श्रीकवितार्किकसिंहेन सर्वतन्त्रस्वतन्त्रेण श्रीमद्वेङ्कटनाथेन वेदान्तचार्येण विरचिता
शतदूषणी
।। अथ ब्रह्मशब्दवृत्त्यनुपपत्तिवादः प्रथमः ।।1।।
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादर्पक्षुभ्यत्कलिकथककोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ।।1।।
इदंप्रथमसम्भवत्कुमतिजालकूलङ्कषा मृषामतविषानलज्वलितजीवजीवातवः । क्षरन्त्यमृतमक्षरं यतिपुरन्दरस्योक्तयश्चिरन्तनसरस्वतीचिकुरबन्धसैरन्ध्रिकाः ।।2।।
प्राचीमुपेत्य पदवीं यतिराजदृष्टां तत्सन्निकृष्टमपि वा मतमाश्रयन्तः । प्राज्ञा यथोदितमिदं शुकवत्पठन्तः प्रच्छन्नबौद्धविजये परितो यतध्वम् ।।3।।
वादाहवेषु निर्भेत्तुं वेदमार्गविदूषकान् । प्रयुज्यतां शरश्रेणी निशिता शतदूषणी ।।4।।
तत्र तावच्छास्त्रारम्भे –
विचारविषयत्वेन सूत्रकृद्यदसूत्रयत् । परोक्ता ब्रह्मशब्दस्य वृत्तिरत्र निरस्यते ।।
निर्विशेषब्रह्मवादे ब्रह्मशब्दस्य क्वचिन्मुख्यवृत्तत्वमस्ति न वा ?
न चेत् असाधुत्वापत्तिः । साधुत्वस्य मिथ्यात्वमभ्युपगच्छताम् असाधुत्वमिष्टमिति चेत् हन्त तर्हि सर्वशब्दासाधुत्वम् । साध्वसाधुविवेकाभावेच कृतं साङ्गोपाङ्गैर्वेदैः । मुख्यार्थशून्यस्य तन्मूलवृत्त्यन्तरे लिङ्गत्वे चासम्भवति कथं क्वचिद्बोधकत्वमपि । न च साङ्केतिकोऽयमपभ्रंशो वा येन वाचकत्वाभिमानाद्बोधकत्वं स्यात् । यस्यायमपभ्रंशश्शङ्क्येत सोऽपि तथा वृत्तिविकल्पेन निर्धूयेत । ननु ब्रह्मशब्दस्यायं महिमा – यन्मुख्यार्थविरहेऽपि नित्यं लक्षणया ब्रह्म बोधयतीति, तदिदं वन्ध्यायाः पौत्रदर्शनम् । मुख्यार्थसम्बन्धिन्यमुख्ये वृत्तिर्हि लक्षणा, तदभावेऽपि तद्वृत्तिं भवानेव भाषेत । किंचैवं मुख्यार्थशून्यास्सर्वे शब्दास्तंतमर्थं लक्षयन्तीति स्वीक्रियेत महामीमांसकेन । को हि त्वदुक्तन्यायवित्कुत्रापि शक्तिक्लृप्तिगौरवं मृष्येत्, मुख्यार्थशून्येन ब्रह्म लक्ष्यमिति वदता तदपि मुखान्तरेण संवृतिमुखे निक्षिप्तम् । अवाच्यवादाश्च वाच्यवादेन निरसिष्यन्ते ।
अस्ति चेत्किमन्यस्मिन् विचारविषये वा,
नाद्यः । निर्निमित्तत्वे पुनरसाधुत्वापातात् । यदृच्छाशब्दोऽपि हि स्वरूपनिमित्तकश्शास्त्रज्ञैश्शिक्षितः । नचायं सः; मानाभावात्, निरुक्तिविरोधाच्च । सनिमित्तत्वे च यः प्रकृत्यादिष्वस्य प्रयोगः, स ब्रह्मगुणलेशयोगादौपचारिक इत्यभाषि, अनुवृत्तस्याकृतिरूपस्य निमित्तस्यासिद्धेः, बृहत्त्वबृंहणत्वमात्रस्य बृहदादिशब्दवदतिप्रसङ्गित्वात्, अनेकशक्तिकल्पने गौरवात्, लोकोत्तरबृहत्त्वादिमात्रस्य तु भगवच्छब्दनयादुपचारद्वारत्वात् । अन्यथा गौणवृत्तिर्लुप्येत । “यत्साक्षादपरोक्षाद्ब्रह्मेति” (बृह-3) विशेषणं चान्यत्रामुख्यतां व्यनक्ति, “तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने” (गारूडे) इति च स्मर्यते । “द्वे ब्रह्मणी वेदितव्ये” (बृ.उ.4-5-1) इत्यादिकमपि, “त्रीणि तेजांसि न स्पृशेत्” इत्यादिवन्मुख्यामुख्यसमुच्चयाभिप्रायम् ।
न द्वितीयः;शुद्धोपहितविकल्पासहत्वात्, न हि निर्विशेषतयाऽभिमते शुद्धे”बृहति बृंहयतीति”श्रुत्युक्तनिमित्तमस्ति । अधिष्ठानत्वेन सर्वविवर्तमूलतया च तत्स्यादिति चेन्न; तत्र तदुभयानभ्युपगमात्, अन्यथा मुक्तावपि तद्योगात् मुक्तेरेव मुक्तेः । उपलक्षणार्थं निर्वचनमिति चेन्न, विशेषणार्थत्वे बाधाभावात्, “तस्मादुच्यते परं ब्रह्मेति” प्रवृत्तिनिमित्ततयैव बृहत्त्वादिश्रुतेः, “बृहत्त्वाद्बृंहणत्वाच्चतद्ब्रह्मेत्यभिधीयत” (वि.पु.3-3-22) इति स्मृतेश्च;”गोत्वाभिसम्बन्धाद्गौ” (शाबर भाष्यं) रितिवत्। अस्तु व्यावहारिकं तद्वैशिष्ट्यम्, कथं तर्हि शुद्धे वृत्तिः, तदपि तद्द्बारा गम्यत इति चेत्; तर्हि तन्न मुख्यम् ।
उपहितं मुख्यमिति पक्षस्तु श्रुतिसिद्धस्वाभाविकर्सावज्ञ्याद्युपहितत्वविवक्षायां स्वमतविरोधादपास्तः । स्वाभिमताज्ञानादिदोषोपहितत्वं त्वनाक्षमलैङ्गमश्रौतमस्मार्तमसौत्रं चेति स्थापयिष्यते । तत्र च शुद्धे परे ब्रह्मणि निर्दोषभव्यगुणविशिष्टविषयभगवच्छब्दमुख्यवृत्ति निरुक्तिविरोध;, “परं ब्रह्म परं धाम पवित्रं परमं भवानिति” (भ.गी.20-22) स्तुत्यनुपपत्तिः, पवित्रं परममित्यादिसमभिव्याहारवैघट्यं च । निर्विशेषलक्षणायां तु स्तुतिर्न कथंचिदपि सम्भवति; गुण्यवच्छिन्नगुणाभिधानरूपत्वात्तस्या इति । पूर्वापरादिविसंवादाच्च न कुत्रापि निर्गुणसिद्धिः ।
अपिच अविद्यानिवृत्त्यर्थमिह ज्ञातव्यमुपहितं निरुपाधिकं वा, आद्ये तत्त्वावेदकतटस्थस्वरूप लक्षणादिभिरपि तद्ग्रहादविशिष्टब्रह्मणि वृत्त्यसिद्ध्याऽस्मदिष्टसिद्धिस्स्यात् । स्याच्चातत्त्वज्ञानादेव मोक्षसिद्धिः, तस्य मिथ्यात्वेनैव युष्माभिरङ्गीकारात् । द्वितीये तु अतद्व्युत्पन्नेन तदुक्त्ययोग एव । तल्लक्षितं तज्जिज्ञास्यते लक्ष्यते शोध्यते चेति चेत्; तत एव निर्विशेषलक्षकब्रह्मशब्दात् ज्ञातत्वलक्षितत्वशोधितत्वसिद्ध्या जिज्ञासाद्यनपेक्षा स्यात् नच जिज्ञासादौ विधिः, अदृष्टार्थत्वाभावात्, येन पिष्टपेपणं सहेम ।
निरुपाधिके ब्रह्मशब्दवृत्तिमविदुषः प्रतिबोधनेन सर्वं सार्थमिति चेत्, किं मुख्याममुख्यां वा, पूर्वत्र प्रस्तुतव्याघातः, सर्वस्योपहितमुख्यवृत्तिविषयबोधनोपक्षीणत्वात्, अनुपहिते हि लक्षणामेव वदसि, अभिधानाङ्गीकारे वा किं सार्वज्ञादिविशिष्टपरब्रह्माभिधान प्रद्वेषेण? उत्तरत्र अधीहीत्यादिवैघट्यम्, ब्रह्मशब्दस्य मुख्यार्थमधीहीत्युक्ते लक्ष्यार्थलक्षणोप देशस्यासंगतेः । लक्ष्यार्थमधीहीति तु निरुत्थानम्, कारणाभावात्, मुख्यार्थबाधादिनिश्चयपूर्वकत्वादमुख्यवृत्तिविज्ञप्तेः तन्निश्चयस्य चात्र ततः प्रागसिद्धेः, तत्सिद्धौ वा निर्विशेषावगमे किं प्रश्नेन प्रत्युक्त्या वा ।
मुख्यार्थबाधो निश्चितः,लक्ष्यार्थविशेषश्च न विदितः । अस्मिन्नवसरे प्रश्नाद्यस्तु माभूत् । किं प्रत्यक्षेण बाधः किं वाऽनुमानेन अथ तर्केण अथवा तादृशेनागमेन? । नाद्यः, अतीन्द्रिये प्रत्यक्षबाधायोगात् । न द्वितीयतृतीयौ । अनुमानस्य तर्कमात्रस्य च नित्यागमैः स्पर्धितुमशक्तेः । न चतुर्थः, न बृहति न बृंहयतीतिच वाक्यान्तराभावात् । निर्गुणादिवाक्यैस्तत्सिद्धिरिति चेत् तथाऽपि निर्मूलः प्रश्नः, तैरेव बुभुत्सितबोधात् । नच तैरपि तत्सिद्धिर्न्याय्या, अविरुद्धविषयसिद्ध्या तेषामप्यान्यपर्यस्य वक्ष्यमाणत्वात् (वा-52)।
आपातविदितार्थश्रुतिविप्रतिपत्त्या सन्दिहानः कीदृग्भूतं ब्रह्मशब्दविवक्षितमिति पृच्छतीति चेत्, नैवम्, तटस्थस्वरूपलक्षणाभ्यामपि कारणत्ववैलण्यविषयाभ्यां सन्देहस्यैव स्थापनप्रसङ्गात् । नच निर्विशेषं सविशेषं वेति विमृशतो जगत्कारणत्वोक्त्या निर्विशेषत्वनिश्चयस्सिध्येत् । अपि तु सर्वकारणत्वाक्षिप्तं सर्वज्ञसर्वविदादिशब्दकण्ठोक्तं च सर्वज्ञत्वादिकं बृहत्त्वमेव निर्धार्येत ।
नन्वविदितमुख्यलक्षकविभागः शिष्यो मुमुक्षुभिर्जिज्ञास्यं ब्रह्मेति सामान्यत उपश्रुत्य तल्लक्षणं पृच्छति । आचार्यस्तु कृत्स्नविद्ब्रह्मशब्दलक्ष्यनिर्विशेषवस्तुलक्षणमुपदिशतु । तदपि न, मुमुक्षुभिर्जिज्ञास्यं निर्विशेषमित्यस्यैव निर्मूलत्वात्, प्रत्युत “तमेवं विद्वानि”(तै.आ.3.पुरुष सूक्तं) त्यादिभिर्विभूतिगुणविग्रहव्यापारविशिष्टमहापुरुषवेदनस्यैव अमृतत्वप्राप्त्युपायत्व- श्रवणादबाधाच्च ।
अतो यथाश्रुत एव ब्रह्म शब्दार्थः । निर्वक्ति च यास्कः – “ब्रह्म परिबृढं सर्वत” (यास्कनिरुक्तिः) इति इदं सर्वमभिप्रेत्याभाष्यत – “ब्रह्मशब्देन च स्वभावतो निरस्तनिखिलदोषोऽनवधिकातिशयासंख्येयकल्याण गुणगणः पुरुषोत्तमोऽभिधीयत” (श्री.भा.जि) इति । अभिधीयते -मुख्यया वृत्त्या बोध्यते । अनेवंनामकमनेवंविधं च किमपि ब्रह्मेति वदतां सर्वेषामप्यत्र निरासो भाव्यः । विशेषणद्वयेन च ब्रह्मपुरुषोत्तमशब्दयोः निरुक्तिरपि व्यज्यते ।।
इति श्री कवितार्किकसिंहस्य सर्वतंत्रस्वतंत्रस्य श्रीमद्वेंकटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां ब्रह्मशब्दवृत्त्यनुपपत्तिवादः प्रथमः ।।1।।