शतदूषणी
अथ उपदेशानुपपत्तिवादः चतुस्त्रिंशः ।
हयमुखमुखैस्तत्तद्रूपैरकर्मविनिर्मितै रुपदिशति यस्तथ्यं पथ्यं सतामवसीदताम् ।
जननपदवीयातायातश्रमापहरां धियं जनयतु स मे देवः श्रीमान् धनञ्जयसारधिः ।।
अस्ति तावदासर्वेश्वरादस्मदादिपर्यन्तमासंसारमनुवर्तमानो दृष्टा दृष्टप्रयोजनः सर्वसैद्धान्तिक सम्मतश्शिष्याचार्यक्रमः । स एष निर्विशेषैकशेमुषीमात्रपरिशेषमुषितनिरवशेषभुवनस्य न कथञ्चिदपि सङ्गच्छते । तथाहि – आत्माद्वैतमुपदिशन्नाचार्यः किं शिष्यतया शिक्षणीयं कं चिदपि नोपलभते, उतोपलभते?
आद्ये कस्मा उपदिशेत्? न कस्मैचिदितिचेत्? तर्हि नोपदिशेदेव, श्रोतृप्रतिपत्तिप्रयोजकत्वादुपदेशस्य । अन्यथाआरण्यकोपदेशस्य । स्वस्मा एवेति चेन्न; – उपदेष्टव्यप्रतिपत्तौ नैराकाङ्क्ष्येण श्रोतृत्वासिद्धेः । तदप्रतिपत्तौ वा अज्ञत्वेनानुपदेष्टृत्वात् ।
द्वितीये तु स्वात्मनोन्यमनन्यंवा? अन्यत्वेपि सत्यमसत्यंवा?
नाद्यः, अपसिद्धान्तादिप्रसङ्गात् । न द्वितीयः, मिथ्याभूतस्य शिष्यस्य मिथ्यात्वेनोपलम्भे तदर्थमुपदेशाद्यसम्भवात् । नहि प्रतिबिम्बादित्वेन प्रतीयमानेभ्यः प्रतिबिम्बादिभ्य उन्मत्तोप्युपदिशेत् । पाञ्चालिकादिभ्यो बालिकादिव्यवहारवदिति चेन्न; – मौग्ध्यमन्दीकृतकृत्याकृत्यविवेकानां बालिकादीनां क्रीडारसादि निर्विविक्षया तदुपपत्तेः । अत्रापि तथास्त्विति चेन्न; – स्वपरहृदयविसंवादादपसिद्धान्ताच्च । समूलभेदभ्रमनिर्मूलनाय तत्वमस्याद्युपदेश इति वो मठकमठसम्प्रदायः ।
मिथ्याभूतं शिष्यं सत्यत्वेनोपलभानस्तु स्वयं भ्रान्तत्वादननुविधेयवाक्यः स्यात् । स्वस्माद्भिन्नतया सत्यत्वेनोपलभ्यमानाय शिष्याय स्वात्मैक्यमुपदिशन्नाचार्यः विप्रलम्भकश्च स्यात् । कथञ्चासावद्वैतवाक्य श्रवणमहिमनिश्शेषितातत्वप्रतिभासे मृषाभूते शिष्ये सत्यतां प्रत्येष्यति ।
अनन्यत्वपक्षे प्यनन्यत्वेनान्यत्वेनवा शिष्यस्य उपलम्भः? उभयमपि पूर्वोक्तैरेव दूषणैरचूषितम् ।
किञ्चाद्वैतोपदेष्टाचार्यो निवृत्ताविद्यः, उतानिवृत्ताविद्यः? निवृत्ता विद्यत्वे शब्दार्थतत्प्रतिभासादिभेदगुच्छोच्छेदेन तुच्छहेतुरुपदेशस्स्यात् । बाधितानुवृत्तिस्तु बाधिता । न चेश्वरकृतेषूपदेशेषु बाधितानुवृत्तिमूलत्वसम्भवः, अनादिसर्वज्ञतया करणपरतन्त्रज्ञानत्वाभावेन तस्य भ्रमतद्बाधितानुवृत्त्यादेरसम्भवात् । “”यस्सर्वज्ञस्सर्ववित्” “”परास्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानबलक्रियाचे” त्यादि हि श्रूयते । अस्तु वा बाधितानुवृत्तिसम्भवस्त्वन्मते, तथापि नोपदेशादिप्रवृत्तिसम्भवः । नहि पानीयाभिमाननिवृत्तावपि दोषवशात् प्रकाशमानासु मरुमरीचिकावीचिकासु कश्चित्पिपासति ।
अनिवृत्ताविद्यश्चेत् भ्रान्तत्वादेव पूर्ववदनाप्तत्वप्रसङ्गः ।
किमर्थश्चायमात्माद्वैतोपदेशः? अविद्यानिवृत्त्यर्थ इति चेत्? किमुपदेष्टुः; उत श्रोतुः, उतोभयोः अथोभयव्यतिरिक्तस्य? नाद्यः, पूर्वमेव तस्य निवृत्ताविद्यत्वात् । अनिवृत्ताविद्यत्वे परोपदेशेन स्वभ्रमनिवृत्त्ययोगात् । परोपदेशजनितपरमादृष्टप्राबल्यादिति तु सम्भवन्नप्यर्थः प्रपञ्चसत्यत्वभयाद्भवता नाबलम्ब्यते । नापि द्वितीयः, उपदेष्टृज्ञानस्याविद्यानिवर्तकत्वमस्ति नवा? अस्तिचेतेनैव शिष्याविद्याया अपि निवृत्तावुपदेशनैष्फल्यम् । नास्तिचेत्, तर्हि तत एव शिष्यज्ञानस्याप्यविद्याया अनिवर्तकत्वादुपदेशनैष्फल्यम् । नच तृतीयः, उक्तदोषसमुच्चयप्रसङ्गात् । नापि चतुर्थः, अतिप्रसङ्गात्; नहि देवदत्ताय सर्पाभावोपदेशेन यज्ञदत्तस्य सर्पभ्रमो निवर्तते । तथाच सति सर्वतत्वसाक्षात्कारिषु ईश्वरादिषु जागरूकेषु क्वचिदपि कस्यचिदपि भ्रमानुदयप्रसङ्गात् । यश्च नित्यनिवृत्ताविद्यं ब्रह्मेति भाषते, स कथं ब्रह्माविद्यानिवृत्त्यर्थ उपदेश इत्युपदिशेत् ।
अस्तु तर्हि निष्प्रयोजन एवायमुपदेश इति चेन्न; – “प्रयोजनमनुद्दिश्च न मन्दोपि प्रवर्तत’ इति न्यायात् । नच वस्तुतो न कश्चित्कस्मैचिदुपदिशतीति वाच्यम्, व्यावहारिकव्यवस्थया सर्वस्य निर्वाह्यत्वेनाभ्युपगमात् । अन्यथा स्वसिद्धान्तसमर्थनस्येव परसिद्धान्तदूषणस्याप्यसिद्धौ परेषामेव विजयित्वप्रसङ्गात् । दूषणसमर्थनप्रयोजनाभावेपि प्रयोजनसद्भावभ्रममूलोयमुपदेशभ्रम इति चेत्? हन्त पुनरपि समीचीनमेव तत्ववित्त्वमुपदेष्टुरुपपादितम् । माभूत्तत्ववेदित्वम्, तथापि स्वप्रसिद्धशिष्याचार्यवद्व्यवहार इति चेत्? हन्त तर्हि सिद्धान्तान्तरशिष्याचार्यादिव्यवहारात्को विशेषः? नहि जिनसुगतादिशिष्याचार्यव्यवहारात् प्रतिभासते भवतां विशेषः, येन वैषम्यं वक्ष्यसि । विशेषस्तत्वविषयत्वमिति चेन्न; – तत्वविषयत्वस्याप्यतत्वकोटिनिवेशेन पुनरप्यविशेषात् । तत्वातत्वविषयताव्यवस्थापनस्य तस्यापातरमणीयाभिमानमात्रसारत्वाविशेषात् । अस्त्वविशेषः, को दोष इति चेन्न; – परिग्रहबहिष्कारादिव्यवस्थाभङ्गप्रसङ्गात् । सापि व्यवस्था समीचीनताऽसमीचीनतामोहहेतुकेति चेत्? तर्हि जितमनायासेन सर्वैस्त्वद्विरोधिभिः, त्वन्मतप्ररिग्रहस्य त्वयैव समीचीनताभ्रमहेतुत्वकण्ठोक्तेः । परमतस्यापि त्वयैवासमीचीनताभ्रमविषयत्वाभिधानेनार्थतस्तद्विपरीतसमीचीनत्वस्यैव समर्थितत्वात् । सर्वमप्यसमीचीनमिति तत्वस्थितावस्माकमेव जय इति चेत्? अस्यैव वाक्यार्थस्य समीचीनत्वाऽ समीचीनत्वयोः सर्वासमीचीनत्वासिद्धेः । एतस्याप्यसमीचीनत्वं सर्वासमीचीनत्वान्तर्गतमिति चेन्न; – दुष्परिहरस्वव्याघातनिरयनिपातस्य बहुशोन्यत्र स्थापनात् । तदलमनेन व्रणकिणभूषणशम्फळीजनसध्रीचां व्याहतवाचां भूषणाभिमतेन दूषणाभिधानेन ।
एवं आत्मैक्यं स्वाभाविकमभ्युपगच्छतां भास्करयादवमतानु सारिणामुपाधितः स्वतो वा भेदेपि सार्वज्ञाज्ञत्वसङ्करादेरपरिहरणीय त्वादुक्तोपदेशानुपपत्तिरपरिहार्या । स्वाभाविकैक्येतु स्वाभाविकभेदो व्याघातादपि निरस्त एव । आैपाधिकोपि भेदो न प्रतिसन्धानपरिपन्थी, (तथान्तःकरणभेदोपिन प्रतिसन्धान) अन्यथा सौभरिदेहेष्वीश्वरावतारभेदेष्वप्यप्रतिसन्धानप्रसङ्गात् । यथा च चक्षुरादिकरणभेदः पाणिपदाद्यवयवभेदश्च न प्रतिसन्धानं प्रतिरुणाद्धि तथान्तः करणभेदोपि न प्रतिसन्धानं प्रतिरोद्धुमलम् अतएव सर्वगुणदोषसङ्करो दुर्वारः, निर्विकारनिरवद्यश्रुतिविरोधोपीति कृतमप्रसक्तोपालम्भेन । अतः परमार्थनिरुपाधिकात्यन्तात्मभेदमन्तरेण नोपदेशसम्भवः ।
ननु परस्परं शिष्याचार्यादिभावेनावस्थितेषु भगवदवतारेषु परमार्थत आत्मभेदाभावेपि व्यवस्था सुस्था, फलं चास्त्येव किञ्चित्, तत्रेश्वरमायापुरस्कारः परिष्कारश्शङ्करमतस्य, उपाधिभेदाभिधानेतु भास्करोदयप्रत्यूषः, विभागशक्तिवैभववादस्तु यादवराज्याभिषेकः, गत्यन्तरन्तु प्रमाणपथिकप्रान्तरं सम्भवदपि समानमस्माकमिति प्रतिबन्दिमुखेन श्वावराहकलहावतारे कस्ते निस्तार इति ।
अत्रबूमः – अस्ति हि समस्तसमाधानहेतुरीश्वरलीला, स भगवान् पुरुषोत्तमः स्वमाहात्म्यानुगुणलीलाप्रवृत्तः स्वेच्छया स्वीयमेव रूपं विचित्राकारं परिणमय्य तत्तज्जातीयोचितमभिनीय निखिल जगदुज्जिजीवयिषया शिष्याचार्यादिभावमप्यभिनीय स्वोपदेशानुष्ठानादिभिर्धर्म संस्थापनं लोकनिर्वाहादिकं च निर्वर्तयतीति किन्नोपपद्यते । उक्तं च न्यायाचार्यैरपि “”मायावत् समयादय” इति ।
नच युष्मच्छिष्याचार्येष्वपि इयमेव रीति रिति वक्तुं शक्या, परस्यैवा भावेन परार्थत्वासिद्धेः । दुःखमयत्वेन केवलं स्वार्थत्वायोगात् । अस्माकमपीश्वरस्य तु स्वव्यतिरिक्तानन्तसंसारिचेतनसद्भावेन तदर्थं स्वलीलारसोचिततत्तत्संव्यवहारोपपत्तेः । चिन्मात्रस्य तु निर्विशेषत्वेन कथं लीला? कथञ्चेश्वरत्वम्? नचार्वाचीनेषु तादृशलीला सम्भव इत्युक्तम् । अतो वास्तवं जीवभेदं जीवश्वरभेदं चानभ्युपगच्छतां मोक्षार्थोपदेशादिप्रवृत्तिर्न सम्भवतीति ।
इति शतदूषण्यां उपदेशानुपपत्तिवादः चतुस्त्रिंशः। (34)