[highlight_content]

सङ्कल्पसूर्योदयः-तृतीयोऽङ्कः

तृतीयोऽङ्कः

मुक्तयुपाय आरम्भः

शुद्धविष्कम्भः

[ततः प्रविशतो रागद्वेषौ ।]

रागः – सखे, त्वत्सहायस्य मे स्वामिकार्यनिर्वर्तनम् सिद्धप्रायमिति निश्चिनोमि ।

द्वेषः – वयस्य, त्वद्विरुद्धविषयविवेकसम्रम्भनिरोधेन त्वदेककार्य एव ह्यहमादिष्टोऽस्मि महाराजेन ।

रागः – सखे, अन्यदपि तावदवसरोचितमाज्ञप्तिगोचरमावेदयामि ।

विवेककुहनाबलाद्व्यतिहतेषु बाह्येष्वसौ

त्रिवर्गपदवी परम् शरणमद्य मोहश्रियः ।

विरक्तिमिह तापसीम् व्यपनयामि दूरादहम्

विमथ्य विनिवर्त्यताम् सपदि विष्णुभक्तिस्त्वया ॥ १ ॥

सम्भवति च सर्वथा सर्वतः प्रसारिताभ्याम् स्वर्गापवर्गगुणदोषजालाभ्याम् तयोरुपरोधः । अहम् पुनर्मायासहस्रवेदी मारीचमैथिलीन्यायेन विरक्तिम् तावत्तपस्विनीम् विप्रलभे । भवतस्तु विष्णुभक्तिविमथने पौलस्त्य एव प्रमाणम् ।

द्वेषः – अथ किम्?

रागः – यद्यपि त्रय्यन्तवादिना महामोहसौवस्तिकानामग्रगण्या हिरण्यासुरपुरोहिता इव धरण्यामवतीर्णाः कबन्धमीमाम्सकाः प्रतिक्षिप्ताः, तथाऽपि तन्मतमेव सोपपत्तिकमुत्तम्भयन्स्वामिकार्यम् निर्वर्तयामि ।

द्वेषः – स्थाने खलु भवतः समारम्भः, यदिह नास्तिक्यसम्वर्धकानाम् महामोहसैनिकधुरन्धराणाम् नासीरविजयपताका निरीश्वरमीमाम्सा समालम्ब्यते ।

रागः

अल्पमस्थिरमानन्दमिच्छतो यदि रागिता ।

अनन्तस्थिरकामस्य विरक्तिः कस्य कीदृशी ॥ २ ॥

स्वस्यैवाप्तिः सुखमिति मृषा स्वेतरस्यानुभूतौ

कामादन्यः क इव घटते मोक्षनामा पुमर्थः ।

तस्मादस्मद्बहुमतनिरध्यक्षमीमाम्सकोक्तः(क्त्या)

स्वेच्छानृत्यद्बहुगुणनिधिः स्वर्ग एवापवर्गः ॥ ३ ॥

द्वेषः – किमुच्यते? अयम् पुनर्महामोहतन्त्रपारदृश्वभिः परमार्थोपदेशिभिः सावधाननिपुणनिरूपितः सम्प्रदायपरम्परासमधिगतोऽर्थः ।

प्रपञ्चकृतकञ्चुकम् यदि परम् महः प्राप्यते

न दुःखमपहस्तितम् भवति नैकधोपप्लवात् ।

अथैकमखिलोज्झितम् न खलु भोग्यतामेति तत्

ततो निगममस्तकैर्निगदमात्रशेषैः स्थितम् ॥ ४ ॥

रागः – सखे, साधु भाषितम् । नूनमीदृशेन वचसा दवदहनदन्दह्यमानतरुशिखर कुलाय कुहरनिष्क्रान्ता विहङ्गपङ्क्तिरिव विष्णुभक्तिरपसर्पति । अद्य खल्वनादि भोगवासना जालजटिलबुद्धेरात्मनः कथम् नाम निर्विवेको विवेकः सम्सारजिहासाम् साधयिष्यति? प्रत्युत दिव्यभौमयुवतिगुणापह्नवकुतूहली तद्गुणैरेव निबिडम् निबध्यते । पश्य तावदमृतोद्भवाः त्रैलोक्यतिलकभूताः पद्मलोचनाः । यासाम्,

स्मेरेण स्तनकुड्मलेन भुजयोर्मध्यम् तिरोधित्सितम्

नेत्रेण श्रवणम् लिलङ्घयिषितम् नीलोत्पलश्रीमुषा ।

अङ्गम् सर्वमलञ्चिकीर्षितमहो भावैः स्मराचार्यकैः

तन्वीनाम् विजिगीषितम् च वयसा धन्येन मन्ये जगत् ॥ ५

तिष्ठतु ताव अनङ्गविजयपताकानामभिनवयौवनविजृम्भणम् । परामृश्यताम् पुनर्विभ्रमावेशः ।

अभिनयति यथार्थान्भ्रूपताका पुमर्थान्गतिरपि गतिमन्याम् मन्यते गर्हणीयाम् ।

मदकलुषितमन्तर्मन्मथाद्वैतगर्भामुपनिषदमधीते लोचनम् लोलतारम् ॥ ६ ॥

द्वेषः – (सहर्षामर्षम्) सखे, विश्वपुरुषार्थविशेषविद्भिस्त्वन्मतप्रतिष्ठापकैः कामकामैः(एभिः) कक्षीकृतम् महानन्द लक्षणम् मोक्षतया महर्षिविशेषभाषितम् पुरन्दरपुरीभुजिष्या भोगमवधूय विपश्चितामपि क एवायम् विप्रतिषिद्धवादः?

सर्वाधारः कथम् नु स्यात्सर्वदोषविवर्जितः ।

तथैव सर्वकामार्थी निरपेक्षः कथम् प्रभुः ॥ ७ ॥

रागः – सखे, न चैतावदेव ।

मधुभरितहेमकुम्भीमधुरिमधुर्यौ पयोधरौ सुदृशाम् ।

पिशितमिति भावयन्तः पिशाचकल्पाः प्रलोभयन्ति जडान् ॥ ८ ॥

(आकाशे) किम् ब्रूथ? किम् न तथेति? अहह! अन्धानाम् कथमभिलप्यते पयसो नैर्मल्यम्?

द्वेषः – अहो महान् अयमध्यात्माभिनिवेशो विवेकपरतन्त्राणाम् वेतालानाम्! अथवा युक्तमेवैतत् । न खलु बधिराणाम् कुतूहलमातनोति कोकिलालापः । तिष्ठन्त्वते । सखे! विवेक एव तावत् जेतव्यः । यतः,

विवेकविजयादेव विद्वत्परिषदो जयः ।

उपघ्नतरुविच्छेदे न किमुच्छिद्यते लता ॥ ९ ॥

रागः – साधु विचिन्तितम् ।

द्वेषः – (सोच्चैर्हासम्)

अनघगुणौघमेकमवधूतसमाभ्यधिकम् स्ववितरणीयसर्वपुरुषार्थमुपास्तिपदम् ।

उपनिषदूषरान्तरुपवर्तनधूसरधीर्न खलु विवेक एष मयि तिष्ठति साधयिता ॥ १० ॥

(नेपथ्ये) कः कोऽत्र भोः?

उभौ – (कर्णम् दत्त्वा सभयसम्भ्रमम्) आः कष्टमापतितम्! अतिपतिनरपतिनियोगनिर्वाहौ  कथमावाम् भविष्यावः? हन्त सर्वधा विपरिवृत्तमिवास्माकम् भागधेयम्! अद्य हि,

अतिक्रम्य दुरुच्छेदामास्माकीम् गुणवागुराम् ।

विरक्तिर्विष्णुभक्तिश्च विवेकस्थानमृच्छतः ॥ ११ ॥

स चैष नूनम् विरक्ति विष्णुभक्तिभ्याम् प्रोत्साहितो देव्या सुमत्या दत्तहस्त इत एवाभिसमेति । जितकाशिनश्चामुष्य सन्निधाने मन्दभाग्यैर्नास्माभिः स्थातव्यम् । जीवन्तो हि भद्राणि पश्यन्ति । अस्मदवरजाभ्यामपि कामक्रोधाभ्यामविलम्बितकारिभ्यामपि विलम्बनीयम् । काले हि सर्वम् सम्पद्यते । न चानेन व्यवसायसहायेन दुर्जयः कश्चित् । एवम् च नूनमापत्स्यते राजकृत्यम् ।

धिग्धिग्वासवशम्भलीनयनयोरालोलमालोकितम्

धिग्धिङ्मान्मथकार्मुकम् युधि सदा टङ्कारसाडम्बरम् ।

धिग्धिक्पञ्चमपाठकान्परभृतान् धिग्धिक् किमन्यैर्जडैः

शृङ्गारागमरङ्गमण्टपनटीम् मोहेन्द्रवीरश्रियम् ॥ १२ ॥

अद्य हि,

निर्जित्य मोहमसुरेन्द्रमिवामरेन्द्रो बद्धस्य मङ्क्षु पुरुषस्य विमोक्षणेन ।

अश्रूण्यकृत्रिमगिरामभिषङ्गजातान्यानन्दजैर्विपरिवर्तयिता विवेकः ॥ १३ ॥

इति वदन्तौ निष्क्रान्तौ ।

इति शुद्धविष्कम्भः ।

[ततः प्रविशति विवेकः सुमतिश्च ।]

विवेकः – देवि, समाश्वसिहि समाश्वसिहि । प्ररप्रयुक्तपाटच्चरभयापनोदनेन विरक्तिविष्णुभक्ती त्वत्सकाशम् प्रापिते ।

सुमतिः – (दीर्घम् निश्वस्य) नाथ, तथापि अद्यापि किम् भवेदिति तरलहृदया किम् भणामि? प्रच्छन्नचारिणौ खलु रागद्वेषाववसरम् प्रेक्षेते ।

विवेकः – भीरु, मा ते भूदिह मनोदौर्बल्यम् । किमस्माकमपि सन्निधौ रागद्वेषयोरवकाशः? अपि च,

अनुचितपदवीभिश्चिन्तयित्वा प्रयातान्यलमलमतिमात्रैरद्य बाले विषादैः ।

उपनिषदमुदारामुद्वमन्क्वापि लक्ष्ये शरणमुपगतान्नस्त्रायते शार्ङ्गधन्वा ॥ १४ ॥

सुमतिः – (सविषादम् सम्स्कृतमाश्रित्य ।) आर्यपुत्र,

सर्गेषु प्रतिसञ्चरेषु बहुशः स्वर्गे तथा दुर्गतौ

जाग्रत्स्वप्नसुषुप्तिमुग्धिमरणावस्थासु दुःस्थासु च ।

दुःख्यन्प्रस्तरवद्भवन् बहुपशुः सुख्यन्नसौ देहभृत्

दग्धादग्धसजीवितद्रुमदशादीनो दरीदृश्यते ॥ १५ ॥

अपि च,

विचित्रजवविश्वकृद्विहृतिमारुतप्रेरणा

विभक्तभवितव्यताविपिनसिन्धुविष्फूर्तिभिः ।

जटालवृजिनाविले जवनयौवनास्वादने

जरामरण भीषणे जगति जन्तुरावर्त्यते ॥ १६ ॥

विवेकः – (सानुशयम्) देवि, सत्यमिदमितः पूर्वम् । अद्ये तु अपुनरावृत्तिवर्तनीमारुरुक्षतः पुरुषस्य चिरकालसञ्चितपुण्यसञ्चय परिणतम् विशेषमाकर्णय ।

अपि च,

पातत्रासनिरीक्षणप्रशमितस्वर्वासदुर्वासना

पुम्सः सम्प्रति शेमुषी निरवधिम् पुष्णाति तृष्णाम् परे ।

अर्थित्वे मतिकश्मलप्रचलितेऽप्येवम् प्रतिष्ठापिते

सामर्थ्यम् च समाधिसीम्नि नियतावस्थम् व्यवस्थाप्यते ॥ १७ ॥

अपि च,

प्रतिक्षिप्तावद्यप्रवरगुणनिर्धारणभुवा

परप्रेम्णा जुष्टो भवभृदधुना भाग्यवशतः ।

अभिन्नास्वादानाममृतलहरीणामिव धियाम्

विकल्पम् विज्ञाता विधिपवनवैषम्यजनितम् ॥ १८ ॥

अयम् च परमपुरुषचरणारविन्दमकरन्दमधुकरो बृन्दारकनगरमपि नरकम् परम् निश्चेष्यति । अत्र च,

भवपथकथारागे भग्ने गतागतचिन्तया परमपुरुषप्रेप्सालाभे तदद्भुतबोधनात् ।

गुणगणभिदासम्भेदाभ्यामुपस्कृतविग्रहे क्षममिह परम् विद्यावर्गे विमोहनिवर्तनम् ॥ १९ ॥

इह च मोहप्रशमनम् दिङ्मात्रेणोदाहरामि ।

समाना मुक्तिश्चेन्न खलु घटते साधनभिदा

न चेत्स्वर्गन्यायस्तरतमतयान्याभिमतया ।

प्रमाणप्रागल्भ्यप्रणिधिमवधूय प्रलपताम्

अतिक्षीबः क्षोभः स्वमतिविहतेरेव निहतः ॥ २० ॥

एवमपि ये मुह्यन्ति ते मुह्यन्त्येव । न खलु सहस्रैरपि सलिलकुम्भैर्बलिभुजः प्रक्षाल्यमाणाः वलर्क्षताम् प्रतिपद्यन्ते । दुर्वादिगर्वसर्वस्वनिर्वापकैः  सर्वज्ञबुद्धिवेदिभिर्वर्णितम् निर्विशङ्कमखिलमधिगम्य सर्वेश्वरम् निर्विशन्ति सन्तः ।

सुमतिः – नाथ, प्रतिष्ठापितास्मि इदानीम् प्रमाणप्रणयपेशलेन युष्मद्भाषितेन । प्रतिबुद्धजनसम्भावनीये प्रमाणवृत्तान्तनिरीक्षणे समाभ्यधिकदरिद्रम् खलु तव माहात्म्यम् । इदानीम् किल,

कल्पारम्भ प्रचण्ड ताण्डव कलाक्रीडत्कालान्तक-

क्षोभोद्वेलकपर्दसिन्धुलहरीधूयमानचन्द्रप्रभम् ।

एकैकाक्षरनिर्यन्निर्भरसधासन्दोहसन्तोषिता

आम्रेडयन्ति भुजङ्गिकास्तव यशो वेलान्तशैलान्तरे ॥ २१ ॥

(विद्यामाहात्म्यमनुचिन्त्य सहर्षरोमाञ्चम्)

जृम्भमाणदैत्यमर्दनदयास्वर्लोकस्रोतस्विनी-

वीचीशीतलसाधुशुद्धसुभगाः शोभन्ते विद्या इमाः ।

यासाम् कामपि भवाग्नितापितजनो गृहीत्वा चिन्तानीताम्

मुक्तिम् प्रेक्षते हस्तमध्यनिहिताम् मोहे सत्येव ॥ २२ ॥

विवेकः – किमुच्यते? अवरोपितप्रायः खलु पुरुषस्य चिन्ताभारः । अपि चास्य सम्सारदोषदर्शनसातत्यसमुत्थितादपि परब्रह्मदिदृक्षासम्रम्भजृम्भितम् परमवैराग्यमुपधानीभवति । तथा हि,

निषिद्धम् विद्यार्थादधिकमपि काम्यम् च विजहत्

परप्रीत्यै कर्म प्रतिनियतमादाय मुदितः ।

शुभश्रद्धादुग्धोदधिनवसुधोल्लासललिते

समाधावाधातुम् त्वरयति मुनिः सम्प्रति मनः ॥ २३ ॥

अपि च,

विलक्षोपक्षिप्तम् विषयरसगन्धर्वनगर-

प्रशम्सायाथार्थ्ये प्रणिदधति चित्तेऽपि तनुभृत् ।

मया दत्ते हस्ते मतिकलुषमुल्लङ्घ्य तरसा

परब्रह्मैकान्ती भवजलनिधिम् गोष्पदयति ॥ २४ ॥

सुमतिः – (सविमर्शम्) तथापि पितामहप्रमुखे महायोगिजने वासनादापितविषयरसबडिशमोहिते, निशाकरग्रहणकौतूहल प्रसारितकरस्य बालिशस्येव कथम् पुनः कस्यापि मोक्षो भवेदिति विगलिताशम् सम्व्रीडितमिव मे मानसम् ।

विवेकः – अयि भीरु, अवधारितपरमार्थाऽपि किम् पचानमानसेव किम् पुनरप्यतिशङ्कसे । शृणु चैतत्,

विषमधु बहिष्कुर्वन् धीरो बहिर्विषयात्मकम्

परिमितरसस्वात्मप्राप्तिप्रयासपराङ्मुखः ।

निरवधिमहानन्द ब्रह्मानुभूतिकुतूहली

जगति भविता दैवात्कश्चिज्जिहासितसम्सृतिः ॥ २५ ॥

निःसम्शयः खलु पटुभिरपि विटपमारोहद्भिरप्राप्तानाम् पचेळिमानाम् फलानामयतमानस्यापि सुकृतपरिपाकेन पान्थजनस्य पुरतः परिपातः । अपि च,

विवित्सति यदि स्वयम् किमपि सूरिसेव्यम् पदम्

कृतस्य यदि निष्कृतिर्यदि करिष्यते नाहितम् ।

निसर्गसुहृदीश्वरो यदि च लक्ष्यमन्वीक्षते

किमत्र परमुच्यते? किमिति नात्मविन्मुच्यते? ॥ २६ ॥

सुमतिः – नाथ, यद्येवम् त्वया दत्तहस्तः सम्सारसागरमतिलङ्घते पुरुषः, तत्कथम् दवदहनप्रज्वलितपार्श्वम् युगलदारूदरगत इव कीटः, सारमेयगणपरिगत इव सारङ्गः, समोरणान्दोलनडोलायमानपोतोदरगत इव साम्यात्रिकसार्थः, महाप्रवाहमध्यनिरोध सम्भ्रान्तनयन इव जम्बुकः, विषधर परिगृहीत गृहघूर्णमानहृदय इव कुडुम्बिजनः, विकटतर भङ्गसम्भ्रम सङ्क्षुभितगङ्गातटवेपमानसम्हनन इव शाखिमण्डलः, राघवशरनिकरक्षोभित रत्नाकर मध्यस्थित इव मत्स्यसङ्घातः साध्वसगृहीतो भवति?

विवेकः – भद्रे, पाण्डित्यमपि निर्विद्य बाल्येन तिष्ठाससि, यत् मोक्षमाणमपि मुक्तमिवाभिमन्यसे । पश्य पश्य,

वर्णितगुणप्रकर्षाः वर्णाश्रमनियमदेशकालमुखाः ।

अनवहितमानसानाम् भवन्ति नित्यम् भयोदयस्थानम् ॥ २७ ॥

अन्येषु तु विशेषमवबोधयामि ।

भयाभयस्थानविशेषवेदिनः प्रमादमुक्तस्य परीक्ष्यकारिणः ।

परानुभूतिप्रतिबन्धशङ्कया भयानुबन्धोऽप्यभयाय कल्पते ॥ २८ ॥

आमोक्षाच्च विदुषोऽपि निरनुबन्धा भीतिरिति नभःप्रसूनसौरभास्वादः ।

दिग्देशकालकरणाकरणादिरूपे देहादिके च हितसाधनभावयोग्ये ।

दुष्कर्मपङ्क्तिमनुचिन्तयतो विचित्राम् किम् तद्यदस्य पुरुषस्य न भीतिहेतुः ॥ २९ ॥

सुमतिः – एवम् किल सर्वमपि यदि भयस्थानम्, तत्कथम् निर्भयनिष्पादनीयम् प्रणिधानम् सम्पद्यते?]

विवेकः – भद्रे, सम्यगनुयुक्तम् भवत्या । अस्ति खलु सूक्ष्मम् किञ्चित् । तदपि प्रतिपन्नामेव त्वाम् प्रतिबोधयामि । प्रतिसन्धीयतामिदम् तावत् ।

सुमतिः – आज्ञापयत्वार्यपुत्रः ।

विवेकः

प्रवृद्धमतिकश्मलप्रलयपावकप्रक्रियाम्

विमुच्य भगवत्कृपाम् वृजिनसिन्धुकुक्षिम्भरिम् ।

कदध्वपरिवर्तिभिर्यदिह कर्म निर्मीयतो

तदस्तु लवणाकरे लवणसेतुराधित्सितः ॥ ३० ॥

किञ्च यः पुनरनन्यभावेन भगवदनुकम्पामालम्बते, तस्य तु तत्तादृशीम् सिद्धिमवधारय ।

विविक्तनिखिलस्थितिर्विषयवृत्तिनिर्वेदवान्

विरक्तिपरिरम्भणग्लपितसर्वदुर्वासनः ।

निवृत्तिपथजाङ्घिको निभृतचित्तवृत्तिः परम् (स्वयम्)

प्रपद्य मुरभित्पदम् भयमतीत्य सम्सिध्यति ॥ ३१ ॥

सुमतिः – युक्तमेतत् । तथापि प्रत्यक्षितपरमार्थम् त्वामेव परिपृच्छामि । निर्मलगुरुसकाशनिर्धारितनिगमान्त हृदयानाम् निष्ठापितनिखिल प्रतिपक्षाणाम् निश्शेष प्रशमितनिर्जर गृहवासरसवासनानाम् अनालक्षित दोषगन्धमङ्गलैकतान मधुमथन चरणसेवा महानन्दलाभलम्पटानाम् अप्रमाद परिगृहीत निवृत्ति धर्माणाम् असम्भावित प्रत्यूहानामपि महापुरुषाणाम् केन पुनर्विनिपातेन मोक्षोपायः शीघ्रम् न सम्पद्यते?

विवेकः – प्रिये, इदमपि ते महामतिभिरवधारणीयमतिगहनमभिदधामि, यत्तत् (सनकसनन्दन)सनत्कुमार नारद शाण्डिल्य प्रभृतयः परमैकान्तिनः प्रतिपादयन्ति । आकर्ण्यतामेतदवहितया भवत्या ।

तिमिम् किल तिमिङ्गिलो गिलति तद्गिलस्तम् तथा

तमप्यथ च तद्गिलस्तदिह पश्य कर्मक्रमे ।

समस्तवृजिनोदधिग्रसनडम्भकुम्भोद्भवम्

निवृत्तिमपि धर्ममत्त्यनघतत्त्वविन्निग्रहः ॥ ३२ ॥

अन्यदप्येतादृशमवधारयेथाः ।

प्रथितम् पातकिवर्गम् कृतघ्न एको हि कृत्स्नमतिशेते ।

तमिमम् क्रियमाणघ्नस्तमपि दुरात्मा करिष्यमाणघ्नः ॥ ३३ ॥

सुमतिः – (विचिन्त्य) इति नाम निःसमाभ्यधिकमाहात्म्यस्य प्रतिबुद्धजननिग्रहस्य प्रभावो दर्शितः । अस्य पुनर्नाथ किम् नास्ति परिहारः?

विवेकः – अस्ति तु कश्चिदेकः, यदिह पुनस्तत्प्रसादनम् । तथा हि,

तोयोज्झनेन परितापमुपेत्य जन्तुः

तोयेन जीवति पुनः क्रमयोजितेन ।

तद्वन्महत्त्यजनतस्तमसि प्रविष्टः

तत्सम्श्रयेण भजते परमार्थदृष्टिम् ॥ ३४ ॥

अपि च,

बहुजन्मसुकृतसिद्धम् ब्रह्मविदपचारदूरगम् पुरुषम् ।

अभिसरति नित्यरक्ता सत्वरमपवर्गसाधिनी विद्या ॥ ३५ ॥

सा च,

परभक्तिरप्रकम्प्या निवृत्तिधर्मानुबन्धिगुणबन्धैः ।

भवजलधिपोतपात्री जाता वृद्धिम् दिने दिने भजते ॥ ३६ ॥

सुमतिः – (सविमर्शम्) नाथ युक्तमेतत्, यदि दुर्निवारनियतिबलनिर्मिता अपक्वनिः शेषकषायस्य मोक्षपक्षनिक्षेपयोग्या अणिम महिम गरिम लघिम वशित्वेशत्व प्राप्तिप्राकाम्य प्रमुखाः परमपुरुषार्थ सिद्धिसाधन योगान्तराया न भवन्ति ।

विवेकः – सत्यम् देवि, दुर्जया एते दुरन्तवैरिणो योगान्तरायाः । तदेषाम् सम्भवे परिहरणादपि सम्भवस्यैव परिहरणेन निष्प्रत्यूहा भवति नैश्रेयसी सिद्धिः ।

[ततः प्रविशति भूर्जपत्रभूषितोत्तमाङ्गो दूतः ।]

दूतः – (साञ्जलिबन्धम्) राजन्, अयमस्मि देवस्य महाराजस्य महामोहस्य दृष्टिपथमनुज्झन् सर्वत्राप्रतिहतगतिः सम्वृतिसत्यो नाम दूतः । तदभिवादयेहम् सावरोधम् भवन्तम् ।

विवेकः – (स्वगतम्) किम् निमित्तमयमुपागतः? (प्रकाशम्) अस्थानवृत्तिमपहाय अपरिमितायुर्भूयाः ।

दूतः – (उत्तमाङ्गादवतारितम् दरविकसिताञ्जलिकोशनिहितम् भूर्जपत्रमुपदर्शयन्) इदम् किल महाराज, चतुर्दशभुवनचक्र चक्रवर्तिनो द्वापरमन्त्रिनिर्धारित निखिलकार्यस्य दुर्मतिमत प्रतिष्ठितस्य देवस्य महामोहस्य लोभनाम्ना गणकेन लिखित्वा त्वदर्थम् प्रेषितम् अन्तरङ्गेण मया उपहृतमलङ्घनीयम् शासनम् ।

विवेकः – (सानादरावहित्थम्) भद्र, अस्माकमप्यभिमतः खल्वसि । तदिह उपह्वरे त्वमेव वाचय ।

दूतः – यदादिशति महाराजः । (इति विनयनिभृतम् वाचयति ।)

एतत्कामादिमान्यस्य महामोहस्य शासनम् ।

सम्सारह्रासभीतानाम् स्वर्गिणामपि सम्मतम् ॥ ३७ ॥

विवेकः – (अपवार्य सान्तर्हासम्) देवि, किम् वयमपि शासनीया दुरात्मनो महामोहस्य । परचित्तवेदनार्थमिह वाचिकम् तावच्छ्रोतव्यम् । (प्रकाशम्) भद्र, ततस्ततः ।

दूतः –

परोपास्ति श्रद्धावधिकमतिवृत्तम् यदिह ते

तदैश्वर्यप्राप्त्यै भातु बहुमन्येमहि तदा ।

विवेकः – (अवज्ञाम् नाटयन्) प्रिये, आकर्णितः किलायम् भिक्षुपादप्रसरणन्यायः? अथवा, स्वाभाव्यमेव शवमुष्टिवद्गृहीतग्राहिता महामोहस्य ।

सुमतिः – एवमेतत् ।

विवेकः – ततस्ततः ।

दूतःअतिक्रान्तावस्मद्भ्रुकुटिनटनारम्भसमयप्रदीप्तक्रोधादि प्रतिभटनिरुद्धो न भवसि ॥ ३८ ॥

विवेकः – प्रिये स्वधर्मनिरतानस्मान् प्रति सोऽयमाशीर्वादः । अयि मोहदूत!  किमस्ति शेषम् वाचिकस्य?

दूतः – अस्ति किञ्चिदात्मीय बलाध्यक्षकामक्रोधवैभवविषयम् ।

विवेकः – अस्तु को दोषः? शृणुमस्तावत् ।

दूतः

विश्वाधिको विलयमेष्यति कस्य भूम्ना वीरः प्रसिद्धमहिमा विबुधेषु कामः ।

क्रोधोदितम् यदनुभाववशेन शम्भोः शृङ्गारशीतलमभून्नयनम् तृतीयम् ॥ ३९ ॥

अपि च,

कामोऽसौ समवर्तताग्र इति हि ब्रूते समीची श्रुतिः

कामादेव जगज्जनिस्थितिलयैराद्यः पुमान्क्रीडति ।

निष्कामोऽपि सकाम एव लभते निश्श्रेयसम् दुर्लभम्

कामः कस्य वशे क एष भुवने कामस्य न स्याद्वशे ॥ ४० ॥

सुमतिः – महाराज, किम् युष्माभिरपि दुर्जयो मकरलाञ्छनः?

विवेकः – देवि! मिथ्यादृष्टिप्रियस्य महामोहस्य प्रलपिते किम् प्रत्युच्यते? अवशिष्टमपि निशमयामः ।

दूतः

यदि कुप्यति कोपाय न कोपमतिवर्तते ।

अकोपविषयम् कोपम् कथम् कश्चिद्विजेष्यते ॥ ४१ ॥

तदिदमुभयतस्स्पाशा रज्जुः ।

सुमतिः – नाथ! ननु कामतोऽपि कोपो दुर्जयः, येन कामजयेऽपि स्वयम् कारणम् भवति ।

विवेकः – प्रिये! स्थानक्रोधो न खलु दोषाय, योऽसौ कामादिनिरसनार्थतया परमार्थवेदिभिः प्रशस्यते । (दूतमवलोक्य) दूत! श्रुतमिह श्रोतव्यम् । ब्रूहि मद्वचनाद्युष्मत्स्वामिनम् ।

अप्राणितमहामोहमनङ्गीकृतमन्मथम् ।

विधूतप्रतिघम् लोको विवेकम् बहु मम्स्यते ॥ ४२ ॥

दूतः – साधयाम्यहम् (इति द्वित्रिपदमतिक्रम्य, स्वगतम्)

सुप्तप्रबोधनसमुत्सुकया सुमत्या

पत्न्या सहाऽऽचरितविश्वहितम् विवेकम् ।

जेतुम् क एव जगति प्रभवेत्तथाऽपि

स्वामी नियोजयति मोह इति स्वयम् नः ॥ ४३ ॥

(प्रकाशम्) महाराज, ‘त्यजेदेकम् कुलस्यार्थे’ इति नीतिम् नातिवर्तेथाः ।

(इति निष्क्रान्तः।)

सुमतिः – आर्यपुत्र! यदि मुक्तिसाधनसज्जः पुरुषो मोहप्रयुक्तैः कामक्रोधलोभ मदमत्सर प्रभृतिभिरभिभूयते, एतावान् युष्मत्परिश्रमो विफलो भवति ।

विवेकः – देवि! मैवम् मन्वीथाः । आशम्सेथाः पुनः शोभनमेव ।

त्रय्यन्तैरवधारिते भगवति क्षिप्ते विरोधभ्रमे

साङ्गोपायविभागसम्भृतमतिः सम्प्रत्यसौ साधकः ।

कामक्रोधनिशातकण्टकमिलत्कालुष्यपङ्कच्छटा-

निर्मुक्तेन च सुशीतलेन सुपथा निःश्रेयसम् प्राप्स्यति ॥ ४४ ॥

(नेपथ्ये) दिव्यवैतालिकौ – विजयताम् देवः ।

प्रथमः

रम्या यामवतीपदार्पणपटी रागाब्धिवेलोद्गतिः

चेतोजन्मकदम्बधूलिविततिः शृङ्गारचूडाजपा ।

सम्मोहद्विपशोणबिन्दुपटली सन्ध्या जरीजम्भ्यते

प्रत्यग्दिग्वनितापयोधरतटीकाश्मीरपङ्कद्युतिः ॥ ४५ ॥

द्वितीयः

दिनाधिपविनाकृतिव्यसनखिन्नसन्ध्यावधू

विधूतकबरीभरप्रसरकौतुकापादकम् ।

विशृङ्खलकलिन्दजाजलतरङ्गभङ्गावली

मलीमसमिदम् तमो जगदशेषमाचूषति ॥ ४६ ॥

विवेकः – (कर्णम् दत्त्वा) देवि! दिवाभीतप्रायस्यास्मत्प्रतिपक्षस्य सौप्तिकसन्नाहसमयम् सूचयतः प्रायेण स्वतो वियातवादिनौ वैतालिकौ । सम्पश्यताम् भवती,

प्रकाशः सङ्कोचम् भजति जगतः सीदति रवौ

तमिस्राविष्फूर्तिः स्थगयति मुखम् शक्रहरितः ।

अवस्कन्दन्विश्वम् सुमुखि मधुना साकमधुना

विधत्ते दुर्दान्तो विविधमपनीतम् रतिपतिः ॥ ४७ ॥

अपि च,

अश्रान्तसन्ततिभिराभरणप्रकाशैः

आम्नेडयन्त्य इव मङ्गलदीपभासः ।

अन्तःपुरम् तिलकयन्ति समम् समन्तात्

आरात्रिकम् मृगदृशो नियमम् विधातुम् ॥ ४८ ॥

तदहमिह सान्ध्यम् नियममनुपाल्य परब्रह्मप्रवणमानसम् पुरुषमभिरक्षामि । भवत्यपि क्षान्तिशान्त्यादि परिजनसेविता मङ्गलाचरणसौधमधिरुह्य मत्प्रत्यागमनप्रतीक्षा वर्तेथाः ।

इति सुमत्या सह निष्क्रान्तः ।इति श्रीकवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके (मुक्त्युपायारम्भो नाम) तृतीयोऽङ्कः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.