दशमोऽङ्कः
निश्रेयस लाभः
[ततः प्रविशति विष्णुभक्तिः ।]
विष्णुभक्तिः – (आलम्बनविशेषाधीनमात्मनो वैभवम् निर्वर्ण्य)
अहम् वैकुण्ठदास्यैकलास्यलीलाविनोदिनी ।
विश्वकिल्बिषसम्हारविभ्रमारभटीनटी ॥ १ ॥
किम् च,
अम्बा मे पुरुषस्य बुद्धिरनघा तातः स धर्मोत्तरः
सन्तुष्टिः सहजा क्षमा प्रियसखी सद्वृत्तिराज्ञाकरी ।
विद्यैव स्वयमस्मि विश्ववृजिनप्रध्वम्सनम् क्रीडितम्
साऽहम् प्राणिमि विष्णुभक्तिरचला सन्तिष्ठते सम्सृतिः ॥ २ ॥
अपि च प्रत्यक्षित परावर तत्त्वैर्महर्षिभिर्भगवतैव च गीतम् परमार्थ भूतमन्यमप्यर्थमनुकथयामि ।
निरुध्य तरसा मरुत्करणमण्डलीम् कुण्डलीम्
विचिन्त्य विगणय्य वा धमनिधातुमर्मादिकम् ।
किमत्र निगमत्रयस्थितिमताऽपि लालभ्यते
मयि स्थितिरवस्थिता यदि किमुच्यते मुच्यते ॥ ३ ॥
यश्चासौ निवृत्तिधर्मकाष्ठारूपो नैश्श्रेयसो योग उच्यते, सोऽपि मदनु(रो)वेधादेव महतीम् सिद्धिमापादयति । अद्य च,
मुमुक्षुत्वे सिद्धे मुषितमतिमोहस्य मुरभित्
समाधिः सम्रोहन् उपहरति सर्वाघविरतिम् ।
परस्तादास्थेयम् यदिह विदुषाऽनिष्टजनुषा
फलार्थम् तत् किम् वा फलमिति वितर्कः श्रमफलः ॥ ४ ॥
(विचिन्त्य) कीदृशी पुनरिदानीम् किङ्कर्तव्यता? इयम् तावत्,
अघपरिणमितैरमित्रसेदैः करणकलेबरपुत्रदारकाद्यैः ।
ग्रहिल इह मयैव मोचनीयो मुरभिदनुग्रहलीलया मुमुक्षुः ॥ ५ ॥
अत्र चैतदभिनिष्पन्नम् ।
भवरोगैकभिषजा विवेकेन विपश्चिता ।
शमम् दोषगणो नीतः शारीर इव मानसः ॥ ६ ॥
अयम् च क्षेत्रज्ञ इदानीमपुनर्भवयोग्यामवस्थामारूढः । तथा हि,
कामादिकेष्वपगतेषु कथावशेषम् सम्प्रत्यसौ शमदमादिगुणोपपन्नः ।
मैत्रीदयादिपरिकर्मविभूषितेन श्रद्धाधनेन मनसा लभते समाधिम् ॥ ७ ॥
अपि चास्य परश्शतप्रत्यूहशालिन्यपि पश्चिमयुगे परमपुरुष चरणयुगल पातिव्रती प्रभावेन प्रथमयुग इव परम्परित वृद्धिरिव सन्दृश्यते समाधिसिद्धिः । तथा हि,
कलया विहितोदयः कयाचित् प्रतिपच्चन्द्र इवैष विश्ववन्द्यः ।
उपयाति दिनेदिने समृद्धिम् पुरुषो विष्णुपदाश्रितः सितात्मा ॥ ८ ॥
स्वतस्सिद्धस्वच्छस्थिरमधुरचिन्तासुरसरित्
प्रवाहोपश्लिष्टात् प्रणिधिमुखभागादवतरन् ।
चिदानन्दोदन्वत्यनघगुणरत्नौघभरिते
निमज्जत्यन्यस्मिन्नयमपुनरुन्मज्जनमिह ॥ ९ ॥
सम्प्रत्येतस्य सम्भृतसमाधेरुत्तरपूर्वाघाश्लेषविनाशकरणाय विवेकव्यवसायादिभिरुपचि(कीर्षे)क्रम्से ।
(नेपथ्ये)
लुलितभुवनपद्माम् लुम्पतो वासतेयी-
मुदयशिखरिमध्यादुज्जिहानस्य भानोः ।
अपतमसि पदेऽस्मिन् वैष्णवे दृश्यमारादिह
भवति पताकास्थानकम् धाम पूर्वम् ॥ १० ॥
विष्णुभक्तिः – (कर्णे दत्त्वा) सुप्रभातम् प्रख्यापयत्यसौ सुमतिपतेर्विवेकस्य वैतालिकः । अपि च निमित्तान्यपि नैश्श्रेयसीम् सिद्धिम् सूचयन्ति ।
त्रिभुवनमिदम् शान्तक्षोभम् समाधिरनाकुलः
प्रसृमरसुधाधाराकारा प्रसीदति शेमुषी ।
स्फुरति च मुहुर्दृष्टिः सव्या तदप्युपरि स्फुटम्
तदिह महतीम् सिद्धिम् मन्ये झटित्युपतस्थुषीम् ॥ ११ ॥
तदयमवसरस्समीहितसमर्थनस्य । ततश्च,
वैकुण्ठकृपया देव्या मदभीष्टे व्यवस्थितम् ।
प्राध्वम् सङ्कल्पमार्ताण्डम् प्रवर्तयितुमुत्सहे ॥ १२ ॥
न च प्रभूतसम्रम्भयाऽपि मया भगवत्कृपामनालम्ब्य प्रारिप्सितपरिसमाप्तिः सुप्रापा । तथा हि,
शरणागतरक्षणैकदीक्षः समये तत्परिपन्थिनो निरुन्धन् ।
प्रभुरायतते परः कृपायाम् सचिवास्तस्य च सर्व एव देवाः ॥ १३ ॥
अतस्तामेव तावदापतिष्ठे । अद्य च प्रत्यक्षितेव मे भाति पद्मापतेरनुकम्पा । (साञ्जलिबन्धम्)
त्वयि बहुमतिहीनः श्रीनिवासानुकम्पे
जगति गतिमिहान्याम् देवि सम्मन्यते यः ।
स खलु विबुधसिन्धौ सन्निकर्षे वहन्त्याम्
शमयति मृगतृष्णावीचिकाभिः पिपासाम् ॥ १४ ॥
अपि च,
त्वद्दृष्ट्या सकृदीक्षिता दिविषदः स्वम् स्वम् पदम् भुञ्जते
भोगानत्र च भूभुजामभिमतान् पुष्णासि तृष्णाधिकम् ।
किञ्चोदञ्चदनुग्रहा कृपणतामालक्ष्य वैलक्ष्यतो
नैराश्यप्रमुखानि सौति भवती निर्वाणपर्वाण्यपि ॥ १५ ॥
(अद्य पुनर्मातेव स्तनन्धयानामस्माकमभिरक्षणे पक्षपातिनी भवती ।)
फलवितरणदक्षम् पक्षपातानभिज्ञम् प्रगुणमनुविधेयम् प्राप्य पद्मासहायम् ।
महति गुणसमाजे मानपूर्वम् दये त्वम् प्रतिवदसि यथार्हम् पाप्मनाम् मामकानाम् ॥ १६ ॥
(पुरस्तादवलोक्य; सहर्षम्) अयमसाविह विवेकमहाराजागारपूर्वभागे दनुजमथन दया नियुक्तो नृत्तोद्यत इवावतिष्ठते निखिलनिगमनैगमिकविद्यैकराशिर्विहङ्गराजः । प्रसीदति चासौ मे पन्नगरिपुः । ततश्च
आनेतुमात्मरभसेन समीहमानो रक्षोन्मुखम् नतगृहेषु रमासहायम् ।
प्रायः प्रभोस्तदपृथक्स्थितिवृत्तिशक्तिम् सङ्कल्पमप्युपहरिष्यति तद्रथोऽसौ ॥ १७ ॥
तदेनमभिष्टौमि ।
नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने ।
श्रुतिसिन्धु(रसो)सुधोत्पादमन्दराय गरुत्मते ॥ १८ ॥
अपि च,
क्षुण्णक्षोणीधराणि क्षुभितचतुरकूपारतिम्यद्गरुन्ति
त्रुट्यत्तारासराणि स्थपुटितविबुधस्थानकानि क्षिपेयुः ।
पातालब्रह्मसौधावधिविहितमुधावर्तनान्यस्मदार्तिम्
ब्रह्माण्डस्यान्तराले बृहति खगपतेरर्भकक्रीडितानि ॥ १९ ॥
दण्डकेन चैनमण्डजनाथमनुनाथेय ।
गरुडमखिलवेदनीडाधिरूढम् द्विषत्पीडनोत्कण्ठिताकुण्ठ वैकुण्ठ पीठीकृत स्कन्धमीडे स्वनीडागतिप्रीतरुद्रासुकीर्ति स्तनाभोग गाढोपगूढस्फुरत्कण्टक व्रातवेधव्यथावेपमान द्विजिह्वाधिपाकल्प विष्फार्यमाण स्फटावाटिका रत्नरोचिश्छटा राजिनीराजितम् कान्तिकल्लोलिनीराजितम् ।
जय गरुड सुपर्ण दर्वीकराहार देवाधिपाहारहारिन् दिवौक स्पतिक्षिप्तदम्भोलिधाराकिणाकल्प कल्पान्तवातूल कल्पोदयानल्प वीरायितोद्यच्चमत्कार दैत्यारिजैत्रध्वजारोह निर्धारितोत्कर्ष! सङ्कर्षणात्मन् गरुत्मन् मरुत्पञ्चकाधीशसत्यादिमूर्ते! न कश्चित् समस्ते । नमस्ते । पुनस्ते नमः ।
नम इदमजहत्सपर्याय पर्याय निर्यात पक्षानिलास्फालनोद्वेल पाथोधि वीची चपेटाहतागाध पाताल भाङ्कार सङ्क्रुद्ध नागेन्द्र पीडासृणी भाव भास्वन्नख श्रेणये चण्डतुण्डाय नृत्यद्भुजङ्ग भ्रुवे वज्रिणे दम्ष्ट्रया तुभ्यमध्यात्मविद्या विधेया विधेया भवद्दास्यमापादयेथा दयेथाश्च मे ।
मनुरनुगत पक्षिवक्त्र स्फुरत्तारकश्चित्र भानुप्रिया शेखरस्तावकस्त्रायताम् (मायता) नस्त्रिवर्गापवर्ग प्रसूतिः परव्योमधामन् वलद्वेषिदर्पज्वलद्वालखिल्य प्रतिज्ञावतीर्ण स्थिराम् तत्त्वबुद्धिम् पराम् भक्तिधेनुम् जगन्मूलकन्दे मुकुन्दे महानन्ददोग्ध्रीम् दधीथा मुधाका महीना महीना महीनान्तक ।
इदम् च श्रुतमनुचिन्तयामि ।
व्यक्तौ सन्नाहसङ्कल्पौ विश्वगोप्तुरिमौ हरेः ।
प्रथितावागमग्रामे पक्षीश्वरसुदर्शनौ ॥ २० ॥
(सर्वतोऽवलोक्य) अहो नु खलु विष्वक्प्रकाशा दिशो विदिशश्च । तदासीदतीव देवस्य दयावल्लभस्य (दयासखस्य) सङ्कल्पः । [ततः प्रविशति सङ्कल्पः ।]
सङ्कल्पः – (आत्मानम् निर्वर्ण्य)
यस्मिन्विस्मयनीयभूमनि मनागुन्मीलितेनैकधा
सिध्यन्त्यस्य सितासितस्य जगतः स्वर्गापवर्गादयः ।
ऐशः सोऽहमवासरात्यय भवन्मायामहायामिनी-
सत्ताशेषसुषुप्तबोधनपटुः सङ्कल्पसूर्योदयः ॥ २१ ॥
आदिष्टस्सोऽहमनघपरविद्याप्रसादितया प्रदित्सितपारितोषिकया सकलगुणसेव्यया देव्या भगवदनुकम्पया । यथा मदधीनवृत्तिना मोहादिविजयिना विवेकेन जनितभूमा विनिष्पन्नसमाधिः पुरुषः त्वयैव मोचनीय इति । अहम् तु सर्वदा निखिलजगदम्बायास्तदनुकम्पायाः प्रियमाचरामि । न च मया (साधुपरित्राणे तद्विरुद्धनिरसने) तदनुरोधिपरित्राणे तद्विरोधिनिरसने च दुष्करम् किञ्चित् । अहम् हि,
अचरन्मधुकैटभान् पयोधीन् अहिरण्याक्षहिरण्यविप्लुताम् द्याम् ।
अदशाननकुम्भकर्णघोषाम् पुनरुर्वीमपि विक्रमैरकार्षम् ॥ २२ ॥
आस्तामेतत् । अद्य तु,
अनिदम् प्रथमाम् निद्राम् अपावर्त्य क्षणादहम् ।
अनिदम् पश्चिमाम् पुम्सो जनयिष्यामि जागराम् ॥ २३ ॥
तदर्थमपि तावदिदमिदानीमाददीय । यदुत,
मयि विनिहितभारम् मध्यमे वृत्तिभेदे स्थिरमनसमुपायापायरथ्यानिवृत्तम् ।
मुरमथनसमीक्षाशेखरेण स्वभूम्ना मुषितनिखिलदोषम् मोचयिष्यामि जीवम् ॥ २४ ॥
(परिक्रम्य) क्व पुनरिदानीम् मत्समर्थनीय (साध्य) साकाङ्क्षा महाभागा निखिलपापनिराकरिष्णुः विष्णुभक्तिः, यत्प्रीणनार्थोऽयमस्माकमारम्भः । (पुरस्तादवलोक्य) इयम् सा,
नियतपुलकिताङ्गी निर्भरानन्दबाष्पा गलितनिखिलसङ्गा गद्गदस्तोत्रगीतिः ।
अमृतलहरिवर्णा हर्षनृत्तोपपन्ना विगतनरकभीतिर्विष्णुभक्तिर्विभाति ॥ २५ ॥
अपि च,
नियताक्षहयम् सैषा स्फुरत्प्रशमपत्तिकम् ।
मनोरथमधिष्ठाय विष्णुभक्तिरिह स्थिता ॥ २६ ॥
विष्णुभक्तिः – (सहर्षसाध्वसम्) देव! इयमहमस्मि । (इति गद्गतस्वरा दूरतः साष्टाङ्गम् प्रणमति ।)
सङ्कल्पः – (सत्वरादरोदात्त गतिरुपसृत्य सहस्तालम्बमुत्थापयति ।)
विष्णुभक्तिः – देव! नन्तव्योऽसि मया त्वम् नाथसङ्कल्पः । (इति पुनःपुनः प्रणमति)
सङ्कल्पः – भद्रे! अलमेतावता । महायोगेश्वरि! महाप्रभावा खल्वसि । तदिह नामयति भवती मामप्यनेन नमसा ।
विष्णुभक्तिः – देव! धन्येयम् खल्विदानीमहमस्मि । याऽहमिह निरङ्कुशैश्वर्यशालिना भवतैवम् सम्भाव्ये ।
सङ्कल्पः – भद्रे! परावरनिखिलतत्त्वान्तरात्मना भगवताऽपि सम्भावनीयाम् त्वामहम् सम्भावयामीति किमत्र चित्रमवगच्छसि? यदीदृशी भवती,
शमधननिधिः सम्विद्वल्लीसमग्रफलोदयः
श्रु(ति)तपरिणतिः शुद्धिस्थेमा सुखप्रतिभूरसि ।
भवभयतमः प्रातस्सन्ध्या परावरदीपिका
भगवति हरौ भक्तिर्दिव्या परिष्कृतिरात्मनः ॥ २७ ॥
अपि च,
जनन्या सर्वलोकानाम् विष्णुवल्लभया तया ।
कृपया कल्पितस्सोऽहम् त्वद्भ्रूविभ्रमकिङ्करः ॥ २८ ॥
तदादिशतु भवती मामभिमतसाधनाय ।
विष्णुभक्तिः – अहो देव! पारतन्त्र्यपरिग्रहोऽपि स्वातन्त्र्यकाष्ठैव भवतः । तदहमिदानीम् भवतैत भावनीयम् प्रहर्षपरवशा प्रत्यभिज्ञापयामि । अद्य हि,
प्रकृतः क्रियया धिया च योगः परमैकान्त्यपरिष्कृतस्य पुम्सः ।
निधिदर्शनवन्निरूढहर्षम् प्रणिधत्ते विशदम् परप्रकाशम् ॥ २९ ॥
अयम् तावदिदानीमान्तरस्य योगस्य परिपाकः । बाह्यस्य चैतादृशीम् दशामनुभवति पुरुषः । य थासौ
सिद्धे महति पाण्डित्ये सनिर्वेदश्चतुर्विधे ।
प्रणवद्विचतुष्काद्यैः प्रशान्तैरेव मोदते ॥ ३० ॥
सङ्कल्पः – अहो! वैभवमकम्पनीय भगवदनुकम्पा सम्भृतमहिम्नो विवेकस्य – यदयमिह कर्म शृङ्खलैर्निगलितः कलेबर कारागृहे निरुद्धगतिरन्तर्लुठन्नपि निर्मोचितमोहमहाग्रहो निवृत्ति धर्मकाष्ठाम् प्रापितः । अथवा भवत्या एवायम् प्रभावः ।
विष्णुभक्तिः – देव! विश्ववेदिना भवता विवेके मयि च किमिति वैभवमारोप्यते? पश्यतु भवानेतत्,
स्वमायाशैलूषीविहरणपरिभ्रान्ततनुभृत्
परित्राणोद्योगप्रवणकरुणावेशविवशः ।
प्रतिक्षेप्तुम् तापान् प्रभुरयमपर्यन्तमहिमा
हिमानीमानीय स्वपदनतिमेनः प्रणुदति ॥ ३१ ॥
ततश्च,
उपायः स्वप्राप्तेरुपनिषदधीतः स भगवान्
प्रसत्त्यै तस्योक्ते प्रपदननिदिध्यासनगती ।
तदारोहः पुम्सः सुकृतपरिपाकेन महता
निदानम् तत्रापि स्वयमखिलनिर्माणनिपुणः ॥ ३२ ॥
अपिच,
ग्रस्ते पित्तेन चित्ते गलकुहरमुखे सन्निरुद्धे कफेन
व्याप्ते वातेन गात्रे विलपति लपने कान्दिशीके हृषीके ।
जङ्घाले जीविताम्शे जिगमिषति बले जन्तुमुद्भ्रान्तबन्धुम्
कस्त्रातुम् चक्रहस्तादपर इह दयादत्तदृष्टिः क्षमेत ॥ ३३ ॥
सम्वेद्मि च भगवद्दृष्टस्य सर्वविद्भिरपि दुरूहाम् साम्परायिकीम् सम्पदम् । यथा,
कालोपयातकमलापतिदृष्टिपातात् दूरापनीतदुरितादिपरिप्लवोऽसौ ।
सुप्तोऽपि जागरमुपैत्यपुनर्निमेषम् स्वान्तेन निष्प्रतिघमुक्तिमनोरथेन ॥ ३४ ॥
अत्यद्भुतप्रेक्षणीयमिदम् त्वदनुग्रहसुधासारचातकव्रतिनः पुरुषस्येदानीमवस्थानम् । अयम् हि,
कलत्रसुतसोदरप्रभृतिकल्पनाबर्बरैः
अशक्यविनिवर्तनैः अहितशृङ्खलैर्यन्त्रितः ।
निसर्गसुहृदि प्रभो निहितगुप्तिभारः पुमान्
उपस्थितमुपस्थितम् हितमशेषमुद्वीक्षते ॥ ३५ ॥
अतः परम् तु भवन्नि(र्दिष्ट) विष्ठमेव भव्यमवधारयामि ।
सङ्कल्पः – यदिह भवत्या प्रख्याप्यते, प्रत्यक्षयामि तावदेतदखिलम् ।
दुरितजलधिद्वीपप्राये सुखे विगतस्पृहा
पुरुषविषये यत् त्वम् ब्रूषे पुरस्कृतगौरवम् ।
हिततमतया दुर्लङ्घेऽस्मिन् क्रिया परमुत्तरम्
तदपि किमपि प्रत्युक्तम् नः प्रतीक्षणमर्हति ॥ ३६ ॥
यद्यसावनादिभवरसभोगवासना(पाश)परवशः पुरुषः सत्यलोकप्रभृतिषु सम्सार मरुकान्तारपथिकपानीयशालासु विश्रममभिकाङ्क्षेत्, तदा कथमहमेनमस्थाने सपदि मोक्षयेयम् ।
विष्णुभक्तिः – (कर्णौ पिधाय करकमले धून्वाना) मा मैवमाशङ्कनीयम् मदेकसाक्षिकमनोरथे महात्मनि पुरुषे भूतभाविसमस्तवस्तुसाक्षात्कारिणा भवता । इदम् च विज्ञापयामि-
अपि पद्मयोनिरवशो भजते मधुकैटभादिजनिता विपदः ।
इति दृष्टदोषनिवहः पुरुषो न वहेत नाकनरकेषु रतिम् ॥ ३७ ॥
अपि च,
अमृतस्यन्दिनम् कञ्चित् कृष्णमेघम् द्विजः स्मरन् ।
उदन्यया न वेशन्तमुदन्वन्तम् च वीक्षते ॥ ३८ ॥
तदसौ झटिति निस्त्रुटितनिगलयुगलस्त्वया विधातव्यः । अहम् त्विदानीमभिनिर्वर्तिताभिगमनादिनियतिरहिम्सादिमयीमष्टपुष्पीमुपादाय त्वत्प्रभावन्ष्ट श्लिष्ट पूर्वोत्तरपुण्यपापराशिमनन्ययाजिनमनन्यध्यायिनम् च पुरुषमासन्नमुक्तिलाभ व्यवसायजनित निरवधिक प्रमोदमनुमोदितुम् त्वदेकान्तिना विवेकेन सह त्वरितमागमिष्यामि ।
[इति निष्क्रान्ता ।]
सङ्कल्पः – (परितोऽवलोक्य) अयमसावनवधिकस्वमाहात्म्यगोपनप्रदर्शितबालभावः प्रशान्त मधुरगम्भीराकृतिः परब्रह्मसमाधिप्रारम्भभावितममन्दमानन्दमनुभवन् पुलकित निखिल गात्रविडम्बितकदम्बगोलकमलनालः पुण्यतमदर्शनः पुरुषः । अहो महदिदमाश्चर्यम् ।
शृङ्गारवीरकरुणाद्भुतहास्यभीती बीभत्सरौद्रविषयान् अतिवर्तमानः ।
तत्त्वावलोकनविभावसमेधितात्मा शान्तो रसः स्फुरति मूर्त इवैष धन्यः ॥ ३९ ॥
अपि च,
अङ्गान्यस्य मुहुर्मुहुः पुलकितान्यन्तर्मुखम् मानसम्
चिन्ता च द्रुतशर्कराप्रतिनिधिः शीताश्रुणी लोचने ।
मायासारथिगीतयोपनिषदा दृष्टक्रमम् द्रागसौ
मन्ये याति मनोरथेन पुरुषो वैकुण्ठघण्टापथम् ॥ ४० ॥
तमेतम् सर्वधर्मक्षेत्रगिरिनगर तीर्थाश्रमारण्यसारसमाहारमिवैकत्र सम्भृतमस्मदागमन प्रतीक्षमकालक्षेपेणोपसर्पामि । अथवा अन्तर्हितः क्षणमस्याभि प्रायमवधारयामि ।
[ततः प्रविशति श्रद्धादत्तहस्तः प्रशान्तमधुरवेषः पुरुषः ।]
पुरुषः – (स्वावस्थाम् परामृश्य सनिर्वेदम्) हन्त! निरन्तरदुरन्तदुरितकान्तारजाङ्घिकस्य मम दुःसहदुःखजालजटिला जन्मसन्ततिरनन्ताऽतिक्रान्ता । अतः परमपि पूर्वावस्थानिर्विशेष पुनर्भवपरम्पराहेतुभिरपरिमितैः कर्मसञ्चयैरावृतोऽहमवसरप्रतीक्षया भगवदनुकम्पया कथञ्चिन्निवृत्तिधर्मे निवेशितः प्रबलतमविवेकवैभव प्रतिक्षिप्तमोहपक्षोऽपि परप्राप्ति विरहादवसीदामि । (दीर्घम् निश्वस्य)
चिरपरिचितदेहाद्यर्थचिन्तानुवृत्त्या नियतिमनुसरन्त्या नित्यडोलायितात्मा ।
अयमहमिह मन्दद्योतखद्योतकल्पः कतिकति दिवसानि क्षीणशक्तिः क्षिपेयम् ॥ ४१ ॥
अपि च,
न मुक्तो न च बद्धोऽहम् यथा पश्चात् यथा पुरा ।
कृपणः किम् करिष्यामि न करिष्यामि वा स्वयम् ॥ ४२ ॥
अस्ति वा कश्चिदनिदम् प्रथमनिरवधिक कारुण्यराशिरभङ्गुरस्वातन्त्र्यः पथ्यप्रवृत्तौ अपथ्यपरिहारे च प्रभुरेकः प्रमाणम् । तदाहितमतिस्तदेकाधीनप्रवृत्तिश्चाहम् प्रतिबुद्धोऽस्मि । (विचिन्त्य मुहूर्तमिव स्थित्वा)
अमतिविहितैरम् हस्स्तोमैर्झटित्यहमुज्झितः
शमितविपथैः सत्त्वोदग्रैः शमादिभिराश्रितः ।
परमपुरुषध्यानस्तोत्रप्रणाममुखैर्मखैः
परिहतमुधाकालक्षेपः फलोदयमाद्रिये ॥ ४३ ॥
श्रद्धा – भर्तः! अज्ञातपरमार्था स्त्र्यपि किमपि विज्ञापयामि । प्रहर्षयोग्येऽपि समये किम् पुनरात्माऽवमन्यते । नन्वत्यासन्ना खलु युष्माकम् मोक्षसिद्धिः ।
पुरुषः – भद्रे! भविष्यत्यपि परमपुरुषार्थे दृष्टिम् प्रतिरुणद्धि मे दुर्वाराऽसौ दोषानुवृत्तिः । तथा हि,
सकृदपि विनतानाम् सर्वदे सर्वदेहिन्युपनिषदभिधेये भागधेये विधेये ।
विरमति न कदाचिन्मोहतो हा हतोऽहम् विषमविषयचिन्तामेदुरा मे दुराशा ॥ ४४ ॥
श्रद्धा – भर्तः! बालिशबुद्धिरहम् किम् वः प्रतिभणामि । तथाऽपि तरलस्वभावया मया भण्यते । चिरगतमपि वृत्तान्तमिदानीमपि चिन्ताभिराकृष्य भर्त्रा आत्मा विलप्यते ।
पुरुषः – अयि सूनृतवादिनि श्रद्धे! कीदृशः पुनरनागतः प्रारब्धकर्मफलप्रवाहः भविष्यतीति नित्यम् बिभेति मे चेतः । अथ वा किमनया निरर्थकचिन्तया? अच्छिद्रपरभजनयोगिना तु मया नित्यमवहितेन वर्तितव्यम् । तत्र च,
मृत्युरद्येति विदुषा यत् कर्तव्यम् हितैषिणा ।
तदेव नित्यम् कर्तव्यमनिर्धारितमृत्युना ॥ ४५ ॥
श्रद्धा – एवमपि प्रतिकूलचिन्ता भर्त्रा न कर्तव्या । अद्य वा परम् वा मोक्षो भविष्यतीति विस्रब्धहृदयेन भवितव्यम् ।
पुरुषः – भद्रे! साधु भवत्या सम्स्मारितोऽस्मि, यत्तदाम्नातम् ‘इति यस्य स्यादद्धा न विचिकित्साऽस्ति’ इति । तद्भवती मद्विमोक्षणैकतानमनसो विष्णुभक्त्यास्सकाशम् गत्वा ममेदृशीमवस्थामावेदय ।
श्रद्धा – यद्भर्ता आज्ञापयति । [इति निष्क्रान्ता ।]
पुरुषः – (विचिन्त्य साभिलाषमिव स्थित्वा) नाद्यापि तावत्,
पितृपथघटीयन्त्रारोहावरोहपरिभ्रमै-
र्निरयपदवीयातायातक्रमैश्च निरन्तरैः ।
अधिगतपरिश्रान्तीन् आज्ञाधरैरतिवाह्य नः
सुखयति निजच्छायादायी स्वयम् हरिचन्दनः ॥ ४६ ॥
सङ्कल्पः – (सहर्षम्) अवधारितस्वभावोऽयमस्मत्स्वामिसम्मतोऽनन्यभक्तः ।
मिथ्यादृष्टिमुखैर्विवेकमुषितैरस्पृष्टधीः कश्मलैः
उत्तीर्णः प्रतिबुद्धदोषचिदचिद्भोगस्पृहाकर्दमात् ।
निध्यानस्थिरदर्पणप्रतिफलन्नैश्श्रेयसश्रीरसौ
अद्य प्रत्यवपत्तुमिच्छति भवाकूपारपारस्थलीम् ॥ ४७ ॥
अपि च,
प्रगुणवृत्तिरपथ्यपराङ्मुखः कृपणचित्तहरैर्व्यसनग्रहैः ।
अयमपत्रपते निरुपप्लवः परगतैरपि दृष्टपरावरः ॥ ४८॥
अहह! कति कति जगति न सन्ति कर्मिणो योगिनस्तपस्विनश्च । न तेषु कस्यचिदेतादृशस्स्वभावः ।
कम्पन्ते यमकिङ्कराः स्वयमसौ कालश्च सर्वङ्कषः
शङ्कन्ते किल निर्जरा निजपदावष्टम्भनम् पाक्षिकम् ।
रक्षोदानवयक्षगुह्यकमुखा धावन्त्यतो दूरतः
पद्मावल्लभपादपद्मयुगलप्रत्यर्पितस्वात्मनः ॥ ४९ ॥
अपि च,
यत्राप्यसौ सुकृतिभिर्विदितानुभावैरभ्यर्चितो जनपदे निवसत्यनन्यः ।
सिद्धाश्रमप्रतिनिधाविह सर्व एते निर्व्याधयश्च विचरन्ति निराधयश्च ॥ ५० ॥
अहो नु खल्वमुष्य परमपुरुषप्रीतितोऽपि तद्भक्तप्रीतिरतिशेते । इत्थम् किलास्य नियतमालापः ।
नाथे नस्तृणमन्यदन्यदपि वा तन्नाभिनालीकिनी-
नालीकस्पृहणीयसौरभमुचा वाचा न याचामहे ।
शुद्धानाम् तु लभेमहि स्थिरधियाम् शुद्धान्तसिद्धान्तिनाम्
मुक्तैश्वर्यदिनप्रभातसमयासत्तिम् प्रसत्तिम् मुहुः ॥ ५१ ॥ इति ।
तदेनमतिगाढसमाधिसम्श्लेषादमृतजलधिनिहितमकरन्दबिन्दुवदविभक्तमिव भगवताऽवस्थितमनन्ययोगिनमनन्यम् अनुमन्यमानः स्वयमपि धन्यो भवितुमिच्छामि । (सहर्षबहुमानमुपसृत्य) महात्मन्! आश्चर्यश्चर्योऽसि, धन्योऽसि, परमपुरुषदास्यप्रियोऽसि ।
पुरुषः – (सहर्षसम्भ्रमसाध्वसमुत्थाय तत्प्रभावपरवशः प्रणिपत्य प्राञ्जलिस्तिष्ठन्) भगवन्!
अनवधिकवैभवम् त्वामवधारयितुम् न पारयति चेतः ।
आद्यः स एव भगवान् अथ वा तस्य त्वमन्तरङ्गतमः ॥ ५२ ॥
सङ्कल्पः – महाभाग! अहम् किल परमपुरुषसङ्कल्पः । परमैकान्तिपरिषदग्रगण्यमनन्त सुकृतदुष्कृतनिगलयुगलविगलनपूर्विकया परमपदपर्यङ्कपरिष्कारकपरब्रह्मसेवापर्यन्तया भक्ति परिपाकसम्पदासङ्घटयितुम् तदेकवल्लभया कृपणजनविषयकृतपक्षपातया कृपया नियुक्तश्चिर प्रार्थितदर्शनम् भवन्तमुपगच्छामि । तदिह निकटवर्तिन्याम् निःश्रेयससम्पदि निर्विशङ्केन भवता भवितव्यम् । अद्य च,
कच्चित् क्षिप्तरजस्तमस्कमधुना सत्त्वम् समुज्जृम्भते
कच्चिन्मोचितविप्लवश्च करणग्रामो वशे तिष्ठति ।
कच्चित् सङ्घटते समाधिरनघः कच्चित् प्रसन्नम् मनः
किम् वा कैटभकण्टकस्य कृपया जुष्टस्य ते दुर्घटम् ॥ ५३ ॥
पुरुषः – (सहर्षगद्गदम्) अहो नु खलु धन्योऽयमनन्यशरणो जनः । यदेनमनिदम् प्रथमसम्पदा भगवदनुकम्पया प्रचोदितस्तत्रभवान् प्रसीदन् प्रेक्षते । कश्च त्वदीक्षितः समीहितसिद्धौ सन्दिग्धे । निर्धारितश्च निगमान्तनिरूढबुद्धिभिस्त्वदनुभावः ।
यस्याज्ञा विबुधेशमौलिवलभीवास्तव्यपारावती
यद्भ्रूविभ्रमकिङ्करी विधिशिवस्वस्थानसुस्थासिका ।
ब्रह्मस्तम्बधुरन्धरेण मुरभित्सङ्कल्पभूम्ना त्वया
कस्मिन् किम् नु न जाघटीति न च किम् कस्मिन्न जाघट्यते ॥ ५४ ॥
सङ्कल्पः – (स्वगतम्) प्रष्टव्यः पुनरसौ विशेषतः साम्यमिकीम् सिद्धिम् । (प्रकाशम्) भद्र! कीदृशी भवत इदानीम् कृपणजनदवीयसी कृतमुखसम्मुखी समाधिसम्पत्तिः ।
पुरुषः – देव! प्रस्पष्टमनुभूयमानाऽप्यसौ विशेषतो निर्देष्टुम् न शक्यते । तथाऽपि किञ्चिदावेदयामि ।
निरूढनिगमत्रये निखिललोकचिन्तामणौ
प्रसत्तिमधिजग्मुषि प्रणिदधानभावास्पदे ।
रतिम् भजति भावना लयमिवोपयाति द्रुतम्
रमावसुमतीसहाचरितधर्मणि ब्रह्मणि ॥ ५५ ॥
सङ्कल्पः – (सहर्षम्) महात्मन्! अनन्यलभ्या तवेयमवस्था विस्मयावेशविह्वलम् विदधाति मामकम् मानसम् । इयम् हि
निवृत्तिरसवासनानिरवशेषितोपप्लवा
परप्रणिधिपद्धतौ धृतिमुपेयुषी शेमुषी ।
द्रुतप्रवरशर्कराभरितदुग्धधाराकृति
प्रतिक्षणविकल्पनाकलहलङ्घनी वर्तते ॥ ५६ ॥
अपि च,
कवित्वमदकश्मलम् कथकदर्पतिग्मज्वरम्
विकत्थनमिलद्बहुप्रलपनाभिमानग्रहम् ।
परप्रतिपदर्पणप्रथनयातनाम् च स्वयम्
निवर्त्य निरवग्रहाम् निभृतवृत्तिमातिष्ठसि ॥ ५७ ॥
पुरुषः – देव! भवत्प्रसादसम्भवेयम् पराङ्मुखस्वभावस्य मे प्रत्यङ्मुखी बुद्धिवृत्तिः । अचिन्त्यप्रभावश्च भवानागमेषु जोघुष्यते ।
क्रियाशक्तिम् केचित् दनुजमथनीम् हेतिमपरे
मनस्तत्त्वम् चान्ये मधुविजयिनस्त्वामभिदधुः ।
तमेवैके तत्तत्पदविषयजुष्टम् तदिह नः
सदोत्तुङ्गः प्रादुर्भवसि भवसिन्धुप्रमथनः ॥ ५८ ॥
सङ्कल्पः – भद्र! अप्रत्यूहस्त्वयि भगवत इदानीमनघः प्रसादः । अहमपि तदनुप्लवः । ततश्च,
निरपायमुख्यरागम् निजपक्षनिविष्टनित्यहरितत्त्वम् ।
गुणपञ्जरस्थितम् त्वाम् शुकमिव मोक्ष्यामि दिव्यगतियोग्यम् ॥ ५९ ॥
शृणु चेदानीमागामिनीमनन्यलभ्यामपवर्गसिद्धिम् ।
निर्णिक्तत्रिगुणाञ्जनत्य सगुणब्रह्मोपसम्पत्तितः
प्रादुर्भूतगुणाष्टकस्य च परमम् साधर्म्यमभ्येयुषः ।
पारावर्यविभागलक्षणपरित्यागप्रसङ्गोज्झिता
शेषादेरिव शेषवृत्तिरपि ते सत्तावधिः सेत्स्यति ॥ ६० ॥
अपि च,
सुहृदस्तवाऽऽददीरन् सुकृतफलम् यत् त्वया परित्यक्तम् ।
दुष्कृतफलम् द्विषन्तः प्रारब्धान्ते परम् पदम् विशतः ॥ ६१ ॥
पुरुषः – देव! भवत्प्रसादलभ्याम् भाविनीमवस्थाम् प्रतिबुध्य निरूढहर्षा मुक्तकलिर्नृत्यतीव मे बुद्धिः । अपुनर्भवस्तु भविष्यति न वेति सन्दिहानो भृशम् दूये । तदिह कथम् कल्पितोऽहमिति,
वितमसि पदे लक्ष्मीकान्तम् विचित्रविभूतिकम्
सचिवगमितः सम्पद्याविर्भवत्सहजाकृतिः ।
स्फुटतदपृथक्सिद्धिः सिद्ध्यद्गुणाष्टकतत्फलो
भजति परमम् साम्यम् भोगे निवृत्तिकथोज्झितम् ॥ ६२ ॥
ततश्च यद्यहमभिज्ञातुमर्हामि, तदा ज्ञापयितुमभिवाञ्छामि ।
सङ्कल्पः – भद्र! (कथम्) किम् नु भवते प्रदित्सितस्वाराज्याय सिद्धम् न सम्वेद्यते ।
अवताररहस्यतत्त्ववेदी विबुधग्रामटिकासु वीतरागः ।
अपुनर्भवनेन निर्व्यपायम् प्रतिगन्तासि परम् पदम् त्रिधाम्नः ॥ ६३ ॥
श्रद्धत्स्व चैनमपि सत्यवाचो मे सशपथम् व्याहारम् ।
स्वसेवासार्वभौमत्वम् भवते परमात्मना ।
विवेकस्य च वीरस्य यौवराज्यम् प्रदित्सितम् ॥ ६४ ॥
अपि च,
मुक्तस्त्वम् सकृदेव साम्प्रतमितः प्रागुत्तरैः कर्मभिः
प्रत्यक्षाल्परसम् परित्यज न वा प्रारब्धभोगम् प्रियम् ।
अस्माभिः पुनः आदिपूरुषदयादेवीकृतप्रेक्षणैः
त्वद्वृत्तान्तसतत्त्वविज्ञपनतः सिद्धोत्सवा सेव्यते ॥ ६५ ॥
तदामन्त्रयामि भवन्तम् । (इति द्वित्रिपदमतिक्रम्य) विद्यासन्तत्यविच्छेदाय जगति विख्यापयामि किञ्चित् ।
भगवति नियतात्मा भागधेये श्रुतीनाम्
पुरुष इह महात्मा वर्तते भूतधात्र्याम् ।
तदयमवदधानैः सर्वमन्तेवसद्भिः
पृथुमतिभिरभीष्टम् पृच्छ्यताम् विश्वदर्शी ॥ ६६ ॥
[इति पुरुषम् परिवृत्य पश्यन्निष्क्रान्तः ।]
पुरुषः – (सहर्षम्) प्रत्यक्षितप्रभावा मयीदानीम् विश्रुतपूर्वा विश्वकर्तुरघटितघटनाशक्तिः । यदहमनन्तापराधसन्ततोऽप्यपवर्गहेतुना प्रसादेन परिगृहीतोऽस्मि । किम् च,
यदिह पुरा पुराणपुरुषेण बहिष्करणात्
प्रमितविरुद्धवृत्ति विषमम् प्रचचार बहिः ।
तदिदमहो तमेकमनुभूय रसातिशयात् स्वपिति
मनो मदीयमवलिम्पति मुह्यति वा ॥ ६७ ॥
अपरमपि विचित्रमेतदनुभवामि ।
अन्येषामजहत्त्रिवर्गमनसामायुःक्षयत्रासदैः
अप्रत्यूहगतिक्रमैरवितथव्यापारधन्यस्य मे ।
भ्रश्यद्भिर्दिवसैः प्रवृद्धवृजिनाकूपारपारीभवन्
प्रत्यासीदति मुक्तिवासर इति प्रीतिः प्रतिष्ठाप्यते ॥ ६८ ॥
इदमपि च महत्तरम् प्रीतिकारणम् । यदेतत्,
दहरकुहरे देवस्तिष्ठन् निषद्वरदीर्घिका-
निपतितनिजापत्यादित्सावतीर्णपितृक्रमात् ।
धमनिमिह नस्तस्मिन् काले स एव शताधिकाम्
अकृतकपुरप्रस्थानार्थम् प्रवेशयति प्रभुः ॥ ६९ ॥
अधिगतम् च महदिदानीमस्माकमैश्वर्यम् । तथा हि
प्रत्यूहान् अवधीत् विवेकसुभटो युद्धेषु बद्धेषुधिः
तद्भूम्नैव हता धियस्तरलता सम्भूय सा भूयसा ।
प्रत्यक्षागमयुक्तिभिः प्रणिहितत्रित्वेषु तत्त्वेष्वमी
लक्ष्यालक्ष्यगुणेषु लब्धधिषणोत्सेधाः समेधामहे ॥ ७० ॥
अपि च, निरन्तरमन्तरात्मानुभवरसमीश्वराज्ञानुवर्तनप्रीतिम् च यावज्जीवमनुपालयतो मे नित्यसन्निहितैव नैश्श्रेयसी सिद्धिः । तदेतदखिलम् यन्मुखेन मया समधिगतम्, तमसहायवीरम् विवेकम् विचित्रमहिमशालिनीम् विष्णुभक्तिम् चामोघवाञ्छितः सन्द्रष्टुमिच्छामि । अत्र चैतौ तुलसीवननिवासिनीम् द्वादशीमुपसेवमानौ नूनमुपस्थास्येते । यावदिमावुपसर्पामि,
[ततः प्रविशति विवेकः सुमतिर्विष्णुभक्तिश्च ।]
विष्णुभक्तिः – महाराज! दिष्ट्या त्वया जिताश्शत्रवः । पुरुषश्चाशेषविकृतिप्रसूत्या प्रकृत्याऽनिदम् प्रथमबम्भ्रम्यमाणगर्भजन्मजरामरणादिचक्रयन्त्रमारोप्य क्रीडन्त्या निपीड्यमानो निवृत्तिधर्मप्रभृति निःश्रेणिकाक्रमेण निःश्रेयसप्रासादसमारोहणाय नियोजितः । अहो नु खलु भवन्तमनवधिकवैभवमवधारयामि ।
महासत्त्वोदारस्थिरमधुरगम्भीरहृदयः
कृपोत्साहोत्तुङ्गः कृतविदभिगम्यः प्रणयिनाम् ।
श्रुतप्रज्ञामेधास्मृतिजलधिरक्षुद्रचरितः
त्वमेकः सर्वासामनघफणितीनामभिमतः ॥ ७१ ॥
अपि च,
धीरोदात्तानुकूलोत्तमगुणमहिमा नायकेष्वग्रणीस्त्वम्
स्वाधीनात्वत्सनाथा सुमतिरभिमता धर्मपत्नी तवासौ ।
स्वायत्ता चाद्य सिद्धिः समजनि भवतः स्वामिनिःश्रेयसार्था
रामस्त्वम् च त्रिलोक्याम् रणविहृतिमुखैरप्रधृष्यानुभावौ ॥ ७२ ॥
राजा – महाप्रभावे! सर्वमिदम् त्वत्प्रसादप्रसूतमेव । ‘भक्त्या त्वनन्यया’ इति भगवतैव च गीयते । (विचिन्त्य) अद्यापि न प्रकृत्या पुरुषः परित्यक्तः, नापि चासौ –
ज्वलनदिवसज्योत्स्नापक्षोत्तरायणवत्सरान्
पवनतपनप्रालेयाम्शून् क्रमादचिरद्युतिम् ।
जलधरपतिम् देवाधीशम् प्रजापतिमागत-
स्तरति विरजाम् दूरे वाचस्ततः परमद्भुतम् ॥ ७३ ॥
अयम् हि,
मलिनिमदशामातन्वानैर्मलीमसवस्तुभि-
र्मणिरिव महान् अन्तर्ज्योतिर्निरुद्धनिजप्रभः ।
शुभतररुचिप्रत्यासेधस्वकर्मफलच्छलात्
जडपरिषदि न्यस्तो दैव्या न दीव्यति मायया ॥ ७४ ॥
सुमतिः – आर्यपुत्र! अविच्छिन्नप्रवृत्तकेवलपरसन्तपनकेलिशालिन्या मायया किम् फलम् लब्धम् लभ्यते वा?
राजा – न किञ्चिदपि । (सनिश्वासम्)
विषतरुफलपाकदर्शनीयैर्विषयरसैः पुरुषम् निरुद्धदृष्टिम् ।
अलभत किमसौ फलम् विचेता विषमगुणा गुणिनम् विलोभ्य माया ॥ ७५ ॥
विष्णुभक्तिः – नासौ महाराजस्य निर्वेदावसरः । अद्य हि परसङ्कल्पकल्पान्तपावकेन प्रारब्ध कर्मलेशपरिशेषः उपशोषितः पुरुषस्य दुरितार्णवः । प्रकृतिरपि निर्मोककल्पा शेषपरिशुद्धस्वभावम् पुरुषमायुषः पारे तमसः पारे (च) निर्मोक्ष्यति ।
राजा – (सहर्षम्) भगवति सिद्धप्रायस्समीहितः । तर्हि सफलप्रयासोऽस्मि ।
सुमतिः – आर्यपुत्र! किमेतद्भगवत्या भाषणमस्माकमुपच्छन्दनम्, अथवा अनलीकमिति डोलायमानमानसाऽस्मि ।
राजा – प्रिये! मैवम् मन्वीथाः । सत्यवादिनी खल्वेषा सनकसनन्दनादिभिर्महनीया महातपस्विनी । श्रद्धत्स्व चैतत्,
निर्जरीभिरपि नित्यदुर्लभे जातु काचिदिह जातकौतुका ।
लप्स्यसे ललितकाङ्क्षिणी स्वयम् मत्प्रिया त्वमनघम् मनोरथम् ॥ ७६ ॥
सुमतिः – महान् खल्वेष प्रसादः सहधर्मचारिणीविषये महाराजस्य ।
राजा – (परिक्रम्य) इदमहमिदानीम् मदेकार्थेभ्यश्चिरपरिचर्यापरिश्रान्तेभ्यः प्रहर्षकारणम् विज्ञापयामि ।
विद्याभिः स्वविम्पक्षभङ्गपटुषु स्थानेष्ववस्थीयताम्
सिद्धार्थैरनुमन्यताम् शमदमस्वाध्यायतोषादिभिः ।
मत्सूतस्य मनोरथस्य रथिना दृष्टाध्वना सम्प्रति
प्रत्यावृत्तिकथोज्झितेन परमम् ब्रह्म प्रतिष्ठाप्यते ॥ ७७ ॥
अपि च,
प्राचीमेकपदीम् त्यक्त्वा प्रतीचीमास्थितः प्रभुः ।
उदीचीमेव गन्ताऽसौ न त्ववाचीम् कथञ्चन ॥ ७८ ॥
(आकाशे डिण्डिमध्वनिः । सर्वे समाकर्ण्याद्भुतकौतुकम् नाटयन्ति ।)
विष्णुभक्तिः – श्रूयतामिदम् महाराजेन,
निवृत्तमतिकश्मलो निभृतबुद्ध्यबुद्धीन्द्रियः
परप्रणिधिवैभवत्रुटितकर्मबन्धः कृती ।
विमुक्तिपदमद्भुतम् द्रुतमुपैति विद्वानिति
त्रिवर्गरसघस्मरस्त्रिदशडिण्डिमस्ताड्यते ॥ ७९ ॥
पुरुषः – (सहर्षम्) अस्मन्महोदयसन्तुष्टोऽयम् वत्सो विवेकः सुमतिविष्णुभक्तिभ्याम् सह इत एवाभिवर्तते । तदहमेतान् प्रत्युद्गच्छामि ।
राजा – (पुरस्तान्निर्दिश्य) प्रिये! एष कुलपतिरस्माकम् अतर्कितोपनत परसङ्कल्पनिवृत्त पूर्वापरपुण्यपापराशिरस्मद्दिदृक्षया समायाति । तदयमस्माभिस्समाहितैरभिगम्योपसर्तव्यः । (सर्वे सप्रश्रयम् त्वरितमुपसृत्य प्रयतबुद्धय प्रणिपतन्ति ।)
पुरुषः – सर्वे दीर्घायुषो भूयास्त । भद्रे विष्णुभक्ते! अनन्य साधारणावगत प्रभावनिर्धूत निखिलपरपक्षेण जितकाशिना वत्सेन विवेकेन दिष्ट्या समागतोऽस्मि । (विवेकमुपगूह्य सस्नेहबहुमानम्) वत्स विवेक महावीर! अनादि निजकर्म सन्तति प्रवृत्तया निद्रया निर्भरप्रसुप्तोऽहम् त्वयैव खलु अस्मत्प्रतिकूलसकुल्यघातिना प्रतिबुद्धदशाम् प्रापितः । अनया च परित्यक्तफलान्तरया विष्णुभक्त्या पुनरस्मद्धितैकनिरतया दुःसहानन्तदुःखसन्तत्यनुवृत्तिनिदानभूतदुरितराशिरुपसम्हृतः ।
राजा – (स्वगतम्) हन्त कुलक्षयहेतुरयमिति कुलपतिरक्षकम् माम् कुटिलमतयः केचिदपवदितुमिच्छन्ति ।
गतद्रविणदोहदम् गलितमाननागौरवम् यशस्यनभिसन्धिकम् यमिनमप्यनुद्गृह्णति ।
तिरस्करणकौतुकग्रहगृहीतचित्ते जने गुणग्रहणलालसो न खलु कश्चिदालक्ष्यते ॥ ८० ॥
अलमनेन । (प्रकाशम्) तात …. इत्यर्धोक्ते सवैलक्ष्यमवनतमुखस्तिष्ठति ।
विष्णुभक्तिः – भगवन्! महाराजस्य विवेकस्य विवक्षितम् विज्ञापयामि ।
कुल्यत्वेन परिग्रहेऽपि कुटिलप्रस्थानभागिष्वसौ
कूटस्थप्रतिकूलवृत्तिषु कृपादाक्षिण्यलेशोज्झितः ।
कामादेः स्वयमौर्ध्वदेहिकविधिम् कृत्वा यथार्हम् कृती
द्रष्टुम् त्वाम् त्रुटितस्वकर्मनिगलम् प्राप्तो विवेकः प्रभुः ॥ ८१ ॥
पुरुषः – (सहर्षबहुमानम्) भद्रे, परमयोगिबहुमतप्रभावे! विष्णुभक्ते! परित्यक्तस्वप्रयोजनमसम्भवत्प्रत्युपकारमेवमुपकृतवद्भ्यो भवद्भयः परितोषानुगुणम् कमपि वरम् प्रयच्छामि ।
विवेकोऽयम् तत्त्वेष्ववितथविशेषग्रहतनुः
भवोदन्वद्दोषप्रतिगमनिकात्मा च सुमतिः ।
परप्रेमाकारा त्वमिति समवेतास्त्रय इमे
तमःपारे त्यक्तत्रिगुणमपि च त्यक्ष्यथ न माम् ॥ ८२ ॥
(विवेको विष्णुभक्तिश्च साञ्जलिबन्धम्) अनन्यलभ्यः प्रसादोऽयम् अस्मास्वत्रभवतः ।
सुमतिः – (सहर्षम्) महान् हि एष वरः महनीयः, यदार्यपुत्रस्य सहधर्मचारिणी भवामि ।
विष्णुभक्तिः – भगवन्! अद्य खल्वासन्नसिद्धिरेव स भवानिति देशिकप्रसादलब्धदिव्यश्रुतिचक्षुषो मे हृदयमेव कथयति । तथा च, सिद्धपूर्वैः सुनिमित्तैरपि सूच्यते । इह हि,
दिव्यस्सम्प्रति दुन्दुभिर्दिशि दिशि ध्वानैर्मुहुः श्रूयते
देवानामपि हावुहावुलहरी विक्षोभयत्यम्बरम् ।
आरब्धप्रतिसम्स्कृतिः कृतमुखैरर्चिर्मुखैः श्रीपते-
राज्ञाधारिभिरातिवाहिकगणैरादिश्यते पद्धतिः ॥ ८३ ॥
पुरुषः – (सहर्षोल्लासम्) अतस्तर्हि कृतकृत्यान् भवतः कृतार्थोऽहमामन्त्रयामि ।
अलम् कालप्रहाणेन प्रतीक्षे पश्चिमम् दिनम् ।
अस्मदेकहितैषिभ्यः स्वस्तिवः साधयाम्यहम् ॥ ८४ ॥
अपि च,
ग्रहस्वप्ननिमित्तादिमोघचिन्तापराङ्मुखः ।
प्राप्तम् प्राप्तमुपासीनः प्रवेक्ष्यामि परम् पदम् ॥ ८५ ॥
अहह! रसरुधिरपिशितमेदःकीकसमज्जाशुक्लमयकलेबरकारागृहान्निष्क्रान्तः शबरकुटीरकोटरात् सार्वभौमपितृसदनसौधाधिरोहणाय सन्त्वरमाण इव राजकुमारः, तत्तद्देशाधिकारिभिः आतिवाहिकगणैः अनितरसुलभेन देवयानेन त्रिगुणमरुकान्तारमतिवाहितः, तमःपारभूतम् परमपदमधिरोक्ष्यामि । यत्र च,
सव्यम् पादम् प्रसार्य श्रितदुरितहरम् दक्षिणम् कुञ्चयित्वा
जानुन्याधाय सव्येतरमितरभुजम् नागभोगे निधाय ।
पश्चाद्बाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे
देवीभूषादिजुष्टो जनयति जगताम् शर्म वैकुण्ठनाथः ॥ ८६ ॥
(परिक्रम्य, सविनयमञ्जलिम् बद्ध्वा ।)
दिवि भुवि च निविष्टान् देशिकान् दिव्यभूम्नः
प्रणतिनियतवृत्तिः प्रार्थये कञ्चिदर्थम् ।
अधिजिगमिषुराद्यम् धाम युष्मत्प्रभावात्
प्रियगतिरनुगृह्य प्रेक्ष्यताम् भृत्य एषः ॥ ८७ ॥
अपि च,
एते मह्यमपोढमन्मथशरोन्माथाय नाथादयः
त्रय्यन्तप्रतिनन्दनीयविविधोदन्ताः स्वदन्तामिह ।
श्रद्धातव्यशरण्यदम्पतिदयादिव्यापगाव्यापकाः
स्पर्धाविप्लवविप्रलम्भपदवीवैदेशिका देशिकाः ॥ ८८ ॥
[इति विवेकसुमतिविष्णुभक्तिभिः सप्रसादबहुमानम् समीक्षमाणः सिषाधयिषितोत्तरकृत्यो निष्क्रान्तः ।]
सुमतिः – आर्यपुत्र! अथ किम् प्रतिपालितमोक्षदिवसस्य अस्मत्कुलपतेरभिलषितलाभो विलम्बेत ।
राजा – देवि! अस्माभिरनया च महाप्रभावया विष्णुभक्त्या नित्यप्रत्यूढ निखिलान्तरायस्य तातस्य किम् नाम सम्प्रति काङ्क्षितविलम्बकारणम् । पश्य पश्य ।
नन्वहम् सुमतिजानिरेकधीः त्वम् विवेकसहधर्मचारिणी ।
आवयोर्मतमनन्यभावयोरर्थ्यमेतदचिरेण सेत्स्यति ॥ ८९ ॥
सुमतिः – आर्यपुत्र! इदानीम् कुत्र गत एष कृतकृत्यो महापुरुषः ।
राजा – प्रिये! वक्तव्यमेतत् । भूतभाविसमस्तवस्तुवेदिन्या भगवत्या विष्णुभक्त्या ।
विष्णुभक्तिः – (निमीलितदृष्टिः प्रणिधानमभिनीय) नूनमनिकेतो यत्रसायङ्गृहत्वमास्थितो यथालब्धवृत्तिर्योगी । अथ वा,
श्रीरङ्गम् वृषभाचलम् करिगरिम् श्रीमत् यदुक्ष्माधरम्
साकेतम् मधुरामुपैष्यति हरिक्षेत्रम् बदर्याश्रमम् ।
अन्तस्सम्भृत सप्ततन्त्ववभृथात् आ देहपातोदयात्
यद्वा सम्प्रति यत्र कुत्रचिदसौ यत्रेकतानम् मनः ॥ ९० ॥
अपि च,
स्वयम् व्यक्तक्षेत्रे विपिनविषये वा विधिवशात्
प्रशस्ते दुष्टे वा क्वचन विषये त्यक्तवपुषः ।
मुकुन्दस्त्रय्यन्तप्रथितमहिमा सोऽयमनघान्
प्रपन्नान् उद्धृत्य स्वपदमनपायम् गमयति ॥ ९१ ॥
अद्य चासौ निखिलजगदेकदेहिना नित्यनिरवद्येन देवेन निजनगर पर्यन्त मनघपुनरावृत्तिमध्वानम् निनीषितः । तेन,
देवर्षिभूतपितृमर्त्यऋणातिलङ्घी दत्ताभयस्य कृपया दृढभक्तिशाली ।
पत्युः समस्तजगताम् परमम् पदम् तत् प्राप्स्यत्यसौ गुरुजनैः प्रथमाधिरूढम् ॥ ९२ ॥
इदमपि किञ्चिदचिन्त्यमहिमशालिनि अमुष्मिन् महात्मनि अद्भुतमवलोकयामि । अद्य हि,
कृतमिह दुरितम् प्रमादवृत्त्या किमपि मुकुन्दकृपानिमग्नमेनम् ।
पवनतनयवालवह्निनीत्या न दहति धक्ष्यति योजितम् परेषु ॥ ९३ ॥
राजा – (सहर्षबहुमानम्) भगवति विष्णुभक्ते! विश्वसाक्षात्कार विचक्षणायास्ते किमेतावत्परिमितातिशय दर्शनमाश्चर्यम् । (विचिन्त्य स्वगतम्) महाप्रभावैषा मम वन्दनीया । (प्रकाशम्)
विधिवशनियतेन विष्णुभक्ते! प्रणिपतनेन वयःक्रमाधिकोऽपि ।
उचितमुपचरामि विश्वमान्याम् हरिपदपद्मरतिम् परामहम् त्वाम् ॥ ९४ ॥
(सुमतिम् विलोक्य) प्रिये! त्वमप्येनामस्मत्प्रयुक्तप्रतिष्ठामप्यादिपूरुषमूर्तिमिव प्रणन्तुमर्हसि ।
विष्णुभक्तिः – (सप्रश्रयम्) महाराज! अनादिसम्सारसागर निमग्नमस्मत्कुलपतिम् पुरुषमुद्धतवते पूर्वजाय भवते प्रतिप्रणाममभिरोचयामि ।
विवेकः – महायोगेश्वरि!
किम् विज्ञानैः किम् तपोदानयज्ञैः किम् वाऽन्यैश्च त्वत्परित्यागदीनैः ।
ज्ञातुम् द्रष्टुम् तत्त्वतश्च प्रवेष्टुम् शक्यम् ब्रह्मानन्यभाजा त्वयैव ॥ ९५ ॥
विष्णुभक्तिः – (विचिन्त्य) भवत्वेतदेवम् अन्यथा वा । प्रत्येमि तावन्मत्समक्षमेव मनीषितम् साधयतः स्वयमकर्तृत्वाभिमानाभिप्रायम् । सर्वथा निस्तरति तावदयमसौ निष्प्रत्यूहभगवदनुकम्पावलम्बितः पुरुषस्सर्वदोषाकरम् सम्सारसागरम्; प्रविशति च परमम् पदम् । किम् ते भूयः । प्रियमुपहरामि ।
राजा – भगवति महानुभावे!
किम् तत्प्रियम् परमतः प्रतिपादनीयम् पद्मासहायपदपद्मजुषा भवत्या ।
पश्यामि यत् पुरुषमेवमपास्तपङ्कम् राकाशशाङ्कमिव राहुमुखाद्विमुक्तम् ॥ ९६ ॥
अपि च,
अपुनरुदयो मायामोहः स्थलीमधिशायितः
स्फुरति मुरभिद्भक्तिर्भव्या भवत्यनुपप्लवा ।
सरणिमपुनःप्रत्यावृत्तिम् भजत्यनघः पुमान्
किमिह बहुभिः क्रीडत्यग्रे समीहितमद्य नः ॥ ९७ ॥
किमन्यदहमिह भवत्यास्सकाशादाशासे । तथापीदमस्तु – भरतवाक्यम् ।
अङ्गीकुर्वन्त्वकलुषधियो नित्यमध्यात्मविद्याम्
आद्यो धर्मः स्पृशतु वसुधामाशिषः पारवर्ती ।
देवः श्रीमान् निरवधिदयासिन्धुरस्मिन् प्रबन्धे
वक्ता श्रोता वचनविषयः प्रीयताम् वासुदेवः ॥ ९८ ॥
[इति निष्क्रान्तास्सर्वे ।]
इति श्रीकवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके (निःश्रेयसलाभः नाम) दशमोऽङ्कः ।
स्तोतुम् निन्दितुमस्मदुक्तमथवा सोढुम् समूढम् जगत्
किम् नश्छिन्नमनन्तचिन्तनरसे सुस्थे सुखम् तस्थुषाम् ।
शिष्याः शिक्षितबुद्धयः श्रुतिपथे येषाम् वयम् ये च नः
तत्सन्तोषसमर्पणक्षममिदम् साडम्बरैः किम् परैः ॥ ९९ ॥
इति सङ्कल्पसूर्योदयनाटक ग्रन्थः
श्रीकवितार्किकसिम्ह श्रीमद्वेदान्तदेशिकविरचितः
॥ ग्रन्थश्च समाप्तः ॥