[highlight_content]

शतदूषणी अवेद्यत्वभङ्गवादः(20)

शतदूषणी

।।अथ अवेद्यत्वभङ्गवादः विंशः ।। 20 ।।

श्रुतिगणशिरोनिष्णातानां स्वसत्त्वमभीप्सतां श्रवणमननध्यानैरध्यक्षतश् कास्ति यत् ।

अमतमिति यद्भूम्ना मन्तव्यतामवगाहते भवभयतमःप्रत्यासेधं भजेमहि तन्महः ।।

यदाहुः – अनुभूतिस्स्वयंप्रकाशा, अनुभूतित्वात्, “अनुभूतेरनुभाव्यत्वे घटादिवदननु भूतित्वप्रसङ्ग” – तत्र तावदनुभूतिशब्दस्यार्थावगतिहेतुत्वे व्याघातःअहेतुत्वेऽपि पुनर्व्याधात इत्याबालगोपालमुपलभ्यम् । स्वयं प्रकाशे इत्यनेन किं स्वव्यवहारे स्वाश्रयस्य कदाित्स्वगोरानु भूत्यन्तरनैरपेक्ष्यमात्रं साध्यते? उत सर्वदा सर्वस्य स्वगोरानुभूतिविरहः? नाद्यः, सिद्धसाधनात् । वयमपि संविदो विषयप्रकाशनवेलायां स्वाश्रयं प्रति संविदतन्तरकर्मतामन्तरेण प्रकाशमङ्गीकुर्मः । तदिदं सिद्धसाधनत्वमभिप्रेत्याह – “यत्त्वनुभूतेस्स्वयंप्रकाशत्वमुक्तम्, तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैवे”ति । अत एव ये नाम स्वयंप्रकाशत्वनिवृत्तावनवस्थादिप्रसङ्गास्ते भवन्तु सम्यञ्ो न वेति तत्रास्माभिरिहोदासि । नापि द्वितीयः, प्रत्यक्षविरोधात् । तदाह – “परानुभवस्य हानोपादानादि लिङ्गकानुमानज्ञानविषयत्वात्, स्वानुभवस्याप्यतीतस्याज्ञासिषमिति ज्ञानविषयत्वदर्शनाेति । स्ववनविरोधमभिप्रेत्याह – “अतोऽनुभूतिश्ेत्स्वतस्सिद्धेति वक्तुं न शक्यते” इति ।

तथा हि । अनुभूतिस्स्वयंप्रकाशेत्यत्रानुभूतिशब्दः कस्यिद्बोधको न वा? बोधकत्वेऽप्यनुभूतिरूप ब्रह्मस्वरूपबोधकस्तदन्यबोधको वा? ब्रह्मस्वरूपबोधकत्वे सिद्धं तस्य तज्जन्यसंवित्कर्मतया प्रकाशमानत्वं प्रकाशमानं स्वरूपं अनेनानूद्यत इति ेन्न । तथाऽपि अनुवादात्मक संवित्कर्मतया प्रकाशमानत्वस्यदुरपह्नवत्वात् । अन्यथा तदनुवादत्वस्यासिद्धिप्रसङ्गात् । ततश् प्रतिज्ञापदयोः फलप्रतिपादनाभ्यां व्याघातः । तदन्यबोधकत्वे तु तस्यैव स्वयंप्रकाशत्वं प्रतिज्ञातं स्यात् । ततश् सिषाधयिषितासिद्धिरर्थान्तराख्यं निग्रहस्थानमपसिद्धान्तश् प्रसज्येरन् । कस्यिदप्यबोधक इति पक्षे त्ववाकप्रयोगान्निरर्थकनि ग्रहस्थानप्रसङ्गः। हेतोश्ाश्रयासिद्धिः।

एवं हेतुसाध्यप्रतिपादकशब्दावपि संविदन्वितहेतुसाध्यप्रतिपादकावित्यभ्युपगन्तव्यम् । अन्यथा त्वप्रतिपादकत्वे वाऽनन्वितप्रतिपादकत्वे वा निरर्थकापार्थकनिग्रहस्थानापातात् । अतस्तदन्वितहेतु साध्यप्रतिपादने तयोरप्यनुभूतिविशेषकत्वात्ताभ्यामपि वेद्यत्वं फलितम् । अतस्साध्यहेतुवािपदयोः फलप्रतिपादनाभ्यां विरोधः ।

अतोऽनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्व प्रसङ्ग इति तर्कोऽपि स्ववधायकृत्योत्थापनम् । प्रागुक्तप्रत्यक्षेण तत्रत्यानुभूतिशब्देनैव ानुभूतेरनुभाव्यत्वस्थितावननुभूतित्वप्रसङ्गात् ।

एतेनावा्यत्वमपि ब्रह्मणो निरस्तं मन्तव्यम् । किं यदनुभाव्यं (तदननुभूति) न तदनुभूतिरूपम्, यथा घट इति व्यतिरेकदृष्टान्तेऽपि त्वदुक्तन्यायेनानुभाव्यत्वप्रतिक्षेपस्य शक्यत्वात्साध्याव्यावृत्तो दृष्टान्तस्स्यात् । घटस्स्वयंप्रकाशो घटत्वात्, घटस्यानुभाव्यत्वे पटवदघटत्वप्रसङ्ग इति वियातजल्पस्य दुर्वारत्वात् । एवं क्रमेण सर्वस्यापि स्वयंप्रकाशत्वमायातमिति तदनुविधायिसत्यत्वादिप्रसङ्गश् दुस्तरः । घटोऽनुभूयते पटोऽनुभूयत इत्यनुभाव्यतयैव घटादिः प्रकाशत इति ेत् अनुभूतिरपि परगता स्वगता ातीतानागतकालयोरनुमानशब्दसंस्कारादिजन्यसंविदन्तरकर्मतयैव भातीति तुल्यम् । अनुभूतेरनुभाव्यत्वप्रतीतिर्भ्रान्तिरिति ेत्, किं घटादेरनुभाव्यत्वप्रतीतिर्भ्रान्तिर्न देवानांप्रियस्य? ततश् परमार्थानुभाव्यत्वप्रतिक्षेपे घटादेरपि परमार्थानुभाव्यत्वरहितत्वाद्धतिरेकदृष्टान्तासिद्धिः । निषेध्यस्य क्विदप्यप्रसिद्धेर्निषेधासिद्धिश् । अपरमार्थानुभाव्यत्वप्रतिक्षेपे सिद्धसाधनत्वं स्वपक्षविरोधश् । अन्यथा तद्विषयशास्त्रानुमानाद्यनारम्भ प्रसङ्गात् । तत एवानुभाव्यत्वमात्रनिषेधोऽप्यशक्यः ।

किं यदि परगतानुभूतिर्नानुभूयते, कथं शब्दार्थसम्बन्धग्रहः? परबुद्धिविशेषानुमानेनैव हि सर्वत्र सिद्धे कार्ये वा व्युत्पत्तिः । एवं व्युत्पत्तेरशक्यत्वाेष्टाशब्दयोः प्रमाणकोटिनिक्षेप एव न स्यात्; परस्पराभिप्रायानभिज्ञतया वादिनोश्शुष्ककलह एव स्यात्; परस्पराशयपरिज्ञानादेव सर्वो लौकिको व्यवहारः, त्वत्समानानां न पशुमृगादीनां भयाद्युत्पत्तिश् । तदेतत्सर्वमभिप्रेत्योक्तम् – “परानुभवानु मानानभ्युपगमे शब्दार्थसम्बन्धग्रहाभावेन समस्तशब्दव्यवहारो्छेदप्रसङ्गः” इति । आार्यस्य ज्ञानवत्तामनुमाय तदुपसत्त्यादि क्रियते “इति भाष्यं, शिष्यस्य व्यवहारविशेषादिभिरन्यथा ज्ञानादिकमनुमाय तस्मै तत्त्वमुपदिश्यत इत्यस्योपलक्षणम् । तदेवमनुभूतेरन्यस्य वा वेद्यत्वं नास्तीति प्रतिज्ञानं स्वव्याघातकत्वान्न साधनाङ्गमिति ।

ननु वेद्यत्वं वेद्यं न वा? आद्ये वेद्यत्वस्य वेद्यत्वान्तराश्रयत्वेनानवस्था । अन्यथा वेद्यत्वाभावे वेद्यमेव न स्यात् । उत्तरत्रावेद्यत्वं क्वित्त्वयाऽपि प्रतिज्ञातं स्यात् -इति ेत् हन्त किं (तर्हि) वेद्यत्वस्य वेद्यत्वान्तरप्रतिक्षेपेणावेद्यत्वसमर्थनार्थमयं प्रयासः? उत वेद्यत्वमेव किमपि नास्तीति तत्स्वरूपप्रतिक्षे ेपार्थम् ? अथान्यार्थम्? अनर्थको वेति ।

आद्ये त्वदुक्तानुमानस्य सपक्षे सति तत्रावर्तमानत्वात्सर्वानुमता साधारणाख्याभासत्वप्रसंगः । तत्र साध्यवृत्तिर्मिथ्याभूतेति परिहार इति ेत् तर्हि तस्य वेद्यत्वमेवायातमिति निरर्थकास्सन्नाहाः । अनुभूतावपि भवतामवेद्यत्वलक्षणसाध्यवृत्तिर्मिथ्याभूतैव, निर्धर्मकत्वाभ्युप गमात्; तस्य स्वरूपत्वाभ्युपगमे विवाद एव नस्यात् -इत्यादिकमन्यत्र ग्राह्यम् ।

नापि द्वितीयः, वेद्यत्वस्वरूपापह्नवेन सर्वस्यापि वेद्यत्वप्रतिक्षेपे पुनरप्यसाधारणत्वप्रसङ्गात् । भ्रान्तिसिद्धं वेद्यत्वं तत्र विद्यत इति ेत्, तदनुभूतावपि समानमेव । तत्प्रतिक्षेपे ह्यपसिद्धान्तप्रतीतिविरोधादयः ।

न तृतीयः, अन्यस्य कस्यिदनुपलम्भात् । तुर्थस्तु परिशिष्टोऽस्मदिष्ट इति । एतेन वा्यत्वं वा्यमवा्यं वेत्यादिप्रलापोऽपि प्रत्युक्तः ।

ाप्रसिद्धविशेणत्वपरिहारार्थं वेद्यत्वं किंिन्निष्ठात्यन्ताभावप्रतियोगि, धर्मत्वात् घटत्ववदिति सामान्यतः साध्यप्रसिद्धिसाधकत्वेनोक्तमनुमानम्, तदपि प्रत्युक्तम् किंि्छब्देन तत्रैव तस्य वेद्यत्वापादनात्, किंित्त्वधर्मेणानैकान्त्यप्रसंगा । न हि किंि्छब्दवा्यस्य किंित्त्वं नास्तीति वक्तुं शक्यम्, वेद्यत्वादेरपि तथाऽपह्नवप्रसङ्गेनाश्रयासिद्ध्यादि प्रसङ्गात् । किंित्त्वाभावे न किंिदेव भवेदिति तु्छत्वमेव प्रसज्येत । तथा तन्निष्ठान्ताभावप्रतियोगित्वसाधने भवतो न विवक्षितविशेषसिद्धिः । किं सामान्यतः कस्यिद्वेद्यत्वं नास्तीत्येतावति साधितेऽपि किंि्छब्दार्थोऽनुभूतिरिति कुतोऽवसीयते? पूर्वोक्ताविगीतहेतुवैभवादिति ेत् तर्हि घटस्स्वयंप्रकाशो घटत्वादित्यादिहेतुनाऽपि घटादिविशेषपरिग्रहो दुर्वारः । अनुभाव्यत्वप्रतीतिसदसद्भावाभ्यां वैषम्यं तु परिहृतम् । तर्कानुग्रहसद सद्भावाभ्यां वैषम्यमिति ेत्, कोऽसौ तर्कः? अनुभूतेरनुभाव्यत्वे घटादिवदननुभूतित्वप्रसङ्ग इत्युक्तरूप इति ेन्न; घटादावपि तथाविधतर्कस्योदाहृतत्वात् । किं यदि घटादिवदनुभूतेरनुभूतिलक्षण विरहस्स्यात्तदाऽननुभूतित्वं युक्तम्, न पुनरनुभाव्यत्वमात्रेण तत्सिद्धिः; तस्य तदप्रयोजकत्वात् । न ानुभाव्यत्वेऽनुभूतिलक्षणविरहस्स्यादिति वक्तुं शक्यम्, अनुभवान्तरानुभाव्येऽपि परानुभवादौ स्वसत्तयैव स्वविषयभासकत्वरूपस्य स्वसत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वरूपस्य वा कस्यिदनुभूतिलक्षणस्य स्वानुभवसिद्धस्यानपगमात् । तदवस्थाने ानुभूतित्वस्यानपायादिति । तदिदमु्यते – “नान्यविषयत्वेऽननुभूतित्वमि”त्यादिना ।

किं योऽयमनुभाव्यत्वेऽनिष्टप्रसङ्गस्सोऽननुभाव्यत्वेऽपि समान इति प्रतितर्कप्रतिघातः । अनुभूतेरननुभाव्यत्वे गगनकुसुमादिवदननुभूतित्वप्रसङ्ग इति । तु्छत्वात्तत्राननुभूतित्वम्, नत्वननुभाव्यत्वादिति ेन्न; साध्यसमव्याप्त्यभावेनोपाधित्वायोगात् । न ह्यनुभूतिव्यतिरिक्तेषु तु्छत्वं त्वयाऽभ्युपगम्यते तत्रत्यमननुभूतित्वं तत्प्रयुक्तमित्येतावन्मात्रं विवक्षितमिति ेत्, तर्हि घटादिगतमप्यननुभूतित्वं तत्तद्वस्तुप्रतिनियतघटत्वादिप्रयुक्तं न त्वनुभाव्यत्वनिबन्धनमिति स्यात् । आश्रयाभावो धर्माभावे प्रयोजको भवितुमर्हति, निराश्रयधर्मसिद्ध्ययोगात्; न पुनराश्रयगतधर्ममात्रसद्भाव इति ेत् तर्ह्यनुभाव्यत्वमपि घटत्वादिवन्नाननुभूतित्वप्रयोजकमिति स्यात्, धर्ममात्रत्वाविशेषात् । व्याप्त्या विशेष इति ेन्न; सहारमात्रस्य व्याप्तित्वाभावात् । नह्यननुभाव्यत्वानुभूतित्वयोः कश्िद्विरोधो दृष्टः, येन नियमस्सिध्येत्, साहित्यमेव परगतानुभवादिषु दृष्टम् ।

किं अनुभूतेरेवानुभाव्यत्वेऽवश्यम्भाविन्यननुभूतित्वं प्रति कथमनुभाव्यत्वस्योपाधित्वम्? अनुभाव्यत्वस्याभावेऽपि स्वप्रकाशत्वादेवानुभूतेरसत्त्वं न प्रसज्यत इति युष्माभिरभ्युपेतव्यमिति ेन्न; तथाऽपि स्वप्रकाशसिद्धेयमनुभूतिरित्येवंरूपानुभूतिविषयतामन्तरेण तत्सत्त्वस्य व्यवस्थापयितुम शक्यत्वात् । इदमखिलमभिसन्धायोक्तम् –

“घटादेरप्यज्ञानाविरोधित्वमेवाननुभूतित्वनिबन्धनम्; नानुभाव्यत्व मित्यास्थीयताम्” -इति । नास्य साधनव्यापकत्वम्, अनुभाव्यतयाऽभ्युपगन्तव्ये परानुभवस्वरूपे तदभावदर्शनात् । न साध्यसमव्याप्तिहानि;, अनुभूतिव्यतिरिक्तेषु सर्वेष्वपि साक्षादज्ञानविरोधित्वाभावात् । अनुभाव्यत्वेऽनुभूतेरज्ञानाविरोधित्वमपि प्रसज्यत इति ेत्, अननुभाव्यत्वेऽपि गगनकुसुमादिवत्तत्प्रसङ्गस्तदवस्थः । असत्त्वप्रयुक्तं तत्राज्ञानाविरोधित्वमिति तु दत्तोत्तरप्रायमेव । एवं “अनुभूतिरनन्याधीनस्वधर्मव्यवहारा, स्वसम्बन्धादर्थान्तरे तद्धर्मव्यवहारहेतुत्वात्” -इत्याद्यनुमानेष्व प्यवेद्यत्वविवक्षायां पूर्ववद्दोषो भाव्यः, आगमबाधश्

यदि ह्यनुभूतिरूपं ब्रह्म न वेद्यम्, कस्तर्हि तत्त्वावेदकशास्त्रस्य विषयः? प्रपञ्मिथ्यात्वमात्रमिति ेन्न; “अथातो ब्रह्मजिज्ञासा” (ब्र.सू.1 -1 -1), “आत्मत्वाद्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” (बृ -उ -4 -4 -5) “ब्रह्मविदाप्नोति परम्” (तै.आ.6 -1) “अस्ति ब्रह्मेति ेद्वेद, सन्तमेनं ततो विदुः” (तै.आ.6 -3) इत्यादीनां समुद्रघोषत्वप्रसङ्गात् । ब्रह्माध्यस्तोपरागतमात्रनिवर्तनार्थं ब्रह्मानुवादोऽयमिति ेत्, तथाऽपि तैस्तैश्शब्दैरनुवादरूपैरप्यनुभाव्यत्वमवर्जनीयमेव । मिथ्याभूतमिदमनुभाव्यत्वमिति ेत्, घटादेरपि समानमित्युक्तमेव । उपहितं ब्रह्म शास्त्रवेद्यमिति ेन्न; अतत्त्वावेदकत्वप्रसङ्गात् । तस्याप्युपाधेर्विलयान्न दोष इति ेन्न; तत्प्रतिक्षेपकेणापि केनिदुपहितरूपेणानुपहिताकारेण वा ब्रह्मस्वरूपस्पर्शनस्यावर्जनीयत्वात् । अत उपहितरूपं वेद्यमनुपहितरूपं तु व्यवहर्तुं शक्यमिति तस्य वेद्यत्वप्रतिक्षेपोऽपि दुश्शकः ।

ननु अवेद्यत्वेऽपि स्वप्रकाशत्वेनैवावस्थाय तत्त्वमस्यादिवाक्यजन्यस्य स्वेतरनिषेधवाक्यजन्यस्य “द्रष्टव्य” इत्यादिविहितज्ञानस्य ाव्छेदकं ब्रह्म भवेदिति ेन्न; अव्छेदकमिति बुद्ध्यैवात्रापि विषयीकारात् । अन्यथा (स्वयंप्रकाशानुवादादि) स्वप्रकाशानुमानादिनैरर्थक्यप्रसङ्गा । तस्मादव्छेदकत्वावेद्यत्वप्रतिपादकमपि वाक्यमन्ततो वेद्यत्वमेवोपस्थापयति ।

ननु – “यस्यामतं तस्य मतं मतं यस्य न वेद सः” । “अविज्ञातं विजानतां विज्ञातमविजानताम्”, (केन -2.3) “विज्ञातारमरे केन विजानीयात्,” (बृह -4 -14) ” येनेदं सर्वं विजानाति तं केन विजानीयात्”, (बृह.4 -4 -14) यतो वाो निवर्तन्ते, अप्राप्य मनसा सह,(तै -भृगु) “न शब्दगोरो यस्य योगिध्येयं परं पदम्” (स्मृतिः) इत्यादिकं कथं निर्वहणीयमिति ेत्, भवतो वा कथम्? स्वरसप्रतीतमवेद्यत्वमङ्गीकुर्वता मया किं नाम दुर्निर्वहमिति ेन्न; मतत्वविज्ञातत्वादेरपि तत्रैव स्वरसप्रतीतत्वात्, अमतविज्ञातादिशब्दैरपि तत्रैव तत्स्वरूपप्रतिपादनात् । अन्यथा प्रागुक्तनयेन परस्परविरोधेन ानन्वयादिप्रसङ्गात् । अमतत्वोपहितरूपेण मतत्वमङ्गीकुर्म इति ेत्, किमतः? तावताऽपि ज्ञानविषयत्वस्य दुस्त्यजत्वात् । अमतत्वं सामान्यतस्स्वानुविद्धं मतत्वमपि प्रतिक्षिपतीति ेत्; तथा सत्यमतत्वमप्रतिपन्नमेव भवेत् । तथाऽप्यमतत्वे वाक्यतात्पर्यम्, मतत्वव्यपदेशस्तु गलोपरिगर्जितमिति ेन्न; विपरिवर्तस्य दुर्वारत्वात् । कस्यामतत्वे वाक्यतात्पर्यं वर्ण्यते? ब्रह्मण इति ेत्, हन्त ब्रह्मणो वेद्यत्वभयंपरित्यज्य किमेवमुारयसि? यदि ाकारभेदेन मतत्वामतत्वयोर्व्यवस्था, तदाऽस्मत्पक्षेऽपि न काित्क्षतिः । तत्तद्वाक्यप्रतिपन्नगुणविभूत्याकारितवेषेण मतत्वम्, वस्त्वन्तरस्वभावविरहेण तत्तत्प्रमाणगोर तयाऽनव्छिन्नविषयत्वादिना ामतत्वमिति । एतेन “अविज्ञातं विजानता” (केन -2.3) मित्यादिकमपि निर्व्यूढम् । विज्ञातारमेर केन विजानीयात् (बृह.4 -4 -14) इत्यत्र कृ्छ्रेण ज्ञातव्यत्वे तात्पर्यम्, बाह्यार्थप्रकाशनक्षमक्षुराद्यगोरत्वे वा । एवम्, येनेदं सर्वं विजानाति तं केन विजानीयात् (बृह -4 -4 -14) इत्यादिकमपि भाव्यम् ।

यद्वा, मत्तस्स्मृतिर्ज्ञानमपोहनं (श्री.भ.गी.15 -15) इत्याद्युक्तप्रकारेण यत्प्रसादेनेदं सर्वं विजानाति, तं परमात्मानं तत्प्रसादमन्तरेण केन विजानीयादिति । यतो वाो निवर्तन्ते, अप्राप्य मनसा सह (तै.भृगु) इत्यत्रापि ब्रह्मानन्दस्य वाङ्मनसापरि्छेद्यत्वे तात्पर्यं प्रकरणादौ व्यक्तम् । अन्यथा य्छब्दादिभिस्तत्प्रतिपादनासम्भवात्; “आनन्दं ब्रह्मणो विद्वान्” इति तद्विषयविहितवेदनासंभवा । एतेन, न शब्दगोरो यस्येत्यादिकमपि निर्व्यूढम्; निष्कृष्टस्वरूपस्य देवादिशब्दागोरत्वे वा तात्पर्यम् ।

एवमन्यान्यपि वेद्यत्वादिप्रतिक्षेपकाणि वाक्यानि प्रमाणान्तरश्रुत्यन्तरवाक्यशेषवाक्यस्थपदान्तराविरोधेन नेतव्यानि । “अनुभाव्यत्वेऽननुभूतित्व मित्युपहास्यम्” इति तर्कदूषणमुपसंहृत्योपहास्यतां प्रतिपादयता आगमबाधादिकं सुस्पष्टमिति सूितं मन्तव्यमिति ।।

।। इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताार्यस्य कृतिषु शतदूषण्याम् अवेद्यत्वभङ्गवादः विंशोवादस्समाप्तः ।।

Languages

Related Parts

error: Content is protected !!