[highlight_content]

शरणशब्दार्थविचारः

श्रीमते रामानुजाय नमः

शरणशब्दार्थविचारः

आचार्यं वेङ्कटार्यं परमगुरु मथाचार्यवर्या नशेषान्

सौम्यं जामातृसूरिं भुवनगुरुवरं भट्टरामानुजार्यौ।

श्रीमन्तं यामुनार्यं तदनुमुनिवरं नाथसंज्ञं शठारिं

सेनेशश्रीतदीशा ननवरत महं चेतसा चिन्तयामि॥१॥

श्रुत्वा जगद्देशिकसम्प्रदायं बुद्ध्वा च वेदान्तगुरोः प्रबन्धान्।

द्वयाद्यखण्डेशरणाख्यशब्दे विचार्यतेऽर्थो विदुषां मुदेऽद्य॥२॥

तत्र भवन्तो लोकाचार्याः मुमुक्षुप्पडिसमाख्याने रहस्यत्रयव्याख्याने द्वयस्थशरणशब्दम्, “इष्टप्राप्तिक्कु मनिष्टनिवारणत्तुक्कुम् तप्पात उपायमाक” (मुमुक्षुप्पडि-२-३४) इति व्याचख्युः। तत्र विचार्यते – किमत्र शरणशब्दप्रवृत्तिनिमित्ततयाऽभिप्रेत मुपायत्वम्; – न तावद्रक्षकत्वम्; “उपाये गृहरक्षित्रो श्शब्दश्शरण मित्ययम्” (पाञ्च-अहिर्बु-) इत्याद्यहिर्बुध्न्यसंहितावचनेन रक्षकत्वप्रवृत्तिनिमित्तकतांव्युदस्य उपायत्वप्रृत्तिनिमित्तकताव्यवस्थापनात्; व्याख्यातञ्च श्रीमद्रम्यजामातृमुनिचरणैः –

“उपाये गृहरक्षित्रो श्शब्दश्शरण मित्ययम्।

वर्तते साम्प्रतं चैष उपायार्थैकवाचकः”

 (मुमुक्षुप्पडि-२-३४-व्याख्यानम्) ऎन्गिरपडिये शरणशब्दम् रक्षितावुक्कुम् गृहत्तुक्कुम् उपायत्तुक्कुम् वाचकमेयाकिलुम् इव्विडत्तिल् उपायत्तुक्के वाचकमाकैयालुम्, उपायकृत्यम् इष्टानिष्टप्राप्तिकरणमाकैयालुम्, “इष्टप्राप्तिक्कुम् अनिष्टनिवारणत्तुक्कुम् तप्पात उपायमाक” ऎन्रु इप्पदत्तुक्कर्थ मरुळिच्चॆय्‌किरार्” इति; व्याख्यातञ्चाऽऽचार्यचरणै रेव चरमश्लोकाधिकारे – “इन्द शरणशब्दम् रक्षितावैयुम् कृहत्तैयु मुपायत्तैयुम् काट्टक्कडवतेयाकिलुम् इव्विडत्तिलुपायत्तैये काट्टुकिरतु” (मुमुक्षुप्पडि-३-५६) इति। न च तत्र चरमश्लोकस्थशरणशब्द एव व्याख्यात इति वाच्यम्; – विद्ध्यनुष्टानयोरैकरूप्यात् द्वयस्थशरणशब्दस्यापि तत्समानार्थकतया आवश्यकत्वात्; अन्यथा विवरणविवरणिभावस्या प्यसिद्धिप्रसङ्गात्॥

उपात्तवचनस्य चाऽयमर्थः – शरणमित्ययं शब्दः उपाये गृहे रक्षितरि स्वप्रवृत्तिनिमित्तभूत उपायत्वगृहत्ववत्तासम्बन्धेन वर्तते – उपायत्व गृहत्वरक्षकत्वप्रवृत्तिनिमित्तकभावः। साम्प्रतम् – अस्मिन स्थले, द्वय इत्यर्थः; यद्यपि इदनीं शब्दपर्यायस्य साम्प्रतमित्यस्य बुद्धिस्थकालविशेषपरत्व मेव; तथाऽपि द्वयोच्चारणकालस्यैव बुद्धिस्थतयाऽभिप्रेतत्वात् यथोक्त एवार्थः – चस्त्वर्थे; द्वयघटक स्त्वित्यर्थः; साम्प्रतन्त्वेष इति पाठे तु स्पष्टोऽर्थः। तेन, “श्रूयते हि कपोतेन शत्रु श्शरण मागतः” (रा-यु-१८-२४) “त्वमनादि रनिर्देश्य स्त्वामहं शरणंगतः” () “सर्वात्मनायश्शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः” (भार-) इत्यादिषु शरणशब्दस्य व्यावृत्तिः। उपायशब्दः उपायत्वपरः; उपायार्थैकस्य वाचक इति षष्ठीतत्पुरुषः; उपायार्थैकस्य; वाचकशब्दः – शक्यतानिरूपकपरः; षष्ठ्यर्थश्च – अविच्छिन्नत्वम्; तस्य वाचकपदार्थैकदेशे शक्यताया मन्वयः; ससम्बन्धिकस्थले भेदसम्भन्धेन एकदेशान्वयस्य व्युत्पत्तिसिद्धित्वात्; तत्पुरुषे पूर्वपदलक्षणापक्षे, उपायार्थैकशब्दस्य उपायत्वरू पैकार्थावच्छिन्ने लक्षणा; तस्य च व्युत्पत्तिवैचित्र्येण पदार्थैकदेशेपि शक्यताया मभेदसम्बन्धेनाऽन्वयः; “चैत्रदासः” इत्यादि ससम्बन्धिकसमासस्थले तथाविधव्युत्पत्तिस्वीकारात्। एकपदार्थतावच्छेदकैकत्वञ्च – स्वानाश्रयधर्मावच्छिन्नशक्यता निरूपकत्वसम्बन्धावच्छिन्न स्वनिष्ठप्रतियोगिताकाभाववत्वसम्बन्धेन धर्मिपारतन्त्र्येण एतच्छब्दार्थे शरणशब्देऽन्वेति। तथाच – उपायत्वरूपैकत्व विशिष्टार्थावच्छिन्न शक्यतानिरूपकः, स्वानाश्रयधर्मावच्छिन्नशक्यतानिरूपकत्व सम्बन्धावच्छिन्न स्वनिष्ठप्रतियोगिताकाभाववत्वसम्बन्धेन तदेकत्वविशिष्ट श्शरणशब्द इति बोधः। स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्ववाचकपदस्य तथा व्युत्पत्तेः। अत एव – “पशुना यजेत” () इत्यादौ, अनेकपशुकरणकयागा दपूर्वोत्पत्तिवारणाय पशुनेत्येकवचनार्थैकत्वस्य – स्वानाश्रयपशुकरणत्व सम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकाभाववत्वसम्बन्धेन यजिधात्वर्थयागेऽन्वय स्सवीकृतः। यथाश्रुते, चैत्रकर्तृकैकपशुकरणकयागीयपशुनिष्ठभेदप्रतियोगिताव-

च्छेदकत्वा न्मैत्रयागीय पश्वेकत्वस्य; एवं मैत्रयागीयपश्वेकत्वस्याऽपि तथात्वात्, कस्याऽप्येकत्वस्य स्वसजातीयनिष्ठभेदप्रतियोगितावच्छेदक्तवाभावेन बाधापत्तेः। एवञ्च रक्षकत्वोपायत्वयो रेकत्वे “गृहरक्षित्रोः” इति पृथगुपादानस्य, प्रसक्तरक्षकत्वगृहत्वप्रवृत्तिनिमित्तकताव्युदसनाय उक्तसम्बन्धे नैकत्वबोधतात्पर्यकैकशब्दस्य चाऽसाङ्गत्यं दुर्वार मेव॥

यद्यपि नानार्थकशब्दस्य प्रकरणादिना एकार्थतात्पर्यकत्वेपि नानाप्रवृत्तिनिमित्तनिषेधो नोपपद्यते; तथापि, नानार्थकस्थले प्राकरणिकार्थस्यैव शक्त्याभनम्, अन्यस्य तु शब्दशक्तिमूलव्यञ्जनयैवे त्यालङ्कारिकरीत्या श्रयणेनाऽदोषः। तदुक्तं काव्यप्रकाशिकायाम्,

“अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते।

 संयोगाद्यै रवाच्यार्थधीकृद्व्यापृति रञ्जनम्”

(काव्यप्रकाशिकासूत्रे-१९) इति। अञ्जनम् – व्यञ्जनम्, व्यञ्जनावृत्ति रिति पर्यवसितार्थः। वस्तुतस्तु – उपात्तवचने वाचकशब्दस्य शाब्दबोधेच्छाप्रयुक्ते लक्षणा; शाब्बोधे च – उपायत्वरूपैकत्वविश्ष्टार्थस्य स्वावच्छिन्नविषयताकत्वसम्बन्धेनान्वयः; एकत्वस्य पूर्वोक्तरीत्या धर्मिपारतन्त्र्येण स्वानाश्रयधर्मावच्छिन्नविषयताशालिशाब्दबोधेच्छाप्रयुक्तत्वसम्बन्धावच्छिन्न

विषयताशालिशाब्दबोधेच्छाप्रयुक्तत्व सम्बन्धावच्छिन्नस्वनिषठप्रतियोगिताकाभाववत्वसम्बन्धेन शरणशब्देऽन्वय इति न किञ्चि दनुपपन्नम्॥

नच – उपात्तवचनेन द्वयस्थशरणशब्दो न व्याख्यातः, किन्तु – “इदं शरण मज्ञानाम्” (लक्ष्मीतन्त्रे) इतिवचनस्थशरणशब्द एव व्याख्यातः; तत्र हि – “उपायापायनिर्मुक्ता मध्यमांस्थिति मास्थिता।

शरणागति रग्र्यैषा संसारार्णवतारिणी” (लक्ष्मीतन्त्रे) इति पूर्वप्रस्तुता शरणागतिः इदंशब्देन परामृश्यते; शरणशब्दप्रधानकत्वा न्नपुंसकत्वम्; शरणागतेश्च – भगवत्प्रसादात्मकाऽदृष्टद्वारकफलसाधनतारूपकरणत्वात्मक मुपायत्वं सम्भवति; नतु गृहत्वं रक्षकत्वं वा; अतो रक्षकत्वप्रवृत्तिनिमित्तकताव्युदसनपूर्वकोपायत्वप्रवृत्तिनिमित्तकताव्यवस्थापनं सङ्गच्छत इति वाच्यम्; – “इदं शरणम्” इत्यादिवचनस्य लक्ष्मीतन्त्रसंहितास्थत्वात्, “उपाये गृहरक्षित्रोः” इत्यादिवचनस्याऽहिर्बुध्न्यसंहितास्थत्वेन तत्र शरणागतिविषयशरणशब्दादर्शनात्, शरणागतौ गृहत्वरक्षकत्वयौ र्बाधादेव शरणागतिविषयशरणशब्दे गृहत्वरक्षकत्वार्थकताप्रसक्त्यभावेन, “उपायार्थैकवाचकः” इत्यस्याऽप्रसक्तप्रतिषेधत्वापत्तेश्च; भगवति तु सर्वाधारत्वेन, आवासत्वापरपर्यायगृहत्वस्य फलप्रदत्वेन रक्षकत्वस्य च सम्भवात् तद्विषयकशरणशब्दे तदर्थकतानिषेधो युक्तः॥

ननु – निरपेक्षरक्षकत्व मुपायत्वम्; सम्भवति च भगवति निरपेक्षरक्षकत्वम्; अन्यत्र प्रपत्त्यङ्गकेनोपासनेन देयस्य फलस्याऽकिञ्चनविषये प्रपत्तिमात्रेण प्रदातृत्वेन गुरुभूतोपासननिरपेक्षत्वात्; एतदभिप्रायेणैव “उपाये गृहरक्षित्रोः” इत्यादिनिष्कर्षवचनम्; नैरपेक्ष्यानवच्छिन्नरक्षक्तवार्थकतां व्युदस्य तदवच्छिन्नाश्रितरक्षकत्वार्थकताव्यवस्थापनपरत्वात्। यद्यपि निरपेक्षरक्षकत्वस्य केवलरक्षकत्वस्य च भेदाभावेन “उपायार्थैकवाचकः” इत्यनेन केवलरक्षकत्वार्थकतानिषेधो नोपपद्यते;- तथापि, निरपेक्षरक्षकत्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकरक्षकत्वरूप पारिभाषिकभेदस्य विद्यमानतया, तदभिप्रायेण वचन मुपपन्न मिति चेन्न;- निरपेक्षरक्षकत्वम्, किमुपायशब्दशक्यतावच्छेदकम्, उत लक्ष्यतावच्छेदकम्; आद्ये – यागादौ भक्तौ च उपायशब्दप्रयोगानुपपत्तिः, तेषा मचेतनत्वेन रक्षकत्वासंभवात्; तदर्थं शक्त्यन्तरकल्पने गौरवम्, प्रमाणाभावश्च। किञ्च – निरपेक्षरक्षकत्वम् – भक्तिनिरपेक्षरक्षकत्वम्, प्रपत्तिनिरपेक्षरक्षकत्वम्, उभयनिरपेक्षरक्षकत्वम्, गुरूपायनिरपेक्षरक्षकत्वम्, प्रपत्तिव्यतिरिक्तोपायनिरपेक्षरक्षकत्वं वा; – नाद्यः – ज्योतिष्टोमादिस्थले गोप्तु रुपायत्वापत्तेः। न द्वितीयः- भक्तिस्थलेऽपि गोप्तु स्तथात्वप्रसङ्गात्। तृतीये – उभयनिरपेक्षत्वम् – उभयाभावरूपम्, अभावद्वयरूपं वा; – नाऽद्यः- उक्तदोषानिरस्तात्; नद्वितीयः – ज्योतिष्टोमादिस्थलेऽतिव्याप्तेः, शक्तं प्रति सेतुस्नानेन फलदातु रुपायत्वप्रसङ्गात्। नपञ्चमः- स्वव्यतिरिक्तोपायनिरपेक्षरक्षक्तवस्य सर्वोपाय (कुण्डलितमधिकम्) [अनुष्ठातृ] -साधारणतया प्रपत्तिस्थले तस्य विशिष्योक्तौ वैलक्षण्याभावात्। न प्रथमकल्पे द्वितीयः- “त्वमेवोपायभूतो मे” (पाञ्च- अहिर्बुध्न्य) “तदेकापायतायाच्ञा” (पाञ्च-) “अहं मत्प्राप्त्युपायो वै” (पाञ्च-) “उपायोपेयत्वभूते तदिह तव तत्त्वम्” (र-स्त-२-) इत्यादिषु बहूना मुपायशब्दानां गौणत्वप्रसङ्गात्॥

किञ्च – उपायत्वं रक्षकत्व मित्येतत् परिकरविभागाधिकारविरुद्धम्; तत्रहि –

“(रहस्यत्रयसारे) उपायमॆन्राल्, ऒरुविरकॆन्र मात्रमा कैयाले इव्वुपायम् चेतनाचेतनसाधारणमाकैयालुम्,

‘रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा’  (पाञ्च – लक्ष्मीतन्त्रे)

 ‘ससर्वज्ञोपि विश्वेश स्सदा वारुणिकोपि सन्।

संसारतन्त्रवाहित्वा द्रक्ष्यापेक्षां प्रतीक्षते॥’

 (पाञ्च – लक्ष्मीत-) ऎन्रुम् शॊल्लुकिरपडिये चेतनैकान्तमानगोप्तृत्व मनुसन्धेयमाकैयालुम् गोप्तृत्वविवरण मिव्विडत्तिले विवक्षितम्; अतिल् शरणशब्द मॊरुप्रयोगत्तिले इरण्डर्थत्तै अभिधानम् पण्णमाट्टामैयाले इव्वधिकारिक्कु असाधारणमान उपायत्वाध्यवसायम् इव्विडत्तिले शाब्दमाय्, सर्वाधिकारिसाधारणमान गोप्तृत्ववरण मार्थमाकक्कडवतु” इत्युक्तम्; यदि निरपेक्षरक्षकत्व मुपायत्वम्, कथं तर्हि चेतनाचेतनसाधारण्यम्; कथंवा रक्षकत्वप्रार्थनागोप्तृत्ववरणस्याऽऽर्थत्वम्। नच, “प्रपूर्वक पदॢ धतोः (अध्यवसाये रूढत्वात् (अयमपरः पाठः)) रक्षकत्वाध्यवसाये रूढत्वात् रक्षकत्वाध्यवसायकार्यरक्षकत्वप्रार्थना आर्थैव” इति सारस्वादिन्युक्तं युक्तमिति वाच्यम् ;- निरपेक्षरक्षकत्वाध्यवसायेन तादृशरक्षकत्वप्रार्थनैवाऽऽर्थी स्यात्, नतु तदविशेषितरक्षकत्वप्रार्थना; – न चेष्टापत्तिः; निरपेक्षरक्षकत्वप्रार्थनाया स्सर्वाधिकारिसाधारण्यासम्भवात्। नच रक्षकत्वप्रार्थनात्वेन साधारण्य मिति वाच्यम्; – निरपेक्षरक्षकत्वाध्यवसायरूपोपायत्वाध्यवसायस्याऽपि रक्षकत्वाध्यवसायत्वेन सर्वसाधारणत्वे नोभयो स्तुल्यतया साधारण्याऽसाधारण्ययो रार्थत्वशाब्दत्वबीजत्वोक्त्यसङ्गतेः॥

किञ्च – निरपेक्षकरक्षकत्वाध्यवसायेन तत्प्रार्थना कथमर्थात्सिद्ध्येत्; अध्यवसायो हि सिद्धविषयकः, प्रार्थना ह्यसिद्धविषयिणी; इच्छारूपप्रार्थनांप्रति विषयाभावनिश्चयस्य कारणत्वात्, विषयनिश्चयस्य वा प्रतिबन्धकत्वात्; उक्ताध्यवसायस्य विषयनिश्चयरूपत्वात्॥

 यत्तु – निरपेक्षकरक्षकत्वाध्यवसायस्य शाब्दत्वोपपादनाय तदधिकरणस्वारस्यादिन्यां प्रक्रियोक्ता, “उपायार्थैकवाचकः” इति निष्कृष्ट श्शरणशब्दः चरणशब्दसमानाधिकरणः चेतनाचेतनसाधारणेनैवाऽऽकारेण सिद्धोपायाभेदंसाध्योपायाभेद ञ्चाभिधत्ते; तत्र सिद्धोपायाभेदः – रक्षकत्वरूपो वास्तव एव, साध्योपायाभेदो वास्तवतयाऽऽरोप्यमाणः, सिद्धोपायाभेदरूपे रक्षकत्वे नैरपेक्ष्यं व्यञ्जयति” इति। – सा परीक्षकपरिहसनीया – शरणशब्देन चेतनाचेतनसाधारणाकारेणोपस्थितस्य यस्यकस्यचि दुपायाभेदो बोधनीयः, नतु सिद्धोपायाभेद स्साध्योपायाभेदश्च; “प्रमेयो घटः” इत्यादौ हि प्रमेयत्वावच्छिन्नस्य यस्यकस्यचि दभेदो बोध्येत, नतु वास्तवो घटत्वावच्छिन्नाभेदः, अवास्तवः पटत्वावच्छिन्नाभेदश्च॥

किञ्च – वस्तुतो भगवति विद्यमानोपायाभेदस्य रक्षकत्वरूपत्वेपि रक्षकत्वेन तद्बोधनं कथं घटते ? येनकेनाऽपि रूपेण वास्तवरक्षकत्वज्ञानस्य प्रपत्तित्वे प्रमेयत्वादिना तद्ज्ञानवतोऽपि प्रपन्नत्वप्रसङ्गात्। न च रक्षकत्वेन तद्बोधोऽपि व्यञ्जनयैव भवतीति वाच्यम्; – तर्हि निरपेक्षरक्षकत्वं व्यङ्ग्यार्थ एव स्यात्; नतु तत्र विशेष्यांशश्शक्यार्थ इति वक्तुं युक्तम्। नच तावता का हानिः, शब्दवृत्त्या बोधितत्वमात्रेण शाब्दत्वोपपत्ते रिति वाच्यम्; – तथास त्युपायाध्यवसायवाचकशब्देन गोप्तृत्ववरणीयस्याऽपि व्यञ्जनयैव बोधसम्भवेनाऽऽर्थत्वकल्पनासङ्गतेः। प्रपूर्वक पदॢ धातो रध्यवसाये रूढत्वोत्कीरतन मपि प्रमाणविरुद्धम्; “त्वमेवोपायभूतो मे भवेति प्रार्थनामति श्शरणागति रित्युक्ता” (पाञ्च – अहिर्बुध्न्य) “तदेकोपायतायाच्ञा प्रपत्ति श्शरणागतिः” (पाञ्च-) इति लक्षणवचनविरोधात्। नच गोप्तृत्ववरणस्य प्रार्थनारूपत्वात् तदङ्गत्वाच्छरणागते रङ्गाङ्गिनो रभेदोपचारेण उक्तवचनाविरोधः; तत्रचोपायशब्दः गोप्तृत्वमात्रार्थकः; तथा च पृथिव्यागन्धवत् शरणागतेः प्रार्थना उपलक्षण मेव, नतु स्वरूपलक्षण मिति वाच्यम्; – पृथिव्याः प्रत्यक्षेण निर्णीतत्वेन गन्धस्योपलक्षणत्वाङ्गीकारेऽपि, अत्र उक्तवचनद्वयप्रतिपन्नाया स्स्वरूपलक्षणत्वे सम्भवति उपलक्षणत्वकल्पनाया अन्याय्यत्वात्, उपायत्वगोप्तृत्वयो रर्थान्तरत्वेन उपायशब्दस्य गोप्तृत्वार्थकत्वोपवर्णनम प्यसङ्गतम्। नच शरणागतेः प्रार्थनारूपत्वे अध्यवसायरूपत्वं न सम्भवति; उक्तञ्च द्वयप्रकरणव्याख्याने प्रार्थनारूपत्वं दृढाध्यवसायरूपत्व ञ्चाऽऽचार्यचरणै रेवेति वाच्यम्; – अध्यवसायत्वप्रार्थनात्वयो र्विषयभेदेन विरोधाभावात्; – भगवत्युपायत्वांशेऽध्यवसायरूपत्वात्। तत्र स्वनिरूपितत्वांशे प्रार्थनारूपत्वा च्च॥

किञ्च – यद्युपायत्वम् – निरपेक्षरक्षकत्वम्, तदा चरमश्लोके एकशब्दस्य वा, “सर्वधर्मान् परित्यज्य” इत्यस्य वा वैयर्थ्यम्; – तयोः पक्षभेदेन नैरपेक्ष्यप्रतिपादकताया उक्तत्वात्। उक्तं हि चरमश्लोकाधिकारे

“अधिकारं पुरस्कृत्योपायस्य निरपेक्षताम्।

एकशब्देन वक्तीति केचि द्वाक्यविदो विदुः॥

नैरपेक्ष्यं पुरस्कृत्य विहितस्य लघीयसः।

उपायस्याधिकारन्तु श्लोकद्योत्यं विदुः परे॥”

(रहस्यत्रयसारे-) द्वयचरमश्लोकस्थयो श्शरणशब्दयो रैकार्थ्यं प्रागेवोक्तम्। चरमश्लोकाधिकारेऽपि द्वयस्थशरणशब्दार्थ श्चरमश्लोकस्थशरणशब्देऽप्यनुसन्धेय इत्युक्तम्॥

किञ्च – यदि पूर्ववाक्ये शब्दतोऽर्थतो वा गोप्तृत्ववरण मभिप्रेतम्, तदा

उत्तरवाक्यमनर्थकम्; अनिष्टनिवृत्तीष्टप्राप्तिप्रार्थनायाः पूर्ववाक्य एव

प्रतिपादितत्वात्। नच – फलसामान्यप्रार्थनायाः पूर्ववाक्ये प्रतिपादनेपि

तद्विशेषपरत्वा दुत्तरवाक्यस्य नाऽनर्थक्य मिति वाच्यम्; – निरर्थकस्याऽऽ-

काङ्क्षाविरहेणाऽन्वयघटकत्वानुपपत्तेः। सार्थकं तत्र वाक्यतात्पर्यं नाऽस्ती-

ति चेन्न; – अस्याऽनुष्ठानवाक्यत्वेन विधिवाक्यव देकदेशे तात्पर्याभावकल्प-

नानुपपत्तेः। न च पूर्वोत्तरवाक्ययो रभिमतफलविशेषालाभाय यथोक्तात्मर-

क्षाभारं निक्षिपामीति निष्कृष्टविशिष्टैकार्थप्रतिपादकत्व मेवाऽङ्गक्रियत इति

वाच्यम्; – श्रुतिस्मृतिसिद्धस्य द्वयत्वस्य हान्यापत्तेः। न च पूर्ववाक्ये गोप्तृत्व-

वरणम् उत्तरवाक्ये फलसमर्पणं प्रतिपाद्यते; यत्र वरणसमर्पणयोः पृथक्प्रतिपा- दनम्, तत्र शरणशब्दस्य नेयं विवक्षा, किन्तु केवलगोप्तृत्ववरणमात्रपरतैव; गोप्तृत्ववरणमात्रपरतैव; यद्वा – अनेकांशविशिष्टे समर्पणे फलसमर्पणस्य व्य-

क्तीकरणायोत्तरवाक्यम्; अथवा – स्वरूपस्य फलस्य भरस्य च समर्पणीयतया

तत्र स्वरूपसमर्पणपरं पूर्ववाक्यम्, फलसमर्पणपर मुत्तरवाक्य मितिन पौनरुक्त्य

मिति वाच्यम्; – साङ्गप्रधानस्य धानुष्कलक्ष्यवेधार्थव्यापारव दङ्गीकृतस्य क्षुणि-

कैकज्ञानत्वस्य भङ्गप्रसङ्गात्। प्रथमपक्षे “उपायार्थैकवाचकः” इति वचनविरो-

धात्; अनन्तरपक्षयोः स्वरूपभरसमर्पणयो र्व्यक्तीकरणाय भरसमर्पणप्रतिपाद-

नाय च वाक्यान्तरस्याऽपि प्रसङ्गाच्च; अस्यानुष्ठेयप्रकाशकत्वेन यथामन्त्र मर्थाना मनुष्ठेयतया वाक्यद्वयप्रतिपाद्यस्य वरणस्य समर्पणस्य च प्रत्येकमनुष्ठानापत्ते श्च,

तस्मान्न निरपेक्षकत्व मुपायत्वमिति॥

किञ्च – यदि निरपेक्षकत्व मुपायत्वं, तदा तस्य पूर्वोक्तरीत्या फलप्रदत्वरूपतया,

“सामान्या त्तु” (शा-मी-३-२-३१) “उपपत्ते श्च” (शा-मी-३-२-३४) इति सूत्राभ्यां

सेतुत्वरूपोपायतया उक्ततया पुनश्च फलप्रदत्वव्युत्पादनाय, “फलमत उपपत्तेः”

(शा-मी-३-२-३७) इत्यधिरणारम्भो व्यर्थः; सेतुशब्द श्च भगवता भाष्यकारेण

उपायशब्देन व्या……..तः इत्थं ह्युपपत्ते श्चेति सूत्रभाष्यम्; – “यदुक्तम्, अमृतस्यैष सेतुः” (मुण्डके-२-२-५) इति प्राप्यप्रापकसम्बन्धव्यपदेशात्

प्रापकात्परं प्राप्यमस्तीति; तन्न; – प्राप्यस्य परमपुरुषस्य स्वप्राप्तौ स्वस्यै-

वोपायत्वोपपत्तेः,

‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।

यमेवैष वृणुते तेनलभ्य स्तस्यैष आत्मा विवृणुते तनूं स्वाम्॥’ (कठ-२-२३)

इत्यनन्योपायत्वश्रवणात्” इति। नच “फलमतः” (शा-मी-३-२-३७) इत्यत्र

फलप्रदत्वरूप मुपायत्वं व्युत्पाद्यम्, “परमतः” (शा-मी-३-२-३०) इत्यत्र तु फल-

प्रदस्य फलैक्यमात्रं व्युत्पाद्यत इति न वैयर्थ्य मिति वाच्यम्; फलप्रदस्य फलैक्य-

व्युत्पादनेन फलप्रदत्वस्याऽपि व्युत्पादितया उत्तराधिकर……..  तस्याऽपूर्वतया

व्युत्पाद्यत्वासङ्गतेः। न च उत्तराधिकरणे अपूर्वस्य फलप्रदत्वाभाव एव व्युत्पाद्यत

इति वाच्यम्; – तथासति प्राप्यान्तरवैतृष्ण्यप्राप्यतृष्णा जननायाऽऽरब्धयोः प्रथम

द्वितीयपादयोः, उभयलिङ्गाधिकरण मारभ्य प्राप्यतृष्णाजनककल्याणगुणव्युत्पाद-

कपेटिकाया मपूर्वफलप्रदत्वाभावस्याऽसङ्गततया व्युत्पादनीयत्वासिद्धेः। यदि

“फलमतः” इत्यधिकरणे फलप्रदत्वं विहितम्, तदेव “परमतः” इत्यधिकरणेऽनूद्य

फलैक्यं विधीयत इति मन्यसे, तदेतत्तदा शोभते, यदि “फलमतः” इत्यधिकरणं

“परमतः” इत्यधिकरणात्पूर्वभावि स्यात्, तत्तु विपरीतम्। तस्मात् शास्त्रसिद्धं

फलप्रदत्वा दर्थान्तरभूत मुपायत्व मङ्गीकृत्य सूत्रकारेण पूर्वपक्षे हेतुतयोपन्यस्त

….    तदेव सिद्धान्तेप्यनूद्य फलैक्यं विहितम्; उत्तराधिकरणे उपायत्वा दर्थान्तर-

मेव फलप्रदत्व मपूर्वतया व्युत्पाद्यते। प्र……  ञ्चितञ्चैतत् श्रीवचनभूषणमीमांसा-

वेदान्तविरो….. .. हाराधिकरणे। तस्मात् फलप्रदत्वरूपनिरपेक्षरक्षकत्वं नोपाय-

त्व मिति॥

अत्रोच्यते –

करणत्वम् उपायत्वम्। करणत्वं च – व्यापारव त्कारणत्वम्; तच्च – स्वजनकत्व स्वजनकजनकत्वोभयसम्बन्धेन किञ्चि द्विशिष्टत्व पर्यवसितम्; वर्तते चेदं यागादौ

अदृष्टद्वारा करणभूते; – स्वजनकादृष्टजनकत्व स्वजनकत्वोभयसम्बन्धेन स्वर्गादि

रूपफलविशिष्टत्वा द्यागादेः। एवं कुठारादौ दृष्टद्वारा छेदनकरणभूते; – तस्य छेद-

नजनकाभिघातजनकत्वात्, छेदनजनकत्वा च्च। अत एव, अदृष्टाभिघातानां तज्ज-

न्यत्वे सति तज्जन्यजनकत्वरूपं व्यापारत्वम्। अधिकरणकारणेऽतिव्याप्तिवारणा-

य प्रथनसम्बन्धनिवेशः; व्यापारेऽतिव्याप्तिवारणाय द्वितीयसम्बन्धनिवेशः। भगव-

त्यपि परमपुरुषार्थजनकाऽदृष्टस्थानीयप्रसादजनकत्वात्, व्यापारेण व्यापारिणो नान्यथासिद्धिरिति न्यायेन परमपुरुषार्थजनकत्वाच्च यागादितुल्य मेव करणत्वम्।

भक्त्यादे रुपायतापक्षेऽपीदृश्य मेव करणत्वम्॥

ननु चैत्रादेः पाकजनकव्यापारजनकत्वात्, उक्तन्यायेन पाकजनकत्वाच्च पाककर-

णत्वापत्त्या “चैत्र श्चैत्रेण पचति” इति प्रयोगवारणाय कर्तृभिन्नत्वं निवेशनीयम्;

एवम्-यदा चैत्रः काष्ठैः पचति मैत्रश्च तुषैैः पचति तदा “चैत्रस्तुष्मै र्मैत्रः काष्ठैः पचति” इति प्रयोगवारणाय, करणव्यापारे समभिव्याहृतकर्तृव्यापाराधीनत्व मपि निवेशनीयम्; यदि च – “काष्ठैः पचति” इति वाक्ये कर्तृवाचक पदसमभिव्याहार एव नाऽस्ति, समभिव्याहृतकर्तृव्यापाराधीनत्वे व्यापारवत्कारणत्वे च खण्डशक्तिस्वीकारात्; भगवति नेदं करणत्वम्, – तस्य कर्तृभिन्नत्वाभावात्, प्रसा-

दात्मक तदीयव्यापारस्य तदीयव्यापारान्तराधीनत्वाभावा दिति वाच्यम्; – “सस्वेनैव फलप्रदः फलमपि स्वेनैव नारायणः” (मुरीरिनाटके-) इत्यादि महाकवि-

प्रयोगानुसारेण स्वातन्त्र्येण कर्तृत्वभिन्नत्व मनिवेश्य व्यापारवत्कारणतायां कर्तृत्वानवच्छिन्नस्यैव निवेशनीयत्वात्। इत्थञ्च भगवन्निष्ठायाः परमपुरुषार्थहेतु-

भूतप्रसादकारणतायाः पुरुषकारगुणवैशिष्ट्याद्यवच्छिन्नत्वेन परमपुरुषार्थप्रधा..न-

कर्तृत्वानवच्छिन्नत्वात्। एवम् – करणव्यापारे समभिव्याहृतकर्तृव्यापाराधीनत्व मनिवेश्य समभिव्याहृतकर्तृभिन्नव्यापाराधीनत्वे करणानुशिष्ट तृतीयादे श्शक्ति-

स्स्वीक्रियते। तथा च – भगवद्व्यापारस्याऽन्यव्यापारानधीनत्वा द्भगवतः करणत्वोपपत्तिः। नचैवम्, यदा चैत्रो मैत्रश्च एकेनैव काष्ठेन पचति, तदा “चैत्रः काष्टेन पचति” इति प्रयोगानुपपत्तिः, – तत्र करणभूतकाष्ठव्यापारस्य चैत्रमैत्रोभय

व्यापाराधीनतया समभिव्याहृतकर्तृभूत चैत्रभिन्नमैत्रव्यापारादिति वाच्यम्; – सम-

भिव्याहृतकर्तृव्यापाराधीनो यस्तद्भिन्नव्यापाराधीनव्यापार स्तद्भिन्नत्वे शक्तिस्वी- कारात्; प्रकृते, चैत्रमत्र व्यापाराधीनस्यापि काष्ठव्यापारस्य चैत्रव्यापाराधीनत्वेन

समभिव्याहृतकर्तृव्यापारानधीनतद्भिन्नव्यापाराधीनत्वेन समभिव्याहृतकर्तृव्यापारा-

धीनतद्भिन्नव्यापाराधीनत्वाभावेन तादृशप्रयोगोपपत्तेः। यदिच कार्यमात्रं प्रतितत्त-

त्कर्तुर्नकर्तृत्वेन कारणता, किं तु तत्तत्साधारणधर्मपुरस्कारेण, तत्तद्व्यक्तित्वेन वा;

एवं च चैत्रादिनिष्ठपाकादिकारणतया अपि कर्तृत्वानवच्छिन्नत्वेन “चैत्र श्चैत्रेण पचति” इति प्रयोगापत्तिरिति विभाव्यते; तदा, कृतिजनकतावच्छेदकानवच्छिन्न-

त्वस्यैव व्यापारव त्कारणतायां निवेशनीयत्वात्। एवं च चैत्रादिनिष्ठायाः पाकानु-

कूलव्यापारकारणतायाः तदनुकूलकृतिकारणतायाश्च एकधर्मावच्छिन्नत्वेन, कृति-

जनकतावच्छेदकधर्मानवच्छिन्नव्यापारवत्कारणताया श्चैत्रादावभावेन न तादृशप्र-

योगापत्तिः; भगवति फलानुकूलकृतिजनकताया स्तत्फलसाधनानुष्ठातृविषयसा-

धारणतया पुरुषकारगुणविग्रहाणां तत्रानुपयोगेन फलानुकृतिजनकतावच्छेदका-

नवच्छिन्नत्वस्य सिद्धसाधननिष्ठविषये असाधारणीभूतायां पुरुषकारादिप्रयोज्या-

यां तदीयपरमपुरुषार्थहेतुभूतनिर्हेतुकप्रसादजनकतारूपायां व्यापारवत्कारणतायां

विद्यमानतया निरुक्तकरणत्वोपपत्तिः, नच, “सस्वेनैव फलप्रदः” (मुरारिना-) इत्यत्र स्वेनेति नकरणे तृतीया, येन उक्तगुरुभूतधर्मे तृतीयादे श्शक्ति स्स्वीकरणी-

या स्यात्; किन्तु हेतावेवेति वाच्यम्; – फलप्रदस्य हेतुताया उक्ति मन्तरेणैव सि-

द्धतया स्वेनैवेत्यस्य वैयर्थ्यापत्तेः॥

नच ब्रह्मणः करणत्वाङ्गीकारे “विकरणत्वान्नेति चेत्तदुक्तम्” (शा-मी-२-१-३१) इति सूत्रविरोधः; – तत्र ब्रह्मणः करणाभावेन विचित्रकार्योत्पादनं न सम्भवतीति पूर्वपक्षं कृत्वा “श्रुतेस्तुशब्दमूलत्वात्” (शा-मी-२-१-२७) “आत्मनि चैवं विचि- त्राश्च हि” (शा-मी-२-१-२८) इत्यत्र ब्रह्मणो विचित्रानन्तशक्तियोगस्य प्रतिपादि-

तया करणभावेपि विचित्रकार्योत्पादनं सम्भवत्येवेति सिद्धान्तित मिति वाच्यम्;

ब्रह्मणः करणत्वेन करणान्तराभावस्यैव तत्राभिप्रेतत्वात्, स्वात्मकरणस्य तत्राऽ-

निषिद्धत्वात्; लोके स्वभिन्नकरण मपेक्ष्यैव कर्तुः कार्योत्पादनदर्शनात्, तन्न्याये-

नैव तत्र पूर्वपक्षस्य कृतत्वेन तदविरोधात्। अत एव, श्रुतप्रकाशिकाचार्यैः “उततमादैशमप्राक्ष्यः” (छान्दो-६-१-३) इत्यत्र, “अकर्तरि च कारके संज्ञायाम्”

(पा-सू-३-३-१९) इति कर्तृभिन्नकारकएव घञो विहिततया करणार्थे घञ् प्रत्य-

य माश्रित्य करणत्वेऽनापेक्षितप्रशासनकर्तृबोध स्स्वीकृतः। तदुक्तं श्रुतप्रकाशि-

कायाम्, “उपक्रमे तावत्” (श्रुतप्रकाशिकायां प्रतिघट्टे) , “उततमादेश मप्राक्ष्यः”

इत्यत्र आदेशशब्देन प्रशासिताऽभिधीयते; अत्र श्लोकावाचार्यपादै रुक्तौ, “छान्दोग्ये केचि दाहु र्दिशति रुततमादेश मप्राक्ष्य” इत्यत्राङ् पूर्व स्तूपदेशं

प्रकटयति सतोनप्रशास्तिं घञन्तः। नोकर्तर्यस्ति कर्मण्यगणि घञि हसत्क-

र्तृशास्तौ न कर्म स्यात् स्यात्कर्मोपदेशे तदिद मुततमादेशवाचोपदेश्यम्।

अत्र ब्रूमः प्रशास्तिं वदति दिशिरसावाङ्मुखो नोपदेशं शास्तौ सोतिप्रसिद्धो

नहि पर इहचाऽपेक्षितार्थप्रसङ्गः। युक्तो साधारणोक्त्या घञगणि करणेप्य-

त्र वैवक्षिकत्वं शाब्दोक्तं कारकाणां ननु करणतया कर्तरि स्या द्विवक्षा’ इति;

आदेशशब्देन उपदेश्य मुच्यते, प्रकृत्यर्थ उपदेशः प्रत्ययार्थः कर्मत्वम्, “अकर्त-

रि च कारके संज्ञायाम्” (पा-सू-३-३-१९) इति कर्तृव्यतिरिक्तकारके घञो विहि-

तत्वात्, उपदेशे ब्रह्मणः कर्मत्वोपपत्ते श्च; प्रशासने तु ब्रह्म न कर्म, अपितु कर्तृ,

कर्तृव्यतिरिक्तकारके हि घञ् प्रत्ययविधिः; नात्र कर्तरिकप्रत्यय उपपद्यते; “क्ङि-

ति च” (पा-सू-१-१-५) इति गुणप्रतिषेधात् आदेशशब्दरूपासिद्धेः; नापि पचाद्यच्

प्रत्यय उपपद्यते; दिशिधातो रिगुपधत्वेन, “इगुपधात्कः” (पा-सू-) इत्यपवादसू-

त्रेण कप्रत्ययप्राप्ते र्गुणाभावात्; अतो घञ् प्रत्ययान्त एवाय मादेशशब्दः। स च प्रत्ययः कर्तर्यविहित इति कर्मार्थकत्वस्यैव युक्तत्वात् उपदेश्य मेवाऽदेशशब्दवा-

च्यमिति। अत्रोच्यते – प्रकृत्यर्थ श्शासनम्, प्रसिद्धिप्राचुर्यात्; अन्यथा स्वारस्यभ-

ङ्गात्; ‘आङ्‌पूर्वो दिशति र्नियोक्तृप्रयोजनवचनः, उपपूर्वस्तु नियोज्यप्रयोजनवच-

नः’ इति हि न्यासकारः। नियोक्तरि प्रयोजनं यस्य तस्याऽर्थस्य वाचक इत्यर्थः,

एव मन्यत्रापि। किञ्च – उपदेश्यत्वं लौकिकालौकिक कर्म ब्रह्म भागार्थसाधारणम्, प्रशासितृत्वम् तु ब्रह्मणोऽसाधारणम्; ‘अन्तः प्रविष्ट श्शास्ता जनानां’, (आ-३) ‘एतस्य वाऽरक्षस्य प्रशासने गार्गि’ (बृहदार-५-८-९) इत्यादिश्रुतिभिः निरुपाधिकप्रशानस्य ब्रह्माऽसाधारणत्वश्रवणात्। निरुपाधिकोपदेश्यत्वं ब्रह्मणोऽसाधारण मि-

ति चेन्न; – इष्टप्राप्त्यनिष्टवृत्तितत्साधनेषु साधारण्यात्। यद्यप्यपरिमितसुखप्रा-

प्तिदुःखनिवृत्त्यादिसाक्षादुपदेश्यं स्यात्; तथापि संसारनिवृत्तिब्रह्मतदुपासनाना

मुपदेश्यत्वं साधारणम्। प्रष्टव्य स्योपदेश्यत्व मर्थसिद्धम्, अतः उपदेश्यत्वकथ-

वैयर्थ्यं च। ननु ‘येनाश्रुतम्’ इत्यादिनैकवाक्यत्वात् स्वज्ञानेनाऽन्यज्ञानहेतुतावि-

शेषित मुपदेश्यत्व मसाधारण मिति चेत्; तथापि तादृश मुपदेश्यत्वं प्रतिज्ञावा-

क्येन प्रष्टव्यत्वोक्त्या चाऽर्थसिद्ध मिति अनपेक्षितोपदेश्यत्वकथना दपि अपेक्षितं

प्रशासितृत्व मेव वाच्य मिति वाच्यम्। ‘येनाश्रुतम्’ इत्युपादानत्वे सिद्धे प्रशासितृतत्वेन निमित्तत्वं सिद्ध्येत्, निमित्तान्तरे सति ह्येकविज्ञानेन सर्वविज्ञानं नोपपद्यते; अतः प्रतिपादयिषितवस्तुनोऽपेक्षिताऽसाधारणाकारविशिष्टतयैव प्रतिपादन मुचितम्। घञ् प्रत्ययस्य करणे व्युत्पन्नत्वात्, ‘विवक्षातः कारकाणां प्रवृत्तिः’ () इति शब्दोक्तन्यायेन कर्तर्येव करणान्तरनैरपेक्ष्येण साधकतमत्वविवक्षया तथा प्रयोग उपपद्यते, “अकर्तरीति (पा-सू-३-३-१९) सूत्रस्य प्रयोजनम् – करणत्वविवक्षया विना कर्तर्यसाधुत्वेन प्रयोगनिवृत्तिः। उपदेशपक्षे प्रकृत्यर्थाऽस्वारस्यम्, प्रत्ययस्वारस्यञ्च; प्रशासनपक्षे प्रत्ययाऽस्वारस्यम्, प्रधानभूतप्रकृत्यर्थस्वारस्य मर्थौचित्य ञ्चेति वैषम्यम्, अतः प्रशासन मेवाऽऽदेशशब्दाभिधेय मिति स्वीकर्तुं युक्तम्” इति॥

यत्तु – अत्र छान्दोग्यप्रकाशिकाया मुक्तम् – ‘करणत्वस्याऽऽरोपेण घञ् समर्थन मप्यनुचितम्, आरोपस्याऽनुचितत्वात्’। ननु – करणत्वस्यनाध्यारोपः, तस्य सिद्धत्वादिति चेन्न (……….) ; तथासति सिद्धान्ते प्रत्ययाऽस्वारस्या भ्युपगमस्याऽयुक्तत्वात्। अत एव असि श्छिनत्ति इत्यादौ सौकर्यातिशयविवक्षया, ‘ब्रह्मदृष्टि रुत्कर्षात्’ (शा-मी-४-१-५) इति न्यायेन करणे करणत्वारोपेपि न कर्तरि करणत्वारोपसम्भवः; तथा सति राजनिभृत्यत्वारोपस्येवाऽनर्थावहत्वात्। अत एव, ‘साधकतमं करणम्’ (पा-सू-१-४-४२) इति सूत्रे अधकरणस्थाल्या स्तनु कपालतया साधकतमत्वविवक्षया ‘स्थाल्या पचति’ इति प्रयोग मुपाद्य, ‘नचैवं कर्तुरपि करणत्वविवक्षाप्रसङ्गः; भिन्नजातीयत्वात् – सकलसाधनविनियोगकारीखल्वसौ; नहि शतधनो निष्कधनेन स्पर्धितुं प्रभवति’ इति कर्तुः करणत्वाभावस्यैवोपादितत्वात्। निक्षेपरक्षायाम्, “भगवतो रक्षाकरणत्वानुसन्धानं प्रपत्तिः” इति पक्षे करणस्य कर्तृत्वासम्भवेन जीवस्यैव रक्षकत्व मापतेदिति कर्तृत्वकरणत्वविरोधस्य, भगवति करणत्वानुसन्धाने, “ब्रह्मदृष्टि रुत्कर्षात्” (शा-मी-४-१-५) इति न्यायविरोधस्य च प्रतिपादितत्वात्। ‘शक्तिविपर्ययात्’ (शा-मी-२-३-३७) इति सूत्रे ‘अन्तःकरणस्य कर्तृत्वे ततोऽन्यत्करणं स्यादिति अन्तः करणा दतिरिक्तं करणान्तर मभ्युपगन्तव्यं स्यात्’ इति परैर प्युक्तत्वाच्च॥

किञ्च – प्रशासनकर्तुः करणत्वसम्भवे परमात्मनः प्रशासनकर्मत्वस्यापि सम्भवात्, तदसम्भवोक्ति र्विरुध्येत। किञ्च – करणत्वे विवक्षिते, ‘करणाधिकरणयोश्च’ (पा-सू-३-३-११७) इति परेण ल्युटा बाधितत्वेन घञो न प्रसङ्गः। नच, ‘हलश्च’ (पा-सू-३-३-१-१२१) इत्यनेन घञः प्रसङ्गः; तत्राऽपि, ‘संज्ञायाम्’ (पा-सू-३-३-११८) इत्यनुवृत्तेः। नच – त्वन्मतेऽपि कर्मणि घञ् न स्यात्, ‘अकर्तरि च कारके संज्ञायाम्’ (पा-सू-३-३-१९) इति संज्ञायामेव घञो विधाना दिति वाच्यम्; ‘अकर्तरि च’ (पा-सू-३-३-१९) इत्यत्र चकारस्य भिन्नक्रमत्व माश्रित्याऽसंज्ञाया मप्यस्तीति पदमञ्जर्यादौ समर्थितत्वात्; ‘संज्ञाग्रहणानर्थक्यं च सर्वत्र घञो दर्शनात्, इति वार्तिककृतोक्तत्वा च्च॥’ ()

किञ्च – घञः करणार्थत्वे ‘उपक्रमे आदेशशब्देन प्रशासिताभिधीयते’ इति यदुक्तं तद्विरुध्येत; प्रशासनकरणत्व स्यैवाभिहितत्वेन तत्कर्तु रनभिहितत्वात्। यच्चोक्तम् – “प्रशासितृत्व मसाधारणम्” इति; तन्न; – आदेशशब्देन करणत्वमात्राऽभिधाने प्रशासितृत्वानभिधानात्; तदभिधानेऽपि निरुपाधिकप्रशासितृत्वस्येव मुख्योपदेश्यत्वस्यापि ब्रह्माऽसाधारणत्वात्। अत एव जिज्ञासासूत्रे (शा-मी-१-१-१), ब्रह्मण (श्रीभाष्ये-जिज्ञा) इति कर्मणि षष्ठीपरिग्रहात् ब्रह्मण एवाऽऽभिधानिक जिज्ञासाकर्मत्वम्, तदुपासनादीनांं त्वाक्षेप्य मित्युक्तम्॥

किञ्च – आदेशशब्दमात्रस्याऽतिप्रसङ्ग माशङ्क्य ‘तम्’ इति विशेषणोपादानात् अवश्यं तमित्यस्याऽऽदेशविशेषकत्व मभ्युपेयम्; यदि ह्यादेशशब्दस्यैव निरुपाधिकप्रशासितृत्व मर्थः तदा तस्य परमात्माऽसाधारणत्वात् तच्छब्दो विशेषको न स्यात्॥

यदपि चोक्तम् – ‘प्रष्टव्यत्वकथनोपदेश्यत्वं सिद्धमिति तत्कथनस्याऽनपेक्षितत्वात् प्रशासितृत्व मेवाऽर्थः’ इति; तन्न; – यद्यपि पूर्वं नाप्राक्षम्, अधुना स्वयमेव ज्ञास्यामीति बुद्धिं व्यदसितु मुपदेष्टव्यत्वकथनस्यैवाऽपेक्षितत्वात्। अत एव ‘तंत्वौपनिषदं पृच्छामि’ () इत्यादौ प्रष्टव्यस्य उपदेश्यत्वलक्षणौपनिषदत्वकथनम्॥

यच्चोक्तम् – ‘सर्वविज्ञानप्रतिज्ञासिद्ध्यर्थं निमित्तत्व मपेक्षितम्’ इति; – तन्न, एकविज्ञानेन सर्वविज्ञानप्रतिबलात् उपादानत्वस्येव तदन्यथानुपपत्त्या निमित्तत्वस्याऽपि लाभसम्भवेन तस्य पृथगव्यक्तत्वात् तदनुपपत्ते र्भवतैवोक्तत्वात्॥

वस्तुतस्तु (इदं मुद्रितोपनिषत्कोशे नास्ति) – निमित्तान्तरसत्वे एकविज्ञानेन सर्वविज्ञान मनुपपन्न मित्युक्ति रपि न सङ्गच्छते; नित्यविभूत्या अज्ञानेऽपि एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा यथोपपद्यते, कार्यवर्गस्य ज्ञातत्वात्; सर्वशब्दस्य इदङ्कारगोचरबहुभवनसङ्कल्पपूर्वकसृष्टिविषयत्वात्; तथा तादृशनिमित्तान्तरसद्भावे प्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा कुतो न सङ्गच्छत इति॥

अत्रोच्यते – ‘एष आदेशः, एष उपदेशः’ (तै-शिक्षाव-११) इत्येवं पृथगुपदिष्टयोः ‘नवायुक्रिये पृथगुपदेशात्’ (शा-मी-२-४-८) इति न्यायेन आदेशोपदेशयो र्भेदावश्यं भावात्। ततश्च प्रकृतिस्वारस्येन नियमनापरपर्यायाऽऽज्ञापनरूपार्थे प्रतीते, घञ् प्रत्ययस्य कर्तृव्यतिरिक्तकारकमात्रवाचिनो योग्यतावशात् त्वन्मते कर्मार्थकत्ववत् अस्मन्मतेऽपि कारकवाचिनो घञ् प्रत्ययस्य सकलकारकप्रयोक्तृकर्तृलक्षणा समाश्रीयते; प्रष्टव्यवस्तुन स्तादृग्रूपत्वात्, असञ्जातविरोधिमुख्यप्रकृत्यर्थानुग्रहेण जघन्यप्रत्ययलक्षणाया आश्रयणीयत्वात्; तथा (अत्र मुद्रितकोशे तत्तत्सलविशेषोपपादकपङ्क्तय स्सन्ति) पूर्वमीमांसायां बहुष्वधिकरणेषु सिद्धान्तितत्वात्॥

वस्तुतस्तु – ‘उपदेशेजनुनासिक इत्’ (पा-सू-१-३-२) इति सूत्रे, ‘करणाधिकरणयोश्च’ (पा-सू-३-३-११७) इति ल्युटा बाधितस्य घञः, ‘अकर्तरि चकारके’ इत्यनेनाऽप्रसङ्ग माशङ्क्य, “कृत्यल्युटो बहुलम्”, (पा-सू-३-३-११३) इति घञो भाष्यकृता समर्थितत्वात्, तन्न्यायेन कर्तर्यपि तेनैव सूत्रेण घञ् सिद्धौ लक्षणाया अप्रसङ्गात्, प्रशासितृत्वार्थकत्व मेवाऽऽदेशशब्दस्य युक्तम्; आदेशसमादेश इति घञन्ता द्भाववाचिन आदेशशब्दात्, “अर्श आद्यजन्ता (पा-सू-५-१२७) दपि प्रशासितृत्वार्थकत्व मेवाऽऽदेशशब्दस्य युक्तम्, इत्येतत्सर्व (पा [इति वयमुत्पश्यामः]) मस्माभि र्भावप्रकाशिकायां प्रपञ्चितम्, तत्रानुसन्धेयम्” इति॥

अत्रोच्यते – ब्रह्मणि वास्तवकरणत्वसत्वे  प्रत्ययाऽस्वारस्याऽभ्युपगमविरोध इति, तदयुक्तम्; – नहीद मविद्यमानकरणत्वस्याऽऽरोपेण सिद्धान्ते प्रत्ययाऽस्वारस्य मभ्युपगम्यते; किन्तु, विद्यमानकरणत्व स्याऽन्यथानुपपत्त्या स्वभिन्नकरणनिरपेक्षप्रशासनकर्तृत्व माक्षिप्यते; आक्षेपलभ्यार्थस्यापि मीमांसकरीत्या सिद्धान्ते शाब्दबोधे भानं स्वीक्रियते; तेन चाऽपेक्षितप्रशासितृत्वबोधसिद्धावपि अभिधानवृत्त्या तद्बोधाभावेन प्रत्ययेन प्रशासितृत्वबोधन मस्वर मित्यभिप्रायेण प्रत्ययाऽनुस्वारस्य मभ्युपगतम्, अत एव, “कर्तर्येवकरणान्तरनैरपेक्ष्येण साधकतमत्वविवक्षया तथा प्रयोग उपपद्यते” (श्रुतप्रकाशिकायां श्रुतिघट्टे) इत्युक्तं श्रुतप्रकाशिकायाम्। विवक्षाशब्दस्य तात्पर्यार्थकत्वेनाऽऽरोपार्थकत्वाभावात्॥

यदपि – करणत्वारोपस्य राजनिभृत्यत्वारोपवत् अनर्थावहत्व मुक्तम्, तदप्यसङ्गतम्; करणान्तरनिरपेक्षकार्योत्पादनसामर्थ्यरूपातिशयितशक्तिप्रयोजकस्य करणत्वस्य उत्कर्षरूपत्वे राजनिभृत्यत्वारोपतुल्यत्वाभावात्। करणत्वस्य स्वभिन्नकर्तृव्यापाराधीनव्यापारत्वरूपतायाः प्रागेव निराकृतत्वात्, यदपि, “साधकतमं करणम्” (पा-सू-१-४-४२) इति सूत्रे कर्तुः करणविवक्षाया असंभवप्रतिपादनम्; तदपि कर्तरि स्वभिन्नकरणत्वारोपस्वभावाभिप्रायकम्; कर्तृभेदविशिष्टकरणत्वस्यैव निष्कर्षरूपत्वात् तत्समानाधिकरणस्य तस्य उक्तरीत्या उत्कर्षरूपत्वात्। एतेन, निक्षेपरक्षावचन मपि दत्तोत्तरम्॥

यच्च – अन्तःकरणस्य कर्तृत्वे ततोन्यत्करणं स्यादिति परोक्तसंवादप्रदर्शनं, तदपि मन्दम्; – नह्यन्तःकरणस्य परैर्वाऽस्माभिर्वा, “परास्य शक्ति र्विविधैरिव श्रूयते” (श्वेताश्व-६) “पश्यत्यचक्षुः” () इत्यादिप्रमाणसिद्धा तादृशी शक्ति स्स्वीक्रियते। नचैवम् – श्रीतत्त्वत्रयव्याख्यानोपात्त तत्वशेखरश्रीसूक्तिविरोधः। इत्थं हि तत्रत्य श्रीसूक्तिः – “(तत्त्वशेखरे-३) अन्तःकरणमुमात्मावाकमाट्टातु, कर्ताविनुडैय स्मरणादिकार्यत्तुक्कु क्करणमाक क्कल्पितमाकैयाले; इतुताने स्मरिक्किरतॆन्नवोण्णातु, स्मरणत्तुक्कु क्करण मिल्लामैयाले; करणमुम्‌ताने यॆन्नवोण्णातु, विरुद्धमाकैयाले” इति; एवं च कर्तृत्वकरणत्वयो र्विरोधस्यैव कण्ठोक्तत्वा दिति वाच्यम्; – अन्तःकरणस्याऽशक्तत्वेन तत्र कर्तृत्वतरणत्वयो स्सहावस्थाने तत्सूक्तिविरोधाभावात्। अत एवान्तःकरणस्य जीवत्वनिरासकश्रीतत्त्वत्रयव्याख्यान श्रीसूक्ते रपि न विरोधः, अन्यथा अन्तःकरणस्याऽपि ब्रह्मवदेव करणनिरपेक्षकार्यकरणसम्भवेन करणान्तरापत्ते रसम्भवात्॥

यच्च – प्रशासनकर्तुः करणत्वसम्भवे तत्कर्मत्वस्यापि प्रसङ्गात्, तदसम्भवोक्ति र्विरुध्यत इति; तदपि चिन्त्यम् – न हि प्रशासनकर्मत्वस्याऽसम्भवात् कर्मणि घञः परित्यागः, सिद्धान्ते स्थूलचिदचिद्विशिष्टब्रह्मप्रतिसूक्ष्मचिदचिद्विशिष्टब्रह्मण उपादानत्वाङ्गीकारेण तत् प्रत्येव ब्रह्मणो निमित्तकारणत्वावश्यंभावेन, “बहुस्यां प्रजायेय” (छान्दो-६-२-३) इत्याकारकबहुभवनसङ्कल्पात्मकप्रशासनवत्त्वेनैव निमित्तकारणत्वस्य वक्तव्यतया तादृशसङ्कल्पविषयस्वरूपप्रशासनकर्मत्वस्य स्थूलचिदचिद्विशिष्टब्रह्मणिसत्वेन प्रशासनकर्मत्वासंभवस्य उक्त्यसम्भवग्रस्तत्वात्। “येनाश्रुतंश्रुतम्” (छान्दो-६-१-३) इत्याद्युत्तरवाक्यस्य उपादानत्वाभिप्रायकतया, उपादानत्वस्य कार्याभिन्नत्वे सति कारणत्वरूपतया येनेत्युत्तरवाक्ये कारणत्व मवश्यं प्रतिपादनीयम्; तच्च, “उततमादेश मप्राक्ष्यः” इति पूर्वप्रकृतादेशपरामर्शिना यच्छब्देनैव प्रतिपादनीयम्; आदेशशब्दस्य प्रशासनकर्मत्वार्थकत्वे, उत्तरवाक्यस्थयच्छब्देन प्रकृतं प्रशासनकर्मैव परामृश्येत; प्रशासनकर्मत्वं च नकारणत्वम्; किन्तु कार्यत्वमेव; प्रशासनस्य सविषयसङ्कल्परूपतया सविषयकक्रियाकर्मत्वस्य विषयतारूपत्वात्, सङ्कल्पस्य स्वविषयं प्रति कारणतया सङ्कल्पविषयताया स्तत्कार्यतावच्छेदकत्वेन तादृशसङ्कल्पविशिष्टब्रह्मकार्यतावच्छेदकतया कार्यत्वएव पर्यवसानात्; तादृशसङ्कल्पवत्वेन ब्रह्मणो निमित्ततया सङ्कल्पात्मकप्रशासनस्य कारणतावच्छेदकधर्मरूपत्वेन कारणत्वे पर्यवसानाच्च। अत एव प्रशासितृत्वस्याऽपेक्षितत्वोक्तिः। कथं तर्हि “कर्तृसास्तौ नकर्मइति” प्रशासनकर्मत्वाभावोक्ति रिति चेत्; – पूर्वपक्षिणा स्थूलचिदचिद्विशिष्टस्य कार्यत्वानभ्युपगमात्, सिद्धान्तेपि प्रशासनकर्मत्वे प्रत्ययस्वारस्यपरित्याग उपपादनीयः – उपादानत्वं प्रत्यनुपयोगादेवेति नकोपि दोषः॥

यदपि, “करणाधिकरणयोश्च” (पा-सू-६-१-३) इति परेण ल्युटा बाधितत्वेन करणे घञेव न सम्भवतीति; तदपिन; – “उपदेशेऽजनुनासिक इत्” इति सूत्रे उपदेशशब्दे “करणाधिकरणयोश्च” इति ल्युटा बाधितस्य घञोऽप्रसङ्ग माशङ्क्य, “कृत्यल्युटो बहुलम्” (पा-सू-३-३-११३) इति घञः भाष्यकारेण समर्थितत्वस्य तेनैवोक्ततया, आदेशशब्देपि करणे घञ स्सम्भवात्। नच करणे घञाश्रयणेन कर्तृत्वस्याऽऽर्थत्व मपेक्ष्य, “आक्षेपतः प्राप्ता दाभिधानकन्यैव ग्राह्यत्वात्” (श्रीभाष्ये-जिज्ञा-) इति न्यायेन तेनैव बहुळग्रहणेन कर्तर्येव घञाश्रीयता मिति वाच्यम्; – करणे घञाश्रयणे हि ब्रह्मणि करणत्वाभिधानेन स्वभिन्नकरणनिरपेक्षकर्तृत्व मर्थात्सिद्ध्येत्; करणान्तरस्य कर्त्रन्तरस्य वा सद्भावे हि एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा नोपपद्यते; – करणान्तरस्य कर्त्रन्तरस्य च ब्रह्मवदेव जगत्कारणतया तयो र्ब्रह्मकार्यत्वाभावेन ब्रह्मविज्ञानेन तयो र्विज्ञानाऽसिद्ध्या सर्वविज्ञानाऽसिद्धेः। न च “येनाश्रुतम्” इत्यादिवाक्ये, “आत्मनिखल्वरेदृष्टेश्रुतेमते विज्ञाते इदं सर्वं विदितं भवति” (मुण्ड-बृहदा-६-५-६) इति मुण्डकबृहदारण्यकश्रुत्यनुसारेण इदं सर्व मित्यध्याहारेपि अध्याहृतसर्वशब्दस्य सर्वशरीरकब्रह्मपरचतया, येनेति तृतीयाया अभेदार्थकतया सर्वशरीरकब्रह्मणि यत्पदार्थब्रह्माभेदबोधेन कर्त्रन्तरकरणान्तरसद्भावेपि तद्घटितसर्वशरीरकब्रह्मणि यत्‌पदार्थब्रह्माऽभेदस्याऽबाधान्नैकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः अनुपपत्ति रिति वाच्यम्; “कार्याभिन्नत्वे सति कारणत्वस्य – स्वाभिन्नत्वस्वरूपनिरूपितकारणत्वोभयसम्बन्धेन किञ्चिद्विशिष्टत्वपर्यवसितस्यैव उपादानत्वरूपतया तत्र सर्वपदवाच्यसर्वशरीरकब्रह्मणि यच्छब्दवाच्यब्रह्माऽभेदमात्रबोधनेन उपादानतैकदेशभूतकार्याभिन्नत्वलाभेपि सर्वशरीरकब्रह्मनिरूपितकारणत्वस्याऽपि बोधनमात्र मावश्यकम्; अन्यथाऽभेदमात्रस्याऽतिप्रसक्तत्वेन उपादानत्वस्यालाभात्; अतः यच्छब्दपरामृष्टप्रकृतादेशघटकप्रशासनस्य कर्माकाङ्क्षायां सर्वपदार्थस्यैव कर्मतयाऽन्वय स्स्वीक्रियते; यथा “पाचकेनतण्डुल आनीयते” इत्यादौ तण्डुलस्य मुख्यविशेष्यतया पचधात्वर्थे पाके कर्मतासम्बन्धेन प्रचारतयाचाऽन्वयः; अन्यथा तद्वाक्येन पाककर्माकाङ्क्षाया अनिवृत्तेः। यथा “चैत्रो मातर मभिवादयति” इत्यादिवाक्ये चैत्रस्य विशेष्यतया मातृत्वनिरूपकतया चाऽन्वयः; अन्यथा – कस्य मातरमिति जिज्ञासाया अनिवृत्तेः; ततश्च यच्छब्दार्थादेशघटकाङ्पूर्वकदिशिधात्वर्थप्रवृत्तिनिवृत्त्यनुकूलसङ्कल्पघटकप्रवृत्तिनिवृत्त्यो राधेयतासम्बन्धेन सर्वपदार्थस्य स्थूलावस्थसर्वचिदचिच्छरीरकब्रह्मणोऽन्वयः; निरूपकतासम्बन्धेन धात्वर्थतावच्छेदकफलान्वय्याधेयत्वस्य कर्मतारूपत्वात्; तादृशब्रह्मनिष्ठेच प्रवृत्तिनिवृत्ती तन्निष्ठस्थूलावस्थातदभावरूपे; तादृशब्रह्मनिष्ठस्थूलवैशिष्ट्यरूपावस्थानुगुणसङ्कल्पवत्वेन तादृशावस्थाकारणत्वलाभे सति, सिद्धान्तेऽवस्थाकारणस्यैव तद्विशिष्टकारणतया तादृशावस्थाविशिष्टब्रह्मकारणतायालाभेन उपादानत्वलाभः। इत्थं च – कर्त्रन्तरकरणान्तरसद्भावे तयो स्तदीयावस्थयोर्वा ब्रह्मकार्यत्वाभावेन तद्घटितसर्वशरीरकब्रह्मणः ब्रह्मकार्यत्वासम्भवेन “येनाश्रुतम्” इत्यादिवाक्यार्थस्य बाधापत्तेः, नच – धात्वर्थतावच्छेदकफलान्वय्याधेयत्वमात्रं नकर्मत्वम्, किन्तु, तद्धात्वर्थतावच्छेदकफलान्वय्याधेयत्वे सति तद्धात्वर्थक्रियावद्भिन्नत्वम्; अन्यथा यदा चैत्रो ग्रामं गच्छति, तदा चैत्रस्स्वंगच्छतीत्यादिप्रयोगापत्तिः। ग्रामनिष्ठसंयोगानुकूलक्रियाया अपि चैत्रादावबाधित्वात्; अतो भेदस्याऽपि कर्त्रृ प्रत्ययार्थत्व मित्यभ्युपगन्तव्यम्; भेदे च प्रकृत्यर्थस्याऽऽधेयतासम्बन्धेनाऽन्वयः, भेदस्य च क्रियायां प्रतियोगितावच्छेदकत्वसम्बन्धेनाऽन्वयः। इत्थं च स्थूलत्वविशिष्टब्रह्मणि प्रशासनरूपक्रियाव द्भेदाभावेन, न तस्य प्रशासनकर्मत्वसम्भव इति वाच्यम्; – चैत्र स्स्वं प्रहरति भिनत्तीत्यादिप्रयोगेण कर्मप्रत्ययार्थभेदप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिं प्रति धातुजन्यकर्मर्त्रुभयनिष्ठत्वोपलक्षितफलोपस्थिते र्विशेष्यतासम्बन्धेन हेतुत्वोपगमात्; यत्र ग्रामं गच्छति त्यजतीत्यादौ संयोगविभागरूपफलयो रुभयनिष्ठत्वम्, तत्रैव द्वितीयार्थभेदस्य क्रियाया मन्वयः, प्रहरति भिनत्तीत्यादौ दुःखाऽवयवविभागरूपफलयोः कर्ममात्र निष्ठत्वेन नोभयनिष्ठत्वम्, न तत्र भेदस्य शाब्दबोधे भानम्। यदा चैत्रो मैत्रं प्रहरति, तदा तदा स्वनिष्ठदुःखजनकव्यापारानुकूलकृते श्चैत्रादावभावा देव चैत्रस्स्वंप्रहरतीत्यादिप्रयोगवारणसम्भवेन तत्र भेदस्य शाब्दबोधे भानाङ्गीकारात्। तस्मात् स्थूलविशिष्टब्रह्मण स्तत्कर्तृकप्रशासनकर्मत्वं सम्भवत्येव। न च – कर्मत्व कर्तृत्वयो र्विरोधाभावे, सर्वत्र प्रसिद्ध्यधिकरणगुणसूत्रेण (शा-मी-१-२-१) “कर्मकर्तृव्यपदेशात्” (शा-मी-१-२-४) इत्यनेन “एतमितःप्रेत्याभिसंभवितास्मि” (छा-…) इति ब्रह्मणः प्राप्तिकर्मत्वव्यपदेशात् तत्कर्तृत्वेन व्यपदिष्टजीवभेदसाधनं कथं सङ्गच्छत इति वाच्यम्; प्राप्ते स्संयोगजनकव्यापाररूपत्वेन तत्कर्मत्वस्य भेदगर्भतया तत्सङ्गतेः। अत एव “लूयते केदार स्स्वय मेव, अति सुरभि रभाजिपुष्पश्रिया” इत्यादौ कर्मकर्तरि लकारं शाब्दिका अङ्गीकुर्वन्ति। न च – एकविज्ञानेन सर्वविज्ञानेन सर्वविज्ञानप्रतिज्ञाबला देव कर्तृकरणान्तरनिषेध स्सिद्ध्ये दिति वाच्यम्; लोकदृष्टकर्तृकरणान्तरसद्भावशङ्कया सर्वविज्ञानप्रतिज्ञायां सङ्कोचशङ्काया अन्यपरताशङ्काया वा जननेन अप्रामाण्यज्ञानानास्कन्दितशाब्दबोधानुदयात्; आदेशशब्देन कर्तृकरणान्तरनिषेधे हि लोकदृष्टिव्याप्तिबलाधीनानुमानस्यागमबाधेन कर्तृकरणान्तरसद्भावशङ्काया अनुदयात्। नच – श्रुतप्रकाशिकायां श्रुत्यन्तरानुसारेण “श्रुतेन मतेन विज्ञातेन” इत्यध्याहारस्योक्तत्वात्, “नतु ब्रह्मण स्सत्तया सर्वं श्रुतं भवतीति दार्ष्टान्तिकसामर्थ्यात्, ‘यथा सोम्ये केन मृत्पिण्डेन’ इत्यादिदृष्टान्तसामर्थ्या च्च” (श्रुतप्रका- श्रुतिघट्टे) इत्युक्तत्वाच्च, येनेत्यादितृतीयाया हेतुत्वार्थक मेव युक्तम्, अभेदार्थकत्वे श्रुतेनेत्यध्याहारवैयर्थ्यम्; केवलब्रह्माभेदस्य श्रुतपदार्थे शाब्दबोधविषयतावत्यबाधात्; नतु ब्रह्मण स्सत्तया सर्वं श्रुतं भवतीति दार्ष्टान्तिकसामर्थ्योपपादनविरोध श्च; हेतुत्वार्थकत्वे तु, शाब्दधीविषयतायां ब्रह्मस्वरूपसत्ताप्रयोज्यत्वाभावेन शाब्दधीविषयप्रयोज्यतासिद्धये श्रुतेने त्यध्याहार्यसार्थक्यम्, उपपादनाविरोधश्चेति वाच्यम्; श्रुतपदार्थे शाब्दधीविषयतावति येनेति तृतीयार्थाभेदस्याऽन्वये शाब्दधीविषयतायां ब्रह्मस्वरूपाभेदप्रयोज्यताया असम्भवेन ब्रह्माभेदप्रयोज्यत्वाभानेन श्रुतब्रह्माभेदप्रयोज्यताभानाय श्रुतेनेत्यध्याहारसार्थक्यात्, उपपादनाविरोधाच्च। न च – “स्वज्ञानेनाऽस्य ज्ञानहेतुताविशेषित मुपदेश्यत्व मसाधारणम्” इत्युक्त्या ब्रह्मज्ञाने नान्यज्ञान मेव श्रुतप्रकाशिकाभिमतम्, नतु ब्रह्मज्ञानेन ब्रह्मज्ञान मिति वाच्यम्; तत्राऽन्यशब्दस्य स्थूलवैशिष्ट्यात्मकाऽन्यधर्मविशिष्टब्रह्मपरत्वात्। न च सर्वपदार्थस्थूलविशिष्टब्रह्मणः यत्पदार्थादेशघटकप्रशासने कर्मतासम्बन्धेनाऽन्वये, क्रियानिपातातिरिक्तनामार्थयोः साक्षाद्भेदसम्भन्धेनान्वयो नास्तीति नियमभङ्गः; अन्यथा – कर्तृत्वकर्मत्वादिसम्बन्धेन चैत्रतण्डुलादिप्रकारकपाकादिविशेष्यकबोधतात्पर्येण “चैत्रः पच्यते” “तण्डुलः पचति” इत्यादिप्रयोगापत्ते रिति वाच्यम्; – प्रातिपदिकार्थस्य मुख्यविशेष्यतयाऽभानस्थलएव तादृशनियमात्, तथाभानस्थले क्रियाप्रातिपदिकार्थयो रपि भेदान्वयबोधस्य “पाचकेन तण्डुल आनीयते” इत्यादौ प्रदर्शितत्वात्। न च – नित्यविभूते स्सद्भावेपि यथैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपद्यते; “आत्मनिखल्वरे” (बृहदा-) इत्यादिश्रुत्यन्तरानुसारेण “इदं सर्वम्” इत्यध्याहारेण इदंशब्दस्य प्रत्यक्षविषयार्थकतया सर्वशब्देन प्रत्यक्षविषयाणा मेव ग्रहणात्; तथा कर्तृकरणान्तरसद्भावेपि प्रतिज्ञायानानुपपत्ति रिति वाच्यम्; – प्रत्यक्षविषयसर्वान्तर्गतेष्वेव कयोश्चित्कर्तृत्वकरणत्वशङ्कया प्रतिज्ञाया मन्यपरताशङ्कोदयेन तन्निवृत्त्यर्थ मादेशशब्देन कर्तृत्वकरणत्वोक्त्या प्रत्यक्षविषयाविवयकर्तृकरणान्तरसामान्यनिषेधस्याऽवश्यकत्वात्। अत एव सूत्रकारेण, प्रधानकारणवादे चेतनस्य प्रधानकार्यत्वाभावेन  प्रतिज्ञाविरोधः “प्रतिज्ञाविरोधात्” (शा-मी-२-३-५) इति सूत्र उक्तः। एव माकाशादे रुत्पत्यभावे प्रतिज्ञाहानिः “प्रतिज्ञाऽहानि रव्यतिरेकात्” (शा-मी-२-३-५) इति सूत्रे प्रपञ्चितः। एतेन – वस्तुत स्त्वित्यादिना उक्तकल्पद्वय मपि प्रत्युक्तम्। करणे घञाश्रयणावश्यकतया स्सूदूर मुपपादितत्वात्। अर्शआद्यच् (पा-सू) प्रत्ययाश्रयणस्य गुरुत्वाच्च॥

यदपि – आदेशशब्देन प्रशासनकरणत्वाभिधानेपि प्रशासितृत्वाभिधानात्, तदभिधानेपि निरुपाधिकप्रशासितृत्वस्येव मुख्योपदेश्यत्वस्या प्यसाधारणत्वात्; अत एव जिज्ञासासूत्रे ब्रह्मण इति कर्मणि षष्ठीपरिग्रहात् ब्रह्मण एवाऽभिधानिकजिज्ञासाकर्मत्वम्, इतरेषां त्वाक्षेप्य मित्युक्तमिति। तदपि नसाधीयः – ब्रह्मोपासनतत्फलव्यावृत्तस्य मुख्योपदेश्यत्वस्य दुरुपपादत्वात्। ननु – ब्रह्मोपासनज्ञानस्य दुःखनिवृत्तौ तत्फलत्वज्ञानस्य च ब्रह्मज्ञानाधीनत्वात्, स्वज्ञानाधीनस्वोपासनतत्फलज्ञानकत्व मेव मुख्योपदेश्यत्व मिति चेन्न; – फलस्यैव स्वत इच्छाविषयत्वेन तदर्थत्वात् ब्रह्मतदुपासनज्ञानयोः; स्वप्रयोजनकब्रह्मतदुपासनज्ञानकत्व मेव मुख्योपदेश्यत्व मिति वैपरीत्यस्यापि सुवचत्वात्। जिज्ञासासूत्रे ब्रह्मण इति कर्मणि षष्ठीपरिग्रहेण  आभिधानिकं जिज्ञासाकर्मत्वम्, इतरेषां त्वाक्षेप्य मित्युक्तिमात्रेण ब्रह्मणो मुख्योपदेश्यत्वासिद्धेः। उपासनफलयो र्जिज्ञास्यत्वाभावे फलतत्साधनयो रभावेन ब्रह्मणि जिज्ञास्यत्व मनुपपन्न मित्याकारकानुपपत्तिज्ञाने नोपासनफलयोसिद्धिः; ब्रह्मणस्तु वाचकपदस्य विद्यमानतया तदर्थस्य ब्रह्मणः कर्मतया जिज्ञासाया मन्वयेनैव ब्रह्मणो जिज्ञासाकर्मत्व माभिमानिक मित्युक्तिमात्रेण ब्रह्मणो मुख्योपदेश्यत्वलाभस्य पृष्ठताडना द्दन्तभङ्गतुल्यत्वात्॥ यदपि – किञ्च – आदेशशब्दमात्रस्यातिप्रसङ्ग माशङ्क्य तमित्येवं विशेषणदानात्, अवश्यं तमित्यस्यादेशविशेषकत्व मभ्युपेयम्; यदि ह्यादेशशब्दस्यैव निरुपाधिकप्रशासितृत्व मर्थः, तदा तस्य परमात्माऽसाधरणत्वात् तच्छब्दविशेषको न स्यादिति; – तदपि चिन्त्यम्; तमित्यस्य कथमादेशशब्दातिप्रसङ्गवारकत्वम्; – येनेत्याद्युत्तरवाक्यार्थपरत्वेनवा, प्रसिद्धार्थकत्वेन वा; “येनाश्रुतम्” इत्यादिवाक्यस्योत्तरत्वेन तद्घटकयच्छब्देन तच्छब्दस्यानाकाङ्क्षितत्वेन तच्छब्दस्योत्तरवाक्यार्थपरामर्शित्वासिद्धेः; उत्तरयच्छब्दस्य तच्छब्दनिरपेक्षत्वात्। न च “यत्तदो र्नित्यसम्बन्धः” इति न्यायविरोधः; – प्रक्रंस्यमानपरयत्तच्छब्दयो रेव तादृशनियमात्, प्रकृतपरयोस्तु तयोः परस्पराकाङ्क्षाविरहेण तादृशनियमाभावात्। प्रक्रंस्यमानपरत्वं च – उत्तरवाक्यप्रतिपाद्यतावच्छेदकधर्मावच्छिन्नतात्पर्यकत्वम्; प्रकृतपरत्वं च – पूर्ववाक्यप्रतिपाद्यतावच्छेदकधर्मावच्छिन्नतात्पर्यकत्वम्। नच – यत्तच्छब्दयोः बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नकत्वेन धर्मद्वयावच्छिन्नपरत्वाङ्गीकारे नानार्थकत्वापत्ति रिति वाच्यम्; – बुद्धिविषयतावच्छेदकत्वोपलक्षितवेषेणैव पूर्वोत्तरवाक्यप्रतिपाद्यतावच्छेदकधर्मविशेषावच्छिन्नतात्पर्यभेदमात्रस्वीकारेण उपलक्षणविधया शक्यतावच्छेदकधर्मभेदाऽस्वीकारात्। नहि “यांयां प्रियः प्रैक्षत कातराक्षी सायाह्रिया नम्रमुखी बभूव” (माघे-४) इत्यादाविव “अचिन्तनीय स्तवतु प्रभावो मनीषिता द्यौरपि येनदुग्धा” () इत्यादौ यच्छब्दस्य तच्छब्दाकाङ्क्षाऽस्ति; “यां यां प्रियः प्रैक्षत” इति वाक्यश्रवणे, यच्छब्दस्य पूर्वं वाक्यान्तराभावेन उत्तरवाक्यप्रतिपाद्यतावच्छेदकधर्मविशेषतात्पर्यं ज्ञात्वा तादृशधर्मविशेषापरिज्ञानेन तावन्मात्रेण तात्पर्यविषयीभूतशाब्दबोधो न जायते, तादृशधर्मविशेषपरिज्ञानाय तच्छब्दघटितवाक्यशुश्रूषामात्रं जायते; “सासाह्रिया” इत्यादिवाक्यश्रवणानन्तरं निराकाङ्क्षविशिष्टवाक्यार्थबोधो जायते; “अचिन्तनीयः” इत्यादिवाक्ये तु, यच्छब्दस्य पूर्ववाक्यसमभिव्याहारेण पूर्ववाक्यप्रतिपाद्यतावच्छेदकधर्मविशेषतात्पर्यज्ञानेन तादृशधर्मविशेषस्य अचिन्तनीय इत्यादिपूर्ववाक्येन ज्ञाततया तदर्थं तच्छब्दघटितवाक्यान्तरशुश्रूषानुदयात्। नहि “भूतले यो घटो वर्तते तमानय” इत्यादाविव “घटमानय, यइह भूतले वर्तते” इत्यादौ यच्छब्देन तच्छब्दाकाङ्क्षा जायते। प्रपञ्चित ञ्चेदं गुरुभावप्रकाशिकाया मिति नात्र विस्तरः। इत्थञ्च – “येनाश्रुतम्” इति वाक्यघटकयच्छब्दस्य प्रकृतपरत्वेन तच्छब्दाकाङ्क्षा; अतो न तच्छब्दस्य येनेत्यादिवाक्यार्थपरामर्शित्वम्॥

किञ्च – यदि तच्छब्दस्य येनेत्यादिवाक्यार्थपरामर्शित्वम्, तदा “उततमादेशमप्राक्ष्यः” (छा-उ) इति वाक्यात्पूर्वं येनेत्यादिवाक्यं स्यात्; तथा श्रुतिशैली दृश्यते। अत एव महाचार्यै स्सद्विद्याविजये तच्छब्दस्य प्रमाणप्रसिद्धार्थकत्व मुक्तम्। नच तर्हि “येनेत्यनेन एकवाक्यतया स्वज्ञानेनान्यज्ञानहेतुताविशेषित मुपदेश्यत्व मसाधारणम्” (श्रुतप्रकाशि-श्रुतिघट्टे) इत्युक्तिः। “तथापि” (श्रुतप्रकाशि-श्रुतिघट्टे) इति तदङ्गीकार श्च श्रुतप्रकाशिकायां कथं सङ्गच्छत इति वाच्यम्; अभ्युपगम्यवादतया तत्सङ्गतेः। न द्वितीयः; – श्रुतिप्रसिद्धार्थकतच्छब्देन उपासनतत्फलयो रव्यावर्तनात्; तयोरपि श्रुतिप्रसिद्धत्वात्। नच तर्ह्यव्यावर्तकविशेषणवैयर्थ्य मिति वाच्यम्; श्रुतिप्रसिद्धत्वेन उपदेशगम्यज्ञापनायैव तत्सार्थक्यात्॥

यच्च – प्रष्टव्यत्वोक्त्या उपदेश्यत्व मर्थसिद्ध मिति तत्कथन मनपेक्षितम्; अतः प्रशासितृत्व मेवार्थ इति; तदपिन; यद्यपि पूर्वं नाप्राक्षम्, अधुना स्वयमेव ज्ञास्यामीति बुद्धिं व्युदसितुम् उपदेश्यत्वकथनस्यैवाऽपेक्षितत्वात्; अत एव “तंत्वौपनिषदं पृच्छामि” () इत्यादौ प्रष्टव्यस्योपदेश्यत्व लक्षणौपनिषदत्वकथन मिति; तदपि नक्षोदक्षमम्; “न जाने” इत्यनुक्त्वा “नाप्राक्षम्” इत्युक्त्या, पृच्छधातोः प्रश्नाधीनशाब्दबोधात्मकज्ञानविशेार्थकत्वेन तस्यैवाऽपेक्षितज्ञानजनकव्यापारशून्यत्वरूपस्तब्धताहेतुत्वोक्त्या। प्रश्नाधीनशाब्दज्ञानस्य उपदेश मन्तरा अलाभेन, स्वयमेव ज्ञास्यामीति बुद्धिव्युदासात्। न च – जिज्ञासाज्ञानोद्देश्यकव्यापारस्यैव पृच्छधात्वर्थतया तदधीनशाब्दबोधार्थकत्वे लक्षणा; कंचाश्रौषी रिति शाब्दबोधवाचकशब्दप्रयोग मन्तरालाक्षणिकशब्दप्रयोगस्य वैयर्थ्यं चेति वाच्यम्; – तादृशव्यापारमात्रस्य स्तब्धताहेतुत्वाभावेन तदधीनशाब्दबोधपर्यन्तलक्षणाया आवश्यकत्वात्।

“यदृच्छया श्रुतो मन्त्र श्छन्नेनाथच्छलेन वा।

पत्रेक्षितो वा विफलः प्रत्युतानर्थदो भवेत्” ()

इत्युक्तानिष्टजनकशाब्दबोधव्यावर्तनाय

“तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिन स्तत्त्वदर्शिनः॥”

(गीतायाम्-४-३४)

“आचार्यवान् पुरुषो वेद” () , “आचार्याद्धैव विद्याविदितासाधिष्टं प्रापत्” () इत्युक्तोपदेशजन्यताप्रतीत्यर्थ मेव लाक्षणिकशब्दप्रयोगाच्च; पृच्छधातुना प्रश्नाधीनशाब्दबोधे लक्षिते शाब्दबोध स्योपदेशजन्यत्व मन्तराप्रश्नाधीनत्वासंभवेनाऽर्थाक्षेपात् व्यञ्जनयोपदेशजन्यताप्रतीतेः। “तन्त्वौपनिषदं पृच्छामि” () इत्यत्र पृच्छधातोः जिज्ञासाज्ञानोद्देश्यकव्यापारात्मकप्रश्नवाचकत्व मेव, नतु तदधीनशाब्दबोध पर्यन्तलाक्षणिकत्वम्, अनुपत्त्यभावात्। औपनिषदत्वोक्तिश्च – किमर्थं पृच्छसि, स्वयमेव जानीहि परीक्ष्य विविधोपायै रित्त्युक्ताचार्यचिकीर्षित दार्ढ्यपरीक्षानिवर्तनायेति; अतः अत्रोपदेश्यत्व मर्थात्सिद्ध्यतीत्यलं प्रसक्तानुप्रसक्तविचारणेति सर्वं निरवद्यम्॥

शरणब्दार्थविचार स्समाप्तः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.