[highlight_content]

शतदूषणी अपशूद्राधिकरणविरोधवादः (62)

शतदूषणी

।।अथ परमते अपशूद्राधिकरणविरोधवादः द्विषष्टितमः ।।62।।

स्वे स्वे कर्मणि युञ्जनो मुखबाहूरुपादजान् ।

स्वयं नस्संप्रकाशेत स्वान्ते स्वच्छन्दसारथिः ।।

यत्तु भगवता बादरायणेन सूत्रितं शूद्रस्य ब्रह्मविद्यायामनधिकारित्वम्; तद्भवन्तः कथं निर्वहन्ति? किं शूद्रैर्निर्विशेषज्ञानस्य दुःसम्पादत्त्वात्, तत्सम्पत्तिसद्भावेऽपि वा ततः तेषामविद्यानिवृत्त्यसंभवादिति । न प्रथमः, स हि तथाविधस्य ज्ञानस्य वेदैकजन्यत्वाद्वा? अवेदजन्यत्वेऽपि वेदसापेक्षत्वाद्वा? वेदावेदयोः शूद्रादिषु ज्ञानजनकत्वाशक्तेर्वेति? आद्यस्तावदधिगतत्वत्सिद्धान्तेन त्वया नाङ्गीकर्तव्यः । आत्मघातुकतर्कानुगृहीतानुमानादिनापि निर्विशेषत्वस्य प्रपञ्चमिथ्यात्वादेश्च भवद्भिः साध्यमानत्वात् । न च निर्विशेषे श्रुतिसमधिगम्यं विशेषान्तरं संभवति । श्रुतेरपि भवद्भिरध्यस्तातद्रूपनिवृत्तिमात्रपरत्ववर्णनात् । आनन्दत्वादेरपि स्वरूपानुप्रवेशनिर्णयात् । नचानुमानादिषु सर्वत्र शूद्रस्यानधिकारश्शङ्कयः, लोकसिद्धान्वयव्यतिरेकमूलेषु त्वदुक्तेष्वाचण्डालमधिकारात् । यत्र च तिरश्चामप्यधिकारः तत्र द्विपदां कः परिपन्थी । अन्यथा तेषां सार्वलौकिकव्यवहारोच्छेदप्रसङ्गात् । निर्विशेषं तत्त्वमित्यादिलौकिकवाक्येन च तेषां तत्त्वज्ञानं सुलभमेव । न च ततस्तेषां निवर्तकं ज्ञानं नोपलभ्यत इति वाच्यम्; त्रैवर्णिकानां वैदिकवाक्येनापि तुल्यत्वात् । श्रवणमनननिदिध्यासनजनितविकल्पवैमुख्यानां दृश्यत इति चेत्; एवं लौकिकवाक्येऽपि तान्येव सहकारीकृत्य तत्सिद्धिं पश्य । न च सामग्रयां सत्यां क्वचित् ज्ञानं क्वचिन्नेति नियन्तुं शक्यम्, अनीश्वरेच्छया तन्नियमासिद्धेः । भवतु वा वेदैकमूलत्वम्, तथापि न शूद्रादेस्तत्रानधिकारः; व्युत्पन्नपदपदार्थानां तेषां ततोऽपि ज्ञानसंभवात्; उत्पन्नेऽपि तत्त्वज्ञाने वेदश्रवणतदर्थानुसन्धानादिमूलप्रत्यवायस्य भवन्मते प्रसङ्गाभावात् । यदा विश्वभ्रमोन्मूलनं ज्ञानमुदेष्यति तदा तदन्तः पातिनः कस्यचित् प्रत्यवायभ्रमस्य का वार्ता? नचानुपनीतस्यानघीतवेदस्याश्रुतवेदान्तवाक्यस्य *न शूद्राय मतिं दद्यादिति वचनबलान्निषिद्धाचार्यलाभस्य शूद्रादेः कथं ततो ज्ञानमिति वाच्यम्; दग्धाधिकारतया वेदशिरसि वर्तमानैर्भवद्भिर्वेदान्तानां तदर्थस्य च तेभ्योऽपि यथावदुपदेशसंभवात् । न हि वो विधिनिषेधकिङ्करता । यथा ब्रूथ -*दग्धखिलाधिकारत्वात् ब्रह्मज्ञानाग्निना मुनिः । वर्तमानः श्रुतेर्मूघ्नि नैव स्याद्वेदकिङ्करः ।। इति । यद्यपि *त्यजधर्ममधर्मं चेत्यादबिलाद्दुर्बलबुद्धिभिर्युष्मत्सयूथ्यैर्निषिद्धवर्जनमनुज्ञायते, तथाऽप्यन्यैः कैश्चिदुन्मर्यादैरर्थादिलिप्सया तेभ्यस्तदुपदेशः संभवत्येव । नचैवमस्मन्मते प्रसङ्गः, वक्तुरिव श्रोतुरपि प्रत्यवायेन तन्मूलोपासनादेः तेष्वसंभवात् । उपासनविधीनां च उपनयनाद्यङ्गकाध्ययनविधिसिद्धस्वाध्यायसंपन्नज्ञानत्रैवर्णिकाधिकारिलाभेन कर्मविधीनामिव तदितरेषु स्वसिध्यर्थं ज्ञानान्तरकल्पनौदासीन्यात् । तत एवोपबृंहणभूतेतिहासपुराणजन्यज्ञानस्यापि विधिभिरनादृतत्वात् । तच्छ्रवणानुज्ञानस्य पापक्षयादिमात्रफलत्वात् । उपास्यस्य च ब्रह्मणोऽनन्तविशेषस्यानुमानाद्यगोचरत्वात् । उपासनस्यैव वाक्यार्थज्ञानातिरिक्तस्य बन्धनिवर्तकत्वात्, बन्धस्य च सत्यत्वेनादृष्टद्वारा तन्निवृत्युपपत्तेरिति ।

एतेन द्वितीयोऽपि पक्षो निरस्तः, वेदसापेक्षत्वेऽपि तेषां तदधिगमोपायस्योक्तत्वात् । कथं वाऽनुमानादेर्वेदसापेक्षता? न तावत् तदङ्गतया तर्कादिवत्; कैश्चिदपि तथाऽनभ्युपगमात् । नापि कारणतया; वेदस्यैव व्युत्पत्त्यादावनुमानादिसापेक्षत्वेन वैपरीत्यात् । नापि नैसर्गिकलोकव्यवहारमूलतया तत्त्वबुभुत्साशून्यानां तद्भ्रान्तत्वसमर्पणमूलतत्त्वबुभुत्सोत्पदानद्वारेण; सांख्यसौगतादिभिः प्रत्याक्षादिवृत्तपरीक्षाप्रवृत्तैस्तदुत्पत्युपपत्तेः, उत्पन्नायां च तस्यां भवदभिमतप्रत्यक्षानुमानादिभिर्निर्विशेषज्ञानसम्पादनोपपत्तेः । तिष्ठन्तु सांख्यादयः, त्वदभिमततत्त्ववित्संप्रदायगतलौकिकवाक्यादपि तद्बुभुत्सा जायत एव । पश्यामश्चैतदद्यतनेषु । न च वेदानुवचनस्य विविदिषासाधनत्वश्रुत्या तत्सापेक्षता; यज्ञादेरिव जन्मान्तरानुष्ठितस्यापि तस्यादृष्टद्वारा तद्धेतुत्वोपपत्तेः ।

अत एव न तृतीयः, व्युत्पत्त्यन्वयव्यतिरेकादिशालिषु त्रैवर्णिकेषु शूद्रादिषु च प्रमाणानां पक्षपातविरहात् । भवतु वा शूद्रादीनां यतः कुतश्चित्तत्त्वज्ञानाम्, त्रैवर्णिकानां तु वेदत एवेति नियमार्थमधिकरणमिति चेन्न; नियामकाभावात् । अधीतवेदत्वमेव नियामकमिति चेत्; त्यज तर्हि अध्ययनक्लेशम्, शूद्रादिवल्लघीयसैवोपायेन तत्प्रयोजनसिद्धेः । अत एव चान्ततो वेदान्तोच्छेदः प्रसज्येत । नचाधीतवेदैरन्यतस्तदर्थो ज्ञातुं न शक्यः; तस्य तत्प्रतिबन्धकत्वाभावात् । नापि तेऽन्यतो न जानीयुरिति निषेधः । न च निषेधोल्लंघनेऽपि वःप्रत्यवाय इत्युक्तम् । नापि द्वितीयः, अन्यूनानतिरिक्तविषयत्वे कस्यचिद्बाधकत्वं कस्यचिन्नेति नियामकाभावात् । नचादृष्टदा वैषम्यम्, भवद्भिस्तथाऽनभ्युपगमात् । न च बाधे तत्त्वज्ञानातिरिक्तमपेक्ष्यते, नापि बाधातिरिक्ता निवृत्तिरिष्यते, यत्रादृष्टादिसापेक्षता स्यात् । अत एव हि ध्याननियोगवादिनोऽपि भवद्भिर्दूरीकृताः । न च प्रत्यक्षानुमानपुंवाक्यानां बाधकत्वमेव नास्ति, रज्जुसर्पादिभ्रमानुच्छेदप्रसङ्गात् । न च तानि ब्राह्मणादेरेव रज्जुसर्पादिभ्रमबाधकानि न पुनः शूद्रादेरिति नियमं पश्यामः । न च विश्वबाधकैस्तदन्यबाधकैरपि न दृश्यत इति वाच्यम्, वैदिकवाक्येष्वपि तथा प्रदर्शितत्वात् । भवत्वेवं तत्त्वज्ञानतत्फलयोः संभवाच्छूद्रीदानामपि ब्रह्मविद्याधिकारः, तस्य मिथ्यात्वमात्रेण त्वनधिकारवाचोयुक्तिरिति चेत्; हन्तैवं त्रैवर्णिकानामप्यसौ मिथ्येति किं विशिष्याभिधीयत इति । तदेतत्सर्वं तत्रैवाधिकरणे प्रपञ्चितम् ।

शास्त्रोपक्रमेऽपि सन्मात्रस्य ब्रह्मणः प्रमाणान्तरगोचरत्वे तद्विषयस्यागमस्यानुवादत्वं प्रसञ्जयता सूचितम् ।

।।इति शतदूषण्याम् अपशूद्राधिकरणविरोधवादः द्विषष्टितमः।। 62।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.