[highlight_content]

सददर्शन सुदर्शन चंपूः

NOTE: This is unpublished till date and brought out from a manuscript, here Page # are kept the same as in the manuscript for easy checking. There are few missing words and words that are not clear in the original, kindly request learned community to highlight the same and write to me at ayeenarasimhan @ gmail.com

सददर्शन सुदर्शन चंपूः

श्रीवेङ्कटलक्ष्मणमुनि रचितम्

चम्पूकाव्यम्

 

विषयसूचिका

  1. श्रीमन्महाभूतपुरादि केशव स्तुतिः
  2. भगवद्रामानुज स्तुतिः
  3. गुरुपारंपरी स्तुतिः
  4. ग्रन्थोपक्रम:
  5. गन्धर्वयुग्मम्
  6. काञ्चीपुरपरिकराग्रहार वर्णनम्
  7. श्रीमद् गृध्रसरोविजयराघवादिवर्णनम्
  8. परमार्थ स्तुतिविस्तरः
  9. गृध्रसरोदेशवासिजनाः
  10. आसुर प्रकृतिवर्णनम्
  11. आसुर प्रकृति परिहारः द्रामिडागमवैभवम्
  12. रघुपतेश्चरितम्
  13. सप्तर्षिघटिकायलादिवर्णनम्
  14. चण्डमारुतमहाचार्यस्तुतिः
  15. घटिकाचलाग्रहारजनानुष्ठितः धर्मः
  16. कार्तयुगधर्मस्य शरणागत्याख्यस्य वैभवम्
  17. पशुविशसन विमर्शः
  18. भट्टनाथकृतकल्पसूत्र विचारः
  19. शुद्धसत्त्वाचारः
  20. उपरिचरवसुचरितोदाहरणम्
  21. जैमिनि वेदान्त निर्णयः
  22. पशुविशसनपापविचारः
  23. उदीची रंगपुष्करिणी ग्रामवर्णनम्
  24. चोळसिम्हपुरवर्णनम्
  25. सकृत् प्रणामविचार:
  26. चोळ सिम्हपुरीयाणां नित्यजीवनम्
  27. श्रीशैलाख्य दिव्यदेशजनवर्णनम्
  28. एकादशी व्रतादिविचारः
  29. वीक्षारण्यदिव्यदेशवर्णनम्
  30. सदूर्ध्वपुण्ड्रविमर्शः
  31. यतिगृहस्थाचार्यवन्दनविषयः
  32. अहोबिलयतीन्द्र ध्वजपटादिविषयः
  33. यतिवन्दनसमर्थनमण्डनम्
  34. अधिक: पाठःलेख्यः अशरीरवाणी
  35. गृहार्चायां घण्टानादत्यागः
  36. श्रीदेव्याः अणुत्वविभुत्व विमर्शः
  37. श्रियः नारायणेन भेदाभेद विचार:
  38. हरितवारण-देवाधिष्ठित पुरुषमंगल देश विचारः (श्रीपाद तीर्थविषयः)
  39. श्री स्थितिपुरादि विषयः- वात्सल्यविचार:
  40. श्रीभूत्पुरीवर्णनम्
  41. आदिकेशववर्णनम्
  42. भगवद्रामानुजस्तुतिः
  43. भूतपुरी श्रीवैष्णवर्णनम्
  44. तीर्थक्षेत्र यात्रा विषयः
  45. दिव्यदेशनियतवासः
  46. ग्रन्थोपसम्हारः
  47. लम्बक: आचार्यस्तुतिः

*****

सद्दर्शन सुदर्शनम्

श्रीमन्महाभूतपुरादि केशव स्तुतिः

 

१. श्रीमच्चक्रोज्वलं यद्भुजयुगयुगळं, यः श्रियास्वर्णवर्णो

यन्नाम द्वादशाद्यं भवति बहुमुखं दिव्यनाम्नां सहस्रम्।

यो वैद्यः पापतापरहरणविधौ, ध्यानकृच्छ्रेगसां यो, (ज्व?)

यस्सद्वंशेऽभिमानी शठमथनमुनेः, सोवतात् केशवो नः॥

२. वेदावेदविदश्च धर्ममकृतं यं प्राहु राध्यात्मिका-

स्सर्वे भागवता भजन्त्यनुदिनं यं फालपुण्ड्रान्तरे।

गोदा कामयते च कामभजना द्यत्पादसंवाहनं

योवै श्रीरपिच श्रियो विजयतां श्रीमानयं केशवः॥

३. यत्पार्श्वप्रभवौ विरिञ्चिगरिशौ यद्विक्रमै रूर्जितं

सर्वे यत्पदपद्मजामधुधुनीगङ्गा जगत्पावनी।

यत्कुक्ष्या निखिलं जगत्कवचितं यो वा गुरूणां गुरुः

यन्यासः परम न्तपो विजयतां श्रीमानयं केशवः॥

४. यद्रूपं दिवि शिंशुमारपरिधिर्यत्पादभक्तो द्ध्रुवो

यच्छ्वासप्रभवा च वातरशना यन्नाभिजातं नभः।

यत्सङ्कल्पनियन्त्रिता ग्रहगणा नित्या यदाज्ञा श्रुतिः

यत्प्रीतिः परमं फलं विजयतां श्रीमानयं केशवः॥

५. यतिराजनाथवल्लीसङ्गतिसंरक्तपल्लवाकारः।

जयतु हरिचन्दनोयं छायाद श्री समाह्वोयः॥

भगवद्रामानुज स्तुतिः

६. शर्वाद्यागमभारचर्वणफल द्दुर्वाखर्वीभवद् –

द्गर्वाम्भोनिधिपानकुम्भजमुनि श्रीभाष्यसूक्त्यङ्कुरः।

जीयादेष भवौषधीकृतपदाम्भोजोपमर्दोदयद्-

धूळीधूसरमारुतेरितकणस्पर्शो यतीशो गुरुः॥

७. दोर्दण्डद्वितयाऽभिदण्डितगळद् द्दानाम्बुमेघीभवद्-

गण्डाखण्डलहस्तमण्डनमहावेतण्डशुण्डामदः।

कामेन्दुप्रियगानकल्पकसुधास्वर्धेनुचिन्तामणिः

श्रीशश्रीतदनन्तभोगमधुरो जीयाद् यतीशो गुरुः॥

८. गम्भीराम्भ स्समुज्जृम्भित विपुलवपुर्नाळसूर्यां

शुहृष्यद्रक्ताम्भोजातपत्रामलविपुलदृशम्प्रोच्य कप्यासवाच्यम्।

वाणीवाण्या निजारण्यां त्रिभुवनविदितां कारयन् यादवाद्रौ

सद्भिस् सं सेव्यमानो जयतु यतिपतिः भूयसे श्रेयसे नः॥

गुरुपारंपरीस्तुति:

 

९. सगोदभक्तोचितसाक्षिकं मे स्वयं शिरस्यङ्घ्रियुगप्रदाता।

सुसुन्दरः सुन्दरयोगिवर्य स्समास्समस्ता जयतु क्षमायाम्॥

ग्रन्थोपक्रम:

१०. नत्वा यतीन्द्रंलोकार्यं स्मृत्वा वरवरं मुनिम्।

करोमि महतां प्रीत्यै सद्दर्शनसुदर्शनम्॥

११. क्वाहमत्यन्तदुर्दृष्टिः क्व सतां सत्सुदर्शनम्।

स्वयमेव यतीन्द्रोऽयं पूरयेन्मदुपक्रमम्॥

१२. जन्तुरत्यन्तहीनोऽपि महतां पदमर्हति।

अङ्कितः शङ्खचक्राभ्यां सव्यदक्षिणपक्षयोः॥

गन्धर्वयुग्मम्

१३. श्रीहस्तिशैलेशमहोत्सवार्थं अत्रागतं दिव्यमकर्मवश्यम्।

प्रदक्षिणार्थं करिशैलसूरेः गन्धर्वयुग्मं गगने चचार॥

१४. दिव्यगान्धर्वनिपुणौ द्राविडब्रम्हगायिनौ।

श्रीवैकुण्ठपते रेतौ सव्यदक्षिणपक्षगौ॥

१५. सव्यो भक्त स्सद्गुणानन्दशीलः

स्निग्धस्वान्तः पक्षपातानभिज्ञः।

सारासारौ शिक्षय नहन्ति दक्षः

साधौ पक्षे दक्षिणः पक्षपाती॥

१६. तत्र तावदेतौ, भक्तप्रपन्नाविव विष्णुपदैकगतिकौ, नरनारायणाविव सद्वृत्तचारिणौ, चक्रशङ्खाविव साधुपक्षपातिनौ, परब्रह्मपक्षसंश्रयौ, रामलक्ष्मणाविव पुण्यजन्म जनावनबद्धकौतुकौ, बलकेशवाविव गोवर्धनबृन्दावनविहाररसिकौ, तुम्बुरुनारदाविवदिव्य गीतवाग्विलासौ, गरुडपवनाविव सकलजगत्प्राणधारकौ, सूर्यचन्द्राविव तामसप्रत्यनीकौ, अनन्ताविव पुष्पहाससुकुमारौ भगवच्चरणाविव परस्परशोभावहौ वरदरदनच्छदाविव प्रसारितपुण्यगन्धौ, लक्ष्मीकटाक्षाविव सकलजनाह्लादकौ, अपुष्पवन्तावपि पुष्पवन्तौ, अङ्गरमणीयाव प्यनङ्गरमणीयौ, सुगतवचनावाप्यसुगतवचनौ, कुशीलवादिभूताव प्यकुशीलवादिभूतौ, जयजनवर्धनप्रियावपि अजयजनवर्धनप्रियौ, वर्णास्पृष्टावपि अवर्णास्पृष्टौ, गान्धर्ववेदधरौ गन्धर्ववरौ॥

काञ्चीपुरपरिकराग्रहार वर्णनम्

करिगिरिवरपरिसर सरत्सरित्सरसरसतरळतरतरङ्गरङ्गसङ्गतिचटुलतरकमल वल्लीपटलपटुनटनभङ्गिकाधिक्कृत सुररमणीरमणीयलास्यैः, जडकिरणकरनिकरसङ्करदिवसकरकरनिकुरम्बचुम्बितकमलकुलमुख  विकासहासदरदळितदळाधरोद्गळित मधुरमधुरसामृततुन्दिलैः कमलकुलविकासबोधनकिलिकिलित हंससारसहिमशिशिरपक्षविक्षेपचकित शफर वरसत्वरस्फुरितचटुलगतिघट्टनोत्थापित सुमतरळिममृदुकदळस्पर्शमधुवदन सुखसुप्तनम्भरैः; मधुशिशिरशीकरकरम्बित कमलकल्हारपरागपरिरम्भपरिचय संस्कारसम्भृत प्रकृतिजडमन्दगन्धवह घुमघुमित दिगन्तराभ्याशैः; परमभोग्यपावनावगाहैः; पुष्करिणीसमूहैः; परितः परिकर्मितान्; करिगिरिपति कल्याणगुणानुभवजनित निरतिशयहर्षप्रकर्षकोलाहलमुखरितमुख जनसम्बाधान्; गुरुजनाभिजननिवासभूतान् करिगरिवरपरिकरवरा निव परितो निविष्टान्; दिव्याग्रहारान् सेव्य सानन्दं साञ्जलिबन्धं नमः पुरस्तात् करिशैलसूरेः दिव्याग्रहारारेषु सदा वसद्भ्यः तथैव पश्चादभितो वसद्भ्यो मुदा मुनिं सौम्यवरं भजद्भ्यः॥

१७. निपुणं निरूप्य दक्षिण: ग्रामेग्रामे गेहमाला गुरूणां गेहेगेहे बालकाः क्रीडमानाः बालेबाले द्राविडब्रह्ममन्त्राः मन्त्रेमन्त्रे भाति सौम्योपयन्ता॥

श्रीमद् गृध्रसरोविजयराघवादिदर्शनम्

१८. श्रीहस्तिगिरिसूरेः पुरस्तात्पश्चिमदिशि चक्षुषी विक्षिप्य सव्यः सहर्षं सोऽयं ध्येयः पुराणः प्रतिहतदुरितो गृध्रराड्दिव्यदेशो यस्मिन् सौमित्रितुल्या रघुतिलकसपर्यासु सर्वे सुकल्याः ।मुञ्चन्तः पञ्चयज्ञान द्रमिडफणितिभिः मोयन्तो रमेशं भूयोभूयः प्रहर्षामृतमयजलधौ मज्जयन्तो जयन्ति॥

१९. दक्षिण: श्रीमद्रणपुङ्गवसंश्रयाणा ममीषां भागवतानां कानामन्यूनताऽस्ति। पारावा रपयोविशोषण कलापारीणकालानल ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः | सर्वावस्थ सकृत्प्रपन्नजनतासंरक्षणैकव्रती धर्मो विग्रहवानधर्मविरतिं तन्वीत धन्वी स्वयम्॥(धन्वी स तन्वीत स्थस नः इति दशावतार स्तोत्रे)

२०. नमस्तस्मै कस्मै चन भवतु निष्किञ्चनजन-

स्वयंरक्षादीक्षासमधिकसमिन्धानयशसे।

सुराधीशस्वैरक्षणकुपितशापायुधवधू-

दृषत्तादुर्जातप्रशमनपदाम्भोजरजसे ॥

२१. निषादानां नेता कपिकुलपतिः कापि शबरी-

कुचेलः कुब्जा सा व्रजयुवतयो माल्यकृदिति।

अमीषां निम्नत्वं * रणनिपुणसिम्होन्नति मपि

प्रभूतैः स्रोतोभिः प्रसभमनुकम्पा समयसि॥

(दयाशतके ६५. .*पाठभेद: – “वृषगिरिपतेरुन्नतिमति”।)

२२. शरणागतरक्षणव्रतस्थो नतु हातुं रणपुङ्गवाऽर्हति स्वान्। (extra mark-up not clear)

विदितं भुवने विभीषणोवा यदिवा रावण इत्युदीरितं स्वम्॥

२३. कमलानिरपायधर्मपत्नी करुणाद्याः स्वयमृत्विजो हरेर्हि।(गुणास्तं)

अवनं श्रयतां अहीनमाद्यं सच धर्मो हरिणैव सेवनीयः॥

२४. अपनीय (वधीर्य) चतुर्विधं पुमर्थम्

हरिदास्ये (भवदर्थे) विनियुक्तजीवित स्सन्।

लभते च ततः (भव) फलानि जन्तुः

निखिलान्यत्र निदर्शनं जटायुः॥

२५. कृपणाः सुधियः कृपासहायं शरणं त्वां रणपुङ्गवं ! प्रपन्नाः।

अपवर्गनया दनन्यभावा वरिवस्यारसमेक माद्रियन्ते॥

२६. अभिरक्षितु मग्रतस्स्थितत्वां प्रणवे पार्थरथे च भावयन्तः

अहितप्रशमै रयत्नलभ्यैः कथयन्त्याहवपुङ्गवं गुणज्ञाः॥

परमार्थ स्तुतिविस्तरः

२७. पतितः कितवः किरातको वा श्वपचो वा निजनाम यस्य वाचि।

अधिकं तमिवात्मनस् ससीतात् ससुमित्रातनयादयं तु वेत्ति॥

२८. विनतं कृपणं महाविभूतिं सततं ध्यायति युद्धपुङ्गवोऽयम्।

मनुते हि सलक्ष्मणं ससीतं स्वयमात्मानमहो गुहेन योगात्॥

२९. रणपुङ्गवभव्यभाववृत्तिः कृपणेष्वेवं हि निम्नगा नदीव।

कमलादिषु सत्सु मन्यते यत् गुहमेवात्मसखं सखायमेषः॥

३०. जुषते विनतान् सहैव दोषैः निजवत्सं भृशवत्सलेव धेनुः।

विदितं हि वचोऽस्य भक्तदोषे महतामेतदपीहितं किलेति॥

३१. अपिनिन्दितजन्मवेषान् स्वयमेतान् रणपुङ्गवो वृणीते।

शबरीनिजरीतिभावपूतं बुभुजे पक्वफलं सुदुर्लभं यत्॥

३२. रणपुङ्गवसद्गुणौघमग्ना परभक्तिः परिहासकोटिमेति।

य इहार्ततमोऽथवापि दृप्तः परिपाल्यस्समयेति यद्ब्रवीति॥

३३. अपिवाऽरिपुरस्य सन्निधिस्थः परिहायायमसूननेन पाल्यः।

अवद्गृहगोऽभिरक्षितव्यस्त्यजताऽसूंश्च कृतात्मनात्मनेति॥

३४. अपिविश्रुतमेष हातुमीष्टे बतसीतां नियतां सलक्ष्मणां वा।

विनतं नयदाह न त्यजेयं खलु मित्राभिनयं कथञ्चनेति॥

३५. सहते न तु निन्दतोऽपिजन्तौ अवमानं न मनागपि स्वकीये।

त्वयि किञ्चि दिहापदाभिपन्रे किमहो मे रमयेति यद्ब्रवीति॥

३६. अपि निम्नतमे रणर्षभोऽयं विनियुङ्क्ते स्वगतं महोन्नतत्वम्।

दिविषत्परिषन्निगुह्यमानं व्यवृणोदेषजटायुषि स्वतत्वम्॥

३७. यजतां त्यजतां सुदुर्लभोयं रणसिम्ह स्सुलभो यतो न तेषु।

प्रददौ कपिपक्षिराक्षसानां निजसेवां मुनिसत्तमेषु सत्सु॥

३८. करुणाम्बुधिरप्यनार्द्रचित्तः रणसिम्हो विनतावमानसकते।

अनुपासितलक्ष्मणे कपीन्द्रे स न जानाति हि लक्ष्मणार्हलक्ष्म॥

३९. अतिवेलमथाचरन् वदन्वा निजभक्तोऽभिमते तु पक्षपाती।

अलमेष हि वालिनं निगृह्णन् कुरुते लक्ष्मणलाञ्छितं कपीन्द्रम्॥

४०. (अतिवेलमथाचरन् वदन्वा)

सुकृतादपि दुष्कृतं वरिष्ठं मनुतेऽसौ रणपुङ्गवो विपश्चित्।

सुकृतप्रचुरां त्यजन् अयोद्ध्यां स्वयमेवैति हि रक्षसां समीपम्॥

४१. प्रवदन्ति हि राक्षसालयस्थे विबुधाः पुण्यजनाभिधां मुधा।

रणपुङ्गव पैतृकस्वमग्र्यं करुणर्द्रेक्षणमीक्षते यदेव॥

४२. रणपुङ्गवबाहुरक्षितानां बत नामापि यमायते यमस्य।

मृतविप्रसुतस्य भद्रदायी करवाळ स्सुकराळको यदस्मिन्॥

४३. रणपुङ्गवमप्यमुन्नतानां समुदायेष्विति मुग्धमेव मन्ये।

शरणं सकृदेव याति चैकः फलमस्यैति समस्तभूतजातम्॥

४४. उपयाति हि चिन्तयन्कपोतं परितापं रणपुङ्गवो नतार्थे।

तदमी विनताः किरातका वा विजयन्ते रणपुङ्गवाविशेषाः॥

४५. सततं रणपुङ्गवेऽनुतिष्ठत्यभयाख्यव्रतमात्मनां हितार्थम्।

नमतां नहि शिष्टमस्ति कृत्यं न नृपश्शास्ति करद्वयं प्रदेयम्॥

४६. अकृतो रणपुङ्गवो हि धर्मः निरपायस्सकलार्थ दानदक्षः।

निगमैरुदितस्तथापि दृष्टो महितो विग्रहवान् सदैधतेऽत्र॥

(गृध्रसरोदेशवासि जना:)

४७. पितरौ सहजस्तथा निवासः शरणं हन्त सुहृद्गतिश्च सर्वम्।

रणपुङ्गव एव संश्रितानां निरपायो विधिनिर्मितोऽन्वयोऽयम्॥

(परमार्थस्तुते: विस्तर: अमुद्रित:)

४८. न देवभूतात्मनृणां पितॄणां न किं करोनाय मृणी च जीवः *राजन्।

सर्वात्मनायश्शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः॥

(*इति भारनादौ मूलपाठ:)

४९. देवर्षिभूतपितृमर्त्यऋणातिलङ्घी दत्ताभयस्तु दयया रणपुङ्गवेन।

सोऽयं जन स्सुकृपणोऽपि परं पदं तत् प्राप्स्यत्यसौ गुरुजनैः प्रथमाधिरूढम्॥

५०. वने परिचरन्विभुं परिजहार कर्माखिलं स्वशेषिनिजशेषतास्थितिकृतक्षणो लक्ष्मणः

तदस्य सदृशं भवेदिति रमा स्वशक्तिं जहौ तयोर्मतमुपाश्रिता भगवदन्तरङ्गा अमी॥

५१. कृतमपि दुरितं प्रमादवृत्त्या बत रणपुङ्गवसद्दयानिमग्नान्।

पवनतनयवालवह्निरीत्या दहति;न धक्ष्यति योजितं परेषु॥

५२. अनभ्युपगते उभे अपिच कर्मणी प्रोषिते।

ऋणत्रयमपाकृतं प्रपदनेन सर्वात्मना

विभाति च महास्त्रवत्स्वशरणं सहायाऽसहं

त्यजन्ति तदमी क्रियास्त्रिगुणवैदिकप्रक्रियाः॥

५३. जात्युद्धारात् पञ्चसंस्कारसाराद् धीसन्यासाद् आश्रमाणां समासात्।

यावज्जीवं यज्ञदीक्षाविशेषाद् ध्येयं सर्वं कर्म सन्त स्तयजन्ति॥

५४. त्यज धर्ममधर्म मित्यवोचद् भगवानुद्धवगीतया स्फुटम्।

अमुमुक्षुपरन्त्वभाषि सूत्रं विहितत्वा दिति तद्विदन्त्यमी॥

५५. शणवल्कमहास्त्रनीतिसिद्धां इतरोपायनिषेधचोदनाम्।

चरमादिमपादसम्मितान्तां महनीयाः खलुमानयन्त्यमी॥

५६. यो हि मोक्षेच्छया वर्जितस्स्यात् पुमान् अग्निहोत्रादितस्य श्रमैैकार्थकम्।

यो भजत्याप्रयाणाद्धरिं तत्क्रिया स्वाश्रमार्चाऽपिविद्याङ्गभृतामता॥

५७. अग्निहोत्रादितत्कार्यसूत्रोदितं पूर्णविद्यस्य सत्कर्महानस्फुटम्।

तद्गतो ह्येवकारो मुमुक्षोः क्रियास्वाश्रमैकार्थतां खण्डयत्येव हि॥

५८. पूर्णविद्योऽहि न श्लिष्यते कर्मभि स्तत्कृतं चाग्निहोत्रादि यन्निष्फलं।

तत्प्रपन्नाः सकृत्पूर्णविद्याक्षणात् कर्म सर्वं त्यज न्त्यग्निहोत्रादिकम्॥

आसुरप्रकृतिजनवर्णनम्

५९. अत्र कांश्चिदासुरप्रकृतीन् सकलजीवसञ्जीविनीभिः विमोहितान् (दृष्ट्वा) विनष्टान्-

विचिन्त्य सविषादम् आसुरप्रकृतयोऽत्र मोहिता नाशिता द्रमिडसूरिसूक्तिभिः। धार्मिकेण रचिते जलाशये पापिनो हि निपतन्त्यवाङ्मुखम्॥

६०. स त्रयीतनुसुदर्शनासह स्तामसो भ्रममुपैति कौशिकः।

अत्रिवंशजननादकौशिको मोहितो बत विधेर् विचित्रता॥

६१. शठमर्षणवंशसम्भवानां शठकोपोक्त्यसहत्व मिष्यताम्।

तदिहास्य कुलस्य दर्शनेऽस्मिन् द्रमिडेऽप्यत्रिमुखागते कथम्॥

६२. जिनगिरिशनिबन्धं संस्कृतश्लोकबन्धे

सति गुरुफणितीनां मोहनत्वं य इच्छेत्।

मतमतिविपरीतं मन्वते तामसा

इत्यगणितगुणगीतं लक्ष्यमस्मि हिनीतम्॥

६३. सव्यः – अहो !बत! किमनेन विधिपरिणतिविपर्यासं भवविभवपरिभूतमानसानां केषाञ्चि देषां अनुशोचनेन शृणु तावत्।

श्रुतिगतिपरतन्त्रा स्सर्वतन्त्रस्वतन्त्राः

खफछठविकटोक्तिं सङ्गिरन्ते शठोक्तिम्।

तदिद मसहमानो मोहमायां दधानो

हतसमयनिदानो बुक्कताद् योऽपिकोऽपि॥

आसुरप्रकृतिपरिहार: द्रमिडागमवैभवम्

दक्षिण:–

६४. करुणापालमुनीन्द्रैः माधवपादाब्जसक्तचित्तानां

लीलावचस्श्रुतिस्यादित्युक्तं ज्ञानिनां पथ्यम्॥

६५. सव्य: आचार्यसूक्तिं स्मरन्-

पठन्तु कतिचिच्छठाः खफछठे*ति वर्णच्छटा:। (पाठान्तरं–*ज्जडा जबगडे)

घटः पट इतीतरे कटुरटन्तु वाक्पाटवात्॥

वयं वकुळमञ्जरीगळदरीणमाध्वीझरी-पद।

धुरीणगुणरीतिभिः फणितिभिः प्रमोदामहे॥

६६. सारस्सारस्वतानां शठरिपुफणिति श्शान्तिशुद्धान्तसीमा

मायामायामिनीभिः स्वगुणविततिभिः बन्धयन्तीं धयन्ती।

पारं पारंपरीतो भवजलधिभवन्मज्जनानां जनानाम्

प्रत्यक्प्रत्यक्षयेन्नः प्रतिनियतरमासन्निधानं निधानम्॥

द्रमिडोपनिषत् तात्पर्यरत्नावळ्याम्

६७. रहस्त्रितयबोधनै रपिच तत्त्वसम्बोधनैः

महार्थवरपञ्चकप्रकटनप्रपञ्चै रपि।

जगद्गुरुसुभाषिताद् वरवरात्मविद्भाषितात्-

महद्वचनभूषणा दपि जयन्त्यमी देशिकाः॥

६८. कुर्वन्तीभिः पुराणीं रघुतिलककथां तत्क्षणाध्यक्षतुल्यां

श्रीमत्कृष्णाह्वसूरीश्वररचिततनिश्लोकटीकाह्वयाभिः।

अप्येते शुष्ककाष्ठप्रकठिनमनसां भाववृत्तिं दुहाना-

आब्रह्मस्तम्बमार्या द्रविडफणितिभिः श्रीनिधौ मज्जयन्ति॥

६९. क्वचित्क्वचिदिति श्रुता द्रविडवेदसद्देशिका-

गुणानुभवहर्षिता वचनभूषणाध्यापकाः।

जलस्थलविभागवर्जित महोजनानां हरौ

पदाब्जमधुपानजं सततमोहदमातन्वते॥

७०. नत्वा पूर्वे कौशिकं कौशिकाढ्यम्

तद्गाधांशैः स्वाध्वरान् पूरयन्ति।

तादृग्गाधा कोटिगानोज्वलानाम्

एषां हीनाः पञ्चहीनाः कथं वा॥

७१. नमो वाचे याचोदयमधिगता सूरिनिवहात् स्वयम्।

यां वेदानानपि वदति वेदं निगमवाक्

तथा नाराशंसीरपि

महितगाधा वदति यां

मुहुस्तस्यै श्रीमद्द्रविडगुरुटीकाकृतिरुचे॥

दक्षिण:–

७२. श्रुत्वा भूमीवैभवं भूवराहात्

वाचन्दूरं कैशिकीगायकस्य।

सद्यो येषाम् एकिकापूलिकाभू-

तान् वन्देऽहं द्राविडब्रह्मदृष्टान्॥

७३. सव्यः – श्रीमन्महाचार्यहृदयावतारमनुस्मरन् –

भूमा भूमानुकारि प्रसरनिगमवाग्वाहिनी

वाहि नीके लिङ्गैरङ्गैस्समृद्धे प्रणवनवरथे दिव्यसूतोक्तिसूते।

शस्त्रैश्शास्त्रै रहीने द्विवचनकवचे कृष्णतृष्णात्मकोद्यत्

गाधागोधाङ्गुळित्रे जयति वरवरे कोविदः कोविदग्धः॥

७४. अथ विमतभङ्ग मभिसन्धाय दक्षिणः –

निहतनिखिलबन्धान् हन्तदिव्यप्रबन्धान्

विहतविनततोषा वाग्विभूषादिभाषाः।

य इह शतशिरस्कोप्याग्रहाद्धिक्करोति

त्रिभुवनभवनस्तं निग्रहैः धिक्करोति॥

७५. उभौ साञ्जलिबन्धम् –

पराङ्कुशमुखाम्बुजाद् वरदळाञ्चलोदञ्चिताः

कराम्बुजदळावळीकलितबोधमुद्रानुगाः।

वृषाचलतटस्थलीकलित निर्झरौघायिताः

पुराणपुरुषोत्तमप्रियतमाहि भाषागमाः॥

७६. पराहतिपराङ्मुखाः परमधर्मसंस्थापकाः

पराङ्कुशमुखोद्गताः परगुणान्वयेदम्पराः।

सदातनसरस्वतीसरससारसर्वस्वदा:

समस्तजनशीलिता स्समसमा हि भाषागमाः॥

रघुपते: चरितम्

७७. सव्यः-

पश्यतावदिदंविचित्रतरं रघुपते श्चरितम्

इष्ट्वा यज्ञै स्स हि दशरथः प्राप्य पुत्रञ्च रामं

धर्मैकाग्रो न गतिमगमत्स त्तमांसंस्क्रियां वात्क्रिजात्या गृध्रः

तदुचितकृतिः पुण्यलेशानभिज्ञो

रामाल्लेभे गतिमपिपरां पुत्रकृत्यं जटायुः॥

७८. दक्षिणः –

धर्माभासास्सत्य(यज्ञादिरूपास्साक्षाद्धर्मा त्च्यावयन्ते पुमांंसं

तस्माद्राम सतत्परं तमेकं मुक्त्वामुक्तिं प्रापयामास विश्वम्॥

७९. सव्यः –

(विचिन्त्य सान्तस्तापं) बताद्यापि साक्षाद्भगवद्दास्यं दीपारोपण-

मालाकरणदिव्यप्रबन्धसेवादिक मपहाय दशरथवदेव पञ्च-

महायज्ञाद्याभासधर्मनिष्ठानां गर्भनिर्भाग्याना मपि इयमेव

गतिर्भविष्यतीति वेपते मेमतिः (क्षणं विचिन्त्य, स्यादेतदि त्युपेक्ष्य:

प्रकृतमनुसरन्-)

तिर्यङ्मात्रे वेदसंस्कारदूरे कृत्तेशस्त्रै रग्र्यहस्तेन गृध्रे।

श्रीमान्देवो ब्रह्ममेधेनसाक्षात् जप्यै र्दिव्यै स्संस्क्रियां किन्नुचक्रे॥

८०. दक्षिणः –

भक्ता हि जातिकृतिचिन्तनवर्जनेन सर्वात्मना बुधजनै रनुवर्तनीयाः।

इत्येनमर्थमखिलं प्रतिबोधयंस्तं श्रीमान् जटायुविषये स्वयमाचचार॥

८१. उभावञ्जलिं बध्वा सहर्षगद्गदं

क्व भगवा न्महितः पुरुषोत्तमः क्व च हतः पतग: पिशिताशनात्।

क्व महती बत वैदिकसंस्क्रिया बलमहो हरि माश्रयतामहो !॥

८२. क्वच हरे स्सुकुमारतरं वपुः क्व च किताज्वलनेदहनक्रिया।

क्व च हरे र्महिषीपरिवर्तनं बलमहो हरिमाश्रयतामहो॥

८३. क्वच हि दाशरथे र्निजगोपनं क्वच चतुर्भुजविग्रहधारणम्।

क्वच विमोक्षण मस्य निजेच्छया बलमहो हरिमाश्रयतामहो॥

८४. दक्षिणः –

(कञ्चिदनुस्मृत्य सोपालम्भं)

वंशप्रभावान्मन्वानो ब्रह्मतेजोबलं बलम्।

ईदृशीं संस्क्रियां कश्चित्तान्त्रिकीं मन्यते द्विजः॥

८५. अब्रह्मविद्धर्ममुपाश्रितश्चे द्रघूद्वहो गृध्रपतिं ददाह।

क्षेत्रं तदेदत्तु कुतः पवित्रं पाद्मोत्तराद्यञ्च कथं प्रमाणम्॥

८६. उभौ –

(साञ्जलिं बध्वा-)

नमो विजयराघवाय च नमोस्तु भूम्यै श्रियै नमोस्तु च जटायुषे भगवतो महास्वामिने।

नमः कुटिलयादवाह्वयकुदृष्टिशिक्षाकृते नमो मुनिवराय वै वरवराय सद्भ्यो नमः॥

(सष्टर्जिघटिकाचलादि दर्श्नम्)

८७. इति प्रणम्योत्थाय ततो वायव्यभागे घटिकाचलमालोक्य (दक्षिणः) – परिक्रान्ता पृथ्वी प्रणयिपदमन्विष्य बहुधा

कलिक्षोभग्रस्ते महति न गतिः क्वापि सुलभा।

अथापीदं दृष्टं सुरमुनिवरै रादिममिदं

क्रियायोग्यं किञ्चिन्महितघटिकाद्रिक्षितितलम्॥

८८. अयं हि घटिकाचलो जयति सव्यमूलाचले

सदागमलसङ्गरं भवति रङ्गमस्योत्तरम्।

यदन्तरकवेरजाह्वयतटे शरण्याह्वयैः

कलौ शुभतराकृताववततार सीतापतिः॥

८९. अघटितघटिका विभाति शक्तिश्श्रुतिमकुटीघटिकामहीरथस्य।

अकरणकरुणो यदीयसिह्मस्स्मरति सदानरवानरादिकानाम्॥

९०. वपुषि च नयने तथा विभेदे त्रिषु विषमस् स्वयमेति सर्वसाम्यम्।

उरसि लसति मादृशे दयार्द्रा नरहरिरस्य रमाऽपि नामभेदै:॥

९१. तरुजठरजनिस्वयं यदग्र्यो नरहरिरासुरबालकोक्तितन्त्रः।

कपिवरकरयुग्मयुग्मसेव्यो जयति सदात्रऽहि शर्कराफलात्मा॥

९२. जयति च घटिकाचलोतिचित्र: कपिरपि यत्र चतुर्भुजायतेऽसौ।

भवति च वनमालिकाब्जवल्ली शुभशिखराग्रतले मराळदत्ता॥

९३. जयति सपदि विश्वतोमुखोऽयं क इह गळोपरिदिव्यपञ्चवक्त्रः।

हरिमुखविनुते निटालनेत्रः पुरुषवराकृतिमप्यधःकरोति॥

९४. सकलकलनसर्वतोमुखोयं ज्वलदमिताग्निदृशा विराजमानः।

सततमपि च पूर्वदिङ्मुखोऽसावभिमुखतामुपयाति पश्चिमानाम्॥

९५. प्रणमति बत यस्य पादमूले बलहलशेखरशिक्षितो नगेन्द्रः।

यदुपरि परिभुञ्जते मुनीन्द्राः मधुरसुधायितशर्कराफलंतत्॥

९६. सकलशुभफल स्सुरद्रुमोऽसौ जयति सदा घटिकाचलाग्ररूढः।

सुरभितशतशाखपुण्यगन्धः सततयुतामृतवल्लिकोपभुक्तः॥

९७. प्रत्यङ्मुख स्सन्ततपूर्वदृष्टिः पराङ्मुखाना मपि सन्मुखोसौ।

अजिह्मधर्मो नरसिह्मरूपी जीयाच्चिरं योगगुहाविहारी॥

९८. पण्यायते सरसिजासनपुण्यतीर्थं त्रैगुण्यहीननिगमापणसज्जनानाम्।

यत्तीरसम्भवमहीरुहवाटिकानां हस्त्यद्रिकल्पकतरुर्महितोग्रगण्यः॥

९९. पुण्येयं बलदेवनिर्जरझरीगङ्गेव सङ्गापहा

मन्दस्यन्दमजस्रमम्बुजवनान्याप्लावयन्त्येध।

यत्तीरे घनदेशिकाङ्घ्रिजलजस्पृष्ट स्सतां सत्फला-

न्यास्वाद्यानि पुरा ददौ स्वयमसौ किम्पाकवृक्षो महान्॥

१००. कमलासनतीर्थतीरसक्तः कमलासङ्गरसे नितान्तसक्तः।

विनतासुतसत्तमाधिरूढो विनतानां वरदोऽय मेधतेऽत्रं॥

१०१. अञ्चच्चञ्चलचञ्चलाञ्चलकनत्कादम्बिनीलङ्घिनी

काञ्चीसञ्चितकाञ्चनाभवसना काञ्चीतलोदञ्चिता।

सेयम्भाति विरिञ्चिपञ्चवदना प्रापञ्चपाञ्चालिका

मञ्चावञ्चितपञ्चशक्तिविलसत्पञ्चायुधी देवता॥

१०२. दक्षिणः –

आकारत्रयसम्पन्नामरविन्दनिवासिनीम्।

अशेषजगदीशित्रीं वन्दे वरदवल्लभाम्॥

(श्रीमद्भगवद्रामानुजस्य श्रीसूक्ति:)

१०३. सव्यः –

सुदयां भर्तृधीतन्त्रां अनन्यार्हां हरिप्रियाम्।

पुंप्रधानेश्वरेश्वरीं महादेवीं श्रये श्रियम्॥

१०४. दक्षिणः –

यस्य प्रसादकलया बधिरश्श्रुणोति पङ्गुः प्रधावति जवेन च वक्ति मूकः।

अन्धः प्रपश्यति सुतं लभते च वन्ध्या तन्देवदेव वरदं शरणंगतोऽस्मि॥

(यामुनमुने: सूक्ति:)

१०५. सव्यः –

श्रीयामुनः श्रुतिलयेऽपि वचः शृणोति; सम्पत्सुतः समुपयाति; वदन्ति चार्चाः।

कूरेट्‌प्रपश्यति; सुतौ लभतेऽस्य पत्नी; यद्वैभवात्तमतुलं वरदं प्रपद्ये॥

१०६. …………..

….

……..

पक्षीश्वरः॥

१०७. दक्षिणः –

प्रत्यूषे वरदप्रसन्नवदनः प्राप्ताऽभिमुख्यान् जना-

नाबद्धाञ्जलिमस्तकानविरळानाबालमानन्दयन्।

मन्दोड्डामरचामरोमणिमयश्वेतातपत्रश्शनै:

अन्तर्गोपुरमाविरासभगवा नारूढपक्षीश्वरः॥

(चण्डमारुत महाचार्यस्य देवराजपंचके)

१०८. उपाश्वत्थ…

….

……

…….॥

१०९. सव्यः –

मुक्तातपत्रयुगळोभयचामरान्त र्विद्योतमानदिनतातनयाधिरूढम्।

भक्ताऽभयप्रदकराम्बुजमम्बुजाक्षं नित्यं नमामि वरदं रमणीयवेषम्॥

(देवराजपंचके)

११०. (दक्षिणः) –

यद्वेदमौळिगणवेद्यमवेद्यमन्यैः

यद्ब्रह्मरुद्रसुरनायकमौळिवन्द्यम्।
तत्पद्मनाभपदपङ्कजयुग्म मेत

त्सेव्यम्भवद्भि रिति दर्शयतीवतार्क्ष्यः॥

(देवराजपंचके)

१११. सव्यः –

यद् द्रामिडे भवति सामनि वेद्यमाद्यं यन्मन्त्ररत्नसुभगाद्यपदोपपाद्यम्।

यत्क्षण्वितं पदमजेन हरोत्तमाङ्गे विष्णोरिदन्तदिति दर्शयतीह तार्क्ष्यः॥

११२. दक्षिणः –

केचित्तत्त्वविशोधने पशुपतेः पारम्यमाहुः परे

व्याजह्रुः कमलासनेन सहिता अन्ये हरौ सादरम्।

इत्येवञ्चलचेतसा करधृतं पादारविन्दं हरे:

तत्त्वन्दर्शयतीव सम्प्रति नृणां तार्क्ष्य श्रुतीनां निधिः॥

(देवराजपंचके)

११३. सव्यः –

कञ्चित्पूर्ण मुपासते परमथव्यूहं परेऽन्ये बुधाः

सेवन्ते विभवं भजन्ति च परे सर्वेन्तरं सादरम्।

इत्यालोलह्रदां स्वयं मनुवरस्तार्क्ष्याऽपदेशो ध्रुवं

सर्वं पूर्णमिति श्रुतिं वरदगां व्याख्यात्यमुंदर्शयन्॥

११४. दक्षिणः –

प्रत्यग्गोपुरसम्मुखे दिनमुखे पक्षीन्द्रसंवाहितंं

नृत्यच्चामरकोरकं निरुपमच्छत्रद्वयीसादरम्।

सानन्दद्विजमण्डलं सुविदधत्सन्नाहचिन्हारवैः

कान्तं कर्मकृतो भजन्ति सततं काञ्च्यां तृतीयोत्सवे॥

(देवराजपंचके)

११५. सव्यः –

अग्रे श्रीघटिकाचलस्य सुभगं पक्षीन्द्रसंवाहितं

वाधूलाग्रिम चण्डमारुतमहाचार्यैस्सदा सेवितम्।

सानन्दं गुरुमण्डलञ्च विदधत्कल्याणरूपैर्गुणै-

र्भद्रं भद्रतमा भवन्ति सततं वैरञ्चतीर्थान्तिके॥

(चण्डमारुत महाचार्य स्तुति:)

११६. (दक्षिणः) –

नवकनकनिभाङ्गस्सारसाक्ष स्सुनाभ:

श्रवणचलितनीलो दीर्घबाहुर्दयाळुः।

विपुलहृदयराज द्ब्रह्मसूत्राक्षमालो

वसतु मनसि नित्यं श्रीनिवासो गुरुर्नः॥

११७. सव्यः –

रचयति मरुदेशे यत्पदतीर्थकुल्यां अमृतमयफल च यञ्चापि किम्पाकवृक्ष:।

अमृतमपि तुरगाग्र्यं जीवनैः पूर्णजीवं घनगुरुरय मन्तस्सन्निधत्तां सदा मे॥

(घटिकाचलाग्रहारजनानुष्ठित धर्म:)

११८. दक्षिणः – यज्ञेन यज्ञमयजन्त हि साध्यदेवा येवै पुरा त्रिगुणवर्जितवेदनिष्ठाः।

तेऽमी यमीन्द्रवरयोगिनियोगतन्त्रां धर्माणि तानिमहतां  प्रथमान्यमीषाम्॥

(कार्तयुगधर्मस्य भगवच्चरणशरणागत्याख्यस्य वैभवम्)

११९. सव्यः –

यज्ञोवै विष्णुराद्यः स्वपुरुषहविषाराधित श्चक्ररूपी

यन्मूर्त्या संविवेश स्वयमिव समहो देव एते हि यज्ञाः।

अत्र ह्यात्मैव यष्टा, मरणमवभृथो, जीवनं चास्य दीक्षा,

पत्नी श्रद्धा, यजन्ते मतिमयमखिनस्तेहि यज्ञेन यज्ञम्॥

१२०. दक्षिणः –

धर्मः कार्तयुगेऽयमेव परमो यस्मिंश्चतुर्भिः पदै:

धर्मस्तिष्ठति यत्कृतक्रतुशतं यज्ञा स्समाप्ता यतः।

शुद्धा स्साङ्चविदश्च कर्मनिरता स्सिद्धाश्च ये योगिनः

सर्वे कोटित मीम् कलामपि च ते नार्हन्त्यमुं कुर्वतः॥

१२१. सव्यः –

अहो मतत्रयप्रवर्तकानां सुसंप्रतिपन्नोऽयं शुद्धाध्वाशोभतेतरां पश्य तावत्-

स्वयं भवति किङ्करो बदरिकाश्रमे शङ्करो विभाति स तु मारुतिर्विहित भावशुद्ध्यादरः

स्वयं वरवरो भवन् यतिवरोऽत्र रङ्गस्थितान्।

विशुद्धयजनाध्वगान् नियमयत्यमून्देशिकान्॥

१२२. दक्षिणः –

“जायमानकालभगवत्कटाक्षैकलभ्येयम् शुचियजनरुचिः”

सन्तस्सत्वोत्तरङ्गाः प्रजननसदृ ये पुण्डरीकाक्षवृष्टाः

पूता नीतागुरूणां पदमिह महताम् ईषणात्रय्यतीताः।

भीतास्त्रैवर्गिकेभ्यः प्रतिपदमृषयः कावषेया इवामी

निन्दन्तो हन्त यज्ञान् पशुहननपरान् शुद्धयागे रमन्ते॥

१२३. भीमा भीमादिदृष्टा निजनियतिवशा देव तद्देवतायै-

च्छागैर्यागैर्यजन्ते बलिहतकुणपाद्यर्पणै स्तर्पणैश्च।

शुद्धाश्शुद्धान्तसेवासमयमयधिय: श्रीशमस्य प्रसादात्

शिष्टाः पिष्टाध्वराद्यैर्मुहुरिह सुलभाराध्य माराधयन्ति॥

१२४. सव्यः –

प्रवृत्तिलक्षणं धर्मं मनुस्स्वायम्भुवोऽब्रवीत्।

निवृत्तिलक्षणन्धर्मं मुनि र्नारायणोऽब्रवीत्॥

१२५. “इत्यादिप्रमाणजातवचनेनाभियुक्तसूक्तिं स्मरन्”

कल्याणमावहति कार्तयुगं स्वधर्मं प्रख्यापयन्प्रणिहितेषु नरादिकेषु।

आद्यं कमप्यधिगतो रथमष्टचक्रं बन्धुस्सतां बदरिकाश्रमतापसो नः॥

(रहस्यत्रयसारे मूलमंत्राधिकारे)

१२६. नरनारायणफणिते शिष्टाऽयेष्टाक्षरे गतानिष्ठाम्।

कार्तयुगधर्मनिष्ठा: ते वैपिष्टाध्वरे शिष्टाः॥

१२७. कलौ कृतयुगम्भवे द्भगवदेकनिष्ठाजुषां कृतेपि च कलिर्भवेत् अभजतां हरिं श्रीनिधिम्। क्वचित्क्वचिदिति स्मृतैर्द्रविडदेशसद्देशिकैः।

पुराकलिकृतीकृतिस्सपदि भाति शुद्धाध्वरैः॥

(पशुविशसन विमर्श:)

१२८. पशुयाजिनोऽनुस्मरन् सविषादं (दक्षिणः) –

अष्टविधनेमिरथविष्टरमुनीष्टा पिष्ट पशुनेष्टिरिहशिष्टजनजुष्टा ।

अष्टगुण पुष्टिदपरेष्टकृति काष्ठा कष्टमतिदुष्टमनसां भवति नेष्टा॥

१२९. तस्माद्यज्ञे वधश्चेत्युपेता तीर्थेभ्योन्यत्र त्वहिम् सन्नितीयम्‌।

श्रौती वाणी श्रौतमालम्भशब्दं हिंसानिष्टं स्थापयत्येव हातुम्॥

१३०. विधिवचः कथितं पशुहिंसनं बत हतस्य गतिर्मनुनोच्यते।

विधिवचोत्वगतं न तु बाधितुं क्वचन मन्त्रगतं पदमर्हति॥

१३१. अशुद्धमितिचेद् यदा भवति लोकशब्दात् पशो: इति प्रकटिता तु या यजनहिंसने शुद्धता।

इयन्तु, नहि सर्वधा सुकृतपापसाम्यश्रुतेः।

परन्तु परन्तु जनिदुःखदप्रकृतदुष्कृता द्भिन्नता॥

१३२. अत्र वेदान्ताचार्यसूक्तिं स्मरन् – कर्तुर्दोषन्दिशेत् संज्ञपनमिह

पशोस्तत्क्रतो श्चोपकुर्यात्  तस्मादस्मिन्निषेधं क्षिपति – न विधि रित्यब्रुवन्

साङ्ग (शस्त्रइति पाठ🙂भक्ताः।

निर्धूते पश्वनर्थे न खलु तदुचितं पिष्टपश्वादिकल्पः तत्तत्कालाधिकारिप्रतिनियत इति क्वापि न स्याद् विरोधः॥

१३३. इत्यात्मगतं पश्वनर्थे विधूननं विचारयन् प्रकाशम् –

स्वर्गे लोके पातनं वै पशूनां हिंसारूपं जीयतेऽध्यात्मदृष्ट्या ।

एते लोका नारका दिव्यलोकाद् वैकुण्ठादित्यूचिरे यन्महान्तः॥

१३४. आर्तप्रपन्नस्य वपुस्सुदुःखं मुक्ति स्तदन्ते तु भविष्यतीति।

हन्तु स्तमात्मीयनिधिग्रहार्थं हिंसा न हिस्यादिति कस्सहेत॥

१३५. पश्वालम्शादिशब्दाः श्रुतिषु निगदिता वस्तुतत्वानुरोधाद् ज्ञानं यात्वा

शुद्धिस् स्वमतिनियमिता सा निषिद्धाऽत्र सूत्रे ।

पण्यै रप्यात्मनाशादुपरिचसोच्छागपक्षेण पातात् मांसादेर्जातिदोषादपि पशुयजने स्यादशुद्धिर्हि सिद्धा॥

१३६. पश्वालम्भो न हिंसा यदि भवति शुनश्शेफनाम द्विजन्मा विश्वामित्रं

सुभीत श्शरण मुपगतः केन वा दीनदीनः।

अन्यं किञ्चिन्न चक्रे किमिति नरपशुं

स्वर्गसर्गक्रमोयम् गाधामात्रा कृतेवाऽप्यपशुविशसनं पूरयामास यागम्॥

१३७. स्वयमेव हि बादरायणो निगमव्यासपदेऽभिषेचितः। श्रुतिसूत्रविगर्हिता-

ज्जगौ पशुयागान्निगमे तु पञ्चमे॥

१३८. सव्यः –

निगमयमनवेदीम् आस्थितस्सर्ववेदी मुनिरवितथवादी चित्परब्रह्मभेदी।

श्रुतिशतविहितानां हन्त! तैरेव गर्हां कथमिव समवादीत्  कथ्यतां तथ्यतो मे॥

१३९. दक्षिणः –

त्रिगुणविषयवाणीचोदना यत्पशूनां

त्रिगुणविरहिते स्यात्सात्विके तन्निषेधः।

भवतिहि शठचित्ते श्येनशास्त्रे प्रवृत्ते

श्रुतिविवशजना नांतत्प्रवृत्ते र्निषेधः॥

१४०. सव्यः –

पशुविशसन मेव प्रायशः श्रूयतेऽस्मि न्प्रथितनिगमजाते सतुनविदित पूर्वः

सात्विके तन्निषेधः। कथय कथमिदं स्यात्काङ्क्षितार्थाविरुद्धम्॥

१४१. दक्षिणः –

परमपुरुषमाया-मोहितास्सन्त्यनन्ता:-

तदनुगुणविभेदास्सन्त्यनन्ताश्च वेदाः।

शुचियजनरुचिर्वै दुर्लभो वासुदेव-

स्सकलमिति तदीयं शास्त्रमप्यस्ति गुह्यम्॥……

(भट्टनाथसूरि कृतकल्प सूत्रविचार:)

१४२. गरुमुखमनधीत्योद्भाषिते भट्टनाथै-

र्वटदळशयनेद्धे कल्पसूत्रे प्रबुद्धाः।

महितहितरहस्याम्नायमन्त्रेषु सिद्धाः

क्वचिदिह विजयन्ते शुद्धयागे प्रसिद्धाः॥

शुद्धसत्तवाचार:

१४३. न कर्मणा न प्रजया धनेनेत्याद्यं परित्यज्य पदोपपाद्यम्।

मूले निजस्थाननमः प्रवेद्यं प्रवक्तिकामान्तरजन्त्ववद्यम्॥

१४४. सन्न्यासयोगात्किल शुद्धसत्त्वा

इति प्रपन्नस्य गतिं वदन्ति।

अशुद्धसत्वस्य निषिद्धकाम्यं

स्वयं श्रुतिर्वै प्रकटीकरोति॥

१४५. लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तो न  हि तत्र चोदना।

व्यवस्थितिस्तासु विवाहयज्ञसुराग्रहैरासु निवृत्तिरिष्टा॥ (भागवतपुराणे)

१४६. हा हा हिंस्रैः किमिति यजनैः मादृशोयष्टृमर्ह-

त्यार्द्रस्वान्तः परमपुरुषैकान्त्यभूमैकभूमिः।

इत्याद्य सद्वचननिचयं शुद्धसत्वैकनिष्ठं

सञ्चक्षाणाः पशुविशसनं मेनिरे राजसानाम्॥

उपचरिचरवसुचरितोदाहरणम्

१४७. किं बहुना पशुपिशितनिकामकामुकानां अमृतभुजां पशुपक्षमाश्रयन् य:।

वसुरुपरिचरः पपात; सूत्रश्रुतिगणचोदितपिष्टकल्पकभूत्॥

(जैमिनिवेदान्तनिर्णय:)

१४८. भावंवैदिकशुद्धयागविषयं श्रीजैमिने स्तद् वच:

साक्षादप्यविरोध मित्यनुवदन् व्यासो जगाद स्फुटम्।

शुद्धो वै भगवान् नमांसरसिक स्संशुद्ध सत्वप्रियो

मांसाद्यं बत जातिदुष्टमपियत्  तन्मांसयागः कथम्॥

पशुविशसनपाप विचार:

१४९. जात्या दुष्टं मद्यमांसादि सर्वं

देवा दुष्टा राजसा स्तामसाश्च।

हिंसा दुष्टा हन्त यज्ञक्रिया सा

केयञ्चेष्टा कामिनां राम! राम!॥

१५०. रम्भोरूणा मेव रम्भादिकानां भोगारम्शोतम्भिताशानिगुम्भाः।

रम्भास्तम्भासारसंसारसारान्  पश्वालम्भान् लम्भयन्ते हि मूढाः॥

१५१. अत्रैवामी हन्त! यज्ञापराधात् प्रायो घोरं राक्षसत्वं व्रजन्ति।

ध्वंसेत्येवावाङ्मुखं पातितास् स्युर्यद्वाऽमुष्मात् क्षीणपुण्याः क्षणेन॥

१५२. सव्यः –

किमनेन प्रसक्तानुप्रसक्तेन परदूषणेन पशुविशसन।

उदीवीरंगाख्यपुष्करणीदेशवर्णनम्

पश्यतावदुदी चीरङ्गकावेरीतीरस्य

तत्तीरवासिनाञ्च निरतिशयसौभाग्यातिशयम्।

तीरेतीरे पुष्पवल्लीनिकु़ञ्जाः कुञ्जेकुञ्जे वेदवादैर्विनोदाः।

वादेवादे सिद्धसिद्धान्तघोषाः घोषेघोषे कर्मणां श्येनसाम्यम्॥

१५३. उभावप्यञ्जलिं बध्वा –

यस्यां क्षान्ति पुरस्क्रिया जडविदां हासास्पदं काम्यकृत्

पूज्यन्ते च यदुद्भवास्सुरवरैरप्राकृताचार्यकै:।

वेदानामवगाहनं प्रतिहता वर्णाश्रमैर्धिक्रिया

गोष्ठ्यै दुष्कलिसत्कृतीकृतिपुषे कस्यै चिदस्यै नमः॥

१५४. श्वेतद्वीपनिवासिन श्शशिनिभाः भक्ता इवात्रागताः

पश्यन्तो घटिकाचलाग्रसुलभं सप्तर्षिसंसेवितम्।

अश्रान्तामृतवल्लिकापरिगतं वातात्मजोऽपासितं

श्रीभक्तोचितशर्कराफलहरिं नित्यं रमन्ते बुधाः॥

१५५. कावेरीलहरीकराञ्चलतल-प्रस्तारसंवाहित

श्रीमत्सुन्दरयोगिवर्यचरणाम्भोजातरेणूत्करैः।

तत्तीर्थै रपि दिव्यगन्धमधुरैः पुण्यैः पुनस्वीकृतैः

क्षुद्बाधाविधुरा स्तृणीकृतनृपास्ते भान्त्यमी देशिकाः॥

१५६. वचनभूषणसूत्रसुभाषितं वरददेशिकसत्तमभाषितम्।

इह लिखन्ति पठन्ति च सन्ततं लसदनन्तसुसन्ततिभूषिताः॥

१५७. शरण्यगुरुसत्कृतिप्रवरसत्कृत स्सीतया सहैव तु सलक्ष्मणो रघुवरो दयार्द्रेक्षणः।

अनारत मिहैधते प्रथितवत्सगोत्रोज्वलैः शरण्यगुरुवंशजैः प्रतिदिनं समाराधितः॥

१५८. अयं वरवराह्वयो मुनिरभूत्स्वयं लक्ष्मण-

स्तदा भगवता धृतं शिरसि भाति तच्छ्रीमुखम्।

यतः…. प्रतिनिबोधित स्सपदि देवराजो गुरु-

र्मुनिं वरवरं स्तुवन्नपससाद तं लक्ष्मणम्॥

१५९. सव्यः – (चोळसिंहपुरवर्णनम्)

श्रीचोळसिंहपुर मासेव्य सानन्दं –

चोळसिह्मपुर मेत देधते चोळराजपरिकर्मितं पुरा।

भक्तसंस दुचिताऽभिमानितं केशवोदवसितं पुरातनम्॥

अत्र दाशरथिवंशसङ्गता स्सप्तगोत्रवरदिव्यदेशिकाः।

भाष्यकारसमयप्रवर्तका भान्ति सौम्यवरयोगियन्त्रिताः॥

सकृत् प्रणामविचार:

१६०. एते तत्वार्थबोधान्निजसुकृतलवस्पर्शतोऽत्यन्तभीता-

स्सिद्धोपायैकनिष्ठा मनसि च चलिते वेद्यमेव स्मरन्तः।

तत्तस्येत्यादिसीतानियति मनुगता भूवराहस्य सूक्तौ

विस्रम्भाधिक्ययोगा दसकृदपि हरे र्वन्दनं वारयन्ति॥

१६१. दक्षिणः –

क्षणं विचिन्त्य सश्लाघं द्राविडाम्नायस्वापदेशादेशदिव्यजननीस्थानाभिषिक्तानां ज्ञानाधिक्यप्रपन्नाचार्याणां एतेषां सिद्धोपायप्रच्यवभीत्या भगवत्प्रणामादिष्वपि साशङ्कत्वं युज्यतेतराम्। (वस्तुतश्च)

क्वचन वचनतो वा दृष्टसामर्थ्यतो वा

भवति तु फलभूमप्रेप्सया वा सतत्त्वम्।

त्रय मिद ममितेस्मि न्दुर्लभं स्यात्सकृत्ते

नम इति निगमोक्ते शेषताज्ञापनार्था॥

१६२. असावादित्य स्तत्परमिति नमस्यन्ति विबुधा: सकृद्वारं वेदे।

विधिरपि सकृत्ते नम इति तथा मूले मन्त्रे भवति च नमस्येकवचनं विरुन्धे

केषाञ्चित् प्रणिपतनयुग्मत्वनियमम्॥

१६३.

मुहुश्शास्त्रार्थस्याभ्यसन मपरे ष्वभ्युपगमं

सदाभ्यस्ता विद्या भवति बत शास्त्रार्थ इति च।

न चाद्या नीतिस्स्यादमितफलके विष्णुनमने

न चाप्यन्त्या यस्माच्छ्रुतिरिह सकृत्ते नम इति॥

१६४. श्रुतौ यस्तु द्विस्ते नम इति समारभ्य गदितं

तदेतन्मुक्तानां नमन मनुवर्तीति गुरुभिः।

प्रणम्योत्था योत्थाय पुनरिति वैकुण्ठविषये

तदा ध्यानाभ्यासप्रयतनविधाना त्प्रकटितम्॥

सकृन्मन्त्रेणेति होमे ततस्तूष्णीम् द्विरित्यहे !।

विधिर्मन्त्रयुतो ह्येक: प्रणामेपि गुंशेर्वच:॥

१६५. कृतानाविस्मृत्या पुनरपि पुनः प्रीत्यतिशया-

त्प्रणामानुष्ठानं परमपरभक्ते ष्वनुमतम्।

न चैषा नीतिर्वै विधिपरवशे ष्वप्यवतरेद्

यतस्ते सन्ध्याद्यं क्वचिदपि न भूयो विदधति॥

१६६. सकृदेव नमस्कृतिः कृता महितानां हृदि सद्रसावहा

परिपक्वसुगव्यदुग्धके सकृदातञ्चन मञ्चितं यथा॥

१६७. ऋतुमद्वनितावगाहवद् ये शतवारं प्रणमन्ति बालिशाः।

अघमर्षण नमस्करि क्रियावत् सकृदेषा हि नमस्कृतिक्रिया॥

१६८. सकृदपि सुकृता स्यान्निश्चलाङ्गैर्नमस्या हरिपदयुगमग्न स्वान्तचिन्ताभिमानैः।

गमनगणनदेहायासनिश्वासहासैः कलुषितहृदयानां किम्मुहु स्सन्निपातैः॥

१६९. एकोपिकृष्णे सुकृतः प्रणामः दशाश्वमेधावभृतेन तुल्यः।

दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय॥ (विष्णुधर्मपुराणे)

१७०. जगुर्मनोबुद्ध्यभिमानयोगं महर्षयोऽष्टाङ्गनमस्क्रियाङ्गम्।

उत्थानपातादिमहाप्रयत्ने मुहुः प्रणामे तदिदन्तु मृग्यम्॥

१७१. सकृदिव सुमहास्त्रापादितो लक्ष्यवेधो हरिमिति निभृतानां स्यादमोघप्रणामः।

चलमतिपरिकॢप्ता लोष्टवेधायितास्ते मुहुरिह बहुवारावर्तितास्स्युर्मुधैव॥

सव्य:

१७२. हन्त व्री ह्यवघाततुल्यशकनं मत्वा हरेर्वन्दनम्

भूयः कल्मषशोधनाय नितरा मावर्तयन्ते जडाः।

सन्तस्त्वञ्जलिवैभवंभगवते श्रीयामुनेयोदितम्

वेदान्तार्यदृढीकृतं स्वकृतिभिः सम्पालयन्त्युज्वलाः॥

१७३. शास्त्रोक्तार्थस्सकृत्स्यादिति हि निरपवादो नयोत्रेतिकामात् पौनःपुन्यं

क्वचित्स्यादिति निगमशिरोदेशिकास् स्तोत्रभाष्ये।

सारेप्येकप्रमाणं प्रपदनविभवं हन्तदृष्टान्तयन्तो-

मानाभावाद् बुधानाम् असकृदपि हरे र्वन्दनं वारयन्ति॥

१७४. औदुम्बरीवेष्टनवाक्यतुल्यां निरुक्तसत्तर्कगणैस्सशल्याम्।

नमस्क्रियावृत्तिविधावकल्यां गिरं गिरन्ते निहितानुकूल्याम्॥

१७५. प्रदक्षिणेनैव सहप्रणामः प्रदक्षिणन्तन्नमसा सहैव।

युग्मं तदेतद्विबुधै र्विधेयं पाद्मे तु किञ्चि द्वचनं समूचे॥

१७६. बाह्यान्तरे ये तु नमस्क्रियेते प्रदक्षिणे चापि तथाविधे द्वे।…..

सकृत्प्रयोगे सहिते विधेये वसिष्ठतन्त्रं वदति स्वतन्त्रम्॥

१७७. यागे वै पशुनेति चैकवचनं पश्वन्तरक्षेपकं

मन्यन्ते विबुधा नमस्यपि तथा मन्त्रेषु किन्नेष्यते।

जीवेत्किं गदितं नमः पदहतं हन्त स्मृतीनां शतम्

साधूनां सकृदेव तत्प्रणमनं मन्त्रान्वितं शोभते॥

चोळसिंहपुरीयाणां नित्यजीवनम्

१७८. दक्षिण: –

पश्य तावदमीषां कालक्षेपपरिपाटीम् –

स्फटिकामलामितयशोविभूषिता घुटिकारसायितनिसर्गवैभवाः।

घटिकाचलाग्रनरसिह्ममेव वा त्रुटिकालसत्सु गमयन्ति वासरान्॥

१७९. नासामूलेद्ध रामानुजहरिचरणाकारसत्पुण्ड्रभूषा

सच्छ्रीकाः कण्ठलग्नोज्वलतमतुलसीकाण्डपद्माक्षमालाः।

सद्वेषं धारयन्तो हरिगुणकथनैः प्रीतिभूमप्रयुक्तैः

दास्यैर्लास्यैश्च नित्या इव समवहितास्संक्षिपन्त्येव कालम्॥

(श्रीशैलाख्य: कश्चनदिव्यदेश:) (कुन्नत्तूर्)

१८०. उभौ सपरिजनच्छदं भक्तोचितं प्रणम्य –

घटिकाचलस्यान्तिके विराजमानं शेषवंशरत्नाभिजनम्।

श्रीशैलाख्यं दिव्यदेश मासेव्य सानन्दं-

तन्नम्योऽयं ग्रामवर्यस्सकुर्यात्कुन्नत्तूरित्याह्वयस्सुप्रसन्नः।

नुन्नायस्माद् वादिनश्  शास्त्रशास्त्रैः भिन्नाः खिन्नाः कान्दिशीका विभग्ना:॥

१८१. अत्रासीच्छेषसूर्यग्रिममकुटमणि स्सर्वतन्त्रस्वतन्त्रः

ख्यातो येन प्रणीतो दशविधविषयो निर्णयः कर्णरस्यः।

यच्छिक्षाशुद्धपक्षा जगति सुविदिता शुद्धयागेषु दक्षा:

मुञ्चन्त श्श्राद्धचर्या मपिहरिदिवसे श्रीशमाराधयन्ति॥

एकादशी व्रतादिविचार:

१८२. हरिदिनतिलकं स्मरन् दक्षिणः – (तूप्पुलेवेदान्ताचार्यस्य:)

किञ्चोक्तं मद्यपानं निपतति नरके तस्य यातैव शक्तः

त्वेकादश्यां अकामस्सहनिजपितृभिः नारके मज्जतीति।

वाराहश्वादिवि प्राशनजनितमघं प्राहुरत्रान्नभोक्तुः

भोज्यन्तत्राश्नतो यत्स्मृतमिह हि महापाप्मनामास्पदन्तत्॥

१८३. आतिष्ठेतासुयुक्तस्थिषु विधिबलात् श्राद्धं अन्यन्निषिद्धं

प्राक्सामान्यापवादादिति निगमशिरोदेशिकै स्स्पष्टमुक्तम्-

विष्णो र्धर्मं वरिष्ठं हरिदिननियमं पारमैकान्त्यलग्ना:

लुप्तां तच्छ्राद्धचर्यामपि च विधिबलात्  साधवः पालयन्ति॥

१८४. अत्र कांश्चि दनुस्मृत्य सामर्षं –

यद्वा….स्या त्सूतकादौ पितृदिनयजनं संस्मृतं सूतकान्ते

यद्वच्चै…..कादशी ष्वभिमतमितिवच्छास्त्र संघैरघोषि ।

तत्सर्वं शिष्टगोष्ठीपरिचयविधुराः स्मार्तरीतिं दधाना-

हत्वा पित्रोः क्रियामप्यहह शठजना स्सञ्जनां स तर्जयन्ति॥

१८५. रेतो यत्रामेध्यमद्यादितुल्यं व्यासादीनां मानसस्यापि शल्यम्।

एकादश्यां दृष्टमेते निमित्तैः कष्टंकष्टं! भुञ्जते मृष्टमन्नम्॥

काम्यानां यद्व्रतानां अपिविधिबलत: श्राद्धहेतो: त्यजितम् स्यात्;

नैनं नित्यव्रतानां उपवसतिविधे: वेधहान्यादृतानाम्।

एकादश्यां जयन्त्यामपि गुरुचारितास्वादनिष्ठावशानां

श्राद्धं त्याज्यं परेऽहन्यपि तु विधिकृति: पारमैकान्त्य निष्ठा ॥ (हरिदिनतिलके)

१८६. एकादश्यां देवताश्च व्रतस्थाः पक्वञ्चान्नं सर्वदोषोपपन्नम्।

पात्रं भ्रष्टं भोजनेनैव तुष्टं कष्टं दुष्टै श्चेष्टितं रामराम!॥

१८७. किञ्च –

हा जयन्तीं विभो वैजयन्तीं जुषस्त्या जयन्त्यन्यथा योजयन्तिस्मृतीः।

भोजयन्त्यन्नकैस् तर्जयन्तो जनान् मार्जयन्तस्त्रपां वर्जयन्त्यार्जवम्॥

१८८. सव्यः –

किमनेन दिष्टहतेषु मुदराभिघातेना पश्य तावदमीषां भागवतानां पारमैकान्त्यम्।

सद्यस्वकान्पितृगणा न्परिमोचयन्तो विद्याबलादपि ऋणत्रय मत्ययन्तः

ऐकान्त्यतो निखिलदेवगणांस्त्यजन्त: सन्तस्सदा द्वयमुखेन हरिं भजन्ते॥

१८९. दक्षिणः –

यस्य हि पितरो वेद विद्यासाद्ध्या स्स्वयञ्च ऋणयुक्तः तस्य श्राद्धं नित्यं;

न तु सन्यस्तस्वरूपस्य॥

१९०. सन्यासो द्विविधः प्रमाणगदित स्सद्ज्ञानकर्मत्मनां

तत्र ज्ञानमयं व्रजन् हि पुरुष: श्रेष्ठो यतीनां शतात्

श्राद्धादांबत कर्म कर्मयतिना सद्यस्तु सन्ताज्यते

विद्यान्यासवतां सतां पितृविधिव्रातस्य का वा कथा॥

१९१. किञ्च –

यज्ञोऽपि द्विविध स्त्रयीषु विहितस्  स्वज्ञानकर्मात्मना

सर्वं कर्म जहाति कर्मयजने दीक्षां भजन्वै पुमान्।

यावज्जीवनमात्मबुद्धियजने दीक्षां भजन्तो बुधा-

मुञ्चन्तोऽन्यदनन्तमात्मयजनेनाञ्चन्ति ‍‍‌यज्ञात्मकाः॥

१९२. अपिच –

जातिश्च द्विविधा प्रमाणविदिता शारीरविद्यात्मना

तत्तज्जात्यनुसारतस्तु सकला श्शास्त्रैः क्रियाश्चोदिताः।

विद्यावत्सु समस्तवर्णविगमा देकान्तभावोपगा-

विद्याजातिविरोधिनीर्विजहति श्राद्धाद्यशुद्धक्रियाः॥

९९३. महतां वचन मनुस्मरन् (सव्यः) –

पञ्चार्थज्ञाः पञ्चमोपायनिष्ठाः

पञ्चास्त्राङ्काः पञ्चसंस्कारयुक्ताः।

ते वर्णानां पश्चिमाऽश्चाश्रमाणां

विष्णोर्भक्ताः पञ्चकालप्रपन्नाः॥

(गुरुपरंपराप्रभावे उद्धृतं नारदवचनम्)

१९४. दक्षिणः –

पश्यत्येव नरेरसेन महता स्वर्णंभवत्यायसं

कीटः पेशकृ दाहितः सपदि संयात्येव जात्यन्तरम्।

सिद्धानुग्रहवैभवश्च बहवो जात्यागमापायगा:

तद्वद्भागवता स्स्ववर्णविगमाद्भक्तत्वजातिं गताः॥

१९५. नानारूपधरा हि कामनशतो देवा स्तपस्यादिभिः

येऽमी कौशिकवीतहव्यहरिता ब्राह्मण्य मासादिताः।

तद्वन्नैजवपुर्मनःकरणगत् त्रैगुण्यविध्वंसना-

तेमी भागवतास्स्ववर्णविगमाद् भक्तत्वजातिंगताः॥

१९६. इत्थं जात्यादिभेदेन शिष्टाः कर्मातिगा अपि।

भगवानिव वर्तन्ते लोकसङ्ग्रहवर्त्मनि॥

१९७. अधिकारबोधयुक्ता स्सङ्कल्पोद्यद्विशेषविज्ञानाः।

प्रारब्धकर्मतन्त्राः सेवन्ते कर्मभावनां एके॥

१९८. देहात्मभ्रम ऐव देशिकवरै स्सङ्कल्प इत्युच्यते

तत्त्यागेन तु चोदनां परिहरेत्याहोद्धवाय प्रभुः॥

१९९. केचिद्दिष्टहता स्सुमन्दमतयो देहात्मधीमोहिता-

धीसन्यासवतोऽपि कर्म निखिलं चावश्यकं मन्वते॥

२००. ये ययुः केवलां ब्रह्मणो भावनां येपि वा योगिनो निश्चलाचित्समाः।

तेऽपि हि स्नानसन्ध्याजपत्यागिनः किं पुनस्सिद्धधर्मे भरत्यागिनः॥

२०१. अपथ्यसह मौषधं परिनिपीय रुग्णो महत् सुखं सपदि पायसोदनमदन् हि शेते हिमे।

तथा सकलशक्तिकं निखिलदोषनिस्तारकं परं हि शरणङ्गता इह जयन्त्यमी निर्वृताः॥

२०२. यदिद मात्मविदाञ्चरितं शुभं तदतिमन्दधिया मशुभायते।

घृतमहो! मधुरं नवगव्यकं बतशुना मुदरस्य विषायते॥

(विक्षारण्याख्य दिव्यदेशवर्णनम्)

२०३. सव्यः –

वीक्षारण्यमिदं सुपुण्यमिह वै मोक्षाय सर्वात्मना

दीक्षामेष भजन् वरेण्यचरितः कारुण्यदुग्धाम्बुधिः।

शीते पीतसुगन्धिवातभरिते वाताशपोते मिते

सीताश्लेषसमुल्लसद्घनरसश्शेते रघूणां पतिः॥

२०४. अत्र हि –

नासामूले व्याप्तसत्पुण्ड्रभूषाः जङ्घालङ्घिस्निग्धकाषायवेषाः।

श्रीशैलेशेत्यादिसद्ब्रह्मघोषाश्श्रीवाग्भूषां सञ्जुषन्ते मुनीन्द्राः॥

२०५. दक्षिणः –

अहोबलीयाञ्चितदिव्यनामा महान्मठोयं नरसिह्मधाम।

यत्राऽभिषिक्ता: किल भद्रपीठे सौम्योऽपयन्तु स्सखितामुपेताः॥

२०६. आषष्ठ्योगीन्द्रममी गरिष्ठाः सद्ब्रह्मनिष्ठा यतिनां वरिष्ठाः।

संस्थापयन्तो निगमान्तयुग्मं सिंहा गिरिस्था इव रेजिरेऽस्मिन्॥

सव्य: (विचिन्त्य) अन्ये केचननूतना:

२०७. सहस्रवक्त्रं द्विसहस्रजिह्वं सदैकरूपोक्तिमथंत्यजन्तः।

कान्तोपयन्तारममी ततोऽन्यं भजन्ति कञ्चिद्घटिकाशतोक्तिम्॥

२०८. हन्तामी पूर्वपक्षप्रचितमितकला स्साग्रवक्राङ्गलेखा-

स्सामुद्राणां जडाना मुदयसमयदाः कौमुदोल्लासजोषाः।

संप्राप्ता: पूर्वपक्षान्तिममिह समतिक्रम्य दोषाकारा ये

नष्टश्रीका स्सुहीनाः प्रतिदिन मुदिताः पद्मिनी म्मीलयन्ति॥

२०९. किञ्चाचार्यापचाराद् बुधसमुदयदाः क्षीणपक्षैकलक्ष्या:

जाड्याक्रान्तात्मभासो गरळ मनुगताः स्वान्तरोद्य त्कळङ्काः।

प्राक्च्छ्रीशैलेशपूर्वागमनियमपरित्यागिनो नैजमार्गात्

दौष्ट्यान्नष्टा स्सुकृष्टा स्सदयहर शिरश्श्लाघयाऽढ्याद्विजेशाः॥

२१०. सव्यः –

“किमनेन परदोषकथनेन पश्य तावदमीषां गुणीशं”

शुद्धै स्सिद्धान्तवृद्धै र्यतिकुलतिलकै र्मन्दिरै स्सुन्दराङ्गः

कान्तः कान्तोपयन्ता मुनिमकुटमणिर्भ्राजते पूजितोऽत्र।

यच्छ्लोकं धूतशोकं सरसपदसुधापाकमेषाञ्चवाकं

शृण्वन् श्रीशैलपूर्वं रघुकुलतिलको मोदते वेदवेद्यः॥

२११. खलकृतपरिभाषाखण्डनोद्यज्जिगीषा

विततनिजमनीषाविस्तृतब्रह्मघोषा।

जयति दळितदोषा दत्ततत्त्वाभिलाषा

वरवरमुनिवेषा कापि वैकुण्ठभूषा॥ (२४५२० विश्वगुणदर्शपाठभेद🙂

२१२. श्रीशैलेशेत्याद्यमन्यैरभेद्यं वेदैर्वेद्यं पद्यमास्थानवद्यम्।

त्रैविद्यानां हृद्य मास्वाद्यरङ्ग: सूतेगयद्यं सर्वविद्याप्रसाद्यम्॥

२१३. पुण्यश्लोक स्सकलभुवने स्वस्थले ष्वास्ययासा-

वेतच्छोकप्रथमपठनश्लाघनाकम्पमानैः।

चूडासूनै स्स्नपयति मधुस्यन्दिभि श्चञ्चरीकैः

दन्तस्वस्तिप्रवचनमुरो नित्यभूषां स्वयोषाम्॥(२४५ विश्वगुणदर्शपाठभेद🙂

(सद्धर्कपुंङ्ग विमर्श🙂

२१४. किञ्चैतेऽहोबलीया निगममकुटसद्देशिकैस्स्थापितन्त्-

पुण्ड्रं श्रीविष्णुपादाम्बुजयुगसदृशं सान्तराळं सुहृद्यम्।

नासामूलात्समूलं त्वविदळितपदं साङ्गुळं विस्तृताग्रं

विभ्राणाः फालदेशे यतिकुलपतयो भान्ति मुक्ता इवामी॥

२१५. दक्षिणः –

हरिपादाकृतिरहितं पुण्ड्रं सर्वं प्रपन्नकुलहेयम्।

सच्चरितरक्षयोक्तं जानन्त्येते शुभाचाराः॥

२१६. औचित्यलिङ्गात्तु हरिं श्रितानां पादाकृतेर्यन्नियमं वदन्ति।

द्वयेन विष्णुं शरणङ्गतानाम् औचित्यभूमाङ्घ्रियुगाकृतौ स्यात्॥

२१७. अर्थस्वभावा च्चरणादिकानां द्वित्वं हि पूर्वं समुपस्थितं स्यात्।

त्वत्पादमूलं शरणं प्रपद्ये इत्यत्र न ह्येत्कपदप्रतीतिः॥

२१८. स्थितस्य विष्णोश्चरणद्वयाकृत्यायैस्तु धार्यं वदति श्रुतिश्च।

व्यासोत्तराद्यो स्स्मृतयश्च विष्णोः पादद्वयाकार मुदाहरन्ति॥

२१९. उद्धृत्य सच्छिद्रपदं वराहो यत्सान्तराळेति पदं प्रयुङ्क्ते।….

एकान्तिनां पुण्ड्रमतोऽपि हेतोः पादद्वयाकारमिति प्रतीतम्॥

२२०. सत्याङ्गतौ हन्त! निजेच्छयैवच्छेदो न युक्तो हि हरेः पदस्य।

अतोऽपि पादद्वयसन्निवेशं पुण्ड्रं बुधै स्सान्तरमेव धार्यम्॥

२२१. विच्छिन्नमूलत्व मनङ्गुळित्व मच्छिद्र मध्द्यात्वसम न्निषिद्धम्।

अत श्शुभं साङ्गुळिकं समूलं पुण्ड्रन्त्वमी विभ्रति योगिवर्याः॥

२२२. दृष्टिमध्द्यादथो नासिका मूलमूर्ध्दाङ्गुळे योगयु ग्याज्ञवल्क्योदितं

योगपादेपि पाद्मे हरिस्तज्जगौ सज्जनास्तत्कथं वर्जयेयुर्मुधा॥

२२३. उरगबलिगयाद्याः पादमेकं वहन्ति

त्रिगुणविवशचित्ता हेयभोगैकसक्ताः।

तदनुगमनशीला स्स्मार्तरीतिन्दधाना-

निखिलभुवनबन्धोः पादमेकं वहन्ते॥

२२४. शठरिपुफणिभूभृद्वैनतेयादयस्त-

न्मधुरिपुपदयुग्मं धारयन्त्युत्तमाङ्गे।

तदनुगमनशीलाश्शुद्धसत्वैकनिष्ठा

हरिपदयुगतुल्यं धारयन्त्यूर्ध्वपुण्ड्रम्॥

२२५. विनिगमकं विनैव हरिपादयुगेन्यतरत् परिहरणीयमित्युपगमो न सतां सुगमः।

अथ किमुपेक्षणं व्रजति दक्षिण मेव पदं बत किमदक्षिणं हरजटोक्षणदक्षकणम्॥

२२६. उभे पदे ते रजसि प्रधिव्यास्तद्वाहनेनेह पुरोपनीते।

श्वेतान्तरीपा द्दुरितप्रदीपा त्तत्रैकहानं बत मानहीनम्॥

२२७. अम्भोजमुकुळाकारपादं द्व्यङ्गुळसम्मितम्।

व्यासोत्तरवच स्सिद्धं नासादौ धारय न्त्यमी॥

यतिकृत गृहस्थाचार्य वन्दनविचार:

२२८. सव्यः – पश्य तावदन्यापि –

अत्रैतेऽहोबलीया यतिकुलपतयश्शुद्धसत्वाभिजातान्

आचार्या न्वन्दमाना यतिनमभिमतं हन्त संस्थापयन्तः।

स्वानुष्ठानेन जित्वा यति मपि कथकं ब्रह्मतन्त्रस्वतन्त्र-

स्थानाधीनञ्च सर्वं यति मपिगृहिणां वन्दनं कारयन्ति॥

२२९. दक्षिणः –

अभिजनधनविद्यावृत्तदाक्षिण्यरूपै: उपधिभि रयमेको नैकधा जृम्भमाणः।

पृथुमहिमविवेकप्रेक्षणा दुत्पतन्त्या प्रसभ मधिकदृष्ट्या प्रापितो वीरशय्याम्॥

(अहोबिल यतीन्द्रध्वजपटादि विषय:)

२३०. पुरतोवलोक्य सविस्मयम् –

अहोबिलयतीन्द्राणान्दिव्यमठस्थापित जयस्तम्भपरिणद्धः।

दिव्यराजहंसाङ्कित जयाक्षरपरिकर्मितः। कुशस्थलीप्रवाह

निवाहोपचित- सततगतिसन्तानदोधूयमानचञ्चलाञ्चलो ध्वज

पटो विराजते इति पटाक्षरं पठन् –

अहोबिलयतीन्द्राणाम् आज्ञाकैङ्कर्यरूपिणीम्।

इमां वादकथां सम्यग्विमृशन्तु विपश्चितः॥

(यतिवन्दन समर्थनमण्डनम्)

२३१. उन्मूल्य कैश्चिद्दुर्वृत्तै रुत्तमाश्रमगौरवात्।

वैष्णवानां लाघवस्य लिख्यते शतदूषुणी॥

२३२. सकललोकविश्रुतया श्रीमदहोबिलयतीन्द्रदिव्याज्ञयात्र

सङ्घीभूतैः विद्वद्भिः सकलकलं परिशील्यते। अत्र हि धीसन्यासस्यैव

सर्वोत्तरत्वात् विप्रा इति पठित्वा वादकोलाहलञ्चोपशृण्वन् सप्रत्यभिज्ञम्।

सेयं श्रीकुशिककुलतिलक श्रीशुद्धसत्वगुरुचरणतनूजरत्नानां तत्प्रसादलब्ध

सकलविद्यावैशद्यानां  श्रीमद्रहस्यत्रयमीमांसाभाष्यकृतां श्रीमद्रामानुजाचा-

र्याणां कृतिषु श्रीमदहोबिलयतीन्द्राज्ञाकैङ्कर्यरूपिणी यतिवन्दनसमर्थनमण्डन

पोषणी श्रीवैष्णवलाघवशोषणी यतिवन्दनन्यायसमर्थन न्यायदशावतारालङ्कृता

सङ्क्षेपशतदूषणी ॥

विप्राणाञ्च ज्ञानतः श्रैष्ठ्यवादात् सद्विद्यानां योगिनां सदायतीनां शिष्टाचाराच्छास्त्रतो वैष्णवानां

सर्वेषां वै योगिवन्द्यत्व मुक्तम्॥

२३३. विधिवशनियतैर्हि विष्णुभक्तां प्रणिपतनै र्गुरवस्स्त्रियं  सुतां वा

उचित मुपचरन्ति विश्वमान्यां हरिपदपद्मवतीं रमामिवेड्याम्॥

दीपान्तरस्थां श्रमणीम् गरुडोऽपि प्रणम्य च।

वरं प्राप्य तयाशिष्ट: सत्पक्षोऽभतदित्यहो॥

२३४. एकेन मन्त्रराजस्याद्ध्यापने न तत्समं

यतीनां शतमित्येतत् तापनीयेषु घुष्यते॥

२३५. क्षणं विचार्य –

सत्कर्मनिरता श्शुद्धाः साङ्ख्ययोगविद स्तथा।

नार्हन्ति शरणस्थस्य कलां कोटितमीमपि॥(श्रीपाञ्चरात्रे)

२३६. वैष्णवो वैष्णव न्दृष्ट्वा दण्डवत्प्रणमे द्भुवि।

तयो र्मध्यगतो विष्णुः शङ्खचक्रगदाधरः॥ (इति पुराणागमेषु)

२३७. ब्रह्मचारी ग्रहस्थश्च वानप्रस्थोऽथ भिक्षुकः।

अन्योन्यं वन्दनं कुर्युः शौरिसम्बन्धवैभवात्॥

उद्घोषितं चास्महागुरुभिर्वेदान्ताचार्यै: यथा-

अभिगम्य सम्यगनघास्सुमेधसो यति वक्रवर्ति पद पद्मपत्तनम्।

हरिभक्तदास्य रसिका: परस्परं क्रयविक्रयार्हदशया समिन्धते॥ (यतिराजसप्ततौ१८)

२३८. आश्रमाधिक्यबुद्ध्यायो न नमेद्ब्रह्मवादिनम्।

गृहिणं भिक्षुरज्ञाना द्रौरवं नरकं व्रजेत्॥

२३९. श्वपचोपि महीपाल विष्णुभक्तो द्विजाधिकः।

विष्णुभ्कतिविहीन स्तु यति श्च श्वपचाधमः॥ (पुराणागमेषु)

२४०. विप्राद्द्विषड्गुणयुता दरविन्दनाभ-पादारविन्दविमुखाच्छपचं वरिष्ठं।

मन्येतदर्पितमनोवचने हितार्थ-प्राणः पुनाति भुवनं न तु भूरिमानः॥

२४१. इत्यादि प्रमाणजात मात्मगत मवगच्छन्। (प्रकाशं)

भिक्षुरूपो हनूमान् ववन्दे पुरा रामरामानुजौ योगिवाहं तथा लोकसारङ्गसंज्ञो महान्

योगिराड् योगिराजोऽपि मालाधरार्योदिकान् ब्रह्मतन्त्रस्वतन्त्राह्वयो

योगिराड्देशिकन्तं ववन्दे। गृहस्थं स्वयं ये त्रयो मौनिन श्चादिवण्योगिराड् यश्च सर्वेऽपि तत्तद्गृहस्थाश्रयाः॥

(अयं दण्डकपाद:)

२४२. गृहस्थस्य नवन्द्यत्वं गुरुत्वञ्च यदीष्यते।

अङ्गनास्वपि वन्ध्यत्वं मातृत्वञ्च तदेष्यताम्॥

२४३. यते र्गृहस्थशिष्यत्वं येन मानेन मीयते।

किन्तेनैव न मीयेत तस्य तद्द्वन्द्वनक्रिया॥

२४४. आश्रमान्तरसम्बन्धो गुरौ यद्यनुपाल्यते।

तर्ह्यग्नौ श्वशुरे चापि सम्बन्ध स्सोनुपाल्यताम्॥

२४५. यत्याश्रमविरुद्धत्वाद्धानमग्न्यादिकस्य चेत्।

गृहस्थस्य गुरोश्चापि हानं किन्नेष्यते यतेः॥

सव्य:

२४६. किं बहुना पिष्टपोषणेनयो भिक्षुर्वैष्णवाग्र्यं सपदि तु ननमेदाश्रमाधिक्यबुद्ध्या।

मूढोऽयं रौरवाख्यं नरक मनुभवेदित्यवादीत्  स्मृतिश्च॥

शिष्टाचारै र्विहीनं क्वचिदपि न पुनन्त्यागमा श्शिष्टगोष्ठी

दिश: पश्यन् अशरीरवाणीम् शृण्वन् दक्षिणं प्राते।

योनूचान स्सनस्संसदि भवति महानित्यभाणीत्  पुराणी॥

(पत्रान्तरेलिखितम्)

(२४६ शेषभाग🙂

ब्रह्मतंत्रस्वतंत्रोऽपि मुनिरर्वेदान्तदैशिकम्।

गुरुं गृहस्थं किमरे! नानमद् वदनिश्चयम्॥

मुनिस्सौम्योपयन्ताऽपि जनन्यार्यम् गुरुं किमु!

नननाम गृहस्थं तं यादवाद्रिशकिस्करम्।

रामानुजमुनिर् मान्यान् गुरून् षड्गृहिणस्तु तान्।

नननाम किमु प्राप्य मन्त्रादीन् वद विज्वर:

वेदानि माधवमुनि: परिचर्याम् चकार यत्।

श्रीपराशरभट्टस्य पश्चात्सुन्दरयोगिराट्।

सेवां चकार तस्मै यत् गृहस्थाय मुनिस्सदा॥

भारते स्पष्टमुक्तं हि वर्णानां ब्राह्मणो गुरु:

ब्राह्मणेष्वपि सन्न्यासी तस्मात् तस्य गुरुर् गृही॥

गृहस्थोपि गुरुश्शिष्यं यतिम् नमति  तत् तथा।

अहंकारान्न नमति चेत् पापमेवाश्रयेदयम्॥

विद्यादं मन्त्रदं ज्येष्ठ: कनिष्ठमपि वन्दते।

कनिष्ठोऽपि गुरुर्ज्येष्ठं वन्दते शिष्यमप्यत:

श्रीकृष्ण: परमात्माऽपि पौत्रं नमति शङ्करम्।

अहो! कैलासयात्रायां भारतं पठ सर्वश:

अहोबिल यतीश्वर: प्रथमवण्शठारिर्मुनि:

गृहस्थगुरुकेशवं यदुगिरौ प्रणम्यास्थित:

तथा द्रमिडदेशिकं गृहिणमानमन् सन्दधे।

यतो द्रामिडटीकया गुरुगृहस्थशिष्योभवत्॥

दक्षिण:

२४७. अकुरुतसुतकृत्यं मारणेराख्यसूरे:

यतिमपतिमतभूमा श्रीमहापूर्णनामा।

मधुरवनविहारि रामस्वामिधर्मात्मजाद्या-

विहतमहदवद्यां मेनिरे ब्रह्मविद्याम्॥

(अत्र अधिक: पाठ: लेख्य:)

(गृहार्चायां घंटानादत्याग:)

२४८. सव्यः –

अहो षष्ठपराङ्कुशयोगीन्द्रशिक्षितानां केषाञ्चि दमीषां परमैकान्तिनां

परमविलक्षणेयं नरहरिचरणयुगळ परिचरण परिपटी॥

पश्यतावत् –

यतीश्वरकृतेश्वरोद्यजननित्यनित्यादरा स्सुदान्तनिगमान्तसूर्युदितनित्यटीकानुगाः।

विरिञ्चिगिरिशादिसंकलितमिश्रयागत्यजः

गृहार्चनविधावमी परिहरन्ति घण्टामपि॥

२४९. दक्षिणः –

वसन्ति किल दैवतान्यरचितं सतां सन्निधौ।

पिशाचमुखदुर्ग्रहास्त्वपसरन्ति भीतास्स्वयम्॥

हरिद्रविडसूरिसूक्त्यमृतपाननद्धादर: तदत्रहरिपूजने परिहरन्ति घण्टाममी॥

२५०. घण्टायान्तु पितामहन्तदुदिते नाळे तु रुद्रं तथा

पाशे नागमितिस्मृतैर्मनुजपैरञ्चन्ति वैखानसाः……।

अन्यत्रैतदनुक्तमन्यत इति न्यायेन संप्रापितं

तस्मान्नैजविशुद्धविष्णुयजने घण्टां त्यजन्त्युज्ज्वलाः…..॥

२५१. घण्टा नाम न किञ्चनोपकरणं नित्यन्तु सूर्यान्तरं

शय्यावाहनशङ्खचक्रतुलसीतुल्यं क्वचिन्मीयते।

विष्णोः पारिषदार्चनेन कथितं घण्टाख्यदेवार्चनं

तद्वर्णाकृतिचिन्तनञ्च तदमी मुञ्चन्ति घण्टां बुधाः॥

२५२. घण्टायां खलु पञ्चरात्रसमये पक्षीश्वरं वा क्वचि-

च्चक्रं वा क्वचिदम्बुजातमथवाऽप्यञ्चन्ति कामाद् बुधाः……।

तस्मादैच्छिकदैवताञ्चिततनुर्भेरीव साधारिणी

काम्यैवेति बुधा विवेककुशला मुञ्चन्ति घण्टाममी॥

२५३. क्रीतायानतलोहपात्रनयत स्तद्देवतावाहन-

ध्यानावाहनमन्त्रणोक्षणकथास्वप्नप्रसङ्गत्यजः।

घण्टायाः किल चालने जनपदो निर्मूलित स्स्याद्धरे:

पूजा स्याद् विफलेत्यनर्थबहुळां मुञ्चन्ति घण्टा ममी॥

२५४. असंस्तुतयाञ्चलने … ग्रामादे श्चलनं भवेत्।

निष्फला चापि पूजेति प्राह पाद्मे हरिस्स्वयम्॥

२५५. भूतबल्युपगीतवाद्ययुक्पूजनन्तु  गुरुमन्दिरै स्समं

वङ्गिवंश्यमुखदेशिकोदितं सङ्घसङ्गविरतस्य नोचितम्॥

२५६. (किं बहुना) हरिपूजनवि त्स्वयं यतीन्द्रस् स हि घण्टानिनदं

मुमोच नित्ये।

अभिरक्षति पञ्चरात्ररक्षा यजनंनित्यनिरुक्तिशिक्षणेन॥

२५७. यदि च –

भवति घण्टापूरणी यैर्वपि जनेनैव नित्ये किमिति

निगमचूडादेशिकस्तांमुमुमोच। अपि किमियमुभाभ्यां वर्जिते पेक्षिता वा

तदनुगमनशीलैस्सेव्यतामेति घण्टा॥

२५८. शङ्खं घण्टारव मपि हरे स्सद्गृहार्चाविधाने जह्यान्मह्यामितुवचनं सुप्रसिद्धं

ब्रवीति। हन्तैकान्ती हरियजनजख्यातिलाभानपेक्ष:

श्रीमान् सूक्तिश्रवणरसिकश्चेति घण्टां त्यजन्ति॥

(श्रीदेव्या: अणुत्वविभुत्वविमर्श:)

२५९. सव्यः -(सहर्षं)

स्तनमण्डलेन महतो महीयसीं

तनुमध्यमां श्रियमणोरणीयसीम्।

करुणारसौघवरुणालयेक्षणां

तरुणारविन्दचरणामुपास्महे॥

२६०. इति सविनयं प्रणम्य, साञ्जलिबन्धं –

विष्णो र्नित्यानपाया चिदिय मणुतरा भव्यया दिव्यशक्त्या

भोगोपोद्घातकेळीचुळुकित भगवद्वैश्वरूप्यानुभावा।

सैषाजोघुष्यमाणा निगमफणितिभिः नित्य मज्ञानदोषा-

दोषानारोपयन्ती त्यजति निजपतिं हन्त चित्रं चरित्रम्॥

२६१. दक्षिणः –

चिदणुरपि बिभर्ति व्यापकं बुद्धितत्त्वं

विभुरपि न हि कालस्यास्त्वनिष्ठापटिष्ठः।

तदिदमनुपयुक्तं वैभवं वैभवे यत्

जगति मणि रणीयान् भात्यनर्घो महीयान्॥

२६२. भगवत इव चेद् विभुत्वमस्याः

कथमिय मार्यमितोपरैकनिष्ठा।

यदि च स्मयनित्यधीसमेयं

कथमिव वै भवकृच्छ्रियो विभुत्वम्॥

२६३. श्रीरित्यस्याः प्रथममवदन्नाम वैय्यामुनाद्या

स्तेनैवैनां वदति निगमो धर्म्युपस्थापनेन।

तद् वै षोढापुरुषकृति मेवाह तत्रापि चादौ

ब्रह्मैवैषा श्रयत इतिता मन्यनिष्ठां ब्रवीति॥

२६४. स्वरूप मणुचेच्छ्रिय श्रयत इत्यलं शोभते।

विभो रणुतरात्मना भृशवशीकृति र्वैभवः

श्रियः खलु कुयुक्तिभिः परिनिपीड्य धर्मिग्रहं

विभुत्वपरिकल्पनं ध्रुव मभित्तिचित्रायते॥

(श्रिय: नारायणेन भेदाभेदविचार:)

२६५. सत्यं ज्ञानमन्नतमित्यवगते ब्रह्मस्वरूपे बुधैः

व्यावृत्तिः किल सूरिवन्निगदिता सान्तत्ययोगाच्छ्रियः।

गद्ये नारपदार्थमद्ध्यपठिता श्रीभूमिनीळादिवत्

नित्ये भूमिसमं श्रियोऽपि यजनं ब्रह्मत्वमस्याः कथम्॥

२६६. वेदाद्यन्तस्वरस्य प्रकृतिरभिदधे विष्णुमेवेशतत्त्वम्

तत्रार्या: प्राहुरार्यां पुरुषकृतिकरीं मातरं विष्णुपत्नीम्।

अस्येशानेतिवाणीं जगुरथ धरणीं तत्त्वसाधारणीन्ताम्

भूस्तुत्यन्ते कथन्ते श्रियमपि परमं तत्त्व माप्ता वदेयुः॥

२६७. सपत्न्यौ श्रीलक्ष्म्यौ वदति निगम स्सर्वसुगम:

तथैषा विष्णोश्श्रीरिति वदति च व्यासजनकः।

प्रभातुल्यामेना मुभयवचसोश्चेन्मुनिवर:
स्वतश्श्रीः त्वं विष्णो स्स्वमिति गुरव स्ताञ्जगदिरे॥

२६८. ललितरुचिषु लक्ष्मीभूमिनीळास्ववादी-

न्निगममकुटसूरिर्विष्णुकारुण्यसाम्यम्।

श्रियमपि बत! वाग्वक्ति गीता विभूतिं

श्रुतिगतिपरतन्त्रै श्शोध्यतामत्र टीका॥

२६९. सत्सङ्कल्पा द्भवति सततं यत्र देहिन्यमीषां

जन्मस्थेमप्रळयरचना जङ्गमाजङ्गमानाम्।

यत्कल्याणं किमपि यमिनाम् एकलक्ष्यं समाधौ

पूर्णन्ते नः स खलु भगवान् लक्ष्म तस्यैव लक्ष्मीः॥

२७०. पत्नीप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां

भावारूढा भवति कमला विष्णुपत्नीत्वयोगात्।

साक्षाद् विष्णुर्भवति वचसा मुत्तमं वाच्यमेकं

भेदेऽप्येवं कथमिव रमा फण्यताम् ईशतत्त्वम्॥

सव्य:

२७१. इदंकिल निखिलोपनिषद्रहस्यम् –

मिथो भेद न्तत्त्वे ष्वभिलषति भेदश्रुतिरतो

विशिष्टैक्यादैक्यश्रुति रपिच सार्था भगवती।

इमावर्थौगोप्तुं निखिलजगदन्तर्नियमिता

निरीशो लक्ष्मीशश् श्रुतिभि पराभिः प्रणिदधे॥

२७२. लक्ष्मीमाहुः कतिचिदपरे तत्प्रियं लोकनाथं

ते सर्वेऽन्तःकलहमलिनाः किञ्चिदुत्तीर्यमग्नाः।

अन्ये केचिद्युगपदुभयोरीश्वरत्वं ब्रुवाणा-

ब्रह्माद्वैतप्रतिहतिहताः पूर्वमेवेह मग्नाः॥

२७३. अस्येशाना भवति जगतः संश्रयन्ती मुकुन्दं

लक्ष्मीर्भूवन्नखलु हरिवत्सेव्यताम् अत्र शिष्टैः।

अस्येशाना जगत इति या श्रूयते विष्णुपत्नी

तस्यास्स्तोत्रं विरचित मिदं वेङ्कटेशेन भक्त्या॥

२७४. स्वशेषाशेषार्थो निरवधिकनिर्बाधमहिमा

फलानां दातैकः फलमपि च शारीरकमितः। (चतुश्श्लोकी भाष्यारम्भे)

श्रियः तत्पत्नीत्वप्रथनकृतमैश्वर्यमखिलं

तदेतत् कान्तस्ते प्रभृतिपदभाष्ये प्रकटितम्॥

२७५. हरिः पुन्नामाऽसौ न खलु परतन्त्रः क्वचिदपि

स्वतः श्रीस्स्त्रीनाम्नी निखिलपरतन्त्रार्थदयिता।

इदं वस्तुद्वन्द्वं स्ववशविवशात्मद्वयचितं

परञ्चेद …..देकं भवति हरितत्त्वन्तु परमम्॥

२७६. तुरीयं श्रीतत्त्वं कतिचिदुपगायन्ति विबुधा-

हसन्त्येतद्वेमातिग कथकवादेन तुलितं।

सदाचार्यग्रन्थाः खलु जगति तत्त्वाश्रयपराः प्रसिद्धास्सर्वेऽत्र प्रभवति तुरीयं कथमिव॥

२७७. स्वत श्श्रीश्चित्तत्वं भवति विभुभूतेति कुमते

प्रमाणं तन्मृग्यं भुवि जलशयिन्यामपि समम्।

विभुत्वाद्यापातप्रथितमपि धर्मग्रहमितं

श्रिय श्चित्व्याप्तं श्लथयितुमणुत्वं कथमलम्॥

२७८. ऐश्वर्यव्याप्तिशब्दा बहुषु बहुमुखा स्तत्र प्रसिद्धा

धर्म्यद्वैतोपरोधाद् यतिनृपतिमुखैरन्यथान्तर्हि नीताः।

ब्रह्मद्वैते विशिष्टाद्वितयमतमहो! हन्तदत्ताञ्जलि स्स्या-

च्छिन्ने मूले कथंवा न भवति विफला (पौरुषं सूक्तमेकम्) श्रीधियां वैभवेच्छा॥

२७९. श्रीवीरराघवार्यैर्मानाधे र्न्यायमन्दरानीताम्। श्रीतत्त्वसुधां विबुधा दृष्ट्या श्रुत्या पिबंत्यत्र॥

२८०. वक्ति स्पष्टं पौरुषं सूक्तमेकं सर्वेशानं निस्समं वै पुमांसम्।

तस्यार्धांशे श्रीसमाख्यायदि स्यात् लक्ष्यास्स्त्रीत्वं व्योमपाथोजतुल्यम्॥

२८१. ब्रह्माद्यञ्चेद् याति नारायणाख्यां

मूको भूयात्  तर्हि तस्यानुवाकः।

पूर्णं ब्रह्मैवात्र नारायण श्चेत्

तत्पत्नी श्रीः का स्वयं ब्रह्मभूता॥

२८२. नैजार्धाम् शस्यैव पत्नी यदि श्रीः

पुंस्त्वं भर्तु स्स्याच्छशस्यैव शृङ्गम्।

सर्वं पूर्णं वासुदेवोऽसि पूर्ण:

इत्यर्धांशो पूर्णतोक्तिर्विरुद्धा॥

२८३. वस्तुद्वन्द्वं  चेत् परब्रह्मसंज्ञं

प्रत्येकन्तत्ब्रह्मता दुर्लभा स्यात्।

वेदै र्दिव्यो देव एकोऽन्तरात्मा

भूयोऽधीतो भाति नारायणो हि॥

२८४. श्रीमच्छब्देन लक्ष्म्या निगदति गुणवच्छेषतां मन्त्रराजो

लक्ष्मीनारायणाभ्याम् इतितु न कथितं सर्वशेषित्वसाम्यम्।

श्रीर्यद्दण्डेष्वनर्हा सकरुणहृदया निग्रहज्ञानशून्या

तस्मान्नैषेशतत्त्वं श्रुतिनयविरहान्नापि तत्वान्तरं वा॥

दक्षिण:

२८५. (किं बहुना-) चतुश्श्लोकी भाष्ये निगमगणचूडागुरुवरै-

र्निजे पक्षेऽणुत्वं श्रिय इति हि पूर्वं प्रकटितम्।

विभुत्वे चत्वारः परकथितपक्षाः प्रकटिता-

रमेशस्येशत्वं निखिलमततुल्यं निगमितम्॥

२८६. श्रीमानीशस्स्वतन्त्रः श्रुतिशतविदितो बन्धमोक्षौ च तस्मा-

न्नोपायश्श्रीः परेच्छात्मककनुषहृतौ तद्वशीकारहीना।

तस्मादीशं श्रयन्ती सुकरुहृदयापारतंत्र्यादि

योगात् आत्मेशं रञ्जयन्ती पुरुषकृतिवशा त्त्रायते सर्वलोकम्॥

(हरितवारणदेवाधिष्ठित पुरुषमंगलसंबन्धिविचार:)

(श्रीपादतीर्थविषय:)

२८७. (सव्यः) पश्यात्र रघुपतेः चित्रं चरित्रं –

गंगां स्वपादतीर्थम् हि पिबत्येव हि राघव:

सीतया लक्ष्मणेनापि स्नानं तत्पादनेजितम्॥

पद्माकरायितसुधाम्बुधिपालको यं

पद्मापितुस्तुकुलसम्भवभव्यदीपः।

भूत्वा पुन र्हरितवारणदिव्यदेशे

श्रीभाष्यकारपदपादुयुगं बभूव॥

अत्राहु रार्याः॥

२८८. पूर्वं यो भरतार्थितः प्रतिनिधिः श्रीपादुकामात्मनो

राज्याय प्रददौ सएवहि गुरुश्रीदाशरथ्याह्वयः।

भूत्वा लक्ष्मणपादुकाऽन्तिमयुगे सर्वात्मनिश्श्रेयसं

साम्राज्यं स्वय मत्रनो र्वहति नो दैवं कुलस्योत्तरम्॥

२८९. किञ्चायं पादुकात्मा यतिकुलनृपतेः शिष्यताञ्चाप्यथाञ्चन्

नित्यं तत्पादतीर्थं स्वमिह पिबति च ज्ञापयन् तीर्थनिष्ठाम्।

तच्छिक्षासिद्धपक्षा भुविगुरुतिलका भावभेदाभिपूता:

शिष्टाचारैकनिष्ठास्स्वचरणसलिलं स्वीयगोष्ठ्यां पिबन्ति॥

अहं विष्णुपादात्मा वैष्णवा अपि ते तथा।

गंगा श्रीपादतीर्थमहि श्रीपतिस्तेन पूज्यते॥

२९०. दक्षिणः –

वटदळशयनः परो हि बालो निजपदपङ्कजचुम्बनैकसक्तः।

स्वचरणसलिलस्य पावनत्वं प्रकटयति स्वपदाब्जसंश्रयाणाम्॥

२९१. क्षणं विचिन्त्य –

श्रीविष्णुतत्त्वादिकं स्मरन्नातंग भावशुद्धिर्मनुष्याणां प्रमाणं

सर्ववस्तुषु अन्यथाऽऽलिङ्गते कान्तास्नेहनदुहितान्यथा॥

२९२. भवद्विधा भागवता स्तीर्थभूता महामुने! तीर्थीकुर्वन्ति

तीर्थानि स्वान्तस्स्थेनगदाभृता इत्यादिकं विचार्य प्रकाशम्

भक्तान्तरात्मा स्वयमेव चक्री भक्तात्मना तीर्थवरं ददाति।

तद्भक्तगोष्ठी वरपादतीर्थं सर्वेऽपि भक्ता निभृताः पिबन्ति॥

२९३. यद्वत्सो मस्यपीतौ विजहति विबुधा गर्हितोच्छिष्टबुद्धिम्

यद्वत्प्राणाग्निहोत्रादिषु च निजमुखोच्छिष्टबुद्धिं तथैव।

गोष्ठीतीर्थेषु दिव्येष्वमलमतियुतास्सात्विकास्सात्वताग्र्या-

मुञ्चन्तो नैजबुद्धिं गुरुचरणधियः सर्वधाप्यन्वयन्ते॥

२९४. गङ्गातीर्थै विष्णुपादाब्जजाते सर्वेऽशिष्टा (मांसखण्डा न्नयन्ति)।

गंगातीर्थे विष्णुपादाब्जजाते सर्वेशिष्टा विष्णुमाराधयन्ति॥

(ऊर्ध्वपुण्ड्रविमर्श:)

विष्णोः पादौ पुण्ड्ररूपेण विष्णोः फाले मूलस्येह सर्वेऽर्पयन्ति॥

२९५. आत्मप्रदक्षिणंवैधंयद्वत्स्या दन्तरात्मनः।

सन्ध्यासु तद्वदेवैतत् तीर्थं स्यादन्तरात्मनः॥

२९६. धृत्वा पुण्ड्रं हन्तसर्वेऽपि शिष्टा स्स्वस्वाङ्गेभ्यो द्वादशेभ्यो नमन्ति।

नो चेत्तत्र श्रीनिधे स्यान्नमस्या किंवा शिष्टा मांसखण्डान्नमन्ति॥

२९७. अनाभेर्ये पुण्यतीर्थेवगाढा श्शिष्टामज्जन्त्यम्बुजाक्षेण साकम्।

नो चेदन्तश्शुद्धि रेषां प्रमाणं किं वा स्नानं पायुमेढ्राङ्घ्रिनीरैः॥….

२९८. वैधे कर्मण्यंगमन्त्रान्निजांगे न्यस्यन्तीड्यान् हन्त मेढ्रादिकेषु।

तत्रामीषां भावशुद्धि र्हि नो चेद् वैधः किं वा दिव्यमन्त्रावमानः॥

२९९. लक्ष्मीविवाहसमये खलु पूजकेन निर्वर्त्यते सकलमङ्गळसूत्रबन्धः।

नो चेदहो! हृदयशुद्धि रिह प्रमाणं पुत्रस्य मातरि कथं विपरीतवृत्तिः॥

३००. लोके पिता निजसुतां प्रणयातिरेकात्

आलिङ्ग्य गाढ मभिचुम्बति तत्कपोले।

नोचे दहो हृदयशुद्धि रिह प्रमाणं

किन्ते सुतागमनपापगतिम् भजन्ते॥

३०१. लोके मृतान् हि मनुजान् सकलान् नदीषु

दग्ध्वा स्थितां शमपि तत्र हि निक्षिपन्ति।

नो चे दहो! हृदयशुद्धिरिह प्रमाणं

सर्वेजनाः किमु शवस्य जलं पिबन्ति॥

३०२. हर्यर्चने बुधजनाः खलु भूतशुद्धौ

संस्कारकृत्यमखिलं स्वयमाचरन्ति।

नो चेदहो हृदयशुद्धिरिह प्रमाणं

किं ते स्वयन्तु गुरवः स्वयमेव शिष्याः॥

३०३. (किं बहुना) वृद्धास्सिद्धा यामुनार्यान्त्यसूक्तौ

सिद्धश्रेष्ठास्सम्प्रदाये वरिष्ठाः।

दत्वा तीर्थं स्वाय्य पात्मनै नैते

स्वीकुर्वन्ति स्वेन रूपेण शुद्धाः॥

(तिरुनिन्ननूर् श्रीस्थितिपुरदिण्यदेशविषय: वात्सल्यविचार:)

३०४. (सव्यः) पश्य तावदत्रान्यदपि वैलक्षण्यं –

भक्तजनजीवितोयं श्रीमानिह भक्तवत्सलो भाति।

भक्ताश्चामी सर्वे भासन्ते भक्तवत्सलप्राणाः॥

३०५. (किञ्च-)

अपरिमितविलासैरप्यमी माधवस्य

स्वजननिवहरक्षादीक्षणं रूपयन्तः।

सतत मभिदधाना स्तस्य वात्सल्य मस्मिन्

विनतदुरितभोगे विद्ध चित्ता रमन्ते॥

३०६. शठरिपुमुनिवर्या ब्रह्मणि श्रीनिवासे

गुण मनुपम माहुः तस्य वात्सल्यमेव।

तदनुगमनशीलो लक्ष्मणार्योऽपि भूयो

गुणयति गुणमेनं हन्त गद्येनवद्ये……..॥

३०७. किमितरगुणसन्धैः दोषसङ्घातलङ्घ्यैः

परगुणपरिभूतैः श्रीदयासव्यपेक्षैः।

विजितपरिभूतिर्धिक्कृतश्रीविभूतिः

जयति विनतदोषग्रासकुक्षिम्भरोऽयम्॥

३०८. दोषो यद्यपि संश्रिते भवतियत् तद्भाग्यं एवं सतां

श्लाघ्यञ्चेति रघूद्वह  स्त्वदभिदधे सद्दोषगां भोग्यताम्।

शापञ्चापि भृगो श्चकार जगतीरक्षार्थधर्मोत्तमम्

स्वीकुर्वन्निजभोग्यमेव तदिदं वात्सल्यलीलाकृतम्॥

३०९. मायादूषितपूतनास्तनभवं हेयं पयस्तद् विषम्

सर्वञ्चापि सुरस्यमेव हि पपौ श्रीमानयं वत्सलः।

भूतप्रेतमयं तदङ्गमकरोत्सत्पुण्यगन्धान्वितम्

तस्या मुक्तिमहो! ददौ तदखिलं वात्सल्यलीलाकृतम्॥

३१०. वत्सस्येदन्तु वात्सं सहजमलकुलं लाति लोके च (लोहैश्च) यस्मात्

एषा गौर्वत्सला तत्सहजमनतिगं कर्म वात्सल्यमुक्तम्।

आदानास्वादने यत्स्वसुतमलत ते र्द्धर्मिनाम्नैव सिद्धे

शुद्धं वात्सल्यरूपं तदयमनुभजद्वत्सलो दोषभोग्यः॥

३११. श्रीभक्तिसारमुनयः करुणापालाश्च भट्टनाथाश्च

विनतजनदुरितभोग्यम् ‘वत्सल मेनं जगुश्श्रीशम्॥

३१२. सद्योजातं स्ववत्सं सुमलिनमपि गौ र्धावति स्वावलेहैः……..

तद्दोषान् भक्षयन्ती वपु रतिविमलं शोधय त्येव मीशः।

भक्तान्  सर्वान्  सदोषं प्रणयपरवशो दुर्लभप्राप्यभूतान्

भुङ्क्ते प्रीत्येति चोचुः प्रथितमुनिवरा वत्सलं दोषभोग्यम्॥

३१३. आह श्रीशठकोपसूरि रतुलस्वन्दोषजातं हरेः

गोपीगव्य मिव प्रियं हरिमुखाच्छुत्वा च तद्वारकम्।

दोषत्वेऽपि च पूतनागरळंवद्रस्यञ्च तद्वैभवात्

तस्मा त्संशृतदोषभोगरसिकश्रीमा न्भज द्वत्सलः॥

३१४. ब्रह्मज्ञस्य हि पापजात मखिलं तद्वेषिहिंसाफलं

श्रीमा न्कल्पयतीति वेदपुरुषस्स्पष्टं बभाषे वचः।

भक्तद्वेषिजनो ममैव रिपुरित्यूचे स्वयं केशवः

तस्मा त्संश्रित  दोषभोगरसिक श्श्रीमा न्भजद्वत्सलः॥

३१५. मासान्वै दशराक्षसी रविरतं सन्तर्जयन्तीर्भृशं

संक्रुद्धानिलितोरमाङ्घ्रिशरणस्वीकारवार्तासहाः।

वद्ध्यां भूमिसुता ररक्ष करुणं कार्यं शुभाना मिति

प्रीत्या स्वेषु तथैव भोगरसिकश्श्रीमा न्भजद्वत्सलः॥

३१६. मातर्मैथिलि! राक्षसीस् त्वयि तदैवार्द्रापराधा इति

प्रद्वेषा दनिवर्तिनं शरण मित्युक्तावसूयामपि।

श्रीरक्षासमयेऽपि वक्ति विशदं नक्तञ्चराीणा मिदं

ज्ञात्वाऽपि प्रतिपादयन्ति किमहो! तासांप्रपत्तिं बुधाः॥

पाञ्चाली परिभूति दृष्टि सहनादाभासवन्धुस्पृहा

लौल्याद्धर्मविपर्यया अपतितं पार्थोहि तत्सारधि:

इष्टोऽसि त्वमहो ममेति तनुते तत्त्वोपदेशादिकं

स्मात्संश्रित दोषभोगरसिक: श्रीमान्भजद्वत्सल:

३१७. दिव्यात् स्वसौहार्दगुणात्  सुभव्यादीशेशितव्यादिनयादनन्यात्।

अज्ञातभाग्यान्यततीः प्रवृत्तीर्गृण्हज्हरिः केन न दोषभोग्यः॥

३१८. हित मितिजगद्दृष्ट्या कॢप्तै रकॢप्तफलान्तरै: अमितविहितै ।

रन्यै र्धर्मायितै श्च यदृच्छया परिणतबहुच्छद्मा पद्मासहाय दया स्वयं

प्रदिशति निजाभिप्रेतं सा प्रशाम्यदपत्रपा॥

३१९. अपां पत्युश्शत्रून् सपदि समहास्त्रात् समदहत् तथा काकस्यैकं नयनमिति चित्रं समकरोत्।

रिपूणाञ्चस्मर्ता सपदि यदि वा रावण इति स्वयं केन श्रीमान् नतदुरितभोग्यो न भवति॥

३२०. औत्सुक्यपूर्व मुपहत्य महापराधान्

ज्ञानी प्रसादयितु मिच्छति लोकनाथम्।

आलिङ्ग्य ता न्निरवशेषमलब्धतृप्ति:

ताम्यत्यहो! स खलु संश्रितदोषभोग्य:॥

३२१. दोषे भोगो दोषकृद् वत्सले चेत्

दोषेस्वान्ध्यं नैव वक्तुं हि युक्तम्

दोषे दृष्टेऽप्येव वात्सल्यतोयत्

स्वीकारोऽयं तत्क्षमायाहि काष्ठा॥

खिलं चेतोवृत्तेः किमिदमिति विस्मेपभुवनम्

विभोस्सिह्मक्ष्माभृत्कृतमुखचमत्कारकरणम्।

भरन्यासच्छन्नप्रबलवृजिनप्राभृतभृतां

प्रतिप्रस्थानं तन्मधु रिपुदयाया श्श्रुतिपथे॥

३२२. प्रीतिसम्भन्धबुद्ध्या प्रणय इति बुधौ रुच्यते।

यद्विपाकाद्दोषाभान ञ्च दोषे गुण मतिरथचास्था नभीत्यातिशङ्का।

इत्याहव्याससूरि स्तदखिलजगताम् एकबन्धुस्वशक्ते

ष्वत्यर्थप्रीतियुक्तो हरिरखिलभजद्वत्सलो दोषभोग्यः॥

३२३. दोषे भोगोदोषकृद्वत्सले चेद्दोषेष्वान्‌ध्यंं चापि तस्मिं स्तथैव।

दोषोपेक्षा वत्सलत्वयदि स्यात् क्षान्तिः कावा तर्हि वात्सल्यभिन्ना॥

३२४. दण्डोद्युक्ते सत्यसङ्कल्प (स) युक्ते

दोषोपेक्षा देषकृच्छास्तरि स्यात्।

आन्ध्याद्यञ्चेद् भक्तदोषेणदोषो

भोगो न स्याद् भक्तदोषे न दोषः॥

३२५. यद्यार्याणा न्दोषभोग्यत्वपक्षे यावज्जीवं दोषनिष्ठाप्रसङ्गः।

जागर्त्येवं हन्त! पक्षान्तरेऽपि यावज्जीवं स्वैरचारप्रसङ्गः॥

३२६. शास्त्राधीनव्याहृतौ सावधाने नोचेद् भक्ते स्वैरचारप्रसङ्गः।

स्वार्याधीनव्यापृतौ स्वावधाने न स्यादेवं दोषनिष्ठाप्रसङ्गः॥

३२७. अत्यन्तपरतन्त्राणाम् अपि पुण्येषु बिभ्यताम्।

महतां बुद्धिपूर्वस्य पापारम्भस्य काकथा ! ॥

३२८. अत्तु श्चराचरस्यास्य मृत्युर्यस्योपसेचनम्।

तस्य सद्दोषभोग्यत्वं किंपुन र्न्यायसम्मतम्॥

(भगवद्रामानुजावतार श्रीभूतपुरीवर्णनम्)

३२९. दक्षिणतश्चक्षुर्निक्षिप्य सव्यः सहर्षम् भोभो पश्य तावत्-

संसारदवदहनदन्दह्यमानसकलजीवसञ्जीविनीं ।

शाङ्करदिकुमतिमतोपहितमायामतर्मायातमहायामिनी ती: प्रहरन्तीम्,

श्रीमद्भगवद्रामानुजसूर्योदयसुप्रभातकरीं तापहरीं भूतपुरीं

(उभावञ्जलिं बध्वा)

सेयं भूतपुरीपरीकृतभजत्संसारिपारंपरी-

दूरीभूतसुरीपरीतनगरी श्रीमाधुरी चातुरी।

स्फारक्षीरनदीझरीभरित सत्पद्माकरोद्गारित

त्सारस्वैरविहारजैर्मळमळोत्कारैर्मनोहारिणी॥

३३०. भीतिव्रातहरी सदा प्रियकरी क्षेमङ्करी प्राणिनां

श्रीवैकुण्ठसहोदरी यमपुरीश्रीग्रासकुक्षिम्भरी।

भूतोद्गीतचरी सरीसृपवरक्रीडासु पुण्योदरी

कालेऽस्मिन् वसतां सतां कृतकरी सेऽयं दरीदृश्यते॥

३३१. (अत्रहि)

मन्दस्पन्दसुगन्धिगन्धवहसत्सन्तानपोतोदक-

क्रीडोदञ्चितवीचिकाभर नतिस्यन्दं समान्दोळिताः।

अरूढाः कळहंसारसमहापद्माबली…. डोलिकाजृम्भद्बंभर

गीतिपीतिविवशा नन्दन्ति कान्तानुगाः॥

३३२. उत्तुङ्गं कमलं सदाऽनुकुरुते त्रैविक्रमं विक्रमं

भूमौ पक्वफला नमन्ति कळमाः काशाः चलच्चामराः।
धिक्कुर्वन्ति सुरीमुखेक्षणकरान्  फुल्लोत्पलानां गणा:।

श्लाघन्ते शुकशारिकापिककुला न्यञ्चन्ति कान्तानुगाः॥

३३३. उत्तुङ्गं कमलं सदानुकुरुते त्रैविक्रमं विक्रमं

भूमौ पक्वफला नमन्ति कळमाः काशाः चलच्चामराः।

धिक्कुर्वन्ति सुरीमुखेक्षमकरं फल्लोत्पलानां गणा-

श्लाघन्ते शुकशारिकापिककुला न्यञ्चन्ति सूनैर्लताः॥

३३४. यत्सौघोपरि विस्तृता स्समुदिताः पुन्नागशाखास्वमी

मुग्धा वानरशाबका मुखरिता लीलाविलोलायिताः।

इन्दौ सौधतलभ्रमान्निपतितास्सन्त्यज्य तं सत्वरं

चुम्बंत्यंघ्रितले परस्पर महो शैवान्वयाच्छङ्किताः॥

दानक्षाळितहस्तपादवदना मत्तास्स्वचित्तावशा

यत्रोद्यानतलाञ्चला द्वनगजा स्सङ्ग्राह्य वंशाङ्कुरान्।

पुष्य न्पुष्पमरन्दतुन्दिलझरीनिष्यन्दसंलोलितान्

काङ्क्षन्ते दरवीक्षणं चिरमहो स्थित्वावशा सन्मुखम्॥

३३५. यत्सौधगौ का मरतिप्रदीपौ

जायापती गाढतरोपगूढौ।

मृत्युञ्जयार्द्धाङ्गनतत्व मेकं शैवा स्सकैलासग मानमन्ति॥

(आदिकेशववर्णनम्)

३३६. अत्रहि –

जारश्चोरः कृपणमहितो गोपिकाकच्छलीनो

मिथ्यावादी कुटिलचरितो जातिसाङ्कर्यभूमिः।

दूतस्सूतो युवतिदमनप्राप्तदामोदरास्य……

न्यश्चैद्यस्तव्यो जयति भगवान् केशवो दोषभोग्यः॥

३३७. अमतं मतं मतमथामतं स्तुतं परिनिन्दितं भवति निन्दितं स्तुतम्।

इति यत्तु तत्त्वमुदजुघूष त्त्रयीतदलंविभाति भृश मादिकेशवः॥ (भट्टपराशररस्य श्रीरंगराजस्तवे पाठ🙂

३३८. घण्टाकर्णाचरितमहितः पूतनास्तन्यतृप्तः

काळिन्दिन्या स्सलिलवसतिः काळियव्याळनाट्यः।

रुद्रावासीकृतनिजतनुर्भोगिभोगे शयानो

निद्रासक्तः खलु विजयते केशवो दोषभोग्यः॥

भगवद्रामानुजस्तुति:

३३९. वाणी दृगायतपुराणी भवत्फणितिवेणीविधानचतुरः।
काणीभव त्कुमतिवाणीविभेदनकृपाणीभवत्स्ववचनः।

क्षोणीश्वर श्शशविषाणी भवत्कलुषगौणीकसूक्तिय

कोणी भवत्प्रणववाणीभवत्पुरुषतूणीरपद् विजयताम्॥

३४०. उभावाबद्धाञ्जलिमस्तकौ सहर्षरोमाञ्चम् –

नमः परमयोगिने परमभोगसम्भोगिने नमः

परमभोगिने निखिलहेयसन्त्यागिने।

नमो निगमधारया निखिलसंशयच्छेदिने

नमो निखिलवेदिने निहतसर्वदुर्वादिने॥

३४१. आदावनन्तमुखभेदातिधीरतरपादापनीतसुगतो

वेदान्तवाक्सततिमोदान्तकृत् कुमतिवादान्धकारमिहिरः।

पादाब्जसन्नतविनोदावाहद्रविडवेदार्द्रसूक्तिमधुरो

भेदादिसूरिजनखेदापहो जयतु मोदायनो यतिपतिः॥

३४२. श्रीमा नन्तगुणभूमानुगामिगुरुधीमानिताङ्घ्रियुगळो

वामाळकाञ्चित सुदामाभिरामसुम भूमा।

कामार्चनाद्धहरिकामारमात्रिविधरामानुगामिगमनो म ।

नामाक्षराभिहकामादिको जयतु रामानुजो मुनिवरः॥

(भूतपुरी श्रीवैष्णव वर्णनम्)

३४३. विदितसकलविद्या श्रीप्रियख्यातिहृद्या

विहितजगदवद्या वेदमार्गेष्वभेद्याः।

अविरतमनवद्या योगिराट्पारिषद्या

महितगुणनिषद्या भान्त्यनुद्ध्यात तगद्याः॥

३४४. मननमथितमन्त्रा मन्त्रराजैकतन्त्रा

विदितहरिततन्त्रा स्सर्वतन्त्रस्वतन्त्राः।

विधृतविविधयन्त्रा विश्वरक्षासुमन्त्रा-

यतिपतिपरतन्त्रा भान्ति सच्छ्रीकतन्त्राः॥

३४५. यतिपतिचरणाञ्चत्पादुरत्नत्रिदण्ड-

प्रियतमपदराजद्भागिनेयार्यवंश्यैः।

यतिपतिपरिचर्या सत्सपर्यासुनीता

यतिपतिमुनिवर्या भान्ति कार्येषु धुर्याः॥

३४६. एकन्तु केशवममी द्विविधं द्वयेन

त्रेधा रहस्त्रयवशात्तु युगैश्चतुर्धा।

तं पञ्चधा च वपुषा गुणतश्च षोढा

तत्क्रीडितैरनुभवन्ति सहस्रधा च॥

३४७. (सव्यः) पश्य तावदमीषाम् ऐकात्म्यम् –

न गाहन्ते गङ्गामपि नटजटासार इति ये

न मज्जन्त्यम्भोधौ लवणरसवेशन्तक इति।

न गव्यान्यश्नन्ति क्वचिदपि शकृत्सार इति ये

सदैधन्ते पूर्णायति नृपतिसेवैकनिरताः॥

(विश्वगुणदरशे)

३४८. (दक्षिणः)

न गाहन्तां गङ्गां स्मरहरजटाकश्मलजलां

न मज्जन्त्वम्भोधौ घटमुनि पमूत्राम्बुभरिते।

न गव्यान्यश्नन्तु क्वचिदपि शकृत्सार इति वा

पिबन्त्येषां दोषानहह गणयन्तो रिपुगणाः॥

३४९. सा तुङ्गेति न तुङ्गजीवनवती सेतुर्नहेतुर्गतौ

भद्रानापि समुद्र इत्यधिगतो मुद्रां समुद्रेकिणाम्।

किञ्चोदञ्चति पञ्चगव्यमितिवा नैवाञ्चितै स्सञ्चितं

श्लाघन्ते विविधा बुधाः किमपि सत्सम्बन्धगन्धान्वितम्॥

३५०. साकाशीतिनचाकशीति भुवि सा योद्ध्येति नाध्यास्यते

सावन्तीति नकल्मषा दवति सा काञ्चीति नोदञ्चति।

धत्ते सामधुरेति नोक्तमधुरं मान्यापि नान्यापुरी

यावैकुण्ठकथासुधारसभुजां रोचेत नो चेतसे॥(संकल्पसूर्योदये)

(रहस्यत्रयसारे)

३५१. जातश्चेत् स्वविवादवृत्त्युपरमो हार्देन सर्वात्मना-

मागङ्गामपि मा कुरून् गम इति ब्रूते मनुस्तत्ववित् ।

कृष्णानुस्मरणं पराशरमुनि स्संस्कारसत्यावनं….

बाह्याभ्यन्तरशौच माहु रपरे पद्माक्षपादस्मृतिम्॥

३५२. श्रीमान् हस्तिगिरीश्वर स्सुमहतां ब्रूते परं पावनं

श्रीमद्भाष्यकृतां प्रदक्षिणमहो दण्डप्रणामान्वितम्।

नित्यं तं भजतां सतां तु दुरितं व्योमारविन्दायितं

तत् कोवा निपुणो भवेद्गणयितुं वन्ध्यातनूजेतरः॥

३५३. वेदात्मा विहगेश्वरोपि मनसा श्रीशाण्डिलीं न्यञ्चयन्

श्रीरामानुजपादपङ्कज नते पद्मेशजीवायिते।

कोवा वाच मुदञ्चयन् दुरितगां जीवेदिहामुत्र वा॥

३५४. श्रीयोगीन्द्रगुणाब्धिमग्नमनस स्तत्सूक्तिगङ्गाझरी

सेवानित्यरताः पिबन्त्यनुदिनं तत्तीर्थगव्यं हि ये।

तेषां शुष्कतृणायते सुरगणाः पुण्यन्तु पापायते

स्वर्गोद्यंनिरयायते जडधियां निन्दा प्रशंसायते॥

३५५. एकयैव गुरोर्दृष्ट्या द्वाभ्यां वाऽपि लभेत यत्।

न तत् तिसृभि रष्टाभिस्सहस्रेणापि कस्य चित्॥(सुभाषितनीव्यादिषु)

३५६. शुद्धाचारतपोवनैकनियतः प्रज्ञानशैलाश्रयः

पद्माकान्तपदस्पृहा सुरनदीनित्याभिषेकोज्वल:।

अध्यात्मश्रुतिचिन्तनेन तपसा निर्धूतदोषः पुमान्

कस्मै कुत्र गमिष्यति स्थिति मिमां कस्मै च निर्देष्यति॥

३५७. अपिच –

सद्यस् सम्पतिते निजे गरुति स प्रापातिदीनां दशाम् ।

गङ्गासेतुं…….सरस्वती रविसुता गोदावरी….नर्मदा

तुङ्गाशोणमरुद्धृता प्रभृतिभि स्तीर्थै रलं प्रार्थितैः।

नित्यासन्नमशेषपापशमनं निश्रेयसप्रापकं

ग्रीष्मे शीतमिवहृदं बहुगुणं ब्रह्मप्रविष्टा अमी॥

तीर्थध्वेत्रयात्राविषय:

३५८. शृणु तावदमीषां माहात्म्यम् –

नह्यम्मयानि तीर्थानि न देवा मृच्छिलामया:।

ते पुन न्त्युरुकालेन दर्शनादेव साधवः॥

३५९. न शुद्ध्यते तथा जन्तु स्तीर्थवारिशतै रपि।

लीलयैव यथाभूप वैष्णवा नांहि वीक्षणैः॥

३६०. भवद्विथा भगवता स्तीर्थभूतामहामुने।

तीर्थीकुर्वन्ति तीर्थानि स्वान्तस्थेन गदाभृता॥

निगृतेन्दि यग्रामो यत्रयत्र वसेन्नरः।

तत्र तत्र कुरुक्षेत्रं नैमिशापुष्करं तथा॥

३६१. तत्पादाम्बु तुलन्तीर्थं तदुच्छिष्टं सुपावनं।

तदुक्तिमात्र मन्त्राग्रं तत्स्पृष्ट मखिलं शुचि॥ (आगमे स्मृता च)

३६२. समस्तसम्पत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः।

अपारससंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः॥

आपद्धनध्वान्त सहस्रभावन: समीहितार्थार्वणकमधेनव:।

समस्ततीर्थाम्बु पवित्रभूतयो रक्षन्तु मां वैष्णवपादपांसव:॥

ज्ञानसमकालमुक्त: कैवल्यं याति गतशोकः।

तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम्॥

तुलसीकाननं यत्र यत्र पद्मवनानि च।

वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः॥

यत्र नारायणो देवः परमात्मा सनातनः।

तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम्॥

देवा देवर्षयस् सिद्धा:सर्वेचैव तपोधना:।

तत् तीर्थमधिकं विद्धि सर्वपापप्रणाशनम्॥

निमिषं निमिषार्धम् वा यत्र तिष्ठति वैष्णव:।

तददेशं मंगलंपुण्यं तत् तीर्थम् तत् तपोवनम्॥

निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम्।

अनुव्रजाम्यहं नित्यं पूजये त्यङ्घ्रिरेणुभिः॥

सत्कर्मनिरताश्शुद्धा सांख्ययोगविदस्तथा ।

नार्हन्ति शरणस्थस्य कलां कोटितमीमपि इत्यादि॥(आगमेषु)

इत्थं स्वेनैवपूतां किमन्यैः पावनान्तरैः।

तीर्थोदकञ्च वह्निश्च नान्यतः शुद्धिमर्हतः॥

गङ्गां शङ्करसङ्गपङ्किलजलां सन्त्यज्य शुद्धात्मनां

श्रीमान् यादवभूधराग्रिमतटे वैकुण्ठगङ्गानदीम्।

इत्थं सत्सु दधे प्रसिद्धदुरितव्रातस्य का वा कथा

मुग्धाः केचन शुद्धसत्वचरितान्  निन्दन्ति निन्दन्तुते॥

(दिव्यदेशनियतवास:)

श्रीरङ्गं वृषभाचलं करिगिरिं श्रीमद्यदुक्ष्माधरम्

साकेतं मधुरां च यान्तु च हरिक्षेत्रं बदर्याश्रमम्।

अन्तस्सम्भृतसंवृतं त्ववभृथादादेहपातोदयात्

एकत्रैव वसन्तु वा क्वचिदमी यत्रैकतानम्मन:॥(संकल्पसूर्योदये?)

स्वयं यत्र क्षेत्रे विपिनविषये वा विधिवशात्

प्रशस्ते दुष्टे वा क्वचन विषये त्यक्तवपुषः।

विमुक्तस्त्रय्यन्तप्रथितमहिमा सोऽयमनघान्

प्रपन्नानुद्धृत्य स्वपदमनपायं गमयति॥

यावद्देह मिहैवमास्स्व सुसुखं देशे ममेति स्वयं

श्रीमान् शास्ति हि योगिराज मपदिश्यात्मीयपादाश्रितान्।

धृत्वा तच्छिरसा तु शासन ममी तीर्थादियात्रात्यजः

कान्ताधीनसतीनयात् सुनियतास्तिष्ठन्ति तत्सन्निधौ॥

दिव्यदेशान् परित्यज्य सदुष्टैरन्यथाकृतान्।

श्रीमद्भूतपुरीम् प्राप्य वसन्ते हरितान्वया:॥

प्रसङ्गाद् वरवरमुनिमेवाभिध्यायन् सव्येन सहितो दक्षिणः –

अहो श्रीरंगधामनियतवासीवरवरमुनि:!

अङ्के कवेरकन्यायाः तुङ्गे भुवनमङ्गळे।

रङ्गे धाम्नि सुखासीनं वन्दे वरवरम्मुनिम्॥

इति प्रणमति –

(ग्रन्थोपसम्हार:)

कर(कृतमपराध गतस्य दोष) स्सम्भवेदेव भूम्ना

निखिल मपि सखाय स्सम्परित्यज्य दोषम्।

मधुरसधनगर्भै र्मिश्रितादि क्षुदण्डा द्रसमिव।

परिखादन्त्येतु ते सारवन्तः॥

इति सद्दर्शनसुदर्शनं समाप्तम्

श्रीनिवासमहागुरवे नमः

श्रिय:श्रिया दर्शतसर्वलोक: प्रवाळमालाविभवोरमाया:

यद्वद्रिनाथात् श्रुरगद्यसूक्ति: महागुरुर्मेऽनिशमाविरस्तु॥

 

॥श्री:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.