[highlight_content]

सङ्कल्पसूर्योदयः-पञ्चमोऽङ्कः

पञ्चमोऽङ्कः

डम्भभाद्युपालम्भः

[ततः प्रविशति डम्भः कुहना च]

डम्भः – अहहारे त्वाम् धर्मपत्नि! कुहने! सम्बोधयामि । त्वम् हि मे तारेव बृहस्पतेः, अहल्येव गौतमस्य, अस्पृष्टपुरुषान्तरा क्षणविरहाक्षमा सहधर्मचारिणी ।

कुहना – यद्ब्राह्मणेश्वरो भणति । तथाऽपि लज्जामि निर्दिष्टान्निदर्शनात् । अरुन्धतीव वसिष्ठस्येति वचनीयम् गृहस्वामिना । यदाहम् तस्करैः कितवैर्ग्रामणीभिर्नरेन्द्रामात्यैः पाषण्डिभिरन्यैरपि तादृशैः प्रार्थिताऽस्मि, तदाऽपि तान् त्वामेव स्मृत्वा सेवे ।

डम्भः – (सान्तर्हासम्) अत एव सर्वलोकपतिव्रता खल्वसि । अद्य पुनरनुगतानपि मे गार्हपत्यादीन् यतः कुतश्चिदानीतैरपि शुष्मभिः समादधानया यज्ञपत्न्या त्वया न कदाचिदपि मामकमग्निहोत्रम् विच्छिद्यते । पर्वकालेषु च अनाविष्कृतपुष्पया त्वया दर्शपूर्णमासौ च नित्यमनुवर्त्यते । निर्वर्त्यते च पिण्डपितृयज्ञादिकम् । का कथा प्रायश्चित्तस्य?

कुहना – शान्तम् पापम्, शान्तम् पापम् । जाते खलु विच्छेदे समाधानीयम् । न खलु कदाऽप्यस्मद्गृहेऽग्नीनाम् विच्छेदः । प्रसन्नाभिः खलु कुलदेवताभिर्नित्यम् रक्ष्यन्तेऽस्माकमग्नयः । तथा त्पन्नम् खलु पुष्पमनाविष्करणीयम् । प्राप्तोऽपि च पर्वसु ताभिरेव कुलदेवताभिर्विलम्ब्यते पुष्पसमयः ।

डम्भः – साधु कुहने! साधु । अस्मत्सहधर्मचारिणी खल्वसि । बहुमन्ये त्वाम् ब्राह्मण्यप्रतिष्ठापिकाम् यज्ञपत्नीम् परमश्रोत्रिय धर्मपुत्रीम् । नित्यमेव खल्वशनायोदन्याभ्यामातुरस्य मे हरिवासरेषु मृष्टमपि भोजनमनाविष्कुर्वाणया त्वया प्राप्यते द्वादशीव्रतम्; प्रख्याप्यते च प्रतिगृहम् साधनसम्पत्तिसम्भ्रमेण । किम् तु किञ्चिद्रहस्यमुपदिशामिसन्तीदानीमन्तिमयुगभूमिकाभेदा इव केचिदवधीरितसकलधर्माः प्रव्रजितवेषभाजः प्रकटितमायाविलासाः पूर्वदेवाः । ते च रावणधनञ्जयन्यायेन भवतीम् जिघृक्षेयुः । अतो मत्समीपम् कदाचिदपि नातिवर्तेथाः । न च परमब्राह्मणम् माम् मुहूर्तमपि त्वदन्याः परिचरितुमर्हन्ति । अहम् पुनरधुना दिव्यादिव्य(सर्वभोग)सार्वभौमस्य राज्ञो महामोहस्यानुचितमाचरन्तमाततायिनम् विवेकमभिचरितुम् देव्या दुर्मत्या प्रार्थितोऽस्मि, यथा ‘वत्स डम्भ! विश्वधर्मोपप्लावकेन त्वया विवेकः प्रध्वम्सनीयः’ इति । ततश्चाहम् नित्यनिःस्पृहोऽपि दाक्षिण्यपरवशतया ‘षट्स्वनभिचरन्पतेत्’ इति महर्षिभाषितम् चानुवर्तमानः कामप्यलक्ष्याम् देवतामारिराधयिषुरास्थित नियमोऽस्मि । तन्मे दिव्यगङ्गाजलाप्लुतलोक पालपुरोहितोपनीतानि पारिजातपुष्पफलादीन्युपाहर ।

कुहना – हा धिक् हा धिक्! सकलागमसारग्रहणविशारदो विवेकः शमदमप्रमुखैरमात्यजनैः सम्रक्षितः कथमभिचर्यते? तादृशेषु प्रयुक्तोऽभिचारः कर्तुरेव बाधामावहतीति श्रूयते ।

डम्भः – अयि मुग्धब्राह्मणि! अविचारितास्मद्वैभवा किम् भाषसे?

विद्याश्चतुष्कसहिता विदिता द्विसप्त क्षिप्रम् चतुर्गुणितचन्द्रकलाः कलाश्च ।

काले च साधु विहिताः क्रतवः सहस्रम् धर्मध्वजाश्च भुवनेषु मया निबद्धाः ॥ १ ॥

अयि परमधार्मिकसहधर्मचारिणि! आस्तामिदम् तावद्विद्याचारमाहात्म्यम् । निःस्पृहत्वमपि निपुणमवधारय ।

निर्जित्य क्षितिमण्डलम् भृगुपतिर्मह्यम् प्रदातुम् पुनः

प्रह्वः प्रार्थयत न्यषेधि च मया विश्वम् तृणीकुर्वता ।

अस्मद्वैभवदृष्टिसम्भृतचमत्कारैरमर्त्येश्वरैः

दत्तौ धिक्कृतवान् अहम् शमधनः स्वर्गापवर्गावपि ॥ २ ॥

कुहना – (सविमर्शम्) एवम् नाम महाप्रभावाणाम् युष्माकम् विवेकाभिचारः किम् श्येनः, अन्यादृशो वा योऽपि कोऽपि? यत्राहम् सहधर्मचारिणी भवामि ।

डम्भः – अयि महाश्रोत्रियधर्मपत्नि! महानुभावानामस्मदन्तेवासिनामत्यन्तरहस्यमिदमावेदयामि । सखीभ्यस्तृष्णादिभ्योऽपि नैतद्ब्रूयाः । न खलु श्येनादिवद्विशेषतो विहितोऽयमभिचारः । किम् तु,

ये तु धर्मतयाऽधीतास्ते सर्वे मत्परिग्रहात् ।

अविशेषेण गच्छन्ति विवेकस्याभिचारताम् ॥ ३ ॥

कुहना – सुष्ठु चिन्तितम् । कः पुनरस्मिन्परपीडनयज्ञे युष्माकमुपदेशम् कुर्यात्?

डम्भः – अहह! अयि मुग्धे! सर्वज्ञस्य मे किमन्येनोपदेष्ट्रा? सर्वेऽपि हि पण्डितम् मन्याः मामेवाश्रित्य सम्शयम् प्रशमयन्ति । अथापि मयेदानीम् साक्षिमात्रतया स्थापितः कश्चिदुत्कृष्टसर्वजनतिरस्कारको गर्वो नाम सर्वजनहृदयसम्वादी महामोहसमयमहोपाध्यायः । तस्य च इदानीमागमनम् प्रतीक्ष्य, अस्मिन् सिद्धाश्रमे नवकृत्वः पुण्याहपूते सम्भृतसम्भारः सप्तर्षिभिः प्रदिष्टाम् बृसीमधितिष्ठामि ।

कुहना – युक्तमाचरितम् । कार्यसिद्धिश्च युष्माकम् करगता भूयात् ।

डम्भः – (निमित्तम् सूचयन्) अस्मत्कुलधर्मपालिनि कुहने! स्पन्दते मम दक्षिणम् चक्षुः । सद्यैव च सुहृत्समागमः सम्पत्स्यते । (पुरस्तादवलोक्य) कः खल्वसौ ज्वलत्प्रभाकञ्चुकितदुर्निरीक्षमूर्तिर्महात्मा मध्यमम् लोकमवतीर्यास्मदाश्रमाभिमुखमागच्छति?

[ततः प्रविशति परिगृहीतपृथुलपादुकः प्रतिक्षणविक्षिप्यमाणविकटभुजदण्डो दृढतरदण्डावलम्बितप्रतिज्ञापत्रिकापताको दर्पः ।]

दर्पः – अहम् किल राज्ञा महामोहेन प्रकृष्टजनतिरस्काराय प्रणिहितः सकललोकतारतम्यदिदृक्षया परिक्रान्तः, पितामहगृहान्मध्यमलोकमवतरन्नाचक्रवालमवलोकितदिशाचक्रवालः पुरन्दरपुरोगमैर्लोकपालैरभ्यर्चितः सुरभिमदिरासुधाचन्द्रपारिजातमणिवर वितरण महावदान्येन मन्दरमन्थमथन सङ्क्षोभसर्वम्सहेन मधुकैटभ मथनबन्धुना सिन्धुना समाहृतम् हारोपहारमाबिभ्राणः प्रत्यागतोऽस्मि भारतम् वर्षम् । अद्य च,

त्रयोदशमिहाऽऽदित्यम् रुद्राणाम् द्वादशम् तथा ।

मन्वीत नियतम् लोको वसूनाम् नवमम् च माम् ॥ ४ ॥

(विचिन्त्य सरोपहासम्) अहो नु खलु जगतो मौढ्यम्! येषामस्मदनुचर प्रतिनिधि पर्वण्यप्यवस्थानमपहास्यम्, तेऽपि मत्साम्यम् मदाधिक्यम् वा प्रतिलब्धुम् मोघवृत्तिम् मनोरथमारोहन्ति । इह हि,

छन्दश्छन्दितबुद्धयः पदविदः कल्पे विकल्पत्यजः

शिक्षाशिक्षितमानसाः विगणितज्योतिर्गणावृत्तयः ।

निर्णीतार्थनिरुक्तयस्त्रिविधया मीमाम्सया माम्सलाः

नृत्यन्तो नयविस्तरे च सुधियः सर्वे मया खर्विताः ॥ ५ ॥

(आकाशे) रे रे बालिश! किम् ब्रवीषि? कुतस्तवेयम् शिक्षा, कीदृशी च परिचितिरिति? (सहस्तास्फालनम् विहस्य)

विधिमन्तरेण विहगेन कुतः पयसोरशिक्ष्यत विवेकविधिः ।

कति वा दिनानि वद पर्यचिनोत् कलशीसुतः कवलयन् जलधिम् ॥ ६ ॥

आस्ताम् तावद्विश्वतोमुखी इयमास्माकी विद्या । अभिजनवृत्ताभ्यामप्यहम् निःसमाभ्यधिकः । तथा हि,

मद्वम्शोद्भवयाजनार्हपुरुषालाभावादमुष्मिन् जग-

त्यागोत्रप्रथमादनध्वरतया प्रख्यातमस्मत्कुलम् ।

अप्रत्यक्षमनक्षपीडनविधिप्रागल्भ्यतः स्थापितम्

विष्वग्वृत्ति तपः परम् किमपि मे विश्वाधिकम् के विदुः ॥ ७ ॥

(पुरस्तात्पश्यन्) अह ह!

बहव इह नश्छात्रा बाह्याः कुदृष्टय इत्यमी

मिषति विबुधस्तोमे मेरुम् विगूहयितुम् क्षमाः ।

प्रबलकुहनागम्भीराभिः प्रलोभनयुक्तिभिः

जडबधिरपङ्ग्वन्धप्रायम् जगज्जनयन्ति च ॥ ८ ॥

अथवा,

अनपह्नुतवद्भिरद्य यावत्प्रतिपक्षानिह किम् प्रमाणवर्गैः ।

स्ववशे विनिवेशयामि विश्वम् मणिमन्त्रौषधिवञ्चनोपजापैः ॥ ९ ॥

किमाह कश्चित् – प्रतिष्ठिते प्रमाणवर्गे कथम् कैश्चिदेवम् पाटच्चरवृत्तिः प्रतिपत्तव्येति? (सरोषहुङ्कारम्) पश्य, अरे ब्राह्मणापशद! सार्वलौकिकम् गगनतलमलिनिमप्रत्यक्षम् किम् न प्रामाणिकैः परिभूयते? अपि च,

षड्भिः पूर्वप्रणीतैरलमिह समयैः श्रद्दधानप्रमाणैः

वस्तुस्थित्यैकरूप्ये मतिविहतिहते कस्य कीदृग्व्यवस्था ।

अक्षुभ्यद्द्वित्रकक्ष्याव्यवहरणसहान् अस्मदुन्नीतनीत्या

सिद्धान् सिद्धान्तभेदान् मदुपहितधियः प्रत्यवस्थापयन्तु ॥ १० ॥

(अपसव्यम् पश्यन्) एते मगधकलिङ्गान्ध्रद्रमिडकर्णाटकेरलकोङ्कणादयो जनपदाः । अहह!

अष्टाचत्वारिम्शतम् बौद्धभेदान् नीचोक्त्याऽहम् हेलया निर्मिमाणः ।

अध्यासीनो बोधिवृक्षस्य मूलम् विद्यादर्पम् वैदिकानामहार्षम् ॥ ११ ॥

ततः प्रभृति सुगृहीतनामानो नाममात्रनिःशेषितविपक्षाः सप्तद्वीपनिहितजयस्तम्भाः सञ्चरन्त्यस्माकमन्तेवासिनः । अपि च,

अद्वैतम् क्वचिदर्पितम् क्वचिदिह द्वैतम् मया साधितम्

द्वैताद्वैतसमाहृतिः क्वचिदसौ दुःस्था व्यवस्थापिता ।

तत्तद्भक्तिमुधाग्रहोदितकथाकल्लोलतो वादिनाम्

मन्ये सम्प्रति मल्लमेषसमरप्रेक्षारसम् प्राप्नुमः ॥ १२ ॥

(परिवृत्यावलोक्य) एते पुनर्यवनतुरुष्काद्युपप्लुताः प्रत्यन्तदेशाः । इह च,

वादद्यूतपणम् प्रकल्प्य किमपि क्षिप्ताभिमानः क्वथन्

कश्चित् वैदिकपद्धतिम् द्विजपतिः क्षिप्रम् मया त्याजितः ।

अर्हद्बुद्धबृहस्पतिप्रभृतिभिः कॢप्तान् कृतान्तक्रमान्

अन्योन्यव्यतिहारितानपि पठन् व्यामोहयत्यर्भकान् ॥ १३ ॥

अमी च पशुमृगपक्ष्यादिकल्पैरनार्यैरधिष्ठिताः नास्मद्दृष्टिगोचरतामर्हन्ति । एतेष्व निश्चिताक्षराः कक्षावलम्बितपुस्तका विस्तारितकूर्चभाराः केचिदेते विपश्चित इवाऽऽभान्ति । आः प्रतारितोऽस्मि गाढमापातदृष्ट्या । तथा हि,

अनियतबहुजल्पैरल्पबोधावलिप्तैरवमतगुरुवर्गैरत्रिवर्गापवर्गैः

अभिनयविधुताङ्गैरङ्गुलीनृत्तसारैरलमिह जडभूभृत्पीठमर्दैरमीभिः ॥ १४ ॥

(उत्तरतो दृष्टिम् दत्त्वा) कश्चिदिहासौ काश्मीरतो वा जलन्धराद्वा दक्षिणाभिमुखः समायाति । एतस्मात्तावत्प्रिययोरवस्थानम् परिपृच्छामि । भद्र सुब्राह्मण! किम् जानासि दुर्मतिसमादेशादद्रि राजपरिक्रमणाय प्रस्थितयोरस्मद्गृहिण्योः ईर्ष्यासूययोरधुनातनम् वृत्तान्तम्? (कर्णम् दत्त्वा) किमाह? ते किल सुमतिसखीभिर्मैत्रीकरुणामुदितोपेक्षाभिः प्रतारिकाभिः कस्याम् चिन्निवृत्तिपथसुरङ्गायाम् निरुद्धे इति । (सक्रोधम्) आः पापोऽयमलीकवादी ब्राह्मणवेतालः । रे रे दुरात्मन् वैधवेय श्रोत्रियब्रह्मराक्षस! कथम् सर्वलोकाभिसरणेऽप्यस्मत्सहधर्मचारिणीत्व मनुज्झन्त्योर्महाभागयोरनयोरेतादृशमत्याहितम् सम्भविष्यति? (निर्वर्ण्य) प्रागप्यवगतोऽयम् पर्वतीयैर्व्याधपतिभिः प्रतिजनपदम् प्रणिधिभावेन प्रेषितः पर्यटनशीलः कश्चित्पान्थः । (सपरिहासम्) अहो देशकालविशेषसम्भवोऽयम् दोषसमवायः । यथा,

श्वश्रूरस्य दिगम्बरव्रतवती सम्बन्धिनः सौगताः  

माता चास्य पिता च पाशुपतिनौ वैशेषिको देशिकः ।

जाया तिष्ठति साङ्ख्ययोगसमये चार्वाकशिष्यः सखा

मिथ्याचारसमाह्वयः स्वयमसौ विप्लावको वैदिकः ॥ १५ ॥

तदयम् मिथ्याचारनामा व्याधप्रणिधिरलीकवादी चासम्भाष्यो मादृशैर्महात्मभिः । एतदवलोकन दोषपरिहाराय दिवाकरमात्मानम् वा पश्यामि । (विकटम् परिक्रम्य) अहह महानद्योरिह गङ्गायमुनयोरमी मध्यमाः जनपदाः । एतेषु चावधीरित बृहस्पति प्रज्ञानामस्माकमनन्त सिद्धान्त सृष्टिकर्बुरमुपन्यासम् प्रजापति पशुपति दत्तवरोऽपि कः पुनः प्रत्येष्यति? कुतः पुनरनुवादादयः? इह चापवर्गमार्ग निरोधोद्यतेनास्मत्स्वामिना समाहूतैरपरान्त वासिभिर्म्लेच्छ भूपतिभिरधरोत्तरीकृता राजधान्यः । चरन्ति चात्र केचिदमी चक्रवर्तिनो डाम्भिकानाम् । एते च,

अयाचन्तः किञ्चित् स्वयमुपनतेऽनादरगिरो

धनायाशैलूषीसहचरितसाकूतगतयः ।

निवृत्त्याख्ये धर्मे स्थितिमभिनयन्तो निरुपधिम्

नमस्यन्ते सद्भिर्नवमरसनाडिन्धमदृशः ॥ १६ ॥

अपि च, हन्त, एतत्कलेरनङ्कुशमाधिराज्यम्; महामोहस्य वा तपसाम् परिपाकः ।

स्वतन्त्रवरवर्णिनीसुरतकेलिसौत्रामणी-

रसार्चितमनोभवाम् रहसि निर्विशद्भिः क्षपाम् ।

दिवा विविधभूमिकाविहितकञ्चुकैर्वञ्च्यते

वियातकितवैरिदम् वितथदत्तवित्तम् जगत् ॥ १७ ॥

अत्र चामी म्लेच्छाधिष्ठितम् देशमपरित्यजताम् बहिराचरणमात्रसम्रक्षितवर्णाश्रमधर्माणामनन्यगतिकानाम् द्विजानामग्रहाराः । एतेषु च,

सम्स्काराः परमुत्सवैकवपुषः सन्ध्या विनोदावधिः

सावित्री जनवादजर्झरतनुः शौचम् नटप्रायिकम् ।

इत्थम् मोहमहीपतेरभिमते विश्वम् विपर्यस्यतः

कालस्यैष कलेरलेपकमतव्यक्तक्रमः प्रक्रमः ॥ १८ ॥

अहो नु खल्वयमपि महानत्र धर्मक्रमः ।

तरुणाकृतयः कचेषु कृष्णास्त इमे दम्पतयः सहैव साध्यम् ।

इतरेतरदैवतम् भजन्ते मदनोपज्ञमजस्रमग्निहोत्रम् ॥ १९ ॥

अपि च,

प्रतिवीथिकमाश्रयन्त एते कुहनासूक्तिमयीम् कुसीदवृत्तिम् ।

अपरीक्षितशिष्यमद्य सर्वे शुकवद्ब्रह्म पठन्ति शुद्धवेषाः ॥ २० ॥

(अन्यतोऽवलोक्य) एते चित्रार्पितमुक्तपुरुषसन्निभाः पुराणमठभित्तिकोणमाश्रित्य जोषमासते । (सूक्ष्मम् निर्वर्ण्य विहस्य) अहहामी दीर्घतरदर्भपूलपूरिताङ्गुलीविवरेण दक्षिण करेण नासिकाम् कबलयन्तः प्राणसम्शयेनापि प्राणसम्यमनमभिनयन्ति । (सहस्तास्फालनम् विहस्य)

अपटुफणितिभावात् बिभ्रतो मौनमुद्राम् अनितरशरणत्वादादृतान्योन्यसङ्घाः ।

अगतिविहितभिक्षावृत्तयः केचिदेते चिरविधृततुरङ्गब्रह्मचर्या महान्तः ॥ २१ ॥

[सोपक्रोशम् हस्तौ विधून्वन्]

अनल्पमदपित्तलैरनुपरुद्धमानग्रहैः

अजल्परणकर्कशैरपरिदृष्टतत्त्वर्कक्रमैः ।

अतथ्यनियमस्थितैरनतिवृत्तडम्भोद्यमैः

अशिक्षितचमत्कृतैरलमसद्भिरेतादृशैः ॥ २२ ॥

(अन्यतो दृष्टिम् प्रसारयन्) अमी पुनरमुष्टिमेययज्ञोपवीतसञ्छन्नवक्षसः करतलावलम्बिताक्षमालाः करचरणनयननासादिषु मन्त्रवर्णान्निरन्तरम् न्यस्यन्तः तीर्थयात्रोत्सुकपथिकसार्थ यातायातपद्धति परिसर प्रतिष्ठापितम् चेलाजिनकुशोत्तरमासनमधितिष्ठन्ति । हन्तैषाम् महायोगिनामत्यद्भुतम् नैरपेक्ष्यम्, येन स्वयमप्यन्तर्हसन्ति । यतश्च,

डम्भस्येव ध्वजममितया मण्डितम् दर्भमुष्ट्या

द्राघीयाम्सम् कमपि पुरतः सम्प्रतिष्ठाप्य दण्डम् ।

पादोपान्तप्रणिहितधनान् प्राणिनो भक्तिनम्रान्

नावेक्षन्ते कितवमुनयो नामतस्तीर्थपादाः ॥ २३ ॥

अहहामी निरन्तरमान्तरम् ध्यानमभिनयन्तः पुरः प्रतिष्ठापिताम् देवतामपि नोद्वीक्षन्ते । अभ्यर्णमागतानप्याचार्य मातापितृप्रमुखानर्धनिमीलितेन लोचनेनावलोकयन्तोऽप्यनवलोकनम् नाटयन्ति? का कथा प्रणामादीनाम् । एतेषु च,

शमदमवृत्तसमाधिषु निःस्पृहभावे च नैष्ठिका डम्भाः ।

अयुतायुताम्शकक्ष्यामडम्भडम्भस्य नाहन्ति ॥ २४ ॥

अयम् पुनररिहानुपतिधूर्तबकवृत्तीनाम् त्रैविद्यतपस्विनामग्रगण्यो महातपाः,

शिक्षाविशेषनिभृताकृतिरूर्ध्वबाहुः प्रक्रीडयन्निव निजाम् तपसि प्रतिष्ठाम् ।

दर्भावृते क्षितितले निहितैकपादः चित्रम् सजीवमिव तिष्ठति डाम्भिकेन्द्रः ॥ २५ ॥

इतश्चायमेतादृशो यायजूकः,

अलिकचिबुकनासाजानुबाहूदराद्यैर्विवृतनतिविशेषो मृत्तिकालेपचिह्नैः ।

कनकगिरिमिवेच्छन् कश्चिदग्नीन् समिन्धे मुकुलितनयनार्धो मूर्तिमानेष डम्भः ॥ २६ ॥

(परिवृत्यावलोक्य) अहो नु खलु काषायदण्डमात्रशरणानाम् कलियुगसन्यासिनाम् नैरपेक्ष्यम् ।

भिक्षेति शिष्यजनरक्षणदक्षिणेति शाटीति शाश्वतमठोपधिकल्पनेति ।

ग्रन्थोपसङ्ग्रहणमूल्यमिति ब्रुवाणाः सन्यासिनोऽपि दधते सततम् धनायाम् ॥ २७ ॥

(सहर्षम्) नूनमीदृशपुरुषावष्टव्धे जीवलोके सिद्धप्रायम् समीहितम् महामोहस्य । अथाप्येतदिह सितासितनदीसम्भेदे अपश्चिमम् विवेकस्थानमिव किञ्चिदाभाति । यदुत,

आचारोदधिसैकतप्रतिनिधिर्मृत्पिण्डकूटः क्वचित्

पापच्छेदनशस्त्रजालपरुषः कुत्रापि दर्भोत्करः ।

पूजाशेषितपुष्पपल्लवफलस्तोमः स्फुरत्यन्यतो

मन्ये कस्यचिदेतदाश्रमपदम् मान्यम् महायोगिनः ॥ २८ ॥

अत्र च,

विरुद्धमतिकर्दमम् विषयवृत्तिविन्ध्याटवीम्

त्रिवर्गमृगतृष्णिकाम् त्रिगुणवागुरायन्त्रणाम् ।

निवर्त्य नियमक्रमैः स्फुरति मुक्तवत् कोऽप्यसौ

अवपत्यमथवाऽग्रजः सवितुरेष तातोऽपि वा ॥ २९ ॥

उपसर्पामि तावदेनम् । (इत्याश्रममासीदति । निमित्तम् सूचयन् सहर्षम्) नूनमिह मे प्रियासमागममत्यासन्नमभिव्यनक्ति दर्शितस्पन्दलास्यमैः दक्षिणम् चक्षुः ।

[ततः प्रविशति प्रव्राजिकावेषधारिणी असूया]

असूया – अहम् हि विवेकपरिपन्थिचूडामणेर्महाराजस्य महामोहस्य देव्या दुर्मत्या विश्वजनहृदयविस्रम्भकवेषपरिग्रहेण विदुषाम् चित्तमुपप्लावयितुमादिष्टा परिक्रान्त चतुर्दशभुवना प्रयाग तीर्थमवगाह्य प्रतिगताऽस्मि भगवतो धर्मध्वजाख्यस्य कुलपतेराश्रमम् । निपुणमिहापि गुणवद्विषये दोषानुद्घाटयितुम् चारतन्त्रम् तन्त्रयितव्यम् । (स्वसामर्थ्यम् बहुमत्य)

मयि दत्तावधानायाम् विश्वदोषापहारिणा ।

न शक्यमीश्वरेणापि निरवद्येन वर्तितम् ॥ ३० ॥

निरङ्कुशाः खलु मत्परिगृहीताः पुरुषाः नित्यमविद्यमानमपि दोषम् विद्यमानमिवाऽऽपादयन्ति । किमुत विद्यमानम् । तथा हि,

निरवधिगुणग्रामे रामे निरागसि वागसि-

स्फुरणमुषितालोका लोका वदन्ति सदन्तिके ।

वरतनुहतिम् वालिद्रोहम् मनागपसर्पणम्

परिमितगुणे स्पष्टावद्ये मुधा किमुदासते ॥ ३१ ॥

(परिक्रम्य) क एते प्रत्यासन्नसुरसरिदनूपनीपवन महीतलनिहित योगासनाः स्थिरतर पर्यङ्क बन्धबन्धुरनिभृतोन्नतर्जुकायाः मुण्डजटिलशिखाजटा मुनयः । (निर्वर्ण्य) हन्त विदितमेतत्! (सान्तर्हासम्)

स्तनभरनतमन्तर्ब्रह्म सञ्चिन्तयन्तः पुलकितनिभृताङ्गाः पुष्पबाणागमस्थाः ।

विजितकरणवर्गा विश्रुतात्मान एते मुषितनिखिलधर्मा मुक्तभावम् भजन्ते ॥ ३२ ॥

नामतश्चैतान्निर्दिशामि ।

श्रद्धायाजी षड्रसब्रह्मवादी कामैकान्ती काकिणीनिष्कदासः ।

मार्जाराणाम् कुक्कुटानाम् बकानाम् छात्रा एते सिद्धचार्वाकतन्त्राः ॥ ३३ ॥

स्वस्ति चैतादृशाम् स्वोपकारमात्र सम्रम्भाय । दृश्यते हि,

नवदलपुटे कल्प्या यस्य प्रभोरपि तल्पधीः

नटपरिबृढो यस्याधस्ताच्छ्रमम् शमयिष्यति ।

वटविटपिनस्तस्याङ्कूरान् अनुत्कटपल्लवान्

स्थपुटचटसापेक्षी भिक्षुः प्रतिक्षणमीक्षते ॥ ३४ ॥

(आकाशे कर्णम् दत्त्वा) किम् ब्रूथ भिक्षवः? प्रव्रज्यापरिग्रहः परपरिवदनम् चेति विप्रतिषिद्धमिति? ही ही! निगृहीता एव यूयम् स्ववचनविरोधेन । प्रव्रजिताः खलु भवन्तोऽपि स्वगृहेभ्यः, परिवदन्ति च मामिति । (अन्यतोऽवलोक्य) अयमपरः कश्चिदिह रौक्मकुण्डलदण्डकमण्डलुमण्डितः कटितटनिबिडनिगुम्भितदर्भरज्जुः अष्टगयाश्राद्ध भोजननिरन्तराध्मातकुक्षिरनवरतविरचितहुङ्कारभर्त्सितपुरोवर्तिजनः इतस्ततो दत्तदृष्टिस्तृणीकृतजगत्त्रयस्त्रैविष्टपैरपि दुष्प्रवेशम् धर्मध्वजस्य कुलपतेराश्रममुपजिगमिषति । इमम् तावदाश्रमद्वारोपरोधेन तस्थुषी विशेषतो विविदिषामि ।

दर्पः – (उपसृत्य प्रश्रयमभिनयन्) अयि भगवति! भारतकथाप्रसिद्धवैभवा प्रव्रजिताश्रमाधिदेवताकल्पा प्रत्यायितयोगसिद्धिः सुलभेव सन्दृश्यसे । तदहमिह ग्रामकुलगोत्रादिभिर्विशेषतस्त्वाम् विजिज्ञासे ।

असूया – भद्र! अन्तिमाश्रमप्रविष्टैरवक्तव्यमेव पृच्छसि । अप्रणम्य तु माम् कथम् यूपवत्तिष्ठसि?

दर्पः – वयःकर्मविद्यादिभिरधिकोऽहम्, आश्रमाधिका तु भवती । इह तु नन्तृनन्तव्यभावे सन्दिहानस्तिष्ठामि ।

असूया – अथ तर्ह्यस्मिन्नाश्रमे योऽसौ कुलपतिरशेषधर्मविदास्ते, तमेव धर्मसङ्कटम् पृच्छावः ।

दर्पः – यदभिमतम् भवत्याः, तदभ्युपगच्छामि । तिष्ठत्वयम् विमर्शः । किम् तु किञ्चिदन्तर्वर्तते ।

भवतीम् सन्निवेशेन भाववीक्षितचेष्टितैः ।

अनुभूतचरीम् मन्ये वेषस्तु विषमस्तव ॥ ३५ ॥

असूया – अहमपि दृष्टपूर्वमिव भवन्तम् भावयामि । तिष्ठत्वयम् विमर्शः । परमहम्सपरिव्राजकैरपि महानुभावैर्वृत्तवृद्धेति क्रियासमभिहारेण वन्दितपदाम् महाभागाम् मामप्रणम्य दीपदण्डवत्तिष्ठतः पाण्डरपटस्य ते प्रायश्चित्तिम् ब्राह्मणेन विधापयितुम् तव च शुद्धिमापादयितुमिच्छामि ।

दर्पः – (स्वगतम्) परिगृहीतान्त्याश्रमा प्रगल्भमिव किमपि प्रजल्पति । (प्रकाशम्; सविचिकित्सम्) अस्तु तर्ह्यसावाश्रयस्वामी प्रष्टव्यः ।

[इत्युभावुपसर्पतः । डम्भः – उभौ दृष्ट्वा मौनव्रतमभिनीय पत्नीम् चेष्टया चोदयति ।]

कुहना – (ससम्भ्रममुपसृत्य) भद्र ब्राह्मण! भगवति सन्यासिनि! युवाभ्यामस्मद्गृहपतिसकाशाद्दूरे स्थातव्यम् । दीर्घमार्गागमनदूषितयोर्युवयोरकृतमज्जनयोरत्यासत्तिर्दूरपरिहरणीया । मन्त्रसिद्धिपरिपन्थिनी च युवयोश्छाया महायोगिविग्रहे मा भूयात् । एनम् खलु महात्मानोऽपि मुनिजना दूरे प्रणमन्ति । तैरप्युपनीतम् भागीरथीसलिलम् न कदाऽपि गृहस्वामी हस्तेन गृह्णाति ।

दर्पः – अतिमहानयमपूर्वदम्पत्योर्युवयोधर्मनियमः । अपि च वयमाप्लुता गङ्गायमुनासङ्गमे पुण्यतमैश्च मन्त्रैः पुनः पुनः प्रोक्षिताः । आदित्यवत्तेजस्विनाम् स्वयम्प्रकाश विग्रहाणामस्माकम् छायापि किम् त्वयोपलभ्यते? लभ्यते तु परम् निरयपातः । अहह सर्वलोकसम्भावितम् सर्वाधिकम् मामतिथिम्, इमाम् च परमहम्सपरिव्राजिकाम् अन्योन्यनन्तृनन्तव्यभावसम्शयनिर्मोचनाय समधिगतावनादृत्य नूनमसौ ते पतिराश्रमापस्मारो मौनव्याजेन स्वमौढ्यमेव प्रच्छादयति ।

डम्भः – (सभ्रूक्षेपम् हुङ्करोति ।)

कुहना – (सरभसमुपसृत्य करतलेन मुखम् पिधाय) महाप्रभाव धर्मध्वज! वाङ्नियमम् योग्येन कर्मणा मुक्त्वा योग्ययोरतिथ्योर्योग्यम् प्रतिवचनम् दातव्यम् ।

डम्भः – (प्राणसम्यमनमभिनीय प्रणवमुद्घोष्य स्वगतम्) अकामोपनतमिदमसम्भाष्यसम्भाषणम् । (प्रकाशम्) रे रे व्रात्यब्राह्मण! मूढजनमूर्धाभिषिक्त! स्वमौढ्यप्रच्छादकम् माम् (मूढम्) प्रख्यापयसि । दिष्ट्या खलु मया तपःसङ्क्षयभीरुणा नैतावन्तम् कालम् शप्यसे । शप्ताः खलु मया कति कति भस्मसात्समपद्यन्त । अविदितपूर्व! दुराचार! दूरम् गच्छ । मा ते भून्मम दृष्टितेजसा भस्मीभावः ।

दर्पः – (सक्रोधम्) रे रे मूढ! द्विजातिरिति जातिबहुमानादेव मया पादेन शिरसि न ताड्यसे । अपि च,

तुण्डीरम् मण्डलम् मे कुलपतिरपि च स्कन्दभूपालवन्द्यः

क्षेत्रम् सत्यव्रताख्यम् क्षितितलतिलकम् क्षुद्रकाञ्च्यग्रहारः ।

प्रख्यातः शिष्यभूम्ना दिशिदिशि भवता कूपकूर्मोपमेन

स्थाता वादाहवेषु स्थविर! कथमहम् न श्रुतो नापि दृष्टः ॥ ३६ ॥

(विहस्य) अहो महाडाम्भिक! अविदितमदीयाचार! किमिति दुराचार इत्युपक्रोशसि? अथवा कः खलु मया विना मत्प्रभावाभिज्ञः? यस्य मे महायोगिनोऽपि अभिजनविद्यावृत्तेषु षोडशीमपि कलाम् नार्हन्ति, किमुत पृथग्जनाः । अत एव हि श्रोत्रियानपि त्रिवर्षपूर्वान्न नमस्करोमि । किम् न वेत्थ मामकम् धर्मप्रवर्तनाभिसन्धिम्?

रथ्यावादविशङ्क्यमानजरठासम्बन्धिसम्भाषणात्

त्यक्ता हन्त! पतिव्रता गुणनिधिः सत्रासमम्बा मया ।

विद्यातश्च विवाहतश्च विदितादाचारतश्च क्षितौ

कूटस्थाभ्यधिकस्य मे किमधिकः को वा समः कथ्यते ॥ ३७ ॥

डम्भः – अरे ब्रह्मबन्धो, दुर्विनीत, दुराग्रह! यद्येवम् त्वमास्थितसमाचारः, किम् न परिव्राजिकाम् प्रणमसि? पितरमिव सर्वलोकाभ्यर्चितम् विदितसकलवेदितव्यैर्महात्मभिरप्यविदितवैभवम् त्रिवर्षपूर्वम् श्रोत्रियम् माम्, धर्मपत्नीम् च मम पतिव्रतावृत्तिनियमेन प्रत्यक्षितपरावरतत्त्वैरपि पितामहादिभिः क्रियासमभिहारेण कृतनमस्काराम् किम् नाभिवादयसि?

दर्पः – हे धर्मध्वज! आत्मश्लाघापातकिन्! अद्य खलु पूज्यपूजाव्यतिक्रमेण कपूयाम् योनिम् प्रतिपत्स्यसे; श्वयोनिम् वा चण्डालयोनिम् वा । अहमपि सर्वलोकसञ्चारी त्वदभ्यर्चकम् क्वापि कमपि न पश्यामि । (सोच्चैर्हासम्) (भो) जडवञ्चक!

प्रजानाम् पतयो दृष्टाः पशूनाम् बृहतामपि ।

न च त्वमधिकस्तेभ्यो न चास्मान् बहुमन्यसे ॥ ३८ ॥

नूनमधिकजनपरिवादेन सहसैव निरयम् गमिष्यसि ।

कुहना – भगवति! एष दुर्ब्राह्मणो महर्षिपरिवादेन विनाशम् प्रतिपद्यते ।

असूया – अयि धार्मिकपत्नि! दुर्ब्राह्मणीव किमिति नामाभ्यागतमतिथिमधिक्षिपसि? किम् तु अन्योन्यपरिवादिनावेतौ महानुभावौ क्षणमावाभ्याम् क्षन्तव्यौ ।

डम्भः – (सक्रोधम्) रे रे वाचाटवायस! सारमेय इव वृथा पर्यटनशीलोऽसि । तथा हि,

जातिमात्रशरणा बहिष्कृताः केचिदादृतजघन्यवृत्तयः ।

रोषणा विपरिधाविनो मुधा ह्रेपयन्ति जनमुज्झितह्रियः ॥ ३९ ॥

दर्पः – (सहस्तास्फालनम् विहस्य) यथावस्थितवादिने मह्यम् मर्कट इव किमिति कुप्यसि?

डम्भः – रे रे स्तम्भ इव वृथास्थूलस्त्वम् विश्ववृत्तान्तम् न जानासि?

मयि चरति कदाचित् सत्यलोकोपकण्ठे

सपदि सनकमुख्यैः साकमभ्युज्जिहानः ।

सविनयनिभृताङ्गः सप्तशः क्षालितेन

स्वयमुदवहदर्घ्यम् पाणिना पद्मयोनिः ॥ ४० ॥

अपि च,

कति कतीह पुरातनतापसाः कमलसम्भववम्शसमुद्भवाः ।

अतितरन्ति महान्त्यपि पातकान्यहह मामकपादजलाप्लुताः ॥ ४१ ॥

कुहना – सत्यमेतत्, दृष्टम् मयाऽपि सहधर्मचारिण्या ।

दर्पः – (स्वगतम्) नूनमयमार्यो डम्भः, इयमपि कुहना । न खल्वन्येषामीदृशम् चारित्रमतिवदनम् वा सम्भवति । तदेतावेवास्मद्बन्धुभूतावभ्युपगमयामि । (प्रकाशम्) भगवति विश्ववेदिनि! युक्तिसिद्धमिह किमपि भगवत्यै निवेदयामि ।

परधनहरणप्रवीणभावा कुटिलमतिः कुहनैव सेयमार्या ।

पशुवधपरिशेषनामयज्ञः स्ववशजनः स्वयमेव डम्भ एषः ॥ ४२ ॥

तत्कथमेतत्सकाशाद्धर्मसङ्कटम् मोक्ष्यावः ।

असूया – अहमप्येवम् सम्भावयामि ।

डम्भः – (सान्तर्हासम्) युवामप्यहम् युक्तितः स्थापयामि ।

ध्रुवमत्र गुणोत्तरापवादी ध्वनिसारः स्वयमागतोऽसि दर्पः ।

परिकल्पितवीतरागवेषा तव भार्यैव भवेदसावसूया ॥ ४३ ॥

(नेपथ्ये) गृहपतिरतिथिश्च सत्यवादिनावेतौ गौडलाटधार्मिकौ ।

[सर्वे सप्रत्यभिज्ञम् परस्परमवलोक्य सन्तोषमभिनयन्ति]

डम्भः – (सानन्दम्) सखे दर्प! अभिव्यञ्जिता वयमिदानीमशरीरिण्या भारत्या ।

दर्पः – अवितथवादिनी खल्वेषा । तदार्येणापराधो मामकः क्षन्तव्यः ।

डम्भः – मयाऽपि खल्वपराद्धम् ।

(डम्भदर्पावन्योन्यमञ्जलिम् बध्नीतः; निबध्नीतश्च प्रियवचनम् । असूयाकुहने गाढम् मिथः आश्लिष्यतः ।)

डम्भदर्पौ – यथामनोरथमिह वयम् यदृच्छया देव्या समागताः । अभिगन्तव्यस्त्वनन्तरम् समये महाराजः ।

[ततः प्रविशति महामोहो दुर्मतिश्च ।]

महामोहः – (विचिन्त्य) प्रिये! महासाहसिकस्य कुलघ्नस्य विवेकस्य विध्वम्सने कृतप्रतिज्ञेन मया समाधिसाकाङ्क्षापुरुषसङ्क्षोभणाय प्रेषिताः सिम्हवनगुप्तिन्यायेन परस्पराभिरक्षिताश्च कामक्रोधादयः कालोपपन्नकातर्यकलुषिताः सैकतसेतव इव भग्नव्यूहाः प्रतिनिवृत्य, कथमप्यस्मन्मुख मवलोकयितुमक्षमाः प्रतिदिशम् प्रस्थाय, प्रायोपवेशमास्थिता इत्युपश्रुतमस्माभिः । तदिह भवत्या तत्प्रेयसीः रतिजिघाम्सातृष्णास्तत्सकाशम् गमयित्वा मामकास्ते मन्त्रिणः समाश्वासयितव्याः ।

दुर्मतिः – आर्यपुत्र! पूर्वमेव तास्तेषाम् गमिताः।

महामोहः – साधु, प्रिये साधु! यदस्मद्वल्लभोचितमनुष्ठितम् भवत्या । प्रत्याश्वस्तास्ते समरसमये समाह्वातव्याः ।

दुर्मतिः – एवमेव ।

महामोहः – (विषादातिशयम् नाटयन्) प्रिये! अद्य यावदप्रतिहतकीर्त्तिरपत्रपेऽहमसदृशेन दुरात्मना विवेकेन सह विवादः सम्वृत्त इति । यथा त्वम् नारीषु निःसमाभ्यधिका, तथाऽहम् पुरुषेषु । यतः,

सुरदनुजगणाः स्वमूर्ध्नि नित्यम् निदधति शासनपत्रिकाम् मदीयाम् ।

प्रतिफलितलिपिप्रकारदीव्यन्मणिमकुटाम्शुमषीरसानुलिप्ताम् ॥ ४४ ॥

अपि च,

वर्गः स्वर्गसदाम् मया नियमितः क्षोणीभृतः किम् पुनः

पद्माम्भोनिधिपर्वतेषु निहितास्तिस्रो मया मूर्तयः ।

विश्वम् कर्तुमकर्तुमन्यथयितुमद्भ्रूरमोघक्रमा

सोऽहम् कस्य वशे क एष न च मे, किम् कस्य वा कथ्यते ॥ ४५ ॥

(स्वगतम्) किम् तावदद्य केनापि हेतुना प्रदीप्यमाने विवेके प्रतिविधातव्यम्? अस्तु, नन्वहम् महामोहः । (प्रकाशम्) प्रिये! यद्यपि सर्वत्र मया प्रवर्तिताः समयभेदाः कैश्चिदौपनिषदापशदैरहस्करकिरणा इव घनैः किञ्चिदन्तर्धापिताः, यद्यपि च कामादयश्चिकीर्षितवैकल्य जनितवैलक्ष्यवशादनालक्ष्याः गूढमासते, तथाऽपि भेदमभेदम् च वस्तूनाम् पूर्वपक्षसिद्धान्तौ च सर्वत्र विपर्यस्य विश्वम् व्यामोहयामि । अथवा पुनरहमहङ्कारादिसम्मतमचरमप्रमाणप्रधानमलौकिकार्थ कल्पना दुर्व्यसनहीनमर्थकाममात्रपुरुषार्थहृद्यमवितथम् सिद्धान्तम् गम्भीरयुक्तिभिरुत्तम्भयन्वृथोत्साहमेव जडमतिम् विवेकम् विधित्सामि । अहह,

पृथिव्यापस्तेजः पवन इति तत्त्वानि, मिलितै-

रमीभिश्चैतन्यम् भवति मदशक्त्यादिनयतः ।

किमात्मा दृष्टोऽन्यः किमुत वपुषि ध्वम्सिनि सुखम्?

तदेतद् वागीशः समतनुत लोकायतमतम् ॥ ४६ ॥

उपनिषदपि खलु बलवदभिमतसमयबलीयस्त्वमभिसन्धाय व्यवस्थापयति, ‘असुराणाम् ह्येषोपनिषत्’ इति । तदिह त्रय्यन्तवादिभिरुपनिषत्प्रामाण्य समर्थनमप्यस्माकमरातिकरलिखित विजयपत्रायते । अपि च,

स्वमतविपरीतमन्यैः क्रोशति हृदये विधीयते स्वैरम् ।

अमरगुरुशिक्षितार्थैरस्मत्सार्थैर्यथाहृदयम् ॥ ४७ ॥

दर्मतिः – आर्यपुत्र! प्रत्यक्षमात्रप्रमाणो बृहस्पतिसिद्धान्तो बहुप्रमाणसाधितपरोक्षविषयाणाम् बहूनामितरसिद्धान्तानाम् पुरतः कथम् तिष्ठेत्?

महामोहः – प्रिये! नूनम् स्वमतप्राबल्यबुभुत्सया परिपृच्छसि । तदेतदाकर्ण्यताम्,

परमनुगुणयन्तः पण्डितम् मन्यवर्गान् अवितथमिव जल्पन्त्यागमाः किञ्चिदेते ।

विबुधगुरुमतेऽस्मिन् व्यक्तमुत्तभ्यमाने मुषितनिखिलसारा मौनमुद्राम् भजन्ते ॥ ४८ ॥

न खलु सहस्रमपि प्रतिसूर्याः कदाचिदपि सूर्यमभिभवन्ति ।

दुर्मतिः – आर्यपुत्र! प्रबलतमेऽस्मिन्पुरन्दरपुरोहितमते का मुक्तिः, को वा भोगः, का वा देवता?

महामोहः – श्रूयताम् तावदवहितया भवत्या ।

शरीरप्रलयो मुक्तिर्भोगस्तु रतिरुत्तमा ।

देवतास्तत्प्रदायिन्यः स्त्रियस्तारुण्यभूषणाः ॥ ४९ ॥

एवम् च देवि! परमार्थदर्शिन्यास्तव प्रत्यक्षत एवैते परिप्रश्नाः प्रत्युक्ताः । अपि चास्माकम् वैरिविवेकरूपविजयेऽपि एतासामेव प्रत्यक्षदेवतानाम् प्रसादः प्रधानकारणम् ।

दुर्मतिः – भवतु नाम प्रसादः स्त्रीणाम् सल्लापयोग्यानाम् सचेतनानाम् देवतानाम् । तेन कथम् विवेको विजेतुम् तीर्यते?

महामोहः – इत्थम् नाम,

अपि तपसि रतानामप्यधीतागमानाम् अपि यमनियमाद्यैरन्वहम् शिक्षितानाम् ।

शिथिलयति समाधिम् शिल्पिहस्तानपेक्षम् वरतनुमयचित्रम् वासनाभित्तिलग्नम् ॥ ५० ॥

पठन्ति चौपनिषदाः परिहृतविषयानुरागतया परमपुरुषमुपसन्नस्यापि जक्षणादिकमक्षीण विहृतिशालिनीभिरुपभोगम् चेति महदिदम् सारस्यम् । न खलु वृश्चिकमिया पलायमानैराशीविषमुखे निपतितव्यम् । अपि च,

तमिस्राशीताम्शुस्तबकवियदावर्तघटितैः

प्रकॢप्तानाम् रम्भामणिमुकुरतूणीरनलिनैः ।

स्मरन्तः के धैर्यम् दधति युवतीनामभिमुखम्

स्मरस्कन्धावारप्रचलितपताकाप्रतिभुवाम् ॥ ५१ ॥

अहह! अनादिशुद्धतया सम्मतानाम् वैकुण्ठवैमानिकानाम् वैनतेयादीनामाजानसिद्धाः कतिकति विलासिन्यः श्रूयन्ते । श्रूयते किल सकलसम्सारनिवर्तकः सर्वेश्वरो लक्ष्मीभूमिनीलानायकः । तदिह कामपुरुषार्थप्रतिक्षेपकैः कापेयवृत्तिभिः प्रतिभटनगरदिधक्षानिक्षिप्तेन पावकेन स्वनगरमपि दन्दह्यते । यश्चासौ मोक्षप्रद इति मुमुक्षुभिरुद्घुष्यते, स च,

सत्त्वप्रवर्तकः सन् सह प्रियाभिः पुराणपुरुषोऽपि ।

बहुमुखभुजङ्गसङ्गी विहरति विविधासु राजधानीषु ॥ ५२ ॥

ततश्चार्वाकपक्षप्रतिक्षेपः दिव्यदम्पतिसमर्थनम् चेति शतप्रदानप्रतिक्षेपिणो महाप्राज्ञस्य विम्शतिपञ्चप्रदानवचनवदपहास्यम् । किम् च,

मूढग्राह्यान् मोक्षधर्मप्रबन्धान् निर्मातॄणाम् निष्प्रमादप्रयुक्तः ।

भोगप्राप्त्यै कल्पते भूरिभूम्नाम् ब्रह्मादीनाम् ब्रह्मचर्यप्रयासः ॥ ५३ ॥

(आकाशे कर्णम् दत्त्वा) किम् ब्रवीति कश्चित्?

दाम्पत्यम् सहजम् समस्तजगताम् पित्रोस्तदिच्छावशात्

कामिन्यादिविभागकॢतिरपि तत्कैङ्कर्यसिद्ध्यै नृणाम् ।

इत्थम् शेषमशेषमद्य तु भवत्सारस्यसम्वर्धकम्

वैरस्यम् विदधाति हन्त! विदुषाम् वैरोचनम् दर्शनम् ॥ ५४ ॥ इति ।

(सक्रोधम्) कः कोऽत्र भोः! उत्सार्यतामसौ दृष्टिगोचराद्दैष्टिकदिवाभीतः । (इत्यवज्ञाम् नाटयति ।)

दुर्मतिः – आर्यपुत्र! मम किल निखिलाः कामिन्यो दास्यः । ताभिरेव तव विवेकविजय इति सम्पन्नबहुमानाऽस्मि । (विचिन्त्य) प्रत्यक्षसिद्धपरमानन्दयुवति सम्भोगप्रधानम् तव सिद्धान्तम् मुञ्चन्तः किमिति वैराग्यप्रधानेषु तेषु तेषु मतेषु प्रचुरादरा जना भवन्ति?

महामोहः – प्रिये! अविचारितप्रवृत्तोऽयमास्तिक वेतालानामन्धपरम्परान्यायः ।

अमरगुरुप्रणीतमनपायमपोह्य मतम्

विविधकुतर्कजालकलहायितकौतुकिनः ।

कपिलहिरण्यगर्भकणभोजनबुद्धजिन

प्रभृतिसमर्थितेषु समयेषु भजन्ति रतिम् ॥ ५५ ॥

अपि च,

चरमितरदप्यशेषम् चन्द्रकनयतः स्वभावश्चित्रम् ।

किम् वा निरूपणीयम् कण्टकतैक्ष्ण्यादिकारणम् कविभिः ॥ ५६ ॥

इत्थम् नाम दुस्त्यजः स्वभाववादः । कार्यकारणभावश्च काकतालीयन्यायमनुसरति । एवमपि,

अतत् तदिति वा न तत् तदिति वा वृथोद्यत्कथा-

कनत्कथककत्थनक्रमविकल्पितप्रक्रमा ।

जगद्विपरिवर्तिनी जनपदेषु जोघुष्यते

कुतर्कशतशर्करानिकरकर्कशा पद्धतिः ॥ ५७ ॥

इत्थमुपप्लुतेऽपि जगति,

चिरसेवनतोषितेन धात्रा निपुणस्थानविदा निवेदितार्थः ।

असुरोपनिषद्रहस्यमग्र्यम् प्रथयामास विरोचनः प्रजानाम् ॥ ५८ ॥

अत्र च,

करणविलयरूपा मुक्तिरित्युक्तमाद्यैः

वितथमिति मयाऽन्यत् वार्तिके विन्यवेशि ।

स्तनयुगलबृहत्त्वस्थापनीय स्वभूम्ना

बहुगुणविभवेन ब्रह्मणा भोगसाम्यम् ॥ ५९ ॥

दुर्मतिः – आर्यपुत्र! एवम् युष्माभिः रक्ष्यमाणम् जीवलोकम् पीडयन्ति निष्कारणविद्वेषाः परसिद्धान्त परिपाटीपक्षपातिताः ।

महामोहः – भवतु किम् नश्छिन्नम्? न खलु पाटच्चराः प्रकृतिम् मुञ्चन्ति । न चाप्रमत्तमतयस्तैरुपहन्यन्ते ।

पठन्तस्त्रय्यन्तान् परिहसनकाकुम् विदधताम्

भजन्तस्ताटस्थ्यम् परिभवितुमिच्छन्तु महतः ।

उदन्तः शान्तानामयमिति च जल्पन्त्वभिमतम्

किमन्तर्दुर्दान्तैः कृपणकथकैरेभिरिह नः ॥ ६० ॥

(विचिन्त्य) प्रिये! अद्य तावदस्मत्सिद्धान्तपुनःप्रतिष्ठापनपटीयाम्सः पुरुषा गवेषणीयाः । कः कोऽत्र भोः!

डम्भादयः – (त्वरितमुपसृत्य) अमी वयमागताः । ( इत्युपसीदन्ति ।)

महामोहः – स्वागतम् स्वकुलहितैषिभ्यो भवद्भ्यः ।

डम्भदर्पौ – (सप्रश्रयम्) महाराज! त्वत्प्रसादात्सर्वत्राप्रतिहतगतयः समागताः स्मः । किम् कर्तव्यमनेन किङ्करजनेन?

महामोहः – कामादीनामिदानीम् का वार्ता?

डम्भः – (स्वगतम्) किम् राज्ञे विज्ञापयामि? (प्रकाशम्) देव दुर्मतिवल्लभ! ‘सत्यम् राजसु शोभते’ इति प्रियेतरदपि दृष्टम् ब्रवीमि । वेद्मि कामस्य लोभस्य चाहमधुनातनीमवस्थाम् । तयोश्च,

अनन्तविषयस्पृहाजलधिसम्प्लुते मानसे

वसन्तसमये स्थिते मलयमारुते जीवति ।

सकृद्विहितसौप्तिकप्रतिनिवृत्तिवैलक्ष्यतः

प्रसुप्त इव हन्त न स्पृशति पञ्चबाणः शरान् ॥ ६१ ॥

अन्यस्मिन्नपि कैमुत्यसिद्धमावेदयामि –

पुरुषस्य विवेकविप्रलम्भात् स्वशरीरेऽपि विरज्यमानबुद्धेः ।

कृपणप्रतिनन्दनीयवृत्तिः किमिवाऽऽलम्बनमाश्रयेत लोभः ॥ ६२

दर्पः – देव दुर्मतिपण्डित! अहम् पुनः क्रोधस्य साम्प्रतिकीमवस्थितिमद्राक्षम् । ‘याथातथ्येन पण्डितम्’ इति नीतिमनुसरन् यथानुभूतमेवावेदयामि । यथासौ,

द्विसप्तदलपत्रलद्रुहिणसृष्टिभङ्गक्रिया

पुरस्कृतयुगक्षयभ्रुकुटिताण्डवाडम्बरः ।

विरक्तिविषवल्लरीव्यतिकरेण रोषः स्वयम्

सुषुप्त इव वर्तते सुभटकेलिसौवस्तिकः ॥ ६३ ॥

महामोहः – (सविषादम् विहस्य) अहो विवेकस्य कुलघातिनो दुर्मन्त्रितमेतत्! यथाऽसौ सर्वत्र निरवकाशः स्यात् तथाऽस्माभिरवहितैर्विश्वमिदमधर्मेण व्यापनीयम् । स्वकुलसम्रक्षणप्रवृत्तानामस्माकम् त्वयमधर्म एव धर्मः । पठन्ति चैतिहासिकाः – ‘स एव धर्मः सोऽधर्मस्तम् तम् प्रति नरम् भवेत्’ इति । एवमुपप्लुतावस्थानो विवेकः स्वयम् चानतिप्रबलः सुखेन साधनीयः । अथ वा कोऽयम् विवेकः । न खलु शाकुटस्य लवने शङ्कुलायाः कियानिव भारः । न चेषीकातूलमिन्धनयितुम् वह्निना सम्रभ्यते । (विमृश्य) प्रिये कुलधर्मपालिनि! त्वदभिमत वृत्तेरुत्तमगुणस्य मे पश्य यावज्जीवम् प्रारब्धकर्मापरित्यागम् ।

कामस्ताम्यतु कोपलोभसहितः काले समभ्येतु वा

रक्षस्सम्यति राघवस्थितिमहम् व्यङ्क्ता विवेकाहवे ।

कालस्त्वेष रथो भवत्विह कलिस्त्वम् सारथिर्दुर्मतेः  

डम्भः सम्प्रति जैत्रदुन्दुभिरसौ दर्पस्तथा कङ्कटः ॥ ६४ ॥

डम्भः – महाराज! स्वायत्तसिद्धेस्तव किमायत्तमस्मासु?

कस्तुभ्यम् रणरङ्गखेलनकलामातिष्ठते तिष्ठते

कश्च प्रेप्सति कामतन्त्रनियतस्वैराय वैरायितम् ।

येन क्षोदयितुम् क्षमा प्रभवति क्षेप्तुम् कुलक्ष्माभृतः

पातुम् सप्त सरस्वतोऽपि भवता साकूतमालोकितः ॥ ६५ ॥

तथाऽपि वयम् त्वदादिष्टास्त्वदधीनवृत्तयो यथासामर्थ्यम् यतिष्यामहे । कपयोऽपि काकुत्स्थस्योपकुर्वन्ति । वल्लवाश्च वासुदेवस्य साह्ये सन्नह्यन्ति ।

महामोहः – अभिमतमेव युष्माकमहमादिशामि –

दम्भ! त्वमद्य नियतो निजधर्मगुप्त्यै पुण्यापगापरिसरान् पुनराश्रयेथाः ।

गाढोपलक्षितविरक्तिमदेषु (गर्व)दर्पस्तन्वीत वासमनघेषु तपो(ध)वनेषु ॥ ६६ ॥

डम्भदर्पौ – स्वीकृतोऽयम् स्वामिसमादेशः ।

महामोहः – (स्वगतम्) किम् नामारातिविहतावाद्यम् साधनम् । ननु प्रत्यवमृष्टम् ।

प्रज्वलति जाठराग्नौ क्षिपन् यथावच्चतुर्विधम् हव्यम् ।

प्राणाग्निहोत्रमेकम् परिपालयितास्मि दुर्मतिसहायः ॥ ६७ ॥

ततश्च जात्याश्रयनिमित्तदुष्टैरिष्टैरेव द्रव्यैर्मृष्टाहारविहारे(र) दृष्टचेष्टे पुरुषे कथमिव विवेकस्य विजयाशम्सा । (प्रकाशम्)

अलम् मेरुस्तोमैरलमपि च कैलासनियुतैः

अलम् द्वीपैरष्टादशभिरखिलैर्वाऽपि भुवनैः ।

अखण्डैर्ब्रह्माण्डैरपि न खलु तृप्तिर्भवति मे

विरुन्धानध्वम्सम् त्वभिनिविशते सम्प्रति मनः ॥ ६८ ॥

दुर्मतिः – अमात्या एव पुनररातिविध्वम्सने प्रेषणेन अनुग्रहणीयाः ।

महामोहः – प्रिये! कृत्याकृत्यवेदिनी खल्वसि । अहमपि तथा मन्त्रयामि । तदाहूयतामन्तःपुरे कश्चिदन्तरङ्ग परिजनः ।

दुर्मतिः – सखि दुर्वासने! इतो भव ।

[ततः प्रविशति दुर्वासना ।]

दुर्वासना – एषाऽहमुपस्थिताऽस्मि । आज्ञापयतु महाराजो राज्ञी च ।

महामोहः – भद्रे! ब्रूहि मद्वचनादधिगतगणितविद्यान्करणाधिकारिणः । आदिशति भवतो महाराजाधिराजपरमेश्वरो दुर्मत्या सह महामोहः । कामक्रोधलोभमदमात्सर्यडम्भस्तम्भेभ्यः सप्तभ्यः सचिवेभ्यः सप्तमुक्तिक्षेत्रतया प्रसिद्धा राजधान्यः ससागराश्च सप्त महाद्वीपा दत्ता महामोहेनेति लिख्यताम् । अपि च,

स्वकीयाख्यामात्रच्छुरणपरिणह्यद्भयभरान्

हिष्कृत्येदानीम् विजहदधिकारान् क्रतुभुजः ।

यदृच्छावाक्येऽपि व्यवहरतु लोकोऽयमखिलो

नमःस्वस्तिस्वाहागिर इह महामोहविषयम् ॥ ६९ ॥ इति ।

दुर्वासना – यदाज्ञापयति भर्ता भर्त्री च । [इति निष्क्रान्ता]

(नेपथ्ये) विजयताम् देवः ।

भुक्तिक्षमम् समयमेकरुचिम् वितन्वन्

पुम्साम् निजप्रतपनेन गतिप्रतीपः ।

आशाविशेषमपरम् प्रतिपत्स्यमानो

मोहेश्वर त्वमिव भाति मयूखमाली ॥ ७० ॥

इह च,

उपहरति सूपकर्ता महतो मोहस्य दुर्मतिप्रेष्यः ।

वलरिपुवरुणगृहाभ्याम् स्वाद्यम् धारान्तमुचितमाहारम् ॥ ७१ ॥

महामोहः – (कर्णम् दत्त्वा) प्रिये! प्राणशब्दाभिलप्यानाम् सर्वशरीरव्यापिनीनाम् सर्वसिद्धान्तसम्मतानाम् देवतानाम् समर्चनसमयमावेदयति वैतालिकः । तत्प्रविशावः शुद्धान्तम् ।

[इति निष्क्रान्ताः सर्वे ।]

इति श्रीकवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य

श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु

सङ्कल्पसूर्योदयनाटके (दम्भाद्युपालम्भो नाम) पञ्चमोऽङ्कः ।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.