नवमोऽङ्कः
समाधि सम्भवः
चूलिका (नेपथ्ये)
मोहाकूपारकुक्षिम्भरिरयमनघो मुक्तिवीरुत्प्ररोहः
प्रज्ञासौधैकदीपः प्रतिसमयकथातूलवातूलवेगः ।
दुःखद्वारोपरोधस्थिरतरपरिघो दूरतः प्रत्युपैति
क्रूरक्रोधाशुशुक्षण्युपशमनसुधासारसेको विवेकः ॥ १ ॥
Iतिचूलिका [ततः प्रविशति राजा व्यवसायश्च ।
राजा – (सहर्षबहुमानम्) सेनापते! अद्य खलु मया त्वत्पुरस्कारेण निर्जितः सर्वदोषप्रसूतिः मधुकैटभादिभिर्महासुरैः, महद्भिरपि देवैः दुर्जयो महामोहः ।
व्यवसायः – देव! वयम् हि भवतो वाहनादिवदुपकरणमात्रम्, प्राधान्यम् तु सर्वत्र भवत एव । अनुस्मरतश्च ते तादृशम् समरविहारम् अद्यापि विस्मयाविद्धम् मे मानसम् । तदा खलु,
न भ्रूरभज्यत न च भ्रुकुटी निबद्धा नैवारुणम् प्रकृतितो नयनाञ्चलम् ते ।
कुत्राभवन्निति न वेद्मि भवत्प्रतीपाः चण्डद्युतावुदयतीव तमःप्रबन्धाः ॥ २ ॥
किम् च,
त्रिगुणात्मिकया तिरस्करण्या स्थगयामास शुभम् य एष मोहः ।
स बभूव तदा त्वदाभिमुख्ये दिवसारोपितदीपनिष्प्रकाशः ॥ ३ ॥
अद्य तु,
लम्बालकैरविरलक्षरदश्रुपूरैः म्लानैरपत्रतिलकैर्वदनारविन्दैः ।
शम्सन्ति शौर्यविभवम् भुजशालिनस्ते मोहावरोधसुदृशो मुषिताङ्गरागाः ॥ ४ ॥
विवेकः – (सान्तस्तोषम्) स्वयम् प्रवृत्त स्वतन्त्रकृत्ये किम् परतन्त्रानस्मान् प्रशम्ससि? तथा हि,
वायुर्दोधूयते यत् यदयमुडुगणो बम्भ्रमीति द्रुतम् खे
तेजो जाज्वल्यते यत् यदपि न जलधिर्माधवीम् दोधवीति ।
भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च तादृक्च सर्वम्
स्वायत्ताशेषसत्तास्थितियतनपरब्रह्मलीलोर्मिचक्रम् ॥ ५ ॥
किम् च,
यथाधिकरणम् प्रभुर्यजनदानहोमार्चना-
भरन्यसनभावनाप्रभृतिभिः समाराधितः ।
फलम् दिशति देहिनामिति हि सम्प्रदायस्थितिः
श्रुतिस्मृतिगुरूक्तिभिर्नयवतीभिराभाति नः ॥ ६ ॥
ततश्च,
प्रभुणैव सर्वजगदुद्भवस्थिति प्रलयप्रवाहपरिरब्धकेलिना ।
अहमस्त्रमन्त्रपरिमृष्टदर्भवत् गमितः स्ववध्यनिधने निमित्तताम् ॥ ७ ॥
व्यवसायः – देव! विक्रमादपि गरीयाम्स्तवासौ विनयगरिमा । (साद्भुतरोमाञ्चम्) देव!
दर्पोदग्रनियुद्धतावकभुजानिर्घातपातोदित-
स्फारासृक्परिवाहगद्गदरवो मोहः पतन् अग्रतः ।
अद्यापि स्मृतिमभ्युपैति मथनक्षोभक्षरद्गैरिक-
स्रोतस्सम्प्लुतमन्दरक्षितिधरक्षेपक्षणाक्षेपकः ॥ ८ ॥
इह पुनरिदानीम् विश्वविख्यात वीरायितस्य ते विभूतिसमुचितम् किमपि मङ्गलमाचरणीयम् । अद्य तु,
युक्तायुक्तवितर्कदक्षमतिभिर्युष्मद्भटैरुद्भटै-
र्निर्धूताखिलशल्यकण्टकतति र्नैःश्रेयसी पद्धतिः ।
मोहध्वम्सधुरन्धरस्य तव तु त्रय्यन्तपीठे मह-
त्यासीदत्यभिषेकमङ्गलविधेरभ्यर्हितोऽयम् क्षणः ॥ ९ ॥
राजा – सेनापते! मैवम् वादीः । अनिष्पन्नसमाधौ पुरुषे कथमहमभिषेक्तव्यः । तथा हि,
करणहरिणश्रेणीदूरापकर्षणदारुणाम्
कलुषतपनस्फायन्मायानिदाघविजृम्भिताम् ।
विषमविषयास्वादोत्कण्ठामयीम् मृगतृष्णिकाम्
मुनिरतिपतन् मुक्तिद्वारम् गवेषयते मुहुः ॥ १० ॥
(अतः) प्रक्रान्तमात्रा खल्विदानीम् परब्रह्मोपलब्धिः । परिनिष्पत्तिस्तु दुर्लभेति परिपश्यामि । तथा हि,
कथमद्य निरालम्बम् कर्मशृङ्खलितः पुमान् ।
आरोहतु दुरारोहम् समाधिगगनस्थलम् ॥ ११ ॥
(विचिन्त्य) अस्त्वेवम् तावत् –
सत्त्वोदग्रसमग्ननन्दथुभुवः सालम्बनध्यानतः
शुद्धे चेतसि यद्यपि प्रभुरिहादृश्यो दरीदृश्यते ।
प्रत्यग्वस्तुविशेष्यवर्ष्मणि पुनस्तस्मिन् दृढप्रेक्षिते
नाथ सोऽहम् अहम् स इत्यपि गिरो नाध्यासमध्यासताम् ॥ १२ ॥
व्यवसायः – देव! अद्यापि कथमध्यासः । पुरुषः खल्विदानीम् स्वशरीरे स्वात्मबुद्धिम् विहाय स्वात्मनि परशरीरत्वबुद्धिमनुरुन्धे ।
राजा – हन्त! सिद्धप्रायमपि सर्वम् सान्तश्शल्यमिवाद्य सन्दृश्यते । तथा हि,
तत्त्वज्ञाने विशुद्धे शमयति दुरितारम्भमात्मावधाने
व्यक्ताकृष्टेतराक्षे विरमति च मनोवानरे चापलात् स्वात् ।
भस्मच्छन्नाग्निकल्पः परपरिभवनाद्यागमे दीप्यमानः
श्लक्ष्णः सम्स्कारसारः शिथिलयति शनैरुज्जिहानम् समाधिम् ॥ १३ ॥
अपि च,
क्रमपक्त्रिमकर्मजागरूकस्थिरसम्स्कारनिरुध्यमानचित्तः ।
स्मरति प्रणिधातुमेकतानो बहिरर्थान् विवशः पितामहोऽपि ॥ १४ ॥
तथाऽपि स्वतन्त्रानुग्रहदत्तहस्तेन मया कदाचिदपि न स्खलितव्यम् । सम्भावितस्खलितम् च सिषाधयिषितम् ।
बहुरपि लघुः प्रत्यक्चिन्ता बहिर्विषयाटवी-
विहृतिचटुलम् चेतो रोद्धुम् कथम् प्रभविष्यति ।
अनिभृततटक्रीडोत्कण्ठाविजृम्भितसम्भ्रमे
कलभचरणे लूतातन्तुः कथम् निगलायते ॥ १५ ॥
व्यवसायः – महाराज! किमिह पुनः प्रत्यूहशङ्कया ।
स्वयमिह विपदो वा स्वप्नवत् सम्पदो वा नियतिविपरिवृत्तौ नेमिवृत्त्या भवन्त्याम् ।
शतमपि विशयानाम् शस्त्रवच्छातयन्ती नयनिगमसमीची न व्यतिस्ते मतिस्ते ॥ १६ ॥
राजा – सेनापते! सिद्धमपि सर्वम् साध्यशेषावमर्शनादसत्कल्पमिवाऽऽभाति ।
अद्य हि,
अपि निर्मुक्तजीवानाम् कामादीनाम् बलीयसाम् ।
अविद्या कर्मसञ्ज्ञा तु मृतसञ्जीविनी स्थिता ॥ १७ ॥
व्यवसायः – महाराज! त्वत्प्रसादादेषाऽपि न स्थास्यति ।
राजा – (सानुशयम्) अहितनिवहवन्या हन्त सन्तन्यमा
कथमियमपचेतुम् कल्पकोट्याऽपि शक्या ।
व्यवसायः – इत्थमेव – दहति निरवशेषम् देवसम्भूतिरेनाम्
युगपदिह समिद्धो योगकल्पान्तवह्निः ॥ १८ ॥
न च तदुत्पत्तिरपि कथम् भवित्रीति शङ्कनीयम् । यत ईदृगवस्थः पुरुषः –
सत्कारकालकूटम् तरुणीकुणपम् सभाभुजङ्गीम् च ।
परिहरति राजधानीकुम्भीपाकम् च गुप्तमाहात्म्यः ॥ १९ ॥
अपि च,
मुकुन्दे निक्षिप्य स्वभरमनघो मुक्तवदसौ
स्वतन्त्राज्ञासिद्धाम् स्वयमविदितस्वामिहृदयः ।
परित्यागे सद्यः स्वपरविविधानर्थजननात्
अलङ्घ्यामामोक्षादनुसरति शास्त्रीयसरणिम् ॥ २० ॥
ततश्च,
अनघमतिरनुज्झन् आश्रमादिव्यवस्थाम्
हरिचरणसपर्यास्वादतुष्टो मनीषी ।
अवतरति विरक्त्या गाढमालिङ्गितोऽसौ
मुषितनिखिलखेदे मुक्तिघण्टापथेऽस्मिन् ॥ २२ ॥
इदमपि यथावत्प्रतिसन्धातव्यम् ।
सम्साराख्यज्वलनभसितीभूतसञ्जीवनार्हा
धर्मोत्पत्तिप्रथितविभवा धार्यमाणा गिरीशैः ।
गम्भीरत्वादकलुषगतिर्गम्यतीर्थोपपन्ना
गङ्गेवान्या पुरुषजलधिम् गाहते विष्णुभक्तिः ॥ २२ ॥
अपि च, शान्तमेव रसमेकम् शरणयतो मनीषिणः पुनरपि सम्प्रति रसान्तराण्यपि पुष्णातीव विष्णुभक्तिः ।
तथा हि,
जुगुप्साम् देहादौ विषयरसभोगेषु हसनम्
प्रकोपम् निद्रादौ परपरुषवादादिषु भयम् ।
शुचम् योगालाभे फलपरिणतौ विस्मयमपि
प्रयच्छत्युत्साहम् दुरितविरतौ ब्रह्मणि रतिम् ॥ २३ ॥
न चात्र महाराजेन सम्स्कार(शेषितस्य)शेषतस्समाधिप्रत्यूहः शङ्कनीयः । यतः,
पृथुकतरुणप्रायावस्थाव्यवस्थितसञ्चया
बहुलनिगमप्रत्यादिष्टा बहिर्मुखवासना ।
पटुतरदृढप्रत्याहारक्रियापरिपक्त्रिमा
ज्वलति महति ज्योतिष्यन्तर्लयम् प्रतिपत्स्यते ॥ २४ ॥
अद्य च,
प्रत्यक्तत्त्वसतत्त्ववेदनसुखप्रत्यूहसिद्धिप्रदैः
क्षुद्रैः केवलकालयापनपरैरन्यैरनाकृष्टधीः ।
मुक्तिद्वारकवाटिकाविघटनध्वानप्रतिश्रुन्निभैः
अध्यक्षीकृतसत्पथैर्मुनिरसौ मन्त्रैर्धृतिम् विन्दति ॥ २५ ॥
राजा – सेनापते! सम्प्रधारयताऽपि त्वदुक्तम् त्वराधिक्यात्प्रचलितेनेव मया नानुभूयते । यावदिह पुरुषस्य निश्श्रेयसोपायमविकलम् न निष्पादयामि, यावद्वा प्रियाप्रियेषु सुकृतदुष्कृते न सङ्क्रमयामि, न तावन्निद्रामाद्रिये । अद्य तु,
कामातङ्कमतीत्य कोपदहनम् निर्वाप्य वित्तस्पृहा-
वेतालीम् व्यवधूय बान्धवकथागर्तम् समुत्तीर्य च ।
सङ्गोत्तम्सितवासनासहचरः सम्सारकाराकुटी-
निष्क्रान्तिक्रमपादुकाम् तनुमनुद्विग्नो मुनिः क्षाम्यति ॥ २६ ॥
व्यवसायः – महाराज! मैवमाशङ्केथाः ।
स्वापोद्बोधव्यतिकरनिभे भोगमोक्षान्तराले
कालम् कञ्चिज्जगति विधिना केनचित् स्थाप्यमानाः ।
तत्त्वोपायप्रभृतिविषये स्वामिदत्ताम् स्वनिष्ठाम्
शेषाम् कृत्वा शिरसि कृतिनः शेषमायुर्नयन्ति ॥ २७ ॥
ततश्च,
सिद्धप्रायसमीहितस्य वितथोदर्को वितर्कः पुनः
स्थूलाभ्यूहविसम्स्थुलस्थितिमतामत्के चमत्कारिणः ।
दूरीकृत्य बलात् त्वया रिपुचमूदुर्वारदर्वीकरान्
किञ्चिन्न्यूनमनोरथेन कृतिना किम् नाम सञ्चिन्त्यते ॥ २८ ॥
राजा – (विचिन्त्य) अस्तु तावदेवम् –
विमुक्तिपथदेशिकैर्वितथवृत्तिवैदेशिकै
र्विमृष्टशुकशौनकप्रभृतिभाषितैरुज्झितम् ।
भिषज्यति भवम् प्रभौ पितरि शेषिणि श्रीपता
वपथ्यविनिवर्तकम् किमपि भद्रमभ्यर्थये ॥ २९ ॥
अद्य च,
जननविलयवृत्त्या जाङ्घिकस्यास्य जन्तोः
समयमवमृशन् यस्तिष्ठति श्रीसहायः ।
प्रभुरयमनुकम्पानिघ्ननिर्विघ्नलीलः
प्रजनयतु समाधिम् स्वात्मनैव स्वल(क्ष्य)क्षम् ॥ ३० ॥
तद्वयमत्यासन्नेन महोदयेन पुरुषमभिनन्दयितुम् प्रतिष्ठेमहि । (नूपुररवमाकर्ण्य) का पुनरिहेदानीम् चरणकमलकलहम्सायमानमणिनूपुररवेणामृतमिव शृण्वताम् कर्णेष्वभिवर्षति?
(नेपथ्ये) भर्त्रि! दिष्ट्या वर्धसे । मोहम् जित्वा प्रतिनिवृत्तो महाराजः । तदित इतो भर्त्री ।
राजा – (कर्णम् दत्त्वा) सेनापते! तदिदम् प्रणिधानसिद्ध्या पुरुषमभिनन्दयितुम् प्रतिष्ठमानानाम् नः प्रथमोपस्थितम् मङ्गलम् । यदसावभिमुखमायाति मङ्गलदेवतेव महागुणा देवी ।
[ततः प्रविशति सुमतिः चेटी च ।]
चेटी – भत्रि! एष महाराजस्सेनापतिना सह इतो भर्त्र्या आगमनम् प्रतिपालयन् तिष्ठति । तस्मात् त्वरितमुपसर्पतु भर्त्री ।
सुमतिः – (उपसृत्य) जयतु महाराजः।
गगनेऽप्सरसाम् जयेन युष्माकम् जनिततोषाणाम् ।
वीणा मे प्रियमधुरम् प्रहर्षगीतम् श्रावयति ॥ ३१ ॥
राजा – देवि ! जितम् मया, यस्य भवत्या जयशब्दः प्रयुज्यते ।
व्यवसायः – देवि! किमत्राश्चर्यम्, यत् त्वत्प्रियेण जितम् जेष्यते चेति । कस्तावदतः परम् निस्तार इति तु निर्धारणीयम् ।
सुमतिः – सेनापते! कार्यशेषनिर्वहणे निर्व्यूढसमरकार्यो महाराज एव प्रमाणम् ।
राजा – देवि! मैवम् मय्येव भारमारोपयेथाः । अस्ति खलु सर्वधुरीणः (कश्चित्) सर्वजगदन्तर्यामी पुरुषः । तथा हि,
आधेयत्वप्रभृतिनियमैरादिकर्तुः शरीरम्
सत्तास्थेमप्रयतनफलेष्वेतदायत्तमेतत् ।
विश्वम् पश्यन्निति भगवति व्यापकादर्शदृष्टे
गम्भीराणामकृतकगिराम् गाहते चित्तवृत्तिम् ॥ ३२ ॥
व्यवसायः – एतदेव तत्त्वम् । तथाऽपि तन्निबन्धनम् किञ्चिदहमध्यवस्यामि । कर्मनिगलयन्त्रितस्य हि पुरुषस्य कालक्षेपरहितकल्याणनिर्वहणाय कश्चित्समाधिकदरिद्रः समाधिराधातव्यः । तदुपसम्पत्तये चासौ समयनियतसाधिष्ठसूक्ष्मसन्मन्त्ररहस्यवेदिना पुनरपि दिव्येन केनचिद्देशिकेन दत्तदृष्टिर्भावयितव्यः ।
राजा – एतदेव ममापि हृदये वर्तते । सम्पत्तिस्तु परस्मिन्नेव समायतते ।
सुमतिः – आर्यपुत्र! (अयम्) अखण्डचन्द्रोदय इवातिविशदः कोऽपि प्रकाशोऽग्रतो दृश्यते ।
राजा – सेनापते! किमिदमैन्द्रजालिकमिव किमप्यतर्कितोपस्थितमनिर्धारितकारणममृत पारावारपूरपर्यायप्रसरमाप्लावितदशदिशावकाशमवदातमनोहरमदृष्टपूर्वम् धाम ।
व्यवसायः – नूनम् नारदेन भगवता समागतेन भवितव्यम् । न ह्यन्यस्य कस्यचिदास्थितश्वेताद्वैतमेतादृशम् तेजः ।
(नेपथ्ये) अधराहितचारुवम्शनालाः मकुटालम्बिमयूरपिञ्छमालाः ।
हरिनीलशिलाविभङ्गनीलाः प्रतिभाः सन्तु ममान्तिमप्रयाणे ॥ ३३ ॥
राजा – अहो नु खलु भगवतो महामुनेः प्रपञ्चितपरमपुरुषभावनाविशेषा विपञ्ची निनादकर्बुरा विभ्रमगीतिः ।
सुमतिः – आर्यपुत्र! एतेन खल्वागतेन ऋषिणा तव यावत् सम्वादो भवेत् अहम् तावत् सखीजनसहिता सम्लपन्ती तव समीहिते त्वरे ।
[ततः प्रविशति नारदः ।]
नारदः – अहो नु खलु महाराजोऽयमनादिसम्सारसागरनिमग्नम् पुरुषमाध्यात्मिकविज्ञान पोतमारोप्य बहुविधबाह्यकुदृष्टिजलजन्तुभिरनुपप्लुतेन सुपथा समाधिपारसन्निकर्षमानीय (सान्निध्यविशेषे)साध्यशेषे सन्त्वरमाणस्तिष्ठति । अद्य किल,
सुमतिबहुमतेन स्वात्मना सत्त्वधाम्ना बहिरबहिरुदीर्णे वारिते वैरिवर्गे ।
जनयति पुरुषस्य ज्यायसीम् चित्तवृत्तिम् समविषमविभेदी सार्वभौमो विवेकः ॥ ३४ ॥
ततश्च,
तितिक्षुर्द्वन्द्वानि द्रुतमतिरयत्नोपनतभुक्
परित्याज्यत्यागी भ्रमर इव सारग्रहरुचिः ।
कृतज्ञः प्राप्तव्ये नियतधृतिरेकान्तरसिको
मुमुक्षुः सन्धत्ते मुनिरनिभृतम् ब्रह्मणि मनः ॥ ३५ ॥
राजा – (त्वरितमुपसृत्य) भगवन्! अद्य खलु धन्या वयमनुगृहीताः स्मः ।
अयमहमभिवादये भवन्तम् सकलसुरासुरबृन्दवन्दनीयम् ।
विधिवशपरिभूतमोहपक्षो विनयपरिष्कृतसन्नतिर्विवेकः ॥ ३६ ॥
नारदः – आयुष्मन्! अप्रतिहतमनोरथः पुरुषमपवर्गे स्थापयेथाः । अवधूतमहामोहेन भवता नूनमन्तरितोऽयमन्तिमयुगारम्भः । किम् तु
वीरश्रीः अतिवेलविक्रमभवद्दोश्शृङ्गनिश्शृङ्खल-
क्रीडादत्तकृतार्थतापरवती न त्वत् परम् प्रेक्षते ।
अद्यत्वे पुनरद्भुतप्रणयिनी दृष्टिस्त्वया पात्यताम्
अन्तर्द्रष्टुमनन्यदृष्टमनघम् त्यक्तावधिम् शेवधिम् ॥ ३७ ॥
राजा – भगवन्! किमस्ति कश्चिच्छत्रुशेषः, यतोऽस्माभिस्सावधानैर्यवितव्यम्?
नारदः – न कश्चिदस्ति । तथाऽपि नीति प्रधानेन भवता नित्यम् विमृश्यते । अद्य तु,
समग्रबलयोगेन समरे पातितास्त्वया ।
कामक्रोधादयो वीराः स्वर्गस्त्रीभिः स्वयम्वृताः ॥ ३८ ॥
किम् च,
तत्त्वबोधजनके तवाऽऽहवे मोहवीरविजयेन मोहिताः ।
अप्रविष्टसमराः प्रदुद्रुवुर्हर्षशोकभयचापलादयः ॥ ३९ ॥
तथाऽपि किञ्चिदिह चिन्तनीयम् । इह हि,
त्रैगुण्याम्भोधिवेलावनतृणविषयग्रासदुर्वासनोद्यद्-
भोगैदम्पर्यपर्याकुलितम् अनुयुगोत्कण्ठितोदग्रवृत्तिम् ।
भूयो भूयः स्वचक्रे भ्रमयति नृपशुम् गाढबन्धोपरुद्धम्
कालोऽसौ कर्ममालाघटितभवघटीयन्त्रतन्त्रस्वतन्त्रः ॥ ४० ॥
राजा – अत एव खल्वहमनेहश्चक्रभ्रमणादह्नाय बहिर्भावयितुमभिवाञ्छामि । तथा हि,
कालावर्तान् प्रकृतिविकृतीः कामभोगेषु दोषान्
ज्वालागर्तप्रतिमदुरितोदर्कदुःखानुभूतिम् ।
याथातथ्यम् स्वपरनियतम् यच्च दिव्यम् पदम् तत्
काराकल्पम् वपुरपि विदन् कस्तितिक्षेत बन्धम् ॥ ४१ ॥
अत्र तु भगवता निस्समाभ्यधिक निवृत्तिधर्मात्मना निपुणमस्मन्मनीषिते साहायकमाचरणीयम् । निजदुरितनिदाघनिष्टप्तजन्तुसञ्जीविनी खलु भव्यवृत्तीनाम् भवादृशाम् वागमृतवृष्टिः ।
लुप्तदृष्टिभिरलब्धदेशिकैर्लोकवेदपदवी दुरत्यया ।
तत् प्रसीद भगवन् मदीक्षितम् पुण्डरीकमिव पाहि मन्त्रतः ॥ ४२ ॥
व्यवसायः – स्वधर्म एव भगवता श्रुतिशिरसि गीतः सूचितोऽसौ देवेन ।
नारदः – अस्मदभिमतमेव समादिष्टम् महाराजेन । यतिष्ये चाहम् (यथासारम्) यथावसरम् ।
अधिकमिह मुमुक्षोरागमग्राह्यवर्गात्
स्वयमिह गुरुभक्त्या दर्शितम् स्वानुभूतौ ।
प्रथयति मयि सौम्य त्वन्निदेशेन मन्ये
सपदि भवति चित्ते (लग्ने) गाढलग्नः समाधिः ॥ ४३ ॥
तदिह यदभ्यर्थिता वयम् भवद्भ्याम् किमपि करणीयम्, तत्साधयितुमितस्साधयामः ।
[इति सहर्षनृत्तगत्या निष्क्रान्तः ।]
राजा – सेनापते! सम्प्रति सिद्धप्रायम् समाधिमुत्पश्यामि ।
अस्ति तावत् ।
षडङ्गमथवाऽष्टाङ्गम् समाधिमधिरोक्ष्यतः ।
अवलम्बनमक्षुद्रा दयैका दानवद्रुहः ॥ ४४ ॥
तयैव गाढा वलम्बितोऽसौ पुरुष इदानीमालक्ष्यते । तथा हि,
विषयमदिरामुग्धैस्त्यक्तः स एष पृथग्जनैः
क्वचन समये, यत्रैकाग्र्यम् क्वचिच्च तदास्पदे ।
निभृतकरणग्रामस्तृप्यन्निरुद्धमरुद्गणः
परमिह परे धाम्नि प्रत्यङ्मुखः प्रतितिष्ठति ॥ ४५ ॥
अपि च,
पुलकमुकुलोत्तुङ्गैरङ्गैरुदश्रुभिरीक्षणैः
अयमनुभवत्यन्तर्दृष्टिः समाधिरसम् पुमान् ।
ध्रुवमिह महानन्दब्रह्मोपलम्भनलक्षणे
महति विभवे निष्प्रत्यूहा मनोरथपद्धतिः ॥ ४६ ॥
व्यवसायः – देव! अहमप्येवमवगच्छामि ।
तृणक्षोदम् क्षेप्तुम् प्रलयपवनो न प्रभवति
क्षमस्तम् निर्दग्धुम् यदनभिमतौ कालदहनः ।
तदर्वाचः सर्वान् अजहदवधिद्वन्द्वनियमान्
विदन् नासौ तृप्यत्यथ च न विषादे निपतति ॥ ४७ ॥
अपि च,
तुलायन्त्रोदन्तक्रमघटितनिम्नोन्नतिभृतौ
गुणौ मूढक्रूरौ युगपदधरीकृत्य मुदितः ।
मुनिर्मुक्तिद्वारम् मुरमथनधीसन्ततिसुधा-
निधिप्रादुर्भावम् भजति पुरुषः सत्त्वमनघम् ॥ ४८ ॥
तदहम् निष्पन्नकल्पमेवास्य समाधिमभिमन्ये । अस्य च,
स्वफलेन तुलारूढः समाधिर्मुक्तिसाधकः ।
न्यूनाधिकसमत्वेषु विकल्पायैव कल्पते ॥ ४९ ॥
राजा – सेनापते! अपावृतार्धमहमिह मुक्तिद्वारमभिमन्ये । अद्य पुनरत्यासन्न मनोरथैरस्माभिरवहितैरास्थेयम् ।
अविकलबहुमत्या सेवितोऽहम् सुमत्या
नियतिमनतिलङ्घ्याम् निर्ममः सान्त्वयामि ।
त्वरयितुमिह देवीम् त्वन्मते विष्णुभक्तिम्
गणयितुमपि सिद्धिम् गच्छ सेनापते! त्वम् ॥ ५० ॥
व्यवसायः – यदादिशति देवः । [इति निष्क्रान्तः ।]
राजा – (पुरस्तादवलोक्य) सुमतिनिकेतनमेतत् (स्वयम् प्रभमासीदामि) स्वयमासीदति । (सहर्षबहुमानम्)
बलदर्शनमण्टपम् श्रुतीनाम् बहुभिर्भावितवैभवम् प्रमाणैः ।
अवधूतरजस्तमस्कमेतत्सुमतेस्तत्त्वमयम् विभाति सौधम् ॥ ५१ ॥
(विलोक्य) काऽसाविह विशुद्धसुधासन्दोहसौम्यस्वभावा श्वेतद्वीपदेवतेव सन्दृश्यते । (किञ्चिदुपसृत्य) प्रत्यभिजानाम्येनाम् । परिणतिविशेषादसावन्येव भाति ।
इयमखिलपुमर्थप्रार्थनाकल्पवल्ली
सितमतिभिरनन्यैः सेविता सिद्धबृन्दैः ।
द्युतिभिरविरलाभिर्द्योतयन्ती दिगन्तान्
विशति सुमतिसौधम् विष्णुभक्तिर्विशुद्धम् ॥ ५२ ॥
तदहमप्यत्र प्रविश्य यावत्पुरुषम् कृतकृत्यम् कृतार्थम् च निर्धारयामि, तावदवहितः सहधर्मचारिण्या देव्या सुमत्या सह नैश्श्रेयसीम् नियतिमास्थाय निवत्स्यामि । [इति सविमर्शम् निष्क्रान्तः ।]
इति श्रीकवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके
(समाधिसम्भवो नाम) नवमोऽङ्कः ।