत इति मावोचः । अनुभाव्यवस्तुस्वरूपानुगुण्येन अनुभवानां भिन्नभिन्नत्वात् । हारमनुभवतीत्युक्ते कण्ठेधारणं, गृहमनुभवतीत्युक्ते वासः, क्षेत्रमनुभवतीत्युक्ते तत्फलभाक्त्वं, दासमनुभवतीत्युक्ते तदाहितातिशयभाक्त्वं चानुभवशब्देनैव प्रतीयते । तस्मादत्रानुभवशब्देन कैङ्कर्यवचनं युक्तमेव । तत्र सातिशयपरमात्मानुभवरूपं कैङ्कर्यन्नाम स्वार्थकैङ्कर्यमेव । अत्यन्तातिशयितपरमात्मानुभवरूपं कैङ्कर्यन्नाम केवलपरार्थकैङ्कर्यमेव । तत्र यत्सातिशयपरमात्मानुभवरूपस्वार्थ – कैङ्कर्यं, तदत्यन्तातिशयितपरमात्मानुभवशब्दितपरार्थकैङ्कर्यसापेक्षाणानुपादेयमेव । तदेव स्वार्थकङ्कर्यं वचने सारतरशब्देनोच्यते । तदाह- सारतरमायिरुन्दतेयाकिलुम् अत्यन्तातिशयितपरमात्मानुभवसापेक्षर्कु अनुपादेयम् परमात्म तत् प्राप्ति तत् साधनङ्गकैवेकियिडुं प्रदेशमुमिति अत्यन्तातिशयिनोयः परमात्मानुभवः परार्थकैङ्कर्यमित्यर्थः । तत् सापेक्षर् – भगवन्निर्हेतुककटाक्षविषयीकृता उत्तमाधिकारिणः, तेषामत्यन्तातिशयितत्वरहितकेवलपरमात्मप्राप्तितत्साधनप्रतिपादकांशा अनुपादेयाः, स्वार्थकैङ्कर्यतत्साधनप्रपत्त्यादिप्रतिपादकांशास्त्याज्या इत्यर्थः ॥

केचित्तु परमात्मतत्प्राप्त्यादिप्रतिपादकांशस्य सारतमशब्दार्थत्वं मन्यन्ते, तदयुक्तम् । तथा सति रहस्यत्रयस्य वक्ष्यमाणस्य सारतमत्वासिद्ध्या विवक्षितवैपरीत्यापातात् । अत्यन्तातिशयितपरमात्मानुभवेत्यनेन व्यञ्जितस्य सातिशयपरमात्मानुभवस्य त्यागोपादानयोरकथने नन्यूनतापाताच्च । न च परमात्मानुभवस्य कैवल्यव्यावृत्तिसिध्यर्थमेव अत्यन्तातिशयितेति विशेषणमिति वाच्यम् । परमात्मानुभवशब्देनैव तद्व्यावृत्तिसिद्धेः, परमात्मानुभवसापेक्षाणामात्मानुभवोऽनुपादेय इत्युक्त्यैव सामञ्जस्ये अत्यन्तातिशयितेति विशेषणोपादानस्यानर्थक्यात् । तस्माद्यथोक्त एवार्थः ।

अथ सारतमं भजेदिति वाक्यविषयं दर्शयति – सारतममाकैयाले विवेकिक्कुपादेयम् अव्वंशत्तिलुं प्रधानप्रतितन्त्रमान तत्त्वहितपुरुषार्थङ्गकिनुडैय संग्रहमिति पञ्चमवाक्येन ॥ अत्र अव्वंशत्तिलुमित्येतन्न सप्तम्यन्तं, किन्तु पञ्चम्यन्तं तदंशादपीत्यर्थः । अत्र तच्छब्देन स्वार्थकैङ्कर्यप्रतिपादकांशः पूर्ववाक्यप्रतिषिद्धः परामृश्यते । तथा च स्वार्थकैङ्कर्याद्यपेक्षया ये प्रधानप्रतितन्त्रार्थाः परार्थकैङ्कर्यतत्साधनसिद्धोपायादिरूपास्तत्त्वहितपुरुषार्थाः, तेषां संग्रहरूपं रहस्यत्रयमेव सारतमत्वात् विवेकिनामुपादेयमित्यर्थः ।

अथ ननु प्रतितन्त्रभूतपरार्थकैङ्कर्यादिरूपतत्त्वहितपुरुषार्थसंग्राहकशब्दस्य सारतमत्वात् भजनीयत्व मन्येषां वर्जनीयत्वंचैतावतोक्तं भवति । तावता प्रकृतग्रन्थविषयस्य रहस्यत्रयस्य किमायातमित्याकाङ्क्षायां, रहस्यत्रयस्य सारतमत्वप्रयोजनकधर्मवत्त्वादेव सारतमत्वं सिद्धमित्याह आकैयाले मिकवुं सारतममायिरुक्कुंरहस्यत्रयमिति आकैयाले -अत एवेत्यर्थः । अत्यन्तातिशयितपरमात्मानुभवशब्दितपरार्थकैङ्कर्यादिरूप – प्रधानप्रतितन्त्रसंग्रहादेवेति यावत् शिष्टं स्पष्टम् ।

ननु वेदे सारासारविवेकवत् रहस्यत्रयेऽपि सारासारविवेक आवश्यकः। अष्टाक्षरस्य सर्ववेदमूलत्वस्य प्रमाणसिद्धत्वेन असाराल्पसारांशानामपि अष्टाक्षरे सत्त्वादिति शङ्कायामाह – मिकवुं सारतममायिरुक्कुं रहस्यत्रयमिति । अत एव केवलं सारतममायिरुक्कुमित्येतावन्नोक्तम् । रहस्यत्रये सर्वांशावच्छेदेनाप्यत्यन्त सारात्मकत्वात्तत्र विवेचनीयसाराद्यंशो नास्तीति भावः । एवं रहस्यत्रयस्य भजनीयताप्रयोजकं सारतमत्वं साधितम् । अथ ततस्तदुपादेयतान्निगमयति – आकैयालित्यादिना । स्पष्टोर्थ इति सर्वमवदातम् ॥

श्री श्रीनिवासदासेन श्रीभूतपुरवासिना

रचितावर्धतामेषा सारनिष्कर्षटिप्पणी

श्रीमद्वेङ्कटलक्ष्मणार्ययमिने नमः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.