[highlight_content]

सङ्कल्पसूर्योदयः-सप्तमोऽङ्कः

सप्तमोऽङ्कः

शुभाश्रयनिर्धारणम्

शुद्धविष्कम्भः

[ततः प्रविशति सम्स्कारः]

सम्स्कारः – अहम् खलु अनुभवामुष्यायणः सम्स्कार(रापर)नामा देवस्य विवेकस्य शिक्षितसकलविद्यः शिल्पी देवशिल्पिनम् विश्वकर्माणम् असुरशिल्पिनम् मयम् च विजित्य विश्रमाभिलाषी चिरमस्वाप्सम् । तावच्चेदमन्तरमासाद्य महामोहप्रयुक्ताभ्याम् मधुकैटभाभ्यामिव महाबलाभ्याम् मध्यमचरमगुणाभ्याम्, सत्त्वमित्रमसाविति जिघाम्सितः । नूनमप्रबुद्धतैव पुरुषेषु प्रतिपक्षजनस्य हस्तावलम्बः ।

   ततश्चाहम् प्रतिबोधितः सहसैव परमपुरुषदयाचोदितया देव्या सुमत्या सहजदृष्टिसदृशदृष्टिसञ्ज्ञाभ्याम् दासीभ्याम् । तदिह निरवकाशतया ततस्ततः पलायिते प्रतिपक्षे, केनापि हेतुना विश्वचित्रम् दिदृक्षमाणस्य महाराजविवेकस्य सेनापतिना व्यवसायेन स्वामिसम्मतमादिष्टोऽस्मि । यथादिष्टम् च तदाहितदृष्टिरन्वतिष्ठम् । अवसरानुकूलवृत्तीनाम् खल्वधिकारिणामाधिपत्यम् प्रतितिष्ठति । ततश्च,

विदुषश्चिन्तनाम् शक्त्या चित्रभित्तिम् वितन्वता ।

शुद्धाशुद्धविभागार्हम् विश्वम् विलिखितम् मया ॥ १ ॥

(सर्वतोऽवलोक्य) अहह! सहस्रेष्वपि शिल्पकर्मसु किञ्चिदेव कदाचिदतिशेते । इह च,

श्लक्ष्णम् स्थानम् सान्द्रलग्नो विलेपः सूक्ष्मा रेखाः सुस्थितः सूत्रपातः ।

स्निग्धो वर्णस्तत्तदर्हो विशेषः शङ्के पक्वम् शिल्पविद्याफलम् नः ॥ २ ॥

अपि च, आजानसिद्धशक्तीनाम् पुरुषाणामभ्युच्चयो हि शिक्षाप्रकर्षः । वदन्ति हि – ‘प्रतिनियतैव हि वस्तुशक्तिः’ इति । यद्वा भवतु नामैतत्साधारणम् सर्वशिल्पिनाम् । मम पुनरालेखनीयानाम् भगवदवताराणाम् प्रसादादद्ययावददृष्टचरमीदृशम् हस्तकौशलमुपलभ्यते । किम् प्रतिपत्स्यते देवः । निरङ्कुशाः खलु राजानः परिजनकृत्येषु; यथाक्रमम् प्रसीदेयुरुपेक्षेरन्वा । अथ वा न खल्वयमसमीक्ष्यकारी नयपथनियतवृत्तिरस्मत्स्वामी । तदहम् देवस्य विवेकस्य देव्याः सुमतेश्च सबहुमानप्रसादेन धन्यो भविष्यामि । अत्र च,

विश्वप्रीणनविश्वकर्मरचनाचातुर्यकातर्यदैः

शिल्पैः कल्पयतीव मण्डनमसौ चेतस्स्थितेर्मण्डपः ।

रत्नस्तम्भभुवोऽपि रश्मय इमे सोपानगोपानसी-

मध्यम् यत्र गवाक्षयन्ति विहितप्रत्यग्रचित्रक्रमाः ॥ ३ ॥

(नेपथ्ये) कः कोत्र भोः!

सम्स्कारः – (श्रुत्वा सहर्षम्) किमासीदति शिल्पशालाम् व्यवसायदत्तहस्तः सुमतिसहायो विवेकः? तदहम् यथोचितपरिजनकृत्ये वर्तिष्ये ।

[इति निष्क्रान्तः ।]

शुद्धविष्कम्भः ।

[ततः प्रविशति विवेकः सुमतिर्व्यवसायश्च ।]

व्यवसायः – इत इतो देवः । इयम् सा सर्वाश्चर्य समुच्चयालोकन कुतूहलाहूत पुरुहूतपुरपुरन्ध्री परिष्कृत खलूरिकोपान्तभागा बहिरन्तश्च लम्बितामन्दमकरन्द परिमल मन्दारदामचित्रिता चित्रशाला । यत्र च परस्परप्रतिफलनादलिखिताऽपि भित्तिः लिखितेवावभासते ।

[सर्वे प्रवेशम् नाटयन्ति।]

व्यवसायः – (चित्रशालाम् दर्शयन्) आलोकयतु देवो देवी च । इह हि,

परिचयमहिमानम् प्राप्य सञ्जातभूमा दिविषदनुविधेयो दिव्यसम्स्कारशिल्पी ।

व्यलिखदनघरूपम् विश्वमेतत् यथावत् चिरगतमपि दृश्यम् चिन्तनाचित्रभित्तौ ॥ ४ ॥

अपि च,

प्रमाणप्रत्ययादत्र कल्पितान्यविकल्पतः ।

अपि भूतानि भावीनि भवन्तीव भवन्ति नः ॥ ५ ॥

राजा – (विश्वतो दृष्टिम् प्रसारयन्) देवि! दृश्यतामिदमपूर्वमद्भुतम्, यस्य पुनः स्वेन विना नोपमानान्तरमुपलभामहे । अस्ति किञ्चित् । तथा हि,

परिमितमपरिमितानामास्पदमेतत् प्रपञ्चचित्राणाम् ।

दहरगगनाभिधानम् दिव्यम् पुरुषम् निदर्शयति ॥ ६ ॥

(विमृश्य) अथवा, जठरविवरविन्यस्त समस्तवस्तुजातस्य कल्पान्तबालकस्य कल्पयति कल्पनाम् । अपि च,

नैतद् बाह्यैस्तूलिकावर्णकाद्यैः कॢप्तम् चित्रम् किन्तु सन्तोषलिप्ताम् ।

नानाकाराम् भावनामेव शिल्पी शिल्पव्याजान्नूनमत्रोज्जगार ॥ ७ ॥

सुमतिः – नाथ! अचिन्तनीयमाहात्म्यस्य ईश्वरस्येव तव शक्तेरितरदुर्घटम् सर्वम् सङ्घटत इति किमाश्चर्यम् ।

राजा – अत्र किल विश्वतश्चित्रे विश्वचित्रे,

अशुद्धसृष्टिविषयम् भागम् भवभृदाश्रयम् ।

अधिकप्रतिकोटिस्थम् दृष्टिस्तव दिदृक्षते ॥ ८ ॥

अत्र च,

प्रवर्तयितुमिच्छतः प्रगुणवृत्तिमन्तर्दृशम्

गुणत्रयविचित्रिता यवनिकेयमाच्छादिका ।

तदत्र भवदुर्ज्वरज्वलनजन्मभूमौ त्वया

दिदृक्षणमितः परम् दृढविलक्षया त्यज्यताम् ॥ ९ ॥

व्यवसायः – देवि! सम्यगिदमादिष्टम् देवेन । तथा हि,

विविधविषयद्वीपारोहावरोहविसम्स्थुल-

स्थितिभिरमुकैरन्योन्यस्मादुपस्थितसाध्वसैः ।

कमठमकरग्राहप्रायैरबुद्धिभिराश्रितः

त्रिगुणजलधिर्न द्रष्टव्यः समीहितसम्यमैः ॥ १० ॥

सुमतिः – आर्यपुत्र! स्थिरनिबद्धाभिर्वासनाभिराकृष्टाऽपि मम दृष्टिरिदानीम् तव नियोगेन प्रत्यानीयते ।

व्यवसायः – इतस्तर्हि शुद्धसृष्टिमये भगवतो विभूतिभागे देवेन देव्या च दत्तदृष्टिभ्याम् भवितव्यम् । अत्र च,

परव्यूहव्यूहान्तरपदविभक्तेषु बहुषु

त्रिधाम्नो रूपेषु स्थितिमनधिगम्यापि मनसः ।

अवैजात्यम् बृन्दारकनरतिरश्चामभिनय-

त्यमुष्मिन् दृष्टिस्ते भवतु विभवव्यक्तिनिवहे ॥ ११ ॥

राजा – देवि! उचितमेवोत्प्रेक्षितम् सेनापतिना । परिचितसजातीये ह्ययत्नलभ्यो भावबन्धः ।

व्यवसायः – देव! अवताररहस्यवेदिनाम(प्य)पुनर्जननेन परप्राप्तिरपि गीयते स्वयमनघोपदेशेन परमपुरुषेण । अपि च,

ईक्षणध्यानसम्स्पर्शप्रमुखैः पोषयन् प्रजाः ।

मत्स्यकूर्मविहङ्गादिविग्रहः प्रेक्ष्यते प्रभुः ॥ १२ ॥

अत्र च,

अनासीदद्दोषो जहदवधिषाड्गुण्यजलधिः

विहारस्वाच्छन्द्यात् विभुरिह दधानो विभवताम् ।

तिरश्चामप्येतैः कमठकिटिपाठीनपतग-

प्रकारैराकारैः परिबृढतमत्वम् द्रढयति ॥ १३ ॥

राजा – अपारकारुण्यसम्भवो ह्ययमशेषजनसम्रक्षणाभिलाषिणः परमपुरुषस्यावतारगणः । तथा हि,

प्रणतदुरितप्राणाकृष्टिप्रयोगपटीयसः

प्रथितविविधप्रादुर्भावात् प्रभोरनुभावतः ।

जगति बलवन्मोहद्रोहाद्यमित्रशतावृते

जनिपथमहापान्थाः सर्वे जना जितकाशिनः ॥ १४ ॥

अपि च,

त्रातुम् जगन्ति कृपया कल्पेकल्पे भवन्ति दिव्यानि ।

चरितानि चक्रपाणेः प्रवाहवृत्त्या परस्परप्राञ्चि ॥ १५ ॥

व्यवसायः – (विस्मयावेशमभिनयन्)

मयस्त्वष्टाऽन्यो वा विपुलमहिमा विश्वसृडपि

स्वशक्त्येदम् चित्रम् किमपि न विधातुम् कृतमुखः ।

अखण्डब्रह्माण्डप्रथमतरशिल्पी स भगवान्

स्वयम् पद्माजानिर्व्यलिखदिह शिल्पम् स्वविषयम् ॥ १६ ॥

अत्र च जलधिमधिकरणीकृत्य दर्शितास्त्रयोऽवताराः । तत्र तावदादिममवलोकयतु देवो देवी च । इदम् हि,

निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैर्वीक्षणैः

अन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् ।

निष्प्रत्यूहतरङ्गरिङ्गणमिथःप्रत्यूढपाथश्छटा-

डोलारोहसदोहलम् भगवतो मात्स्यम् वपुर्दृश्यते ॥ १७ ॥

राजा – देवि! पश्य पश्य । त्वदक्षिसारू(प्येणाभिव्यक्तम्)प्यमभिव्यनक्ति भगवतो रूपम् ।

सुमतिः – (दृष्ट्वा स्वगतम्) मानुषस्य योगिनः मानुषसदृक्षे चित्तसङ्गस्सम्पादनीयः । (प्रकाशम्) आर्यपुत्र! एतेनेव त्वया सागरनिमग्ना वेदा इव मोहान्धकारनिमग्ना वेदा उद्धृत्य रक्ष्यन्ते । किम् नाम परमपुरुषस्यैतादृशानि रूपान्तराण्यपि भवन्ति ।

व्यवसायः – भवन्त्येव । तेष्वेतदेकमवलोक्यताम् ।

आखण्डलीयमजरामरमाधिराज्यम् त्रैयम्बकम् सुभगशेखरमुत्तमाङ्गम् ।

औदन्वतम् प्रियतरम् स्वगृहम् यतोऽभूत् स्वाधार एष कमठो विधृताद्रिमन्थः ॥ १८ ॥

इयम् चात्र तद्विषया शिल्पिनैव लिखिता श्लोकाक्षरावली ।

अव्यासुर्भुवनत्रयीमनिभृतम् कण्डूयनैरद्रिणा

निद्राणस्य परस्य कूर्मवपुषो निश्वासवातोर्मयः ।

यद्विक्षेपणसम्स्कृतोदधिपयःप्रेङ्खोलपर्यङ्किका-

नित्यारोहणनिर्वृतो विहरते देवः सहैव श्रिया ॥ १९ ॥

राजा – स्वकारणभूतमेनमप्रत्यभिजज्ञिवाम्सम् प्रजापतिम् प्रति, ‘पूर्वमेवाहमिहासम्’ इति वादी सोऽयम् पुरुषः ।

सुमतिः – आर्यपत्र! लक्ष्मीस्वयम्वरणयोग्यतादृशसौकुमार्यनिधेः कथमेतादृशम् कठिनत्वमासीत् ।

राजा – किम् किम् न कारयति कार्यगौरवम् ।

व्यवसायः – देव! अत्यद्भुतेयम् भगवतः कूर्मरूपस्य अमृतमथनारम्भभाविन्यवस्था । यथा,

क्वचित् वाहाधीशः क्वचिदमरदन्तावलपतिः

क्वचित् प्रालेयाम्शुः क्वचिदमृतविच्छर्दितमिति ।

अतिक्षोभे सिन्धोरयमनघनिद्रो धृतगिरिः

विषादम् देवानाम् विघटयति वैकुण्ठकमठः ॥ २० ॥

सुमतिः – आर्यपुत्र! त्वयीवास्मिन्नप्यमृतलाभभारः प्रतिष्ठितः ।

राजा – प्रिये! मम खल्वीदृशभारवहने त्वमप्यर्धभागिनी ।

व्यवसायः – इतश्च दीयताम् दृष्टिर्देवेन ।

आरादाकर एष कौस्तुभमणेर्वारी मरुद्दन्तिनः

क्रीडाशेखरशिल्पकृत् पुरुभिदो गञ्जागृहम् पाशिनः ।

प्राचीनाङ्कुरपालिका सुरतरोरालक्ष्यतामद्भुतः

स्वैराहारमहानसः सुमनसाम् शुद्धान्तशय्या हरेः ॥ २१ ॥

राजा – (सकौतुकमवलोक्य) देवि! दृश्यताम् स एष त्रिगुणपरिणतिरूपोऽपि परमपुरुषपरिग्रहात् परिशुद्धतरः पारावारः । अपि च सुरभिसुरद्रुमचिन्तामणिप्रभृतिपात्र सात्करण जनित हर्षप्रकर्ष ताण्डवोद्यत इवायमकूपारस्तरङ्गमण्डलेन ।

सुमतिः – एवमेवेमम् प्रेक्षमाणानामपि (पश्यताम्) हृदयम् ।

व्यवसायः – निशाम्यन्तामिह ।

इतरेतरसन्निकर्षवन्तः क्रमनिम्नोन्नतयो महोर्मिभेदाः ।

परितो वितताः पयःपयोधेः स्फटिकारोहणविभ्रमम् वहन्ति ॥ २२ ॥

अपि च,

इयमत्र विश्वजननी समुत्थिता कमला विकासिकमलोदरस्थिता ।

मुरमर्दनस्य भुजमध्यपीठिकामधिरुह्य रक्षति जगन्ति वीक्षणैः ॥ २३ ॥

राजा – (विलोक्य सानन्दम्)

कल्याणानामविकलनिधिः काऽपि कारुण्यसीमा

नित्यामोदा निगमवचसाम् मौलिमन्दारमाला ।

सम्पत् दिव्या मधुविजयिनः सन्निधत्ताम् सदा मे

सैषा देवी सकलभुवनप्रार्थनाकामधेनुः ॥ २४ ॥

(अञ्जलिम् बद्ध्वा)

सेवे देवि त्रिदशमहिलामौलिमालार्चितम् ते

सिद्धिक्षेत्रम् शमितविपदाम् सम्पदाम् पादपद्मम् ।

यस्मिन् षन्नमितशिरसो यापयित्वा शरीरम्

वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ २५ ॥

(सुमतिम् विलोक्य) देवि! इयम् सा निखिललोकजननी जलधिराजदुहिता जनार्दनवल्लभा देवी । दुस्सहापराधभीतानामपि यत्पुरस्कारिणामसौ भगवानभिगम्यतमो भवति । अत्र च,

सैवाऽऽकृतिस्तव त एव गुणानुभावाः स्यादेव सागरसुता लिखिता त्वमेव ।

शिञ्जानमञ्जुमणिनूपुरमेखलस्ते सञ्चार एष चतुरो यदि नान्तरायः ॥ २६ ॥

सुमतिः – आर्यपुत्र! एतेन विदग्धवचनेन आत्मानमेव श्रीवल्लभसदृक्षम् प्रकाशयसि ।

व्यवसायः – देवि! पठन्ति खल्विमम् भवद्भ्याम् प्रतिपादितमर्थम् पौराणिकाः – ‘देवतिर्यङ्मनुष्येषु पुन्नामा भगवान् हरिः । स्त्रीनाम्नी लक्ष्मीर्मैत्रेय नानयोर्विद्यते परम् ॥’ इति ।

राजा – सेनापते! उभयोर्विभूतिभूतमुभयविधम् जगदित्युक्तम् भवति ।

व्यवसायः – एवमेतत् ।

राजा

साधारण्ये सत्यपि स्वेच्छयैव द्वेधा विश्वम् यद्विभूतिर्व्यभाजि ।

चूडाभागे दीप्यमानौ श्रुतीनाम् दिव्यावेतौ दम्पती मे दयेताम् ॥ २७ ॥

आस्ताम् तावदेतत् । अपरमप्यैश्वरम् रूपमभिपश्येम ।

व्यवसायः – देव! प्रदर्शितमिदम् लक्ष्मीधरम् रूपम् । भूधरमपि रूपम् प्रदर्शयामि –

प्रवर्धमानात् प्रलयाम्बुराशेराविर्भवन् आदिवराह एषः ।

दम्ष्ट्रानुषक्ताम् धरणीम् दधानो जम्बालरेखामिव केलिलग्नाम् ॥ २८ ॥

राजा

अहो महत्तरमद्भुततरम् च महीधरमिदम् रूपम् ।

(अञ्जलिम् बद्ध्वा सहर्ष भक्तिरोमाञ्चगद्गदम्)

क्वापि कल्पान्तवेशन्ते खुरदघ्ने समुद्धृताम् ।

वहते मेदिनीमुस्ताम् महते पोत्रिणे नमः ॥ २९ ॥

अपि च,

नम इदमजहत्सपर्याय पर्यायनिर्यासित-

भ्रमदमितपयोधिवेलाविलोलाय कोलाकृते ।

पृथुविकटविटङ्कनिष्कम्प विष्कम्भविश्वम्भरा-

भरभरणधुरीणधोणापरीणाहकोणाय ते ॥ ३० ॥

अयम् खलु,

गोपायेदनिशम् जगन्ति कुहनापोत्री पवित्रीकृत-

ब्रह्माण्डः प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः ।

यद्दम्ष्ट्राङ्कुरकोटिगाढघटनानिष्कम्पनित्यस्थितिः

ब्रह्मस्तम्बमसौदसौ भगवती मुस्तेव विश्वम्भरा ॥ ३१ ॥

(भूदेवीमवलोक्य, सप्रणामम्)

पूर्वम् वराहवपुषा पुरुषोत्तमेन प्रीतेन भोगिसदने समुदीक्षितायाः ।

पादाहताः प्रलयवारिधयस्तवाऽऽसन् उद्वाहमङ्गलविधेरुचिता मृदङ्गाः ॥ ३२ ॥

अपि च,

सम्भावयन् मधुरिपुः प्रणयानुरोधात् वक्षस्स्थलेन वरुणालयराजकन्याम् ।

विश्वम्भरे बहुमुखप्रतिपन्नभोगः शेषात्मना तु भवतीम् शिरसा दधाति ॥ ३३ ॥

सुमतिः – यथैष महावराहः प्रलयार्णवनिमग्नाम् भूमिमुद्धरति, तथाऽऽर्यपुत्रोऽपि सम्सारसागर निमग्नम् पुरुषमुद्धरेत् । अन्यदपि भणामि । दृढतरदम्ष्ट्राग्रदारित हिरण्याक्षवक्षस्तटकठिनकवाट सम्पुटोत्थितघनशोणित नदीप्रवाह घणघणायमान घोणान्तरस्य यज्ञवराहस्येव आर्यपुत्रस्य जन्यनैपुणम् द्रष्टुमुत्कण्ठिताऽस्मि ।

व्यवसायः – देवि! सेत्स्यति खलु मङ्गल्यनिधेः भवत्याः मान्यम् समीहितम् ।

राजा – सेनापते! अपरमपि एतादृशमभिपश्येमाद्भुतम् रूपम् ।

व्यवसायः – अस्तु तर्ह्ययमसौ प्रह्लादपरिरक्षिता दिव्यनरसिम्हो देवो दिदृक्षितव्यः । तेन चासौ जिघाम्सितो हिरण्याक्षानुजन्मा हिरण्यो नाम दानवेन्द्रः ।

कल्पान्तपावकनिभैस्तपसाम् प्रपञ्चैरुष्णालुरस्य समुपेत्य किल प्रसन्नः ।

दत्ते वरेऽभिलषिते प्रतिपन्नभीतिः सौवस्तिकत्वमगमत् स्वयमेव वेधाः ॥ ३४ ॥

अपि च,

दूरे हन्त गिराम् दुरासदयशोदुर्वारगर्वानल-

ज्वालालुण्ठितजम्भकण्टकबलारण्यो हिरण्योऽसुरः ।

यस्याऽऽस्थानिकपादपीठविलुठत्कोटीरकोटीरवैः

स्वच्छन्दप्रसरम् स्तुवन्ति चरितम् सेवासु देवासुराः ॥ ३५ ॥

अनेन च परमपुरुषप्रशम्सी कुमारः प्रह्लादस्सोपालम्भमधिक्षिप्तः, क्व नु ते पुरुषोत्तम इति पृष्टः सर्वत्रेति प्रत्यवादीत् ।

राजा – ततस्ततः ।

व्यवसायः

किमत्र हरिरित्यथ प्रकटितोपहासक्रमम्

हिरण्यकरघट्टितात् सपदि जृम्भितः स्तम्भतः ।

पुरः स्फुरति सम्भ्रमस्फुटसटाच्छटाच्छोटन-

त्रुटद्घनघनध्वनिद्विगुणबृम्हितः सिम्हराट् ॥ ३६ ॥

अयम् च,

विदारयति दारुणैर्बलभिदस्त्रभङ्गोद्भटाम्

सटाविधुतिसम्भ्रमभ्रमितसप्तलोकस्थितिः ।

कुलाचलशिलातलद्रढिमडम्बरस्तम्भिनीम्

प्रभुर्द्विषदुरःस्थलीम् नखरशृङ्गदम्भोलिभिः ॥ ३७ ॥

राजा – (सविस्मयम्) अहो महानयमद्भुतनरसिम्हः ।

(स्थाणुसन्ततिकूस्थाम् पितामहपितामहीम्

नमामि काञ्चन स्थूणाम् नरसिम्हेन पुत्रिणीम् ॥)

दम्भोलिश्रेणिदीव्यत्खरनखरमुखक्षुण्णदैतेयवक्षो-

निष्ठ्यूतासृक्स्रवन्तीभरितदशदिशादर्शितापूर्वसन्ध्यः ।

स्वामिध्वम्सप्रकुप्यत्सुररिपुपृतनास्तोमरूपम् स एष

ब्रह्मस्तम्बैकचन्द्रो बहुभिरिह करैरन्धकारम् निरुन्धे ॥ ३८ ॥

तदहमिह महामोहनिरसनाय दुरितभङ्गमाशासे ।

विकस्वरनखस्वरुक्षतहिरण्यवक्षःस्थलीनिरर्गलविनिर्गलद्रुधिरसिन्धुसन्ध्यायिताः ।

हरन्तु मदघम् रमासहचरस्य लीलाहरेरहम्प्रथमिकामिथःप्रकटिताहवा बाहवः ॥ ३९ ॥

व्यवसायः – देव! इयम् पुनरस्मदभिमतमर्थमभिमुखयन्ती स्वयमेव भगवता भावनामात्रनिर्मितेव सुभगविन्यासशालिनी निखिलभयनिर्मूलनी श्लोकाक्षरपरम्परा । यथा,

प्रह्लादह्लादनानि प्रणतसुरगणप्राणनप्रीणनानि

प्रत्यूढस्थेमभीमप्रलयघनघटाघोषणाडम्बराणि ।

क्षुभ्यप्सताम्बुधीनि क्षुरपरुषनखक्रीडितक्षुण्णशत्रोः

अस्मद्भीतिव्यपोहम् विदधतु नृहरेरट्टहासाद्भुतानि ॥ ४० ॥

राजा – (सहर्षमवलोकयति)

व्यवसायः – देव! इयम् च काचित् । यथा,

प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणम् पाणिजैः

अव्यात् त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः ।

यत्प्रादुर्भवनात् अवन्ध्यजठरा यादृच्छिकात् वेधसाम्

या काचित् सहसा महासुरगृहस्थूणा पितामह्यभूत् ॥ ४१ ॥

सुमतिः – आर्यपुत्र! एष हिरण्य इव महामोहासुरः पुरुषसिम्हेन त्वया प्रशमनीयः ।

व्यवसायः – देव! कालोपपन्नमिह कर्तव्यम् स्मारयति देवी । तदिह नातीवेदानीमत्र निहितदृष्टिभ्याम् भवितव्यम् । तथाऽपि सङ्क्षेपेण तु किञ्चिद्दर्शयामि । अयमिहासुरापहृतत्रैलोक्यप्रत्यानयनेन देवगणसन्तोषणाय प्रवृत्तो दिव्यवामनः । अमी च……..(इत्यर्धोक्ते)

राजा – तिष्ठ तिष्ठ सेनापते! यावदेतस्मादपि दिव्यवामनात् किमपि मङ्गलमाशासे ।

(सहर्षम्)

व्रीडाविद्धवदान्यदानवयशोनासीरधाटीभटः

त्रैयक्षम् मकुटम् पुनन् अवतु नस्त्रैविक्रमो विक्रमः ।

यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभिः

स्रोतोभिः सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥ ४१ ॥

सुमतिः – देव! अस्येव तवापि प्रतिहतप्रतिपक्षस्य भागीरथीव यशःप्रवाहः प्रतिदिशम् सम्वर्धते ।

व्यवसायः – अमी च भृगुरघुयदुवम्शसम्भवाः प्रबलतरदुष्टनिरसनेन परित्रातलोकत्रयास्त्रयो रामाः । एष पुनरेतेषु बहुमुखपुण्यजनबाधनोऽपि परित्रातपुण्यजनो मध्यमो रामः ।

अनेन किल कोसलसुत कुमारभाव कञ्चुकितकारणाकारेण, कौमारकेलि गोपायित कौशिकाध्वरेण, रणाध्वरधुर्यभव्यदिव्यास्त्र शालिना, प्रणतजन विमतविमथन दुर्ललितदोर्ललितेन, मैथिलनगर सुलोचनालोचन चकोरचन्द्रेण, दिनकरकुलकमलदिवाकरेण, खण्डपरशु कोदण्ड प्रकाण्ड खण्डन शौण्ड भुजदण्डेन, भृगुपतिसुगति विहतिकरनत परुडिषुपरिघेण, पितृवचनपरिपालन प्रतिज्ञावज्ञात यौवराज्येन, दण्डकातपोवन जङ्गमपारिजातेन, खरतरखरतरु(षण्ड)खण्डन चण्डपवनेन, द्विसप्तरक्षस्सहस्र नलवनविलोलन महाकलभेन, महितमहामृथ दर्शनमुदित मैथिलीदृढ परिरम्भण विरोपित विकटवीरव्रणेन, मारीचमायामृगचर्म परिकर्मित निर्भर दर्भास्तरणेन, गृध्रराज देहदिधक्षालक्षित भक्तजनदाक्षिण्येन, अवन्ध्यमहिम मुनिजन भजनमुषित कलुषशबरी मोक्षसाक्षिभूतेन, प्रभञ्जनतनय भावुकभाषित रञ्जितहृदयेन, तरणिसुत शरणागति परतन्त्रित स्वातन्त्र्येण, विपुलभुजमूल निबिडनिपीडित रावणरणरणक जनक चतुरुदधि विहरण चतुर कपिपतिहृदय विशालशिलातल दारणदारुण शिलीमुखेन, विमतसहोदर रक्षापरिग्रह सम्रम्भविजृम्भित सर्वेश्वरभावेन, सकृत्प्रपन्न सम्रक्षण दीक्षितेन, कपिकुलकरतल तुलितगिरिनिकर साधितसेतुपथ सीमासीमन्तित समुद्रेण, लङ्कावरोध वेपथुलास्य लीलोपदेशदेशिकेन, विशङ्कटविशिख विताडन विघटित मकुटविह्वल विश्रवस्तनय विश्रमसमय विश्राणन विख्यातविक्रमेण, कुम्भकर्ण कुलगिरिदलन दम्भोलिना, मघवजिदभिहनन कृदनुज साक्षिक राक्षस द्वन्द्वयुद्धेन, निखिलजगदनवरत भयजनक दशलपन(मुख)लपनदशक लवनजनित कदनरजनि चरयुवतिजन विलपनवचन विख्यापितपारम्येण, विभीषण वशम्वदीकृत लङ्कैश्वर्येण, पुष्पकरभस गोष्पदीकृत गगनमहार्णवेन, प्रतिज्ञार्णवतरण कृतक्षण भरत मनोरथ सिम्हासनाधिरूढेन, दिव्यभौमायोध्याधि दैवतेन, जानकी सहधर्मचारिणा, सर्वधर्म समाराधनीयेन, सनातनधर्मेण, साकेतजनपद जनिधनिक जङ्गमतदितर जन्तुजात दिव्यगतिदान दर्शित नित्यनिस्सीमवैभवेन, भगवता, भक्तजनभद्राभि रामेण, श्रीरामभद्रेण विश्वमेतत्सनाथीकृतम् ।

राजा – (सहर्षविष्फारिताक्षमवलोकयन्)

पारावारपयोविशोषणकलापारीणकालानल-

ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः ।

सर्वावस्थसकृत्प्रपन्नजनतासम्रक्षणैकव्रती

धर्मो विग्रहवान् अधर्मविरतिम् धन्वी स तन्वीत नः ॥ ४३ ॥

सुमतिः – देव! नलसेतुकर्त्राऽनेनेव धर्मसेतुसम्स्थापकेन त्वयाऽपि धार्मिकजनः कृतार्थीक्रियते ।

व्यवसायः – देव! अयम् पुनराप्रादुर्भावमनुगतपररूपः समस्तनिगमान्त सारभूतगीतोपनिषदाचार्यो भगवान्वासुदेवः ।

कम्सध्वम्सैकवीरो दनुजभटहतक्षोणिदुर्जातबन्धुः

गोपीनाम् प्राणमित्रम् गुरुसुतपुनरुज्जीवनोदारकीर्तिः ।

नाथो वृष्ण्यन्धकादेर्नरकपुरवधूपत्रभङ्गापहारी

पाञ्चालीवल्लभानाम् प्रथनमुखसुहृत् पञ्चमाम्नायसारः ॥ ४४ ॥

अमुना किल पूतना शकट यमलार्जुनारिष्ट प्रलम्ब धेनुक कालिय केशि कुवलयापीडचाणूर मुष्टिकादिदुष्टजनमर्दनेन गोपालकुलसम्वर्धनाय समुद्धृतो गोवर्धनः ।

राजा – (सहर्षमवलोक्य) ।

निकटेषु निशामयामि नित्यम् निगमान्तैरधुनाऽपि मृग्यमाणम् ।

यमलार्जुनदृष्टबालकेलिम् यमुनासाक्षिकयौवनम् युवानम् ॥ ४५ ॥

व्यवसायः – इयम् पुनरिह वासुदेवस्य वामतो वर्णपरम्परा –

जयति ललितवृत्तिम् शिक्षितो वल्लवीनाम् शिथिलवलयशिञ्जाशीतलैर्हस्ततालैः ।

अखिलभुवनरक्षागोपवेषस्य विष्णोः अधरमणिसुधायामम्शवान् वम्शनालः ॥ ४६ ॥

फक्कत्कौरवपत्तनप्रभृतयः प्रास्तप्रलम्बादयः

तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः ।

क्षीरम् शर्करयेव याभिरपृथक्भूताः प्रभूतैर्गुणैः

आकौमारकमस्वदन्त जगते कृष्णस्य ताः केलयः ॥ ४७ ॥

सुमतिः – आर्यपुत्र! अवनिभारोद्धरणप्रवृत्तम् यदुधुरन्धरमिव त्वामपि सम्सृति भयभरनिश्शेष ध्वम्सनसन्नद्धमचिरादेव कृतकार्यम् प्रेक्षिष्ये ।

व्यवसायः – सत्यमेतत् । आलक्ष्यतामयम् पुनः अखिलदोषनिर्मूलनः कल्की ।

राजा – (विलोक्य)

भाविन्या दशया भवन्निह भवध्वम्साय नः कल्पताम्

कल्की विष्णुयशस्सुतः कलिकथाकालुष्यकूलङ्कषः ।

निःशेषक्षतकण्टके क्षितितले धाराजलौघैर्ध्रुवम्

धर्मम् कार्तयुगम् प्ररोहयति यन्निस्त्रिम्शधाराधरः ॥ ४८ ॥

व्यवसायः – देव! इत्थम् किल भगवतः कतिचिदवतारभेदाः । कति कति भवन्ति भूता भाविनश्च भगवतः स्वच्छन्दावताराः । अमीषाम् चातिशयवर्णने निगमान्तवन्दिनोऽपि निवृत्तव्यापाराः । अपि च,

इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे

रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन् ।

क्रीडावल्लव कल्कवाहनदशाकल्किन् इति प्रत्यहम्

जल्पन्तः पुरुषाः पुनन्ति भुवनम् पुण्यौघपण्यापणाः ॥ ४९ ॥

तेषु चैतेषु भगवदवतारेषु निराशिषः पुरुषस्य यथाभिमतमेकमालम्बनम् निर्धारणीयम् महाराजेन ।

राजा – सेनापते! साधीयः सञ्चिन्तितम् । तदहम् सम्प्रति,

विशुद्धे विश्वरूपस्य यत्र क्वचन विग्रहे ।

समाधिजननीम् पुम्सः साधयिष्यामि भावनाम् ॥ ५० ॥

न चात्रास्माकमतिभारः । यतः,

पदकमलनतानाम् भासमानः प्रमाणैः

प्रणिहितरुचिभेदः प्राच्यसम्स्कारशक्त्या ।

प्रभुरयमनुकम्पानिघ्ननिर्विघ्नलीलः

परिकलयति रूपम् भावनालम्बनार्हम् ॥ ५१ ॥

तदिह कृतम् शिल्पदर्शनेन । दीयताम् शिल्पाधिकारिणस्सम्स्कारस्य अस्मत्प्रसादोचितम् पारितोषिकम् ।

व्यवसायः – यदाज्ञापयति देवः ।

राजा – सेनापते! बलवदभियुक्ता वयम् सन्त्वरेमहि समनन्तरकरणीयाय ।

[इति निष्क्रान्तास्सर्वे ।]

इति श्रीकवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य

श्रीमद्वेदान्ताचार्यस्य कृतिषु सङ्कल्पसूर्योदयनाटके

(शुभाश्रयनिर्धारणम् नाम) सप्तमोऽङ्कः ।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.