षष्ठोऽङ्कः
स्थान विशेषसङ्ग्रहः
[ततः प्रविशति कञ्चुकी]
कञ्चुकी – अहम् हि देवस्य महामोहस्य दर्पसम्भवः स्तम्भो नाम सदागम प्रतिरोधकः प्रतिहारी । मम च,
वलिभिरविरलाभिर्वर्ष्म सोपानकल्पम् द्रतपदमधिरूढा दुर्निवारा जरेयम् ।
तदपि नियतिभूम्ना तादृशी वेत्रयष्टिः सह चरतिम् मयाऽसौ शैशवे सङ्गृहीता ॥ १ ॥
किम् च,
निश्शङ्कसञ्चरणविघ्नविधायिनीभ्याम्
निष्पीडितोऽस्मि जरसा च नृपाज्ञया च ।
मध्योपलक्षितमनोरथभङ्गदीना
वाञ्छा न शाम्यति वयः सकलम् प्रशान्तम् ॥ २ ॥
आस्ताम् तावदशेषदेहसाधारणगतिर्जरा । “न हि जानपदम् दुःखमेकश्शोचितुमर्हति” इति नीतिविदः । नृपाज्ञा तु निष्ठुरतरा ।
तरतु विवित्सयाऽब्धिमधिरोहतु शैलतर्टी
धमतु च धातुवर्गमभिगच्छतु शस्त्रमुखम् ।
तदिदमरुन्तुदम् यदुत बह्ववधाय भिया
धनमदमेदुरक्षितिभृदङ्कणचङ्क्रमणम् ॥ ३ ॥
आः! कष्टम् ।
प्रत्यङ्गकम्पपरिणर्तितकञ्चुकेऽस्मिन्
पर्याप्तरूढपलिते परतन्त्रपिण्डे ।
अक्षीणरागमजरामरजीविताशम्
मामेव हन्त हसतीव ममान्तरात्मा ॥ ४ ॥
(सनिश्श्वासम् विचिन्त्य) निरधिकारतैव नूनम् सुखस्याधिकारः । अथ वा किमनेन महामोहपरवशस्य मे मुधा निर्वेदेन । स्वतन्त्रस्य तीक्ष्णदण्डस्य स्वामिनः प्रेषणे स्थातव्यम् । अतिनिपुणपरिजनोचितम् च नित्यमाचरितव्यम् । अद्य खलु देवो महामोहश्चारचक्षुषा विपक्षवृत्तान्तम् दिदृक्षमाणः विपक्षभूमिषु कल्मषप्रवर्तनाय सर्वधर्मनिर्मूलने कलौ प्रस्थापिते, प्रतिबलभेदनोपायकोविदम् पाकशासनादिषु पशुपक्ष्यादिषु च अविशेषेण निरङ्कुशगतिम् विघ्ननामानमपसर्पमपसर्प्य, सदसद्वाऽयम् किम् वदिष्यतीति सन्देहडोलाधिरोहतरलिताशयस्तत्प्रत्यागतिमावेदितुमावेदयितुम् च मामादिक्षत् । स चायम् विघ्नः सत्वरपरिक्रान्तयमनियमादिस्थानपञ्चकः तत्रतत्र सन्निहितैः कुशलाचारैः सर्वतः प्रतिहतगतिः सम्प्रति सम्यमारम्भसम्भृतसम्रम्भम् देवम् विवेकम् स्यन्दने दवीयानेव दृष्ट्वा प्रत्यागतः स्वामिसन्दर्शनसमयप्रतीक्षः समया शुद्धान्तमवतिष्ठते । यथादृष्टार्थवादी चासौ ।
तथा चेदानीम् तदुक्तमध्यक्षेण सम्वदति । यदुत,
मनोरथरथारूढो विवेकस्तर्कसारथिः ।
दिदृक्षुः सम्यमस्थानम् इतः समभिवर्तते ॥ ५ ॥
तदहमपि यथादिष्टमाचरामि ।
[इति निष्क्रान्तः ।]
इति शुद्धविष्कम्भः ।
[ततः प्रविशति यथानिर्दिष्टो विवेकः]
विवेकः – अये सूत! आहार्यहेतुमुखेनापि अन्ततस्सूनृतवादिना निष्प्रतिघवृत्तिना नियम भूयिष्ठेन परानुकूलम् त्यजता तदनिष्टप्रसञ्जकेन तद्विपर्ययपर्यवसायिना त्वयाऽसौ मे मनःपूर्वो रथस्सुपथा सञ्चरते ।
तर्कः – देव! अहमपि खलु त्वदायत्तप्रसरः । अपि च,
स्वपक्षपरपक्षादीन् विविङ्क्ते यदि न त्वया ।
कृत्याकृत्यविवेकान्धः किम् करिष्यति पूरुषः ॥ ६ ॥
विवेकः – वयम् खलु सूत! इदानीम् वशीकृतसर्वेन्द्रियस्य पुरुषस्य धारणादिसिद्धिसाधकम् स्थानमन्वेषयन्तः सर्वलोकपरिक्रमक्रमेण मध्यमलोकावलोकनाय मेरुशिखरमधिरूढाः । (समन्ततोऽवलोक्य)
स्फुरदरपरिपाटीचारुशैले विशाले
गुरुणि धरणिचक्रे चक्रवालाद्रिनेमौ ।
दधति जलधयोऽमी सप्त सम्पूर्णवृत्ताः
प्रचितविविधपट्टस्पष्टसङ्ख्यामभिख्याम् ॥ ७ ॥
इदम् हि त्रिगुणमरुकान्तारगतागतखेदनिर्वेदविधुराणाम् कामकामानाम् किमपि विश्रमस्थानम् ।
अयम् च,
भुजगपतिनालविधृते भूपद्मे कर्णिकारूपः ।
विलसति केसरभूधरपरिवृततनुरत्र काञ्चनक्ष्माभृत् ॥ ८ ॥
असाविह समन्ततो निपतदलिपटलविरुतमुखरपरिसरा प्रफुल्ल वकुलमुकुल प्रणालिका मुखगलित मधुरमधुधारा धोरणी पूर्यमाणमूलालवाला प्रत्यासीदति विबुधसिन्धु सविधवनतरुवाटिका ।
इह च,
निष्प्रत्यूहसमुन्नमन्मदसिराकण्डूलगण्डस्थली-
हेलाधूननधूतभृङ्गपटलीमूर्च्छन्मृषाचामरः ।
मन्दान्दोलितमन्दराचलतटीनिष्ठ्यूतधातुच्छटा-
सिन्दूरद्युतिबन्धुरो विहरति स्तम्बेरमग्रामणीः ॥ ९ ॥
अपि च,
क्षरत्यारादैरावणकरटिशुण्डाचुलकिता
कथञ्चित्सन्तानद्रुमकिसलयापादितलया ।
स्मरस्मेरोत्कण्ठाविहरदमरीलोलकबरी-
जरीजृम्भन्माला मधुलवहरी वातलहरी ॥ १० ॥
तर्कः – (स्वगतम्) रत्नसानुरामणीयकलग्नचित्तम् महाराजम् प्रक्रान्तेकार्ये सन्त्वरयामि । (प्रकाशम्) देव! किमसौ केसरायमाणकेसरशैलपरिवृतकाञ्चनशिखरिकर्णिकास्थितेन भवता सर्वतः समीक्षितः क्षितिपद्मः?
विवेकः – सत्पथ प्रवर्तिना भवता प्रदर्शितः समीक्षित एव सामस्त्येन । प्रस्तुतानुगुण्याय तु प्रतीकशो विवेक्तव्यः ।
अथवा,
द्विसप्तभुवनात्मकद्रुहिणगह्वरप्रेक्षणे
क्षितिस्तु परिशिष्यते तदिह सर्वधर्मास्पदे ।
त्रिवर्गपुटमेदनत्रिदशयोग्यवर्षम् त्यजन्
प्रवर्तय रथोत्तमम् सपदि भारतैकोन्मुखम् ॥ ११ ॥
तर्कः – यदाज्ञापयति देवः ।
[इति वेगतो रथम् प्रवर्तयति ।]
विवेकः – अये! तिष्ठ तिष्ठ । यावदयमनङ्गविजयिनो भवानीपतेरावासः कलधौतगिरिरालोक्यते ।
[तर्कः रथवेगम् स्थापयति]
विवेकः – (परितो दत्तदृष्टिः परामृश्य)
विजितमनोभवेन विभुनाऽधिगतोऽपि सदा
निरुपधिसम्यमस्य न पदम् कलधौतगिरिः ।
गजमुखगण्डशैलघनदानकलिन्दसुता
लहरिझलम् झलाबहलकञ्जलकम्बलितः ॥ १२ ॥
तर्कः – (अग्रतो रथम् प्रवर्त्य) पश्य देव! गन्धर्वयूथसेवितम् गन्धमादनम् ।
विवेकः – (सकुतुकम् दृष्ट्वा)
एतम् गिरिवरम् सूत मन्ये विश्वमनोहरम् ।
आगामिस्वर्गसृष्टीनामादिकन्दमिव स्थितम् ॥ १३ ॥
अयमपि (खलु) सिद्धैरासेव्यमानो न साधकानामावासः । अपि च,
सहचरभव्यशबरीकबरीविकसन्-
मदनमहेषुजालमधुसौरभसारभृतः ।
इह मरुतो वहन्ति मददन्तुरदन्तिघटा
करटकटाहवाहिघनशीकरशीभरिताः ॥ १४ ॥
तर्कः – इतस्तर्हि दिव्ये तपोवने दीयताम् दृष्टिर्देवेन ।
विवेकः – (दूरतः पश्यन्)
स्वकल्पितरघूद्वहप्रथनकेलिगाधाशत
प्रयुक्तिपथशिक्षणप्रवणसिद्धबृन्दान्वितः ।
क इत्थमुपसर्पति स्थिरकठोरवीरव्रणः
कपिः कदलिकावनम् कनकशैलशृङ्गाकृतिः ॥ १५ ॥
तर्कः – अवधारयतु देवः ।
परिणतफलग्रासश्रद्धाजिघृक्षितभास्करः
पवनगरुडस्पर्धादानप्रवीणजवोल्बणः ।
दशमुखपुरीदाहोत्सिक्तस्ववालधिवैभवो
रघुपतिरणारम्भक्रीडारथोऽयमुपस्थितः ॥ १६ ॥
विवेकः – (सादरचमत्कारमवलोकयन्) अयमिह श्रोतृजनकर्णामृतायमानम् वर्णनातिशायिवैभवम् किमपि गायति ।
भगवति भरद्वाजे भुक्तिस्तथा शबरीगृहे
प्रभुरनुसृतो विश्वामित्रः प्लवङ्गपतिस्तथा ।
भृगुपतितपो लूनम् दृष्टिः खगस्य च दक्षिणा
जयति ललितोत्तुङ्गा वृत्तिर्दशास्यरिपोरिति ॥ १७ ॥
(विमृश्य) विजितानङ्गतया विज्ञातस्याप्यमुष्यानवरतजोघुष्यमाणदुन्दुभिवीणावेणुमृदङ्गैरङ्गीकृत लास्यताण्डवैरनुपमगान्धारग्रामगीतरसिकैर्गन्धर्व दम्पतिभिरावृतस्य सत्त्वोत्तरेऽपि तपोवने सम्यमसिद्धिम् न श्रद्दधे । पश्यामि च परितः सरसगीतास्वाद समाकृष्टावस्थितमपूर्वम् सजीवम् चित्रम् । इह च,
परिणमति जनानाम् सम्विदानन्दरूपा
निखिलमपि विहाय स्निह्यतीवान्तरङ्गम् ।
स्वरपरिणतिचित्राम् मूर्च्छनाम् भूषयद्भिः
श्रुतिसुरभिततन्त्रीरञ्जितैः स्वैरगीतैः ॥ १८ ॥
अशक्यश्च सन्निधौ परित्यागस्सम्यमारम्भविरोधिनाम् विषयाणाम् ।
अहत्वा विक्रीणन्निह मदनहस्ते त्रिभुवनम्
वरस्त्रीमञ्जीरध्वनिरपि किमालोकितमुखैः ।
यदृच्छासम्पन्नो यमिनमनघम् मुक्तमपि वा
विकर्तुम् पर्याप्तो विजितकलहम्सीकलरवः ॥ १९ ॥
अपि च,
कठिननियमोऽपि पुरुषः सहसा नवनीतकुम्भवद्भवति ।
वरयुवतिवह्निकुण्डे सन्निहिते सपदि लीयमानमतिः॥ २० ॥
तर्कः – अस्त्वेवम् । तथाऽपि सर्वधातुरत्नचित्रितम् सर्वौषधिसम्भवस्थानम् सर्वोर्वीधरसमधिकमहिमवन्तम् हिमवन्तमवलोकयतु देवः ।
एष मैनाकजनको धरणीधेनुतर्णकः ।
त्रिदशाचलजामाता त्र्यम्बकश्वशुरो गिरिः ॥ २१॥
विवेकः – (सर्वतो दृष्टिम् प्रसार्य) इयम् हि भगवती भागीरथी । अत्र च,
वाहिन्यः कति सन्ति वन्यमहिषश्रेणीविषाणाहति-
क्षुभ्यद्दुर्दमकर्दमाङ्कपयसस्तत्सम्मितिम् क्षाभ्यति ।
वारिक्रीडितवल्गिताङ्गवलभिच्छुद्धान्तसीमन्तिनी-
वक्षोजक्षरदङ्गरागसुभगोत्सङ्गा न गङ्गापगा ॥ २२ ॥
अयमिह विषयस्तपोधनानाम्
न भवति सम्यमिनाम् निवासयोग्यः ।
हरिचरणनदीनिपातघोषैः
मुखरितकाननगह्वरो हिमाद्रिः ॥ २३॥
(ससम्भ्रमाद्भुतम्) अये ! कथमिहाचिन्तितोपस्थितम् घ्राणस्पर्शनोन्मादनम् । इह हि,
उद्यानायातविद्याधरमिथुनरतिश्रान्त्यपक्रान्तिहेतुः
तिम्यद्गात्रस्तुषारैः त्रिदशयुवतिनिश्वासविश्वासभूमिः ।
नीहारत्विट्कलङ्कप्रतिवदनपदन्यस्तकस्तूरिकोद्य-
न्नेपालीगण्डपालीपरिमलललितः स्पन्दते मन्दवातः ॥ २४ ॥
अतस्त्वरितमार्यावर्ताय प्रवर्त्यताम् रथः । अत्र च,
नवयौवनदुर्मदान्धनारीदुरितोपप्लवदूषिताऽपि जातिः ।
अनपायपतिव्रताप्रवाहैः अधुनाऽपि प्रलयम् न याति सत्सु ॥ २५ ॥
तर्कः – प्रविष्टमिदम् विविधतीर्थतपोवननिरन्तरम् विन्ध्यहिमवतोरन्तरम् । अत्र च तीर्थयात्राचरितार्थस्सार्थवाहसार्थश्चिरतरोपोषितस्य चक्षुषः पराम् पारणाम् पूरयन् अनवधिकधर्मलाभसन्तोषेण गन्ध सिन्धुरस्कन्धमधिरूढ इव इतस्ततः प्रसर्पति । (सर्वतोऽवलोक्य सविषादम्) हन्त! निरङ्कुशकलिबलसङ्कुचितनिगमवर्त्मनि चास्मिन् देशे प्राच्योदीच्यपाश्चात्यपाषण्डिगण करम्बिते भग्नचरणत्रये च भगवति धर्मे प्रायशः परीक्ष्यमाणम् न किञ्चित् स्थानमवशिष्यते । तथाऽपि मुरभिदवतारमुषितकलुषोऽयम् सन्दृश्यताम् साकेतजनपदः ।
अयोध्या दिव्येयम् वहति सरयूरत्र विरजा
विभोरेते यूपा विधिनियमनिर्मुक्तपशवः ।
अकुण्ठस्वातन्त्र्यः स्वपदमधिरोहन् अवसरे
सहानैषीदत्र स्थिरचरमशेषम् रघुपतिः ॥ २६ ॥
विवेकः – (सर्वतो दृष्टिम् प्रसार्य)
उपवनशुकबृन्दैरुद्गृणद्भिस्त्रिवेदीम्
प्रतिकलमनुमेयप्राच्यधर्मानुबन्धम् ।
चिरगतजनघोषम् तीरमेतत्सरय्वाः
रघुकुलनृपतीनाम् शोभते रत्नयूपैः ॥ २७ ॥
(सहर्षपुलकोद्गममनुस्मृत्य)
विषयिभिरसौ वक्त्रैर्घोरम् मनो रजनीचरम्
प्रशमयति यो युञ्जानानाम् प्रबोधशरोत्करैः ।
जनकसुतया देव्या जुष्टो दिशत्यभयम् सताम्
दशरथसुतो देवः श्रीमान् दयामृतवारिधिः ॥ २८ ॥
(सकौतुकमञ्जलिम् बध्नन्)
नमस्तस्मै कस्मैचन भवतु निष्किञ्चनजन-
स्वयम्रक्षादीक्षासमधिकसमिन्धानयशसे ।
सुराधीशस्वैरक्षणकुपितशापायुधवधू
दृषत्तादुर्जातप्रशमनपदाम्भोजरजसे ॥ २९ ॥
(विचिन्त्य) अये सूत! अयमप्यद्य पाषण्डिमण्डलप्रचारखण्डितकार्तयुगधर्मो निवृत्तिधर्मनिष्ठैरनिष्ठुरबुद्धिभिः परित्यक्तो देशः।
तर्कः – देव! प्रतिपद्यतामियम् तर्हि प्रादुर्भावभूमिरपरा ।
विवेकः – (मथुराम् पश्यन्) अत्र खल्ववतीर्णमवनिभारमपजिहीर्षता सपर्यङ्केन वासुदेवेन ।
(सहर्षम्)
नाथायैव नमःपदम् भवतु नश्चित्रैश्चरित्रक्रमैः
भूयोभिर्भुवनान्यमूनि कुहनागोपाय गोपायते ।
कालिन्दीरसिकाय कालियफणिस्फारस्फटावाटिका-
रङ्गोत्सङ्गविशङ्कचङ्क्रमधुरापर्यायचर्या यते ॥ ३० ॥
(सर्वतोऽवलोक्य सहर्षम्) निरङ्कुशाः खल्वत्र भगवतः परिहसनवृत्तयः । स खलु,
हर्तुम् कुम्भे विनिहितकरः स्वादु हैयङ्गवीनम्
दृष्ट्वा दामग्रहणचटुलाम् मातरम् जातरोषाम् ।
पायादीषत्प्रचलितपदो नापगच्छन्न तिष्ठन्
मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता ॥ ३१ ॥
अपि च,
वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनाम्
लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।
सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्चित् करकमलयोरञ्जलिम् याचमानः ॥ ३२ ॥
हन्त सूत! मुरभिदुपभुक्तमुग्धगोपिकावृत्तान्तमुद्घाटयति (सम्प्रति) मथुरा ।
इमामधर्मेण विभाव्य विप्लुतामुदन्वता द्वारवतीमिवाधुना ।
न भावये सम्यमसम्पदास्पदम् न कालतः कस्य गुणव्यतिक्रमः ॥ ३३ ॥
तर्कः – (रथम् प्राङ्मुखयित्वा) देव! परमपुरुषप्रादुर्भावपवित्रीकृत क्षेत्रद्वयविप्लवे क्षेत्रान्तरेषु का प्रत्याशा? तथाऽपि स्वाभाविकसुदर्शनचिह्नभूषितशिलाकलापसूचितभगवदभिमानविशेषः प्रागुत्तरः प्रेक्ष्यताम् देशः ।
पुनरुपजनिभीतैः पुण्डरीकादिभिस्तैः चिरपरिचितपूर्वम् श्रीहरिक्षेत्रमेतत् ।
सकृदपि विमलेऽस्मिन् मज्जतश्चक्रतीर्थे भवजलनिधिगर्तात् क्षिप्रमुन्मज्जनम् स्यात् ॥ ३४ ॥
विवेकः – (दूरतः पश्यन्) पुण्यतमोऽप्यसौ भूभागो नेदानीम् मम चेतसे रोचते । यतः,
अयमुपहतः सालग्रामोपलान्तरवस्थित-
द्रविणकणिकालुब्धैर्देशो मलिम्लुचलुब्धकैः ।
बहुगुणपरब्रह्मप्रेक्षासुधाब्धिमनोरथैः
मुहुरुपनतप्रत्यासेधैर्मुमुक्षुभिरुज्झितः ॥ ३५ ॥
तर्कः – इदम् तर्हि भागीरथीतरङ्गधौतपर्यन्तभागभावितनियमैः परमर्षिभिरुप(सेवितम्)शोभितम् भवत्कटाक्षपात्रम् भवतु वारानसीनामक नदीद्वयपरिगतोपकण्ठम् वसुमतीललामभूतम् वाराणसी क्षेत्रम् ।
विवेकः – (सबहुमानमवलोक्य)
लब्ध्वा तु मूर्तिमधरीकृतपूर्वरूपाम्
रत्या समेत्य च रथाङ्गभृतः प्रसादात् ।
धर्मोपरोधमिह नेच्छति पुष्पधन्वा
त्रैयम्बकात् प्रच(कि)लितो नयनात् तृतीयात् ॥ ३६ ॥
अपि च,
इह पुरुषमजानताम् पुराणम् नियतिवशेन निमीलताम् दयालुः ।
उपदिशति पतिः स्वयम् पशूनामुपनिषदामपि दूरगम् रहस्यम् ॥ ३७ ॥
अद्यत्वे पुनरतिचिरसमुपचितदुरितावलीमलीमसैरनाघ्रातभागवतधर्मैरवैदिकयवनतुरुष्काद्यभिन्न-जातीयदेशाधिपतिसन्निधानलुप्तशौचाचारैः पुरुषैरविशेषितत्रिचतुरसाधुसमेतामेताम् वाराणसीम् समाधिसौधाधिरोहसोपानभूतधारणाध्यान सिद्धिस्थानमिति न मन्यते चेतः । तथा हि,
सा काशीति न चाकशीति भुवि साऽयोध्येति नाध्यास्यते
साऽवन्तीति न कल्मषादवति सा काञ्चीति नोदञ्चति ।
धत्ते सा मथुरेति नोत्तमधुराम् नान्याऽपि मान्या पुरी
या वैकुण्ठकथासुधारसभुजाम् रोचेत नो चेतसे ॥ ३८ ॥
(विचिन्त्य) अहो दुर्विलसितम् महामोहस्य ।
विटविदूषकगायकवैशिकै र्विषमितेव विभाति वसुन्धरा ।
क्व नु निवेशमुपेत्य परम् पदम् विमृशता भवितव्यमिह क्षणम् ॥ ३९ ॥
तर्कः – देव, भवन्तमन्तरेण को नाम सदसत्परीक्षार्हः? आस्तामयमाजानशुद्धोऽप्यन्तिमयुग-सङ्क्षोभगलितसौभाग्यो मध्यमदेशः । दक्षिणापथस्तु निरीक्षणीयः । तत्र हि मरुद्वृधादि महानदीसेवितेषु श्रीरङ्गादिषु तेषुतेषु स्थानेषु नारायणपरायणा महान्तस्साम्प्रतमपि सभवन्तीति पौराणिकाः पठन्ति ।
विवेकः – सूत, प्रमाणानुगुणवृत्तिः खल्वसि । किम् त्ववधारितधर्मविप्लवमनार्यजनभूयिष्टम् अचिरादेव विन्ध्याचलपरिसरमतिलङ्घयेम । पश्य,
मिषतो विलोभयन्ती मृगतृष्णाभिस्तरङ्गिताभिरसौ ।
मरुभूमिरुज्झितरसा दुर्जनपरिषदिव दूरपरिहार्या ॥ ४० ॥
अयम् चात्र हुतवहज्वालामध्यमध्यासीन इव दृश्यते पथिकः । आः कष्टम्!
अतिमथनगृहीतान् अन्धकूपस्य पान्थः
कतिचन जलबिन्दून् कुण्डिकापीतशेषान् ।
करचरणकपोलेष्वर्पयन् गाढतापः
कथमपि मरुभूमिम् क्रामति क्लान्तदेहः ॥ ४१ ॥
अपि च, अत्र कतिचिदभिगतकुसीदवृत्तयः कृच्छ्रलब्धधनमुदितकृपणतरमानसाः कीकटाः पुरुषाः ।
न धर्ममनुवर्तन्ते न कामम् नापुनर्भवम् ।
अर्थमेकमुपाश्रित्य दुःखमेवोपभुञ्जते ॥ ४२ ॥
एष चैषामाधिपत्यमारूढो नवधनमूढः ।
प्रलपति घूर्णति स्खलति मुह्यति हुङ्कुरुते
न च पदवीमवैति न च धाम न च त्रपते ।
विकृतिशतप्रसूतिविषमाशयदोषभुवा
धनमदिरामदेन धमतीव धरावलयम् ॥ ४३ ॥
अपि च,
अभिजनवयोविद्यावृत्तैरकिल्बिषकर्बुरैः
अतिशयभृतस्तृप्यन् मत्वा तृणाय महीयसः ।
नवधनमदक्षीबः क्षुद्रो नटप्रकृतिः क्रमात्
नरकिगणनालेख्यारूढिम् न किम् प्रतिपत्स्यते ॥ ४४ ॥
हन्त, निरर्थिका खल्वीदृशपुरुषसृष्टिरीश्वरस्य । अथवा महीयसामुपकाराय । तथाहि
विदधातु धाम तमसा कृतेन किम् यदि वा न वेत्ति न विधिर्न वा वयम् ।
प्रथमोपकारि चरमम् यतस्ततः प्रतियोगिनो भवति तस्य सार्थता ॥ ४५ ॥
तर्कः – (रथवेगमभिनय),
अतिक्रान्तो विन्ध्यः शबरगणभूयिष्ठगहनः
पुरस्तात्किष्किन्धावनमथ च पश्चादपसृतम् ।
असह्यप्रारम्भा परिपतति सह्याद्रिशिखरात्
असौ कावेर्याख्या सरित् अमरसिन्धोरधिगुणा ॥ ४६ ॥
विवेकः – (परितोऽवलोक्य सविषादम्)
इमाम् मधुरपानीयाम् दक्षिणापथजाह्नवीम् ।
चोरैः परिवृताम् मन्ये विद्याम् कुमतिविप्लुताम् ॥ ४७ ॥
इह हि परित्यक्तपरिग्रहा अपि परिसरभाजः पाटच्चरगणजनितरणरणकचटुलचेतसः प्रवातकदलीन्यायेन वर्तन्ते । अपि च, अमी कलियुगधर्मसञ्चया इव कतिचन पुरुषा वसुमतीसुतनुहारायमाणानग्रहारानुपघ्नन्ति । तथा हि,
मुक्ताहारनिषेविता अपि न तद्वृत्त्यै दिशन्त्यन्तरम्
बन्धे गाढविमर्दनेऽपि न जहत्यन्योन्यसम्पीडनम् ।
उष्णे शीतलतामुपेत्य शिशिरे प्राप्ते भजन्त्युष्णताम्
कामान्तःपुरचेटिकाकुचतटीकाठिन्यवन्तः खलाः ॥ ४८ ॥
तर्कः – देव! अयम् पुनरमुष्याः परिसरे पुरुहूतपुरोहिताभ्यधिकबुद्धिभिः पुराणपुरुषचरणारविन्दमधुकरायमाणमानसैः मनीषिभिरधिष्ठितो यदुकुलसार्वभौमस्य भगवतः परिग्रहात् प्रख्यातसमाख्यः यादवाचलो नाम पर्वतोत्तमः । इह च,
कपर्दिमतकर्दमम् कपिलकल्पनावागुराम्
दुरत्ययमतीत्य तद्द्रुहिणतन्त्रयन्त्रोदरम् ।
कुदृष्टिकुहनामुखे निपततः परब्रह्मणः
करग्रहविचक्षणो जयति लक्ष्मणोऽयम् मुनिः ॥ ४९ ॥
अपि च, बादरायणादिभिरभ्यर्चिते दक्षिणबदरिकाश्रमे नारायणगिरौ,
लक्ष्मीकौस्तुभलक्षणेन वपुषा वाचम् विनैव स्वयम्
श्वेतद्वीपनिवासिनामिव दिशन् सन्तोषमन्तर्मुखम् ।
विद्यावीचिसहस्रसम्भ्रममिलद्दुग्धार्णवाडम्बरे
स्थानम् सम्यमिसार्वभौमविजयस्थाने विधत्ते विभुः ॥ ५० ॥
अमुम् च,
कटाक्षलहरीमहःकबलितामृतस्तोमया
विलोचनयुगश्रिया विवृतसर्वदानव्रतम् ।
शुकादिभिरुपासितम् शुभचरित्रभाजो जनाः
समस्तभयवारणम् शरणयन्ति नारायणम् ॥ ५१ ॥
विवेकः – (सकौतुकमवलोक्य सविमर्शम्) सूत! सह्यपर्वतप्रत्यासत्तेरसह्यपवनसङ्क्षोभसन्त्रा-सितस्य दुर्बलबुद्धेः कथमत्रावकाशः ।
यद्वा तावदयम् भवेदधिगुणो वासो यदुक्ष्माधरः
कर्णालङ्कृतिविभ्रमम् भजति यः कर्णाटदेशश्रियः ।
अन्यान्यप्यरविन्दलोचनपदानुध्यानमेधाविनाम्
स्थानान्यालप कौतुकम् मम पुनः सर्वत्र निर्वर्तते ॥ ५२ ॥
तदन्यतो रथम् प्रवर्तय ।
तर्कः – (तथा कृत्वा) देव! दृश्यतामसौ दम्भोलि दारुणपरशुदारित दुष्टराजन्यरुधिर झरभरित बहुमहाह्रदतर्पितपितृगणस्य पात्रसात्कृतभूमण्डलस्य भगवतो भार्गवस्य दिव्यप्रायो निवासदेशः । अत्र हि,
नाहम् नापि च मत्सुतो न च सुराः सर्वे न चामी सदा
ध्यानारोपितचेतसो मुनिगणा जानन्ति विष्णोः पदम् ।
इत्थम् नाभिसरोजशायिपृथुकव्याहारमाकर्णयन्
शेते पन्नगसार्वभौमशयने श्रीपद्मनाभः श्रिया ॥ ५३ ॥
विवेकः – (दृष्ट्वा सहर्षमञ्जलिम् बध्नन्)
क्रोधाग्निम् जमदग्निपीडनभवम् सन्तर्पयिष्यन् क्रमात्
अक्षत्रामपि सन्ततक्ष य इमाम् त्रिस्सप्तकृत्वः क्षितिम् ।
दत्त्वा कर्मणि दक्षिणाम् क्वचन तामास्कन्द्य सिन्धुम् वसन्
अब्रह्मण्यमपाकरोतु भगवान् आब्रह्मकीटम् मुनिः ॥ ५४ ॥
(विचिन्त्य) अयम् खलु मलयाचलवासिनाम् महर्षीणाम् निवृत्तिधर्ममुपदिश्य यथाधिकारम् परिमितमतीनामिह प्रवृत्तिधर्मम् प्रवर्तयन्नास्ते । अपि च,
बुभुक्षाभिक्षाकब्रुवपठितमिथ्यागुणगणाः
मुमुक्षून् अक्षुद्रानिह मुहुरुपघ्नन्ति परुषैः ।
कदध्वोपानीतद्रविणकणदुर्मानमदिरा
गुणक्षैब्यक्षुभ्यन्मतिकलहकाकोलकलुषैः ॥ ५५ ॥
तर्कः – मलय एव तर्हि विलोक्यताम् देवेन ।
विन्ध्यस्तम्भप्रकटमहिमा विष्वगाचान्तसिन्धुः
कुम्भीसूनुर्दनुजकबलग्रासदीप्तोदराग्निः ।
नाकाधीशन्नहुषभुजगीकारदुर्वारशक्तिः
ब्रह्मापत्यम् मुनिरिह वसन् भ्राजते मुक्तकल्पः ॥ ५६ ॥
विवेकः – (उक्तमुपलालयन्) स कथमस्माभिः सुप्रेक्षः?
निरवधिमहिमा निरुद्धविन्ध्यो निगममहार्णव नित्यकर्णधारः ।
सुचरितमिव नः स्वयम् स काले कतकनिभाम्शुरुदेति चेत्समीक्ष्यः ॥ ५७ ॥
तर्कः – देव! तस्येदमाश्रमपदम् ।
तापोन्मुक्तम् दिवसमखिलम् शर्वरी नातिशीता
शाखारूढाः स्वयमिह शुकास्तत्त्वविद्याम् पठन्ति ।
सिम्हैस्सार्धम् विहरति गणः सैन्धुरः शान्तवैरः
तन्नः पुण्यैरिव परिणतम् स्थानमेतत् समाधेः ॥ ५८ ॥
अमी च कुम्भसम्भवानुगामिनामन्येषामपि महर्षीणामाश्रमाः ।
इह प्रशान्तेषु निजाशर्मेषु (तपोवनेषु) प्राधीतवेदान् प्रतिपन्नदीक्षान् ।
अन्वासते वह्निमतो यथार्हम् छायाः सजीवा इव धर्मदाराः ॥ ५९ ॥
विवेकः – (सर्वतो निर्वर्ण्य) हन्त!
एलालिङ्गितचन्दना वनभुवो मुक्ताप्रसूतिर्नदी
ताम्बूलीपरिणद्धपूगपटली कच्छोपकण्ठस्थली ।
काले दक्षिणमारुता विदधते कामाग्निसन्धुक्षणम्
कुञ्जान्यत्र च भुञ्जते युवतिभिः स्वर्लोकशृङ्गारिणः ॥ ६० ॥
अतो मनुष्यभोग्यमिदम् भौमम् त्रिविष्टपम् । अत्र चैवम् मनोहरतरे मन्मथकथापराङ्मुखा महर्षयश्चरन्तीत्याश्चर्यमेतत् । वयम् पुनरन्यदास्पदमन्वेषयेम ।
तर्कः – देव! आलक्ष्यतामयमदूरादेव नलसेतुसन्दर्शनोत्सुकमुनिजनगतागतविभवताण्डवितवैभवः पाण्ड्यदेशः । अत्र च,
सारः सारस्वतानाम् शठरिपुफणितिः शान्तिशुद्धान्तसीमा
मायामायामिनीभिः स्वगुणविततिभिर्बन्धयन्तीम् धयन्ती ।
पारम् पारम्परीतो भवजलधिभवन्मज्जनानाम् जनानाम्
प्रत्यक् प्रत्यक्षयेन्नः प्रतिनियतरमासन्निधानम् निधानम् ॥ ६१ ॥
विवेकः – (सहर्षभक्तिर्पुलकोद्गमम्)
निरञ्जनमयम् जनः किमपि नेत्रमुन्निद्रयन्
नमस्यति शठद्विषे नरकवैरिजीवातवे ।
अगस्त्यगिरिनिम्नगासुभगवीचिकासोदर-
स्वलक्षणसरस्वतीसुरभिकेसरश्लाघिने ॥ ६२ ॥
तर्कः – अन्यदपि किञ्चिदिहावलोकनीयम् महाराजेन –
अग्रे पश्य वृषाचलम् क्षितिभृतामग्र्यम् यदग्रे हरेः
मञ्जीरोदकमाबिभर्ति महतीम् मन्दाकिनीसम्पदम् ।
नृत्यच्चन्दनगन्धवाहनियतव्यालोलचूडाटवी-
शाखाताडितचन्द्रमश्च्युतसुधाधाराभिसम्वर्धितम् ॥ ६३ ॥
विवेकः – अहह! अत्र सर्वतः प्रसर्पिणी खल्वियम् वृषगिरिपतेरनुकम्पा । (साञ्जलिबन्धम्)
त्वया जुष्टस्तुष्टिम् भजति परमेष्ठी निजपदे
वहन् मूर्तिरष्टौ विहरति मृडानीपरिबृढः ।
बिभर्ति स्वाराज्यम् वृषशिखरिशृङ्गारकरुणे
शुनासीरो देवासुरसमरनासीरसुभटः ॥ ६४ ॥
(दक्षिणतोऽवलोक्य)
नलहस्तनिवेशितै(रुदग्रै)रदभ्रैर्हिमवन्मन्दरमेरुविन्ध्यशृङ्गैः ।
हरिचक्रपदक्रमैरसीदन् उदधेरूर्मिगणम् रुणद्धि सेतुः ॥ ६५ ॥
(विमृश्य) नलसेतुनिबन्धनयन्त्रितधरणीधरशिखरनिकरास्फालन मुखरतर दक्षिणो दन्वदूर्मिघोषजर्झरितजानपद (जन)कर्णरन्ध्रे नास्मिन्नपि देशे समाधिसम्भवम् सम्भावयामि । तदितः प्रागुत्तरम् तु रथः प्रवर्त्यताम् ।
तर्कः – (तथा कृत्वा) देव! इयम् पुनरविरलनालिकेरपङ्क्तिपरिवृत क्रमुकवन कुहलिका परिमलानुरञ्जित पान्थजनहृदया चोलभूमिः ।
विवेकः – (सर्वतोऽवलोक्य सोद्वेगम्)
इतस्त्वरितमन्यतः प्रहिणु सारथे! मद्रथम्
यदत्र कवयश्चरन्त्यपटुचित्तपाटच्चराः ।
द्रुतप्रचरणक्वणद्द्रुहिणसुन्दरीनूपुर-
(स्वन)ध्वनिप्रचयसूचनासुभगसूक्तिविष्फूर्तयः ॥ ६६ ॥
इह खलु सम्यमसिद्धिमिच्छतः पुरुषस्य सिद्धमपि विनङ्क्ष्यति । तथा च वृद्धिमिच्छतो मूलत्यापि नाशवदपहास्यता ।
तर्कः – (अग्रतो निर्दिश्य) देव! कथमिह निखिलनिगमहृदयान्तरङ्गमभङ्गुरप्रसरया भगवदनुकम्पया तरङ्गित (विविध) वैभवम् रङ्गमपि नावलोकयसि ।
विवेकः – (विलोक्य) सूत! अनवरतविकसितकल्हारपरिमलानुबन्धादुल्लोकमहिमशालिनीभिः चोलभूपवनलहरीभिः चुलकितसर्वेन्द्रियप्रवृत्तिना परमापातदृष्टिवि(भ्रा)श्रान्तेन न खलु मया (द्रा)प्रागेव सम्यगवधारितम् । (सान्तस्तोषम्)
निरातङ्का रङ्गाध्युषितललितोदारपुलिनाम्
चिरक्लिष्टा दृष्टिश्चुलकयति मे चोलतटिनीम् ।
यदृच्छानिद्राणत्रियुगशयनीयद्विरसन-
प्रतिच्छायान्तर्वत्पृथुमधुरवीचीपरिगताम् ॥ ६७ ॥
(साञ्जलि बन्धम्)
घनकरुणारसौघभरिताम् परितापहराम् नयनमहश्छटाम् मयि तरङ्गय रङ्गपते ।
दुरितहुताशनस्फुरितदुर्दमदुःखमषीमलिनितविश्वसौधदुरपह्नववर्णसुधाम् ॥ ६८ ॥
अपि च,
दास्यम् लास्यवताऽनुमत्य मनसा रङ्गेश्वर त्वत्पदे
नित्यम् किङ्करवाण्यहम् न तु पुनः कुर्याम् कदर्याश्रयाम् ।
मीलच्चक्षुषि वेल्लितभ्रुणि मुहुर्दत्तावमानाक्षरे
भीमे कस्यचिदाढ्यकस्थ वदने भिक्षाविलक्षाम् दृशम् ॥ ६९ ॥
(विचिन्त्य) अये सूत! अस्तु तावदिदमाद्यम् स्थानम् । किमन्यदप्यावेदयिष्यसि?
तर्कः – (उत्तरतो निर्दिश्य) देव! इदम् पुनः इहाखण्डभुवनशिखण्डकायमानम् तुण्डीराभिधानम् मण्डलम् । अत्र च,
किमपि विबुधमुख्यैः सेवितम् क्षेत्रमेतद् भवभयशमनार्हम् भाति सत्यव्रताख्यम् ।
निजसुतहयमेधे यत्र दिव्येन पुम्सा क्षितिकलुषमशेषम् क्षेप्तुमाविर्बभूवे ॥ ७० ॥
अयम् खल्वेतद्देशवासिनामन्ववायसिद्धो निर्णयः ।
आत्मैक्यम् देवतैक्यम् त्रिकसमधिगता तुल्यतैक्यम् त्रयाणाम्
अन्यत्रैश्वर्यमित्याद्यनिपुणफणितीराद्रियन्ते न सन्तः ।
त्रैय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यासमुख्योक्तिभिश्च
श्रीमान्नारायणो नः पतिरखिलतनुर्मुक्तिदो मुक्तभोग्यः ॥ ७१ ॥ इति ।
इह च मुनिपरिषदनुगृहीतो मुक्तप्रायः कश्चिदाधित्सितवह्निमनुजानाति ।
इह बहुविधिसिद्धैः शोधकैरिन्दिरेशम्
प्रणिपतनमुखैश्च प्राज्यभक्तिः प्रसाद्य ।
प्रभुतर परिपूतः कर्मयोग्यः प्रजानाम्
अनुपधिसुहृदग्नीन् आद(धीथा)धानो यजेथाः ॥ ७२ ॥ इति ।
विवेकः – (सहर्षबहुमानमञ्जलिम् बद्ध्वा)
द्विरद शिखरि सीम्ना सद्मवान् पद्मयोनेः
तुरग सवन वेद्याम् श्यामलो हव्यवाहः ।
कलशजलधि कन्या वल्लरी कल्पशाखी
कलयतु कुशलम् नः कोऽपि कारुण्यराशिः ॥ ७३ ॥
(मुहूर्तमनुचिन्त्य)
सम्सारावर्तवेग प्रशमन शुभदृग्दे शिक प्रेक्षितोऽहम्
सन्त्यक्तोऽन्यैरुपायैरनुचित चरितेष्वद्य शान्ताभिसन्धिः ।
निःशङ्कस्तत्त्वदृष्ट्या निरवधिकदयम् प्रार्थ्य सम्रक्षकम् त्वाम्
न्यस्य त्वत्पादपद्मे वरद! निजभरम् निर्भरो निर्भयोऽस्मि ॥ ७४ ॥
(सूतमवलोक्य) दृष्टमेव खलु निखिलम् द्रष्टव्यम्?
तर्कः – इतश्च दीयताम् दृष्टिर्देवेन । अयम् खल्वधिगतपरावरतत्त्वयाथार्थ्यैः महात्मभिः अध्यक्षितमिव परमपदम् अनेकदेशदर्शनप्रयासपरिश्रान्तयोरावयोर्विश्रान्तिभूमिरिव, भगवता स्वयमेव निर्मितः दूरादवलोक्यमान विकटतरहाटककूट विराजमानदशदिशावकाशः कलिबल प्रसारित सकलसङ्कटप्रशमनो वेङ्कटाद्रिरालक्ष्यते ।
पारेशृङ्गमिहादिपूरुषपद प्रस्यन्दिपाथस्विनी-
पाथःपातपरम्पराद्भुत महारण्ये शरण्ये सताम् ।
पारावर्यविवेकपक्त्रिमधियः सत्त्वाश्च तत्त्वम् परम्
पश्यन्तः प्रचरन्ति हन्त सुखिनः सर्वेऽपि निर्वैरतः ॥ ७५ ॥
इह खलु कश्चिदनादिपापवासनाजलधिकुक्षिम्भरीमादिपूरुषकृपाम् भगवतीमनवरतमभिष्टौति ।
मृदुहृदये दये मृदितकामहिते महिते
धृतविबुधे बुधेषु विततात्मधुरे मधुरे ।
वृषगिरिसार्वभौमदयिते मयि ते महतीम्
भवुकनिधे निधेहि भवमूलहराम् लहरीम् ॥ ७६ ॥ इति ।
अन्यदप्येतदनवरतमावर्तयति –
निषादानाम् नेता कपिकुलपतिः काऽपि शबरी
कुचेलः कुब्जा सा व्रजयुवतयो माल्यकृदिति ।
अमीषाम् निम्नत्वम् वृषगिरिपतेरुन्नतिमपि
प्रभूतैः स्रोतोभिः प्रसभमनुकम्पे समयसि ॥ ७७ ॥
विवेकः – (सबहुमानमवलोक्य साष्टाङ्गम् प्रणमति)
(विश्वोपकारमिति नाम सदा दुहानामद्यापि देवि भवतीमवधीरयन्तम् ।
नाथे निवेशय वृषाद्रिपतौ दये त्वम् न्यस्तस्वरक्षणभरम् त्वयि माम् त्वयैव ॥)
सूतः – (सर्वतो निर्दिश्य)
श्रीरङ्गम् वृषभाचलः करिगिरिर्दृष्टानि देव त्वया
दीव्यन्ति द्रमिडेष्वमी च कतिचित् देशाः प्रजेशार्चिताः ।
प्रत्यग्रोदितघोरपश्चिमयुगप्रक्षोभविक्षोभके-
ष्वेतेषु क्वचिदस्तु सम्यमविधिस्वास्थ्यम् त्रिवर्गत्यजः ॥ ७८ ॥
विवेकः – सूत! साम्प्रतमेव त्वया साम्प्रतम् प्रदर्श्यते । स्मर्यते च मुनिभिः – “निगृहीतेन्द्रियग्रामो यत्र यत्र वसेन्नरः । तत्र तत्र कुरुक्षेत्रम् नैमिशम् पुष्कराणि च ॥” इति । अपि च,
परिक्रान्ता पृथ्वी प्रणिधिपदमन्विष्य बहुधा
कलिक्षोभग्रस्ते जगति न गतिः क्वापि सुलभा ।
अथापि द्रष्टव्यम् पुनरिह किमप्यादिमयुग-
क्रियायोग्यम् किञ्चित् कथमपि मया स्थानमनघम् ॥ ७९ ॥
सम्भवन्ति च सर्वत्र श्रेयसामन्तरायाः । शमयितव्याश्च ते सर्वनिर्वोढारमेकमेव शरणमपगच्छद्भिः । अपि च स्वयमेनाऽह भगवान् – “मामेव ये प्रपद्यन्ते मायामेताम् तरन्ति ते” इति ।
अथ वा,
बहिर्भूतैरेतैर्विविधविनिपातस्थपुटितैः
यदृच्छासम्वादप्रचितगुणविख्यातिभिरलम् ।
प्रतिक्षिप्तावद्यम् प्रवरगुणभूयिष्ठमधुना
नियच्छाम्यन्तःस्थम् किमपि यमिनः सम्यमपदम् ॥ ८० ॥
किम् च,
पुरुषस्य पुराणस्य पुम्सश्च शरणार्थिनः ।
अपृथक्सिद्धयोरेकमदूष्यम् स्थानमान्तरम् ॥ ८१ ॥
इदमपि सारथे! मन्वीथाः ।
शुद्धाचारतपोवनैकनियतः प्रज्ञानशैलाश्रितः
पद्माकान्तपदस्पृहासुरनदीनित्याभिषेकोज्ज्वलः ।
अध्यात्मश्रुतिचिन्तनेन तपसा निर्धूतदोषः पुमान्
कस्मै कुत्र गमिष्यति स्थितमिदम् कस्मै च निर्देक्ष्यति ॥ ८२ ॥
अपि च,
गङ्गासेतुसरस्वतीरविसुतागोदावरीनर्मदा-
तुङ्गाशोणमरुद्वृधाप्रभृतिभिस्तीर्थैरलम् प्रार्थितैः ।
नित्यासन्नमशेषपापशमनम् निःश्रेयस प्रापकम्
ग्रीष्मे शीतमिव ह्रदम् बहुगुणम् ब्रह्म प्रविष्टो मुनिः ॥८३॥
तद्वयम् शुभाश्रयनिर्धारणेन धारणादिकक्ष्यासु विशदतमाम् वृत्तिम् पुरुषस्य विभावयामः।
[इति ससूतो निष्क्रान्तः ।]
इति श्रीकवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके (स्थानविशेषसङ्ग्रहो नाम) षष्ठोऽङ्कः ।