[highlight_content]

शतदूषणी अहमर्थात्मत्वसमर्थनवादः(26)

शतदूषणी

।।अथ अहमर्थात्मत्वसमर्थनवादः षड्विंशः ।।26।।

अहंत्वेदंत्वाभ्यां स्वपरविदितांश्ेतनगणानहङ्कारादीनप्यिदुपधिभेदाननहमः ।

अहन्ता यस्यैका कबलयति वैशिष्ट्यविभवान्ममास्मिन्विश्राम्यत्वहमिति मतिर्विश्ववपुषि ।।

यदु्यते – अहमर्थो नात्मा, सुषुप्तिमोक्षयोरननुवर्तमानत्वात् । मोक्षे न तदनुवृत्तावज्ञत्वादिप्रसङ्गा । अतश्ैतन्यमात्रमात्मा । तत्रानिदमि ैतन्ये निरुपाधिरहंभ्रमः। कर्तृत्वादिस्तु सोपाधिः सर्पलोहित्यवत्क्रमादिति ।

अत्र ब्रूमः-सुषुप्तौ तावदहमर्थाननुवृत्तौ पुनः प्रतिसन्धानानुपपत्तिप्रसङ्गः । न ह्यहमर्थान्तरेणानुभूतमर्थमहमर्थान्तरं स्मर्तुमलम्, अतिप्रसङ्गात् । सुषुप्तावपि तदनुवृत्तौ तदानीमपि तत्प्रकाशप्रसङ्ग इति ेन्न; विद्यमानस्य प्रकाशनियमानभ्युपगमात् । तदानीमप्रकाशेऽपि तदनुवृत्तौ किं प्रमाणमिति ेन्न; पूर्वोत्तरवर्त्यहमर्थप्रतिसन्धानबलादेव मध्येऽपि तत्कल्पनात् । पूर्वोत्तरकालाव्छिन्मध्य कालकल्पनेनास्वाप्समितीदानींतनकालानुसन्धानवदिदानीमतीतकालाव्छिन्नाहमर्थस्यापि प्रकाशोपपत्तेः । मध्ये ाहमर्थाभावे संस्काराधाराभावात्प्रतिसन्धानाभावप्रसङ्गा(ङ्गश्)। संवित्स्वरूपमविद्यास्वरूपं वा तदाधारो भवत्विति ेन्न; तयोरपि तदानीमनुवृत्तौ प्रमाणाभावात् । न हि ज्ञातारमन्तरेण ज्ञानमज्ञानं वा स्थातुमलम् । अन्यथा घटादिष्वपि तदवस्थितिप्रसङ्गात् । ज्ञानाभावस्तत्रापि विद्यत इतीष्टप्रसङ्ग इति ेन्न; भवदभिमतभावरूपाज्ञानस्य तत्र प्रसज्यमानत्वात्, तस्य तन्निष्ठत्वेन त्वयाऽनभ्युपगमात् । न संवित्स्वरूपस्य संस्काराधारत्वम्, निर्विकारत्वनिर्विशेषत्वविरोधात् । नाप्यविद्यास्वरूपस्य, तथा सति तस्यैव ज्ञातृत्वप्रसङ्गात् । न ह्यन्यगतसंस्कारेणान्यस्य स्मृतिः संभवतीत्युक्तम् । उपादानोपादेयभावादुपपद्यत इति ेन्न; क्षणभङ्गनयप्रसङ्गात् ।

सत्कार्यवादाभ्युपगमेनाविद्यातद्विवर्तयोरेकत्वादुपादानं संस्कारे उपादेये कार्यकर इति ेन्न; उपादानोपादेययोः काल्पनिकैक्यस्य सौगतमतेऽपि सत्त्वात्; परमार्थैक्यस्य त्वन्मतेऽप्यभावात् ।

किं वा सुषुप्तिकाले संविदविद्ययोः सद्भावे प्रमाणम्? सुप्तोत्थितस्य सुखमहमस्वाप्समिति परामर्श इति ेन्न; तेन सुखस्वापविशिष्टतदानींतनाहमर्थस्यैव विषयीकरणात् । इदानींतनाहमर्थप्रकाशनेन तदुपलक्षणमिति ेन्न; इदानींतनसुखसंविद्भ्यां तदानींतनस्वापविशिष्टाहमर्थोपलक्षणं किं न स्यात्? तदानीमहमर्थप्रकाशाभावे कथं तत्परामर्श इति ेत् कथं तदानीमज्ञानसुखसाक्षिसंवित्प्रकाशाभावे तत्परामर्शः? तत्परामर्शादेव तदा तत्प्रकाशोऽपि कल्प्यत इति ेत् तथाऽहमर्थप्रकाशोऽपि कल्प्यताम् । उपलम्भविरुद्धं तत्कल्पनमिति ेत्, कोऽयमुपलम्भः? एतावन्तं कालं न किंिदहमज्ञासिषमित्येवंरूप इति ेत्, तर्हि तत एवाज्ञानसुखसाक्षिसंवित्प्रकाशकल्पनमपि विरुध्येत । उपलम्भस्य बहिर्विषयवेदननिषेधरूपत्वात्तत्कल्पनमुपपद्यत इति ेत्, समःसमाधिः ।

मामप्यहं न ज्ञातवानित्युपलम्भो विरोधीति ेत्, कस्य विरोधी? किमहमर्थस्य? उत तत्संवेदनस्य? उत वेदनमात्रस्य? न प्रथमः, अतद्रूपत्वादुपलम्भस्य । न ह्येतावन्तं कालं नाहमभूवमिति कश्ित्प्रतिसन्धत्ते, अपि तु विद्यमानमपि मां न ज्ञातवानिति । न द्वितीयः, एतावन्तं कालं न ज्ञातवानित्यनेन संविदमपि न ज्ञातवानिति संवित्संवेदनस्यापि निषेधप्रसङ्गात् । स्वप्रकाशेन तदा तत्प्रकाशनम्, निषेधस्तु विषयप्रकाशस्येति व्यवस्थेति ेत्, तुल्यमहमर्थेऽपि । अत एव न तृतीयः, स्वपक्षोन्मूलनप्रसङ्गा । “नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवती” (छां 8-11-2) ति सुषुप्तिविषयश्रुत्या तदानीमहमर्थप्रकाशकल्पनं विरुध्यत इति ेत्, तर्हि “प्राज्ञेनात्मा संपरिष्वक्तो न बाह्यं किंन वेद नान्तरमिति” (बृह-6-3-21) तद्विषयश्रुत्यैव संवित्सुखादिप्रकाशकल्पनमपि विरुध्येत्, अविशेषात् । तथाऽपि तदानींतनमज्ञानमनुभूतमननुभूतं वा? पूर्वत्र संविदोऽपि प्रकाशसिद्धिः, स्वयंप्रकाशत्वात्; उत्तरत्रज्ञानप्रतिसन्धानानुपपत्तिरिति ेन्न; तदानींतनकालस्येव तदानींतनाज्ञानस्यापि तदानीमेव कल्प्यमानत्वेन तद्विषयप्रतिसन्धाना(न) भ्युपगमात् । तथाऽपि प्रातर्गजाभावादिनयेन तदानीमधिकरणोपलम्भोऽवश्यंभावीति ेन्न; इदानीमेव कल्प्यमाने मध्यकालवर्तिनि स्वात्मनि योग्यस्मृत्यभावेन ज्ञानाभावस्यापि कल्पनोपपत्तेः । तदानीमधिकरणोपलम्भस्यावश्यंभावेऽपि अहमर्थस्यैव प्रकाशकल्पना युक्ता । अहं न ज्ञातवानिति स एव ह्यज्ञानाश्रयतया प्रतिसन्धीयते । अतो न कथश्िदपि सुषुप्तावहमर्थाभावो वक्तुमपि शक्यः । अहमेव पूर्वं सुप्तः, तथाऽप्यहमर्थस्तदानीं नास्तीति स्ववनविरोधा

मुक्तावप्यहमर्थानुवृत्तिः प्रागेव श्रुतिवशाद्दर्शिता । न मोक्षे अहमर्थानुवृत्तावज्ञत्वप्रसङ्गः, तथा सति संविदनुवृत्तावपि तत्प्रसङ्गात् । यथावस्थितस्वरूपप्रकाशो नाज्ञत्वादिहेतुः, अपि तु तद्विरुद्ध एवेति ेत्, तुल्यम् । यदि मोक्षेऽहमर्थो न स्यात् मोक्षशास्त्रस्याधिकार्यभावः स्यात् । न हि स्ववधाय स्वयमेव बुद्धिपूर्वकारी प्रवर्तते । अहमर्थस्य ात्यन्तविनाशो मोक्षे भवद्भिरिष्यते । संविदात्मनः स्वस्य विवेकाग्रहात् प्रवर्तते इति ेत्, तर्हि स्वविनाशे संविदो विनाशमभिमन्येत । स स्वविनाश एवेति मन्यमानो न प्रवर्ते तैव । स्वात्मावस्थानभ्रमात् प्रवर्तत इति ेन्न; फलस्वरूपमजानतस्तदर्थित्वायोगेनोपायानधिकारात् । अहमर्थस्थितिमपेक्षमाणस्य भवन्मते नित्यसंसारप्रसङ्गात् । अहमर्थस्थितिभ्रमेण प्रवृत्तस्याप्यद्वैतज्ञानोदयसामर्थ्यादेवानि्छतोऽप्यहमर्थविनाश इति ेत्, तथा सति राज्यकामस्य शिरश्छेदवदपवर्गः स्यादिति सम्यक् पुरुषार्थपरत्वं शास्त्रस्य समर्थितं भवति ।

अस्तु तर्ह्याध्यात्मिकादिदुःखत्रयाभिघातवशात्तदविनाभूताहमर्थस्यापि विनाशोऽभिमत इति, तदपि मन्दम्; “तमेवं विद्वानमृत इह भवति” (तै-आ.3.पु.सू) “तमेव विदित्वाऽतिमृत्युमेती” (श्वे 3-8)त्यादिभिर्मृत्युतरणहेतुतया श्रुतस्य ब्रह्मवेदनस्य साक्षान्मृत्युहेतुत्वप्रसङ्गात् । “ब्रह्मैव भवति ” (मुंड-3-2-3) “सर्वं ह पश्यः पश्यति” (छां-7-26-2)इत्यादिभिर्विरोधप्रसङ्गा

अस्तु तर्हि ज्ञप्तिरूप एवात्मा मोक्षशास्त्राधिकारीति ेन्न; तस्य ज्ञातृत्वमन्तृत्वाद्यसंभवेन श्रवणमननाद्ययोगात्, नित्यमुक्तस्वभावतयाऽपवर्गार्थित्वासंभवा । ज्ञातृत्वदुःखित्वाध्यासात्सर्वमुपपद्यत इति ेन्न; तदध्यासप्रलापानामन्यत्रोत्सारितत्वात् । एतेनात्मनोमपवर्गार्थमहमर्थरूपो ज्ञाता प्रवर्तत इति प्रयुक्तम्, दृष्टादृष्टरूपप्रयोजनान्तरमन्तरेण परार्थं स्वानर्थस्य परमकारुणिकैरप्यनभ्युपगमात् । तदेतत्प्रियतमोज्जीवनार्थं मुण्डोपहारवदित्यायातम् ।

अपि यद्यहमर्थो नात्मा कथमनात्मनि देहेऽहंबुद्धिः देहात्मभ्रम इत्यु्यते? स हि त्वत्पक्षे देहाहङ्कारभ्रम इत्यभिधीयेत । आत्माहङ्कारयोरैक्यभ्रमाद्देहाहङ्कारभ्रम एव देहात्मभ्रम इति ेन्न; तद्भ्रमस्याद्याप्यसिद्धेः । संविद्रूपस्य ाहं जानामीत्यादिना तद्धर्मभावादिविरुद्धधर्मवत्तया प्रतीयमानस्याहमर्थेन देहेन वा तादृशभ्रमप्रसङ्गाभावात् । ततश् देहात्मवादनिराकरणप्रयासोऽपि निरर्थकः स्यात्, देहश्ैतन्यमिति ार्वाकैरप्यनङ्गीकारात् । देहस्याहन्त्वेतनत्वादिप्रतिक्षेप एव हि तान्प्रति क्रियते । अन्यथा तेषां सिद्धसाधनत्वात् ।

यदि ाहमर्थो नात्मा, तस्य प्रत्यक्त्वमपि न स्यात्, अहंबुद्ध्यैव प्रत्यगर्थस्य परागर्थाद्विवेकात् । “युष्मदस्मत्प्रत्ययगोयो”(शांकर भा 1-1-1) रित्यादि हि भवदीयभाष्येऽप्युक्तम् । नन्वहमर्थविषयेंऽशद्वयमस्ति, तत्र तत्प्रकाशांशः प्रत्यक्पदार्थः, तदधीन प्रकाशोऽहन्त्वांशः परागर्थः, इदं रजतमिति भ्रमे शुक्तिरजतांशभेदवदिति । तदप्याशामोदकमात्रम्, इदं प्रत्ययेऽपि कश्ित्प्रत्यगंशोऽस्तीति निष्कर्षप्रसङ्गात् । उपलम्भविरुद्धः स इति ेत्, तुल्यम् । अहंप्रत्ययविषयेऽपि वस्तुन्येवेदमंशः परकीयानुमानाद्दृश्यत इति ेत्; तर्हि तत्रैवेदंप्रत्ययगोरे प्रत्यगंशोऽपि सिद्ध इति तद्वदेव घटादिष्वपि तत्कल्पनाप्रसङ्गः । नात्र परात्मनीदमंशः प्रतीयते, अपि त्वेकमेव वस्त्वंशभेदमन्तरेणापि प्रतिसंबन्धिभेदेनाहन्त्वेदन्त्वाभ्यां प्रकाशत इति ेन्न; अहमर्थप्रकाशेऽप्येकस्यैव पुत्रत्वेन पितृत्वेन प्रतीतिवत् इदमंशभानप्रसङ्गात् । तत्रापि कदािदयमहमस्मीति प्रतिभातीति ेन्न; देवोऽहमित्यादिषु देवादिशब्दवत् विशेषणविवक्षया तत्रेदंशब्दप्रयोगात् । तस्य ांशस्यास्माभिरपि परत्वाभ्युपगमात् । प्रतिसंबन्धिनिरूप्योऽहमर्थो न स्वरूपं भवितुमर्हतीति ेन्न; पुत्रादिष्वपि तत्प्रसङ्गात् । प्रतिसंबन्धिनिरपेक्षं मनुष्यत्वाद्याकारान्तरं दृश्यते, अतस्तत्र न दोष इति ेन्न; अत्रापि वस्तुत्वेतनत्वाद्याकारान्तरसिद्धेः।

नन्वहं शब्दप्रत्यभिज्ञानादहंकार एवाहमर्थ इति निश्ीयते, स क्षेत्रान्तर्भूतो भगवता परिगणितः,”महाभूतान्यहंकारो बुद्धिरव्यक्तमेव ” (श्री.गी.13-7) इत्यारभ्य “एतत्क्षेत्रमिति” (गी.13-6)वनात्, “निर्ममो निरहंकार” इत्यादिषु हेयतयाऽयमुपदिश्यते, अतो नात्मा भवितुमर्हतीति । तदसत्, बुद्धिशब्दप्रत्यभिज्ञानेन भवदभिमतसंविदोऽपि बुद्धिपर्यायवा्यमहत्तत्वानतिरेकप्रसङ्गात् । अध्यवसायाख्यकार्योपकरणत्व मात्रेण तत्र बुद्धिशब्द इति ेत्; तर्हि अनात्मनि देहे अहमभिमानाख्यकार्यकरतयाऽत्राप्यहंकारशब्द इति भाव्यम् । अहम्भावान्तरहेतुत्वं न शब्दशक्त्या प्रतीयत इति ेन्न; अभूततद्भावार्थ्विप्रत्ययमुत्पाद्य व्युत्पत्त्या तदुपपत्तेः । क्षेत्रान्तर्भावपरिगणनं तु बुद्धेरप्यविशिष्टमिति । संविदोऽपि क्षेत्रकुक्षिनिक्षेपे नैरात्म्यवादप्रसङ्गः, समाधिश् समान एव । निरहंकार इत्यादिषु गर्वपर्यायोऽहंकार उत्कृष्टजनावमानहेतुत्वादनर्थहेतुरिति हेयतयोपदिश्यते; न पुनरहमर्थोऽहंकारतत्त्वं वा, तयोरुपाधिमन्तरेणानर्थहेतुत्वाभावात् । तथा सत्युपाधेरेव हेयत्वापत्तेः । नाहंभावः स्वरूपेण त्यक्तुं शक्यः, त्यागबुद्धावपि तदनुप्रवेशात् । सुषुप्तिमूर्छादिषु तत्त्यागाभ्युपगमेऽपि नासौस्वशक्त्या, दैवादापन्नत्वात् । अहंभावस्य ोपादेयत्वमेव श्रुत्या प्रतीयते अथातोऽहंकारदेशः (छां-7-27-1) “अहमेवाधस्तादहमुपरिष्टात्” (छां 7-25-1) “त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ सोऽहमि” (जाबाला इति शांकरे) त्यादिषु तत्त्वमसिनिरूपणेैषामबाधितंसामानाधिकरण्यमनुसन्धेयमिति सिद्धमनारोपितज्ञातृत्वविशिष्टोऽहमर्थ एवात्मेति ।।

।।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्तार्यस्य कृतिषु शतदूषण्यां अहमर्थात्मत्वसमर्थनवादः षड्विंशः ।।26।।

Languages

Related Parts

error: Content is protected !!