चतुर्थोऽङ्कः
कामादि व्यूह भेदनम्
(ततः प्रविशति कामो वसन्तश्च)
कामः – सखे वसन्त!
इक्षुः पेशलमीदृशम् मम धनुः पुष्पाण्यमी सायकाः
तन्त्रीमञ्जुलनिस्वना मधुकरश्रेणी शुभा शिञ्जिनी ।
भीरुः सन्नबलाजनो मम बलम् तथ्यम् परम् कथ्यते
सोऽहम् निर्जितशूलभृत्प्रभृतिकः सङ्कल्पसिद्धोदयः ॥ १ ॥
अपि च,
त्वयि सम्भृतशस्त्रास्त्रे सहाये मम सम्स्थिते ।
महता पश्य मोहेन विश्वमेकातपत्रितम् ॥ २ ॥
वसन्तः – किमुच्यते? कामः खल्वसि ।
कामम् कामम् कामपि सिद्धिम् करणैः स्वैः कारम् कारम् कर्म निषिद्धम् विहितम् वा ।
न्यस्यन्ति त्वय्यद्भुतसीम्नि प्रतिबुद्धाः कामोऽकार्षीन्मन्युरकार्षीदिति नाम ॥ ३ ॥
अपि च,
विषमनयनमुख्यैर्विक्रमक्रीडितम् ते सुरपतिभवनानि स्वैरसञ्चारभूमिः ।
उदधिवलयितेयम् क्षोणिरुद्यानसीमा कथमिव मदन त्वम् वर्ण्यसे कान्तिसिन्धुः ॥ ४ ॥
कामः – सखे! सर्वलोकविदितमात्मनोऽपि वैभवमनुचिन्तय । यदेतत्,
प्रख्यातस्त्वयि सम्भवः सुमनसाम् विश्वम् त्वया नन्द्यते
मुख्यस्त्वम् किल षड्विधेषु ऋतुषु ज्योतिस्त्वदेकाश्रयम् ।
यत्र श्रीर्धृतपङ्कजा स च परस्त्वत्सम्श्रयो माधवः
कामस्ते सचिवः क एव भविता कालोत्तमस्त्वत्समः ॥ ५ ॥
अपि च,
वसन्तस्त्वम् वह्निर्मलयपवनः सारथिरसौ
अशोकादिर्ज्वाला मधुकरगणो धूमपटली ।
सुधासूतिः स्नेहस्तदिह जितनिर्वाणवचसो
विरक्तिस्ते दाह्यम् द्रहिणगिरिशादेरपि सतः ॥ ६ ॥
वसन्तः – महावीर मकरकेतन! मादृशामतिशयस्त्वदर्थ एव । यथा,
ऋतवो हि मत्प्रधानास्तवैव नानास्त्रशिल्पिनः सृष्टाः ।
विजयसमयम् शशाङ्को विश्रमकालम् व्यनक्ति दिवसेशः ॥ ७ ॥
कामः – आस्तामयमन्योन्यप्रशम्सनविस्तरः । अवधातव्यम् राजकृत्ये ।
वसन्तः – यदुच्यते वयस्येन । तदिह समानभावयोः समाधिप्रवणपुरुषचेतःक्षोभणे शृङ्गारोद्दीपनविभावकृत्यम् मय्यायत्तम्, भवता पुनरालम्बनविभावसम्पत्तिरुपपादनीया ।
कामः – सुहृत्सम्मतमहमिदानीमाचरामि । अयम् खल्वपरिचितशुभाश्रयधारणाभिलाषी पुरुषश्चिरपरिचितसुखालम्बने खुखेन सम्मुखयितुम् शक्यते । अस्ति हि देवासुरसिद्धगन्धर्व(विद्याधर)किन्नरकिम् पुरुषमानुषादि सर्वपुरुषचक्षुःप्रत्यक्षम् स्वतः पुरुषार्थभूतम् सुलोचनाभिधानम् ब्रह्म । न चैतदनुपपन्नम् ।
परमानन्ददायिन्यः प्रजानाम् सृष्टिहेतवः ।
ब्रह्मलक्षणशालिन्यो न कथम् ब्रह्म योषितः ॥ ८ ॥
वसन्तः – सखे! त्रय्यन्तसम्मतश्च त्वदभिमतोऽयमर्थः । स्त्रियो ब्रह्मेति हि प्रथममामनन्ति । उत वा पुमानिति तु वैभवोक्तिः । अपि च,
अलसललितमन्दम् स्पन्दनम् लोचनानामकृतकरमणीया वृत्तयो विभ्रमाणाम् ।
अपि तरुणवधूनामाहरेयुर्मुनीन्द्रान् शतमपि च विधूय ब्रह्मणाम् शाश्वतानाम् ॥ ९ ॥
कामः – (सहर्षम्) सखे वसन्त! अवितथमेवैतदभिलप्यते । ततश्च,
अयमप्सरसाम् गणः प्रनृत्यन्विशिखासारविकल्प्यमानदृष्टिः ।
अभिगच्छतु मङ्क्षु मत्प्रयुक्तः पुरुषम् काङ्क्षितपुण्यहीनयोगम् ॥ १० ॥
वसन्तः – वयस्य पुष्पधन्वन्! त्वदादेशवर्तिनीषु मत्तकाशिनीषु सिद्धम् नः समीहितम् । अद्य हि,
स्वादुगीतामधुमोहितश्रुतेश्चारुनृत्तवशवर्तिचक्षुषः ।
भावभेदभृतकीकृतात्मनो योगिनस्त्यजति यौवतम् न धीः ॥ ११ ॥
कामः – (विचिन्त्य, सरोषहासम् ।)
यदि मामवमत्य सम्यतेत व्यवसायान्वयदर्पितो विवेकः ।
वनिताशतवञ्चितस्य पुम्सः स्वयमाधास्यति सौभरेरवस्थाम् ॥ १२ ॥
वसन्तः – भद्र! किमत्राद्भुतम्? विश्वविदितम् हि भवतो वीरायितम् ।
विकस्वरसुरद्रमप्रसवशस्त्रमाध्वीमद
भ्रमद्भ्रमरसुन्दरीनिकरसम्भृतज्याभृतः ।
प्रहृष्टपरभृत्प्रियापणववेणुवीणादिभिः
क्वणद्भिरुपघुष्यते कुसुमधन्वनो विक्रमः ॥ १३ ॥
तदिह लघुव्यापारलभ्ये वस्तुनि न त्वया त्वरितेन प्रयतितव्यम् । आकर्ण्यतामिदिमवितथम् सुहृद्वाक्यम् –
मा भूदमोघविशिखम् नमितम् धनुस्ते मौर्वी च मा भवतु पुङ्खितचित्रपुङ्खा ।
मद्दर्शितैरपि सखे बिभियाद्विवेकः शाखानिषङ्गनिहितैः शतशस्त्वदस्त्रैः ॥ १४ ॥
कामः – महति प्रतिपक्षे मैवम् मन्दोत्साहेन भवितव्यम् । दृश्यते हि,
मितप्रद्योतनिष्पाद्ये तमसामपसारणे ।
सहस्रेण करैः सार्धमुदेति दिवसेश्वरः ॥ १५ ॥
अपि च,
तिष्ठतु सङ्ग्रामकथा द्यूते पुरुषस्य वादमात्रे वा ।
भवति परिभूतिलेशे कति कति विपदो निदर्शिताः कविभिः ॥ १६ ॥
वसन्तः – किमित्येवमात्मप्रभावमवमत्य परावरविश्वपरिभाविनस्ते कुतश्चित्परिभूतिलेशमाशङ्कसे? न खलु शलभाः सहस्रमपि सहस्रकिरणमभिभवन्ति । अद्य हि,
विपुलसुषुमापत्तौ नृत्यद्विहारतुरङ्गमे
मधुमदसमारम्भस्तम्बेरमस्थगितान्तरे ।
रतिरसरथोत्सेधे कश्चिद्विधित्सितसम्यमः
क्वचन भवतः स्कन्धावारे न जीवति जीवति ॥ १७ ॥
न चेदानीम् पुरुषः समाधिसौधमधिरूढः, यतस्ते तस्मिन्मनोरथप्रतिहतिशङ्का । दृश्यते हि,
स्मरति महतामातङ्कानाम् मनस्कुरुते गृहान्
प्रसजति परब्रह्मप्राप्तौ समृद्धिमपेक्षते ।
अभिनिविशते भोगोदन्वत्यपत्रपते पुनः
प्रणिधिरधुना सिद्धापायः सितासितपद्धतिः ॥ १८ ॥
कामः – तदिह सौप्तिकावसरः सन्दर्शितः प्रियसखेन । तथा हि,
सोऽयमसमग्रयोगे पुरुषे सर्वास्त्रमोक्षसमयो मे ।
रथवैगुण्यविलक्षे राधेये फल्गुनस्येव ॥ १९ ॥
वसन्तः – भवतु नामैवम् भवतः समीची समीहितसिद्धिः ।
विरक्तिकपटक्रमाद्वृजिनकोटिभिर्दुर्दमे परप्रणिधिकर्दमे पतितुमेकतानः पुमान् ।
त्वदस्त्रगणताडनत्रुटितगर्वनिर्वेदवान्भवप्रभृतिसेवितम् भजतु भोगवर्गम् पुनः ॥ २० ॥
अपि च,
मलयपवनज्योत्स्नामल्लीमधुव्रतकूजित-
प्रभृतिविजयस्कन्धावारप्रधानपताकया ।
हसितलपितक्रीडाचित्रैरनुज्झदभिख्यया
युवतिकथया योगी सन्नप्यसङ्गमुपैति कः ॥ २१ ॥
कामः – सखे! सर्वधा नूनमविचक्षणो विवेकः । यत्सागरतरणगगनातिलङ्घनमरीचिकाचर्वणमहीतलमज्जनादिवदशक्यमेव समाधिलाभमाधिव्याधिशालिनः पुरुषस्य बालिश इव साधयितुमीहते । अपि च,
पुरुषमजहद्भोगश्रद्धापुरस्कृतसम्भ्रमम् विषयमदिरास्वादक्षीबम् विमोचयितुम् स्थितः ।
अमृतमिलितद्राक्षावल्लीफलद्रवसम्पदाममरतरुणीबिब्बोकानामवैति न वैभवम् ॥ २२ ॥
दृश्यताम् पुनरियमुभयतःस्पाशा रज्जुः ।
विवेकावष्टभ्भादुपजनितवैराग्यविभवो यदि क्रुध्येन्मह्यम् भवति न कथम् क्रोधविजितः ।
अथ त्यक्तक्रोधो यदि कथमपक्रामयतु माम् मुधा कामक्रोधप्रशमनकथा मूढमनसाम् ॥ २३ ॥
(ततः प्रविशति विकृतवेषः क्रोधः)
क्रोधः – (ससम्भ्रममुपसृत्य।) स्वस्ति सुहृदे स्वैरसञ्चारविजितविवेकविभवाय कुसुमधन्वने । कः खल्वसौ विवेकवशवर्ती कामक्रोधप्रशमनकथावृथाजल्पमुपकल्पयति?
(विकटम् परिक्रम्य साट्टहासम्)
अयमहमुद्भटप्रथनचारभटारभटी नटपतिरुत्थितः कथमुदेतु विवेककथा ।
यदनुविधायिदैत्यभयसञ्ज्यरितासु मुधा सुरसुभटीपयोधरतटीषु पटीररसः ॥ २४ ॥
कामः – स्वागतम् प्रियसुहृदे मत्प्रतिपक्षनियतमन्यवे मन्यवे महारथाय । समागतोऽसि च स्वामिकार्यनिर्वहणसमयमनुचिन्त्य मत्साहायकमनोरथेन । वर्तयसि च स्ववशे वशिनोऽपि महेश्वरादीन् । अहो जितम् महाराजेन । किम् च,
मुधारम्भे डम्भे मयि च मदने मुक्तकदने मितोत्साहे मोहे वृजिनगहने व्याप्तदहने ।
अवज्ञालेशाद्यैरपि खलु भवानिन्धनशतैः प्रदीप्तः प्रत्यञ्चम् प्रणिधिमुपरोद्धुम् प्रभवति ॥ २५ ॥
वसन्तः – नन्वसौ पवनपावकसमागमः, यदुत कामस्य तव च सङ्गतम् । तदिह किमिति सामग्रीसम्भवे साध्यसम्पत्तावुदास्यते? अनुसरति खलूत्साहमभिलषितसिद्धिः । एतदेव चेदानीमात्मसम्भवेन प्रियसुहृदा पुनः पुनरभिहितमभिमतप्रतिलम्भनमनुपश्यामि । यदुत,
रतिपतिवारयोषिदनुपालितरत्नलतास्तबकविलोभनीयललितस्तनभारनताः ।
अमरमृगेक्षणाः परिचरन्तु विरक्तिधनम् मदनधनुर्गुणभ्रमरमन्थरतारदृशः ॥ २६ ॥
कामः – सखे! कालोचितकार्यप्रतिसन्धायकः खलु कालतल्लजो वसन्तः । तदेनमेव विबुधपतिनगरवेशनारीपुरःसरनासीरयोधमहमधिज्यधनुरनुव्रजामि । त्वमपि परितः परिवृत्तदृष्टिः पार्ष्णिमभिरक्षन्सावधानमन्वीयेथाः ।
[सर्वे तथाऽनुसर्पन्ति ।]
वसन्तः – श्रूयतामयमिह महामोहसमर(सैनिक) धुरन्धराभ्याम् मन्मथप्रतिघाभ्याम् मामको व्याहारः । अयमेवावसरः सम्यमारम्भम् सौप्तिकेन सम्स्थापयितुम्, यत्र समुत्थितम् चतुरुदधिबृम्हणम् चान्द्रमसम् महः । अद्य खलु पुरतः सरन्त्यमी मुग्धयुवति मुखचन्द्र किङ्करस्य कुमुदिनीपतेरुदयवार्ताहराः कतिचन किरणाङ्कुराः । अमी च,
तिमिमुखपीतमुक्तसितसागरपूरनिभाः रजनिविलासहासललिता हरिणाङ्ककराः ।
शुभघनसारमिश्रहरिचन्दनपङ्करुचः स्फुटमनुलेपयन्ति पुरुहूतदिशासुदृशम् ॥ २७ ॥
अपि च,
प्रथमस्य कान्तिमद्रेः पश्यतमेतेन भाविताम् शशिना ।
मदजलकलङ्कभाजा करटिन इव कर्णशङ्खेन ॥ २८ ॥
क्रोधः – सखे शम्बरासुरसूदन! सूनृतवादी सोऽयम् सुरभिः । अद्य हि,
हरेरिह दिगन्तरे हसितदुग्धसिन्धुद्युतिः
श्रियम् कुमुदवासिनीम् प्रजनयत्यसौ चन्द्रिका ।
मनागिव विवर्तितम् मधुरतारकोन्मीलने
निशामय निशामुखे तिमिरकन्दलम् कुन्तलम् ॥ २९ ॥
कामः – सम्भावनीयः खल्वसौ बहुलतरतमः पटलपाटनपटीयस्तरकिरणः समाक्रान्तपशुपतिजटामण्डलः सखा मे तारकेश्वरः । अयम् च,
कुर्वन् कामपि कौमुदीम् कुमुदिनीसम्मोददानव्रती
सान्द्रातङ्करथाङ्गनामतरुणीसन्तापचिन्तामणिः ।
शृङ्गारागमदेशिकस्त्रिजगतामानन्दनाडिन्धमो
रुन्धे सर्वदिशाम् निरन्तरतमस्तन्द्रालुताम् चन्द्रमाः ॥ ३० ॥
अपि च;
पदे विष्णोरेषा प्रभवमधिगम्य प्रसृमरा
स्फुरत्ताराफेनस्तबकपरिपाटीपरिगता ।
क्षरन्ती पूर्वाद्रेरमरतटिनीसम्प्लवसखी
तमिस्राकालिन्दीम् शबलयति चन्द्राम्शुपटली ॥ ३१ ॥
सखे क्रोध! पश्य मे सहायसम्पत्तिम् ।
ताराकान्तः प्रियसुहृदय चन्द्रिकेयम् वयस्या
बाणारम्भाद्बहुमतिपदम् बान्धवो मे वसन्तः ।
त्वम् च त्राता विपदुपगमे क्रोध! दुर्वारवेगः
को वा मह्यम् कुसुमधनुषे तिष्ठते जीवितार्थी ॥ ३२ ॥
क्रोधः – सखे! अनुकूलो हि विधिः किम् नाम नानुकूलयति? अपि च,
विजेतुकामः कामम् त्वाम् निष्काम इति का कथा ।
त्वन्निवर्तननिष्कामः सकामस्त्वय्यनुज्झिते ॥ ३३ ॥
कामः – अलमनेन विलम्बहेतुना व्याक्षेपेण । उपक्रान्तसमाधिरस्माभिरुपसर्पणीयः पुरुषः ।
(सर्वे तथा कुर्वन्ति)
वसन्तः – पश्यतमेनम् परमपुरुषचरणयुगलनिगलिताशयम् परिहृतबहिर्विषयरागम् प्रतिपन्नकारिणा विवेकेन प्रचोदितम् प्रक्रान्तयोगम् पुरुषम् । अयम् हि,
भयस्थानग्रन्थान् परिपठति निद्राति च मुहुः
स्वमात्मानम् पश्यत्युपचरति देहम् च विधिना ।
निवृत्तिम् दुःखाब्धेरभिलषति रज्यत्यपि सखे
द्विधावृत्त्या दुःख्यन् पुरुष इह दोलायत इव ॥ ३४ ॥
कामः – सखे क्रोध! अद्य खलु सङ्क्षोभणीयदशामनतिक्रान्त इति समर्थितम् वसन्तेन । दूरावधूतबाह्यान्तरवैरिभिरपि दुर्जयास्मत्सहायिनी अनादिसन्ततिविचित्रप्ररोहा वैषयिकी वासना ।
भवत्वतिपतिष्यतो भवपयोधिमेकान्ततो
रतिः सह मुमुक्षया ललितभाषितम् योगिभिः ।
तदप्यवसरे क्वचित् सपदि पार्ष्णिमालम्बते
ममत्वशतवासनारचितवारवाणम् मनः ॥ ३५ ॥
वसन्तः – इदमप्यपरमवधारणीयमरातिजनभयङ्कराभ्याम् भवद्भ्याम् । सर्वसङ्गनिवृत्तस्यापि सम्मानागतिः समाधिपरिपन्थिनी । अत एव खल्वनुचिन्तितहिरण्यगर्भवचसः सम्वर्तभरतविदुरादयो दुरितोच्छेदकारणम् जनावमानमिच्छन्तः उन्मत्तचर्यामभ्यनैषुः । तदिदानीम् यावदयमवमानापेक्षामाददीत, ततः पूर्वमेव सम्मान भङ्गादिकम् द्वारीकृत्य प्रसभम् क्षेत्रज्ञे प्रवेष्टव्यम् क्रोधेन । अथवा,
शृणोति कथयत्यसौ परिचिनोति सम्पृच्छते
समर्चयति गायति स्पृशति पश्यति स्तौति च ।
इतीव नियतादरो मुरभिदङ्घ्रिसेवारसे
न भेत्तुमिह शक्यते स्थिरविवेकदुर्गस्थितः ॥ ३६ ॥
अपि च,
वितथपरिग्रहत्यजननिर्वृतबुद्धिरसौ
तदितरसङ्ग्रहेऽपि विधिनैव परम् नियतः ।
उपनतमप्यधर्म्यमुपभोगमपोह्य भजत्
यजगरवृत्तिमात्रमवधीरितभूतहतिः ॥ ३७॥
कामः – (सविलक्षस्मितम्) सखे! नूनमप्रगल्भ इव सङ्ग्रामसमये साध्वसमवलम्बसे । कालोपपन्नम् तु कार्यम् न प्रतिसन्धत्से ।
ऋतुश्रेष्ठस्त्वम् नः सुहृत् अमितभोगार्हविभवः
स्वयम् कामः सोऽहम् सुरनरतिरश्चः स्ववशयन् ।
अयम् क्रोधः क्रूरप्रकृतिरसहन् अस्मदहितम्
त्रिभिः कार्यम् द्रौणिप्रभृतिविहितम् सौप्तिकमिह ॥ ३८ ॥
वसन्तः – सखे! प्रतिसम्हितकार्य एवाहमस्मि । अवस्कन्दसमयमतिक्रामति पुरुषे कथमस्माभिरमोघवृत्तिभिर्भवितव्यमिति तु विमृशामि । पाटच्चरलुण्ठितेषु भवनेषु जाग्रतोऽपि यामिकाः किमुपकरिष्यन्ति? अयम् हि,
प्रचेतुमनघाम् वृत्तिमपचेतुमपाक्रियाम् ।
भजते विश्वकर्तारम् भिषज्यन्तमिवातुरः ॥ ३९ ॥
क्रोधः – (ससम्रम्भम्) श्रोतव्यमेतत्सुरभिणा सुहृदा च कामेन मामकम् मनीषितनिष्पादनकौशलम् । यदुत,
जमदग्निमुखान् परित्यजन् परिगृह्णन् दशकन्धरादिकान् ।
विनिपातितवान् उपायतः पुरुषानद्भुतपौरुषानहम् ॥ ४० ॥
वसन्तः – प्रख्यात मे व भवतश्चातुर्यम् । तथाऽप्यत्यन्तवीतरागे क इव तवावकाशः?
क्रोधः – (हाहाकारमाम्रेडयन्) अस्त्येव सम्मतोऽत्राप्यवकाशः । यथा,
पुम्सस्त्यक्तपरिग्रहस्य विषयग्राहोज्झितस्याप्यहम्
कन्थाविष्टरकुण्डिकादिहरणप्रच्छादनाद्याश्रयः ।
अन्तःक्षोभमलीकजल्पमसदारोपस्पृहाम् पैशुनम्
सम्मोहादि च सम्मुखय्य सहसा दास्ये समाधिक्षयम् ॥ ४१ ॥
किम् च, महेश्वरप्रमुखमहापुरुषचित्तविक्षोभकस्य मे समाहितहृदयसमारम्भविघटने किमत्राश्चर्यम्? यतः,
बिभर्तु विबुधेश्वरम् क्षिपतु दानवानीकिनीम् भिनत्तु कुलपर्वतान् वनशतानि मृद्नातु वा ।
अयत्नविधृतक्षितिस्तबकशेखरालङ्कृतः किमद्भुतपदम् भवत्ययममीभिरैरावतः ॥ ४२ ॥
कामः – सखे पुष्पाकर! क्रोधोदीरितमप्यवितथमवधारणीयम् ।
निद्रामुग्धिनिमीलितेष्वसुलभम् निर्धूतनिम्नोन्नतम्
निद्राणाखिलवर्णभेदनियमम् विष्वक्प्रवृत्तोदयम् ।
कः क्रोधोद्भवमुत्सहेत तरितुम् कल्पान्तकादम्बिनी-
कालोद्वेलकलिन्दशैलतनयाकल्लोलकालम् तमः ॥ ४३ ॥
अपि च,
वाल्मीकिप्रभृतिभिर्महर्षिभिरप्युद्घोषितम् मामकमपि महिमानम् मावमम्स्थाः । अहह!
विराधकरिकेसरी विशिखवह्निदग्धार्णवः
प्रभूतखरदूषणप्रभृतिनैर्ऋतव्यूहजित् ।
विलूनदशकन्धरो मृदितकुम्भकर्णस्तदा
मदस्त्रजनिते स्थितः क्वचन लाघवे राघवः ॥ ४४ ॥
वसन्तः – काम! साधु कृतम् भवता ।
कामः – वयस्य! आत्मानम् बहुमन्येथाः । त्वदायत्तवृत्तिना खलु मया सर्वमेतदाचरितम् ।
वसन्तः – हन्त मकरध्वज! महाधीराणामपि भवति वैक्लब्यम् भवत्प्रभावेण, यदुन्मत्तदशामप्यधिगच्छन्ति । अथवा,
रागोपलिप्तदृष्टिः प्रलपति मुह्यति विघूर्णते स्खलति ।
युवतिमदिरामदान्धो युक्तायुक्तम् न जानाति ॥ ४५ ॥
(विचिन्त्य) यद्यपि दुर्जयौ युवाम् कामक्रोधौ, तथापि किञ्चिन्मनसि मे विपरिवर्तते । सहायभूयस्त्वम् सर्वेष्वपि कार्येष्वयत्नसिद्धिकारणम् । (पदशब्दम् सूचयन्)
धर्मध्वसधुरन्धरः शमदमप्रारम्भसर्वङ्कषः
प्रज्ञावारिधिघस्मरः प्रणिदधत्प्रत्यूहमृत्युञ्जयः ।
मुक्तिप्रार्थनमोचनाय महता मोहेन सम्प्रेषितः
तृष्णावारविलासिनीसहचरो लोभः किलोदीयते ॥ ४६ ॥
(कामक्रोधौ सहर्षमवलोकयतः)
वसन्तः – विश्वहृल्लोभनो लोभ इहाऽऽकार्यः ।
कामक्रोधौ – सुष्ठु चिन्तितम् सुहृदा वसन्तेन ।
[कामः छोटिकाम् ददाति; क्रोधः सोद्घोषमनुमोदते]
[ततः प्रविशति लोभस्तृष्णा च ।]
लोभः –
महामोहस्याज्ञाम् शिरसि निदधानः सजमिमाम्
अहम् तृष्णाजानिस्त्वरितमिह लोभः समुदितः ।
प्रदिष्टैस्तत्तादृक्प्राथिमविकटैर्हाटकमयैः
अखण्डब्रह्माण्डैर्मम क इव तृप्तिम् घटयिता ॥ ४७ ॥
(तृष्णाम् परिष्वज्य) प्रिये!
अशेषसुरनारीणामाभिरूप्यसमुच्चयैः ।
अजहद्यौवनाम् तृष्णे विदधे त्वाम् विधिः स्वयम् ॥ ४८ ॥
तदिदम् निदर्शयामि,
कनककलधौतशैलप्रभृतिभिरपि हन्त पूरणैः क्षिप्तैः ।
तृष्णे भजति समृद्धिम् भूयोभूयस्तवोदरे कार्श्यम् ॥ ४९ ॥
तृष्णा – आर्यपुत्र! तव वल्लभाया मम रमणीयत्वम् सवरमणीसमभ्यधिकमिति किमाश्चर्यम्? तथाऽपि देवासुरगृहगतसकलरत्नोपहारेण मम सौभाग्यसदृशानि हारकेयूरमेखलानूपुराणि त्वया करणीयानि ।
लोभः – प्रिये! ईषत्करमिदमभ्यर्थयसे । निर्जिताः खलु मया देवासुरकिन्नरकिम् पुरुषविद्याधरमुनिमनुष्यतिर्यञ्चः, यथा परस्परमेव व्यतिहन्यन्ते, यथा वा तुषकणमपि मेरुम् मन्यन्ते । तत्र तावद्धनदबिरुदविख्यातस्य त्र्यम्बकसखस्य मत्कृतामवस्थामाकर्णय ।
लब्धम् न मुञ्चति विलक्षमतिर्न भुङ्क्ते
धत्ते पुनः पुनरसौ महती धनायाम् ।
निद्रारसम् न लभते महताम् निधीनाम्
रक्षापिशाच इव सम्प्रति यक्षराजः ॥ ५० ॥
तृष्णा – आर्यपुत्र त्वया अर्थपुरुषार्थश्रद्धासम्स्थापितहृदये त्रैलोक्ये विवेकपरिगृहीतस्य पुरुषस्य का पुनर्दशा?
लोभः – प्रिये! विमर्शनीयमेतत् । तस्य पुनः समाधिकौतुकम् प्रशमयितुम् महाराजेन महामोहेन समादिष्टौ कामक्रोधौ मदागमनकाङ्क्षिणौ तिष्ठतः । इमौ तावदुपसर्पावः । (उपसृत्य) लोभनामाऽहमभिवादये ज्यायाम्सौ कामक्रोधौ ।
तृष्णा – स्नुषैषा प्रणमति गुरुजनम् ।
कामक्रोधौ – दीर्घायुषौ भूयास्तम् ।
वसन्तः – अहो! निदाघपवनदवाग्नीनामिव भवताम् समागमः! किम् न सेत्स्यति राज्ञो महामोहस्य? मा भूद्विवेकतो भवत्पत्नीनाम् रतिजिघाम्सातृष्णानाम् माङ्गल्यभूषणवैकल्यम् ।
कामः – अपि स्वागतमस्मदुपजीव्यमर्थपुरुषार्थमभिरक्षते लोभाय?
लोभः – अथ किम् । अनुग्रहपदम् खल्वहम् भवताम्?
क्रोधः – अपि कथममोघवृत्तिरपवर्गोदन्तवैदेशिकस्त्वमवधत्से स्वामिकृत्यम्?
लोभः – युष्मदवष्टम्भेन सर्वत्रामोघवृत्तिरस्मि । पश्य सुयोधनादिवन्मत्परिगृहीतस्य लोकस्येदानीमद्वितीयाम् द्वितीयपुरुषार्थनिष्ठाम् ।
क्षुद्रक्षोणिरजःकणस्थिरतृषः क्षुभ्यन्ति पृथ्वीभृतः
तप्येत स्वपदाय कः क्वचिदिति त्रस्यन्त्यमर्त्येश्वराः ।
भिक्षाकेष्वपि केषुचित्क्वचिदुपक्षिप्तेष्वधिक्षेपतः
पक्षे दुर्मतिभृत्ययोरिह जगत् तिष्ठत्यसूयेर्ष्ययोः ॥ ५१ ॥
अपि च,
अटन्ति हरितो दश स्थपुटयन्ति विश्वम्भराम्
पठन्ति धनिनाम् चटून् परपरिच्छदम् बिभ्रति ।
तरन्ति जलधिम् प्लवैः समरमारभन्ते मुधा
दुरन्तधनदोहलग्रहिलचेतसो देहिनः ॥ ५२ ॥
वसन्तः – आयुष्मन् महामोहामात्यधुरीण! पुनस्तृष्णासहायस्य ते पूर्वापरपुरुषार्थसाधके स्वयम् च सर्वचित्तसाक्षिकम् स्वादुतमतयोपलभ्यमाने सर्वराजन्यसेवनीयचरमोपवेदसिद्धे प्रत्यक्षपुरुषार्थे कः प्रत्यूहः? अयम् च,
कालप्राप्तात् धर्मतोऽधर्मतो वा कक्षीकार्यः कामतन्त्रप्रधानैः ।
लाभे गुप्तावप्रदानव्रते वा त्वय्यायत्तो ह्यर्थनामा पुमर्थः ॥ ५३ ॥
शृण्वन्तु सर्वे भवन्तो मामकमनुयोगम् । विवेककवचदुर्भेदविज्ञानो विपश्चित्तमः कथम् कारमवस्कन्दनीयः?
कामः – सखे! एवमहमेतदध्यवस्यामि । अहम् तावदग्रेसरो गच्छामि । भवद्भिस्तु पक्षद्वयम् पार्ष्णिम् च परिपालयद्भिरन्तरा निवेश्य तृष्णामनुप्लवैर्मवितव्यम् । तदनेन दुर्भेदेन व्यूहेन दुरात्मनो विवेकस्य स्वकुलविध्वम्सनमनोरथप्रत्यूहीभविष्याम इति ।
(तथा व्यूह्य सर्वे पञ्चषाणि पदानि परिक्रामन्ति)
कामः – (सरभसपुङ्खितशरम् पौष्पम् धनुरान्दोलयन्) पश्यत तावदिदानीमधिज्यधन्वनो मे ललितघोराणामिषूणाम् लक्ष्यलाभम् ।
प्रणिधानविशेषभावितात्मा करणग्रामनिरोधनिष्प्रकम्पः ।
निभृतश्वसनो निवृत्तिधर्मा पुरुषस्त्यक्तपरिग्रहोऽयमास्ते ॥ ५४ ॥
वसन्तः – (सूक्ष्ममवलोक्य) हन्त! अवहितैरस्माभिर्भवितव्यम् । अत्र हि,
वितमसि पदे विधास्यन् मायाजलधेः समुद्धृतम् पुरुषम् ।
विमृशति किमपि रहस्यम् सुमतिसहायो विवेक एकान्ते ॥ ५५ ॥
क्रोधः – (सभ्रुकुटीभङ्गम्) भो वसन्त! विमृश्यताम् किमपि दुरात्मना विवेकेन । पुरुषस्तावत् पुरस्कृतमन्मथानामस्माकमभिमतम् नातिवर्तते । यतः,
अनघसमाधिसम्पदुदरम्भरिरात्मभवः
प्रबलमहोर्मिजालभरिते दुरिताम्बुनिधौ ।
जडमतिजन्तुजातमुपजातविहारमसौ
सुखबडिशावकृष्टमुपदम्शदशाम् नयति ॥ ५६ ॥
पश्यतु भवानेतस्य पुरुषस्य भावनाविशेषम् ।
स्वसम्बोधः सौधः शुभगुणगणो मण्डनविधिः
समाधिः सम्भोगो रहसि जयशैली रतिकथा ।
सुषुप्ते लोकेऽद्य श्रुतिपरिषदन्तःपुरगतो
मुनिः शान्तिव्याजान्मुखरयति शृङ्गारनिगमम् ॥ ५७ ॥
वसन्तः – (स्वगतम्) आशामात्रकृतेयमन्यथाकल्पना । मनोरथचतुरङ्गसम्पत्त्या महाराज्यसिद्धिः । (प्रकाशम्) सखे! प्रबलप्रतिपक्षसन्निधौ किमनेन प्रगल्भभाषितेन?
लोभः – सखे वसन्त! प्रिया तावन्ममैषा प्रतिपक्षप्रतिक्षेपभीता प्रत्याश्वासयितव्या । (तृष्णामवलोक्य) सुमुखि तृष्णे! महावीरव्यूहमध्यगता महत्यपि प्रतिपक्षे मा भैषीः ।
तृष्णा – सकलसुरासुरमहितमाहात्म्येषु युष्मासु जीवत्सु नित्यम् निर्भयाऽस्मि ।
कामः – (सान्तस्त्रासम् परिवृत्यावलोक्य) पश्चात्पदानि प्रतिक्षेप्यन्तामस्माभिः । अद्य हि,
अनिद्राणप्रज्ञासहजबलधीराद्भुतगतिः
तितिक्षासन्तोषस्थिरतरतनुत्राणघटितः ।
प्रयुक्तम् केनापि प्रणवरथमास्थाय पुरतो
विवेकः प्रत्युद्यन् विघटयति मे व्यूहघटनाम् ॥ ५८ ॥
[सर्वे भयम् नाटयन्ति ।]
वसन्तः –
युष्मासु त्रिषु कस्यचित् यदि विपत् सम्पत्स्यते केनचित्
त्यक्षत्येव हि भक्तजीविततया मोहः स्वयम् जीवितम् ।
सद्यश्चैनमनुम्रियेत नियतम् तद्वल्लभा दुर्मतिः
तत्सम्प्रत्यपसर्पणम् क्षममितः क्षिप्रम् विवेकास्पदात् ॥ ५९ ॥
लोभः – (ससम्भ्रामम्) अराजकैरस्माभिरत्र न योद्धव्यम् । मन्त्रयिष्यति च राजा स्वयमेव कृत्यशेषम् ।
क्रोधः – (सनिर्वेदम्) धिग्धिक्! किमियता कालेनास्माभिराचरितम् राजकृत्यम्?
लोभः – सखे!
अतिक्रामन् कालस्तपनरथवेगेन महता
न रोद्धुम् शक्येत प्रतिवहन(वात्यावि)वातूलरहितः ।
गतस्रोतोरोधे न खलु यतितव्यम् कृतधिया
तदारम्भः श्रेयान् उपरितनभीतिप्रतिभटः ॥ ६० ॥
तदत्रायुस्तावदस्माभिरभिरक्षणीयम्, ‘सर्वत एवात्मानम् गोपायेत्’ इति हि श्रूयते ।
कामः – समयोचितमिदम् समर्थ्यते लोकवृत्तान्तवेदिना लोभेन ।
आधे(दे)यो न हि सौप्तिकप्रणिहितैरस्माभिराकस्मिकः
पातः क्रुद्धविवेकलक्षणमहापातालगर्तोदरे ।
सद्यः सम्प्रति डम्भदर्पकुहनासूयादिदत्तक्षणः
प्रत्यर्थिप्रतिरोधकर्मणि महामोहः प्रवर्तिष्यते ॥ ६१ ॥
तद्वयमिदानीम् भिन्नदिक्काः प्रतिष्ठेमहि । ‘आत्मार्थे पृथिवीम् त्यजेत्’ इति हि वदन्ति । [इति निष्क्रान्ताः सर्वे।]
इति श्रीकवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके कामादिव्यूहभेदनम् नाम चतुर्थोऽङ्कः ।