शतदूषणी
।। अथ ऐकशास्त्र्यसमर्थनवादस्तृतीयः ।।3।।
त्रय्यन्ताः कर्मभागेन सौहार्दं समधिश्रिताः ।
मुक्तिं यद्भजनादाहुस्तमनन्तमुपास्महे ।।
स्थितं तावदध्ययनविधिनाऽध्यापनविधिना वा प्रयुक्तमध्ययनं साङ्गसशिरस्ककृत्स्नस्वाध्याय विषयमिति । रागतो विधितो वा प्रयुक्तस्तदर्थविचारोऽपि कृत्स्नगोचरः, तयोस्संकोचकाभावात् ।
ननु विधिप्रयुक्तौ माभूत्सङ्कोचः, रागप्रयुक्तौ तु स्यात्, यावद्रागं प्रवृत्त्युपपत्तेः, मैवम्; विकल्पासहत्वात् । किं ब्रह्मणि विचारसङ्कोचः किं वा कर्मणि? नाद्यः पुरुषस्य चतुर्ष्वपि पुरुषार्थेषु रागसम्भवात्, क्रमेण भोगसम्भवे विरोधाभावाच्च । सन्ति ह्युभयभावनास्तथाविधाः । यस्य तु क्वाचित्को रागः, तस्यैकदेशविचारे का विचिकित्सेति चेन्न, यस्य लोकायतोपप्लुतमतेर्द्विवर्गमात्रनिष्ठस्य वेदोदितेषु चतुर्ष्वप्यनास्था, यस्य चाशक्तिरापद्वा तस्य केति प्रसङ्गात् । अस्त्वनर्हस्यानधिकारः, स्वार्हं प्रति प्रवृत्ता मीमांसेति चेत्, तुल्यं त्रिकाण्ड्यामपि । तिष्ठतु पुरुषार्थरागः, कृत्स्नप्रवचनादिरागादपि कृत्स्नविचारस्समस्ति, तेन न ब्रह्ममात्रे विचारसङ्कोचः । कर्ममात्रे च विचारं सङ्कोचयन् कबन्धमीमांसकस्तु राहुमीमांसकैरपि प्रतिवक्तव्यः, सिद्धेऽपि व्युत्पत्तिसम्भवात् । अप्राप्ते स्वतः पुमर्थे च विषये प्रवृत्त्यनङ्गत्वेऽपि, श्रवणादियोगादर्थज्ञानस्य स्वतन्त्रत्वे उपायानुष्ठानशेषत्वेऽपि, तदुपयोगिसिद्धार्थबाधायोगाच्चेति । कर्मशेषभूतस्यात्मनः शास्त्रान्तराद्विचार इति वदताऽपि शारीरकं शास्त्रैकदेश इति स्वीकर्तव्यम्, अन्यतस्तदयोगात् । तेनैव दन्तिभुक्तकपित्थन्यायेन निस्सार एव वेदान्त इति नास्तिकानां वचनमवधूयते ।
अस्तु तर्हि ब्रह्मैकविषयतया विचारसङ्कोचः, अतिशयितपुरुषार्थप्रतीतौ “स्थितेऽरविन्दे ‘ (स्तोत्ररत्नं 25) इति न्यायावतारादिति चेन्न, कर्मविचारस्य कैश्चिदप्यननुष्ठानप्रसङ्गात् । अस्त्विति चेन्न, प्रत्यक्षविरोधात् । अतिशयितपुरुषार्थप्रतीत्यभावात्कस्यचिदुपपत्तिरिति चेन्न; तदभावस्तस्य त्रय्यन्तभागानध्ययनाद्वा तत्सहकारिविरहाद्वा? नाद्यः, विधेः कृत्स्नविषयत्वस्थापनात् । न द्वितीयः, साङ्गाध्ययनादेव तत्रापि तत्सिद्धेः । न हि साङ्गाध्ययनविधेस्तत्रैव सर्पमारः, अन्यत्रापि तत्प्रसङ्गात् । तथात्वे वा क्व शास्त्रारम्भः? तत्सिद्धावप्यनादिदुर्वासनादार्ढ््यादपथे प्रवर्तन्ते कर्ममीमांसका इति चेन्न, त्वयाऽपि विविदिषासाधनाधिकारे कर्मणां सत्पथत्वस्वीकारात् । तथाऽपि तद्विचारश्शरीरकशेष इति चेत्, सिद्धं शास्त्रैक्यम् । कर्मस्वरूपादिविचारमन्तरेण विविदिषार्थविनियोगायोगात् । वेदनार्थविचारपक्षेऽपि किं पुनः । भवान्तरीयसुकृतविशेषमृदितकषायस्य कस्यचिदयत्नेन विविदिषोत्पत्तौ किं तदर्थकर्मविचारेणेति चेन्न, तथैव कस्यचिदत्यन्तमृदितकषायस्य जातिस्मरणादिवत्सिद्धज्ञानतया शारीरकेऽप्यनारम्भात् । तदर्हस्य तदारम्भ इति चेत्, एवमुभयार्हस्य उभयारम्भ इति तुल्यम् । न ह्यनधिकारिणं विधिरधिकुरुते; रागोऽपि तथा; “न ह्यशकनीयमर्थं वेदोऽपि विदधाती”ति न्यायात् ।
यदा च यावज्जीवमनुष्ठेयं ज्ञानमपवर्गोपाय इति सेत्स्यति, तदा तदुपचयार्थं तदर्थविविदिषानुवृत्त्यर्थं वा सत्कर्मणां नित्यानुष्ठेयत्वेन विचारोऽवश्यंभावी । न च जन्मान्तरकर्मबलाद्यावज्जीवं विविदिषा स्यादिति निश्चेतुं शक्यम्, प्राक्तनैरद्यतनैर्वा प्रबलैर्विरोधिकर्मभिः तत्प्रतिबन्धशङ्कयाऽपि नित्यं सत्कर्मणां संग्राह्यत्वात् । अन्यथा प्राक्तनैरेव कर्मभिर्वृष्टिस्स्यादिति कारीर्यादिकं नानुष्ठी्येत ।
नच नित्यनैमित्तिकविधिः विविदिषोत्पत्त्या निवर्तते, वर्णाश्रमादिनिबन्धनत्वात्तस्य । वर्णाश्रमाद्यभिमाननिवृत्त्या तन्निवृत्तिरिति चेत्, केयमभिमाननिवृत्तिः? किं तद्भ्रमस्य निवृत्तिः? उतस्वसमवेतत्वभ्रमस्य निवृत्तिः? किंवा देहात्मतादात्म्यभ्रमस्य निवृत्तिः? अथवा वर्णाश्रमाद्याश्रयपिण्डसम्बन्धभ्रान्तिनिवृत्तिः? अथवा पिण्डस्यैव निवृत्तिः? नाद्यः, असिद्धेः । न द्वितीयः, कर्ममीमांसकानामपि पारलौकिकात्मविदां वर्णादेस्स्वसमवेतत्बभ्रमाभावेन कर्मणामधिकार्यभावप्रसङ्गात् । नहि देहात्मभ्रमवन्तं प्रति धर्मोपदेशः । न तृतीयः, भ्रमनिवृत्तिर्हि देहातिरिक्तात्मविसं्रभौपयिकतया पारलौकिककर्मानुष्ठानयोग्यतामेवावहेदिति कथं तथा सा निवर्तते? न चतुर्थः, तत्संबन्धस्य सत्यत्वेन भ्रमत्वासिद्धेः। न पञ्चमः, ब्रह्मविचारस्याप्यनारम्भप्रसङ्गात् प्रत्यक्षादिविरोधाच्च । वास्तवनिवृत्तिमात्रविवक्षायामविरोध इति चेन्न, तस्य कर्माधिकारदशायामपि भवता स्वीकारात् । किंच यावता कर्माधिकारो निवर्तत इति मनुषे, तावता वेदान्तश्रवणाद्यधिकारोऽपि निवर्तत इति ब्रह्ममीमांसैव न स्यात् । नचायमिष्टप्रसङ्गः, तत्त्वज्ञानोदयात्पूर्वं तदनभ्युपगमात् ।
ननु कर्ममीमांसाया वेदान्तविचारानुपयुक्तत्वान्न तया सहास्यैकशास्त्र्यमितिचेन्न, अनुपयोगासिद्धेः । कोऽसावुपयोग इति चेत्, न्यायोपजीवनं तावत् । तथाहि -बाह्यान्तरनिमित्ताप्रामाण्यनिराकरणेन प्रमाणलक्षणं तावत्कृत्स्नोपयुक्तम् । भेदलक्षणोपजीवी च गुणोपसंहारपादः । तार्तीयाश्च श्रुतिलिङ्गादयस्सार्वत्रिकाः । प्रयुक्तिश्च वर्णाश्रमादिधर्माणां विद्याप्रयुक्तत्वाश्रमप्रयुक्तत्वादिविमर्शे निविशते । गतिचिन्तायां च पाञ्चमिकः क्रमः । कर्ताविद्याधिकारिचिन्तने विशेष्यते । अतिदेशादयश्च “तदेव रूपं यदमुप्य रूपम्” (छां-2-6-6) इत्यादिषु । अतः कर्ममीमांसानिरूपितस्वरूपैस्तत्तन्नयायैरेव हि वेदान्तार्थो विचार्यते । अपूर्वास्तत्र कतिपये न्यायाः विद्याङ्गभूतयज्ञादिस्वरूपशिक्षणं च । अन्यथा “यज्ञेने’त्यादिवाक्यार्थानवबोधप्रसङ्गात् । न ह्यविदितपदार्थविशेषो वाक्यार्थावसायी स्यात्। यज्ञादिकल्पनं च तत्र तत्र क्रियते; तदपि यज्ञादिस्वरूपनिरूपणसापेक्षम् ।
यच्चातिशयितपुरुषार्थप्रतीत्या तदर्थो वेदान्तभाग एव प्रवर्ततामिति, तत्रेयं प्रतीतिः किमापातसम्भवा? उत निर्णयात्मिका? न प्रथमः “अपाम सोमममृता अभूम” (कृष्ण यजुः तै.सं.3-2-7 अनु) “अक्ष्यय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवति” (आप.श्रौत.8-2-2) इति कर्मभागेऽप्यक्षयफलापातोपलम्भात्, ब्रह्मभागेऽपि “न प्रेत्य संज्ञाऽस्ती” (बृ.4-4-22) त्यादिभिर पुरुषार्थापातोपलम्भात् । ननु पूर्वापरवाक्यानुगुण्यात्तेषां स्तुतिमात्रपरत्वम्, अस्य तु वाक्यस्य तस्मादेवपरमपुरुषार्थ एव तात्पर्यमिति वैषम्यमस्तीति चेत्; किं तेन, अप्रमितत्वेन विचारनियमं प्रत्यनुपकारकत्वात् । न द्वितीयः, मीमांसया विना तदसिद्धेः । तत्त्वविदुपदेशात्तत्सिद्धिस्संभवतीतिचेत्, तर्हि ब्रह्ममीमांसाया अप्यनारम्भस्स्यात्; तदुपदेशत एव ब्रह्मस्वरूपसिद्धेः, तत एव भ्रमनिवृत्तेश्च ।
अत एकस्यैव पुरुषस्य वेदोदितसर्वपुरुषार्थयोग्यतामाश्रित्य एकव्याख्येयव्याख्यानात्मनाविंशतिलक्षणमेकं शास्त्रमिति ।
एतेनार्थप्रयोजनाधिकारिभेदाच्छास्त्र भेद इति निरस्तम्, सामान्यतो वेदार्थपुरुषार्थतदर्थित्वरूपेणतेषां भेदासिद्धेः, अवान्तरार्थभेदादेश्शास्त्रैक्येऽप्यविरोधात् । अन्यथा षट्काध्यायादिभेदेऽपि भिन्नशास्त्रत्वप्रसङ्गात् । नचैवं वेदार्थानुबन्धित्वाविशेषाद्धिद्यास्थानभेद विलयप्रसङ्ग इति वाच्यम्,उपकारभेदेन तद्भेदव्यवस्थापनात् । अत एव हीतिहासपुराणयोरदूरविप्रकर्षादेकविद्यास्थानत्वनियमः । नच धर्मशास्त्रस्येवात्र महर्षिभिः पृथक्परिसङ्ख्यानम् ।
तथाऽपि भिन्नकर्तृकयोः कथमेकप्रबन्धत्वमिति चेन्न; एकेनापि कर्त्राऽनेककार्यारम्भदर्शनात्, अनेकैरप्येक रथगोपुरप्राकारादिनिर्माणदर्शनाच्च । निबन्धनेष्वयं विशेष इति चेन्न; तत्राप्येकेन विदुषाऽनेकप्रबन्ध करणदर्शनात्, पाणिनीयवृत्तिकादम्बरीप्रभृतिषु चानेककर्तृकत्वेऽप्येकप्रबन्धत्वसंप्रतिपत्तेश्च । तत्र कर्तृभेदे किं प्रमाणमिति चेत्, कर्मब्रह्ममीमांसयोरपि वा किम्? उपदेशपारम्पर्यमिति चेत्, तुल्यम् ।
अस्तु तर्ह्यर्थविरोधाद्भेद इति चेत्; कोऽसौ विरोधः? द्वैताद्वैतगोचरत्वमिति चेन्न, तयोरेकनिष्ठत्वासिद्धेः। न हि कर्मकाण्डनिरूपितफलकरणेतिकर्तव्यतादीनामैक्यं ब्रह्मैक्यादिविषयेषु वेदान्तेष्वभिधीयते । तत्सत्यत्वमिथ्यात्वप्रतिपादनाद्विरोध इति चेन्न, वेदान्तभागस्य प्रपञ्चमिथ्यात्वतात्पर्याभ्युपगमे कर्मभागस्य तत्सत्यत्वप्रतिपादनतात्पर्यासिद्धेः । सत्यत्वाभावेऽपि हि त्वदुक्तव्यावहारिकमर्यादया फलकरणभावादिकं निरूपयितुं शक्यते । अन्यथा वेदान्तविचारस्यापि प्रमाणतर्कादिभेदसापेक्षत्वेन स्वव्याघातप्रसङ्गः । सगुणब्रह्मोपासनतत्फलादिचिन्तनमपि शास्त्रान्तरसाध्यं स्यात् । यदा त्वस्मदुक्तन्यायेन सकलकर्मसमाराध्यमनन्तगुणविभूतिकं ब्रह्म वेदान्तवेद्यम्, तदा तु न विरोध गन्धोऽपि ।
निरीश्वरत्वसेश्वरत्वाभ्यां विरोध इति चेन्न; जैमिनिसूत्रेष्वीश्वरप्रतिक्षेपादर्शनात्, अर्वाचीनव्याख्यातृजल्पितानां तु अनादरणीयत्वात् । अत एव सेश्वरमीमांसापक्षोऽपि नातीव विच्छिन्नः; परैरनूद्यते च । देवताकाण्डं च कर्मकाण्डशेषतया भाष्यकारैः परिगृहीतम् । “तदुक्तं संकर्ष” (संकर्ष काण्ड) इति तत्रत्यसूत्राणि चोदाहरन्ति । तस्य च काण्डस्योपसंहारे “अन्ते हरौ तद्दर्शनात् ” (संकर्षकाण्ड) इति देवताकाष्ठां प्रदर्श्य “स विष्णुराह हि” (संकर्षकाण्ड) इति सर्वदेवताराधनानां तत्पर्यवसानाय तस्य सर्वान्तरात्मत्वेन व्याप्तिं प्रतिपाद्य “तं ब्रह्मेत्याचक्षते तं ब्रह्मेत्याचक्षते” इति तस्यैव वेदान्तवेद्यपरब्रह्मत्वोपक्षेपेणोपसंहारात्, सामान्यतोऽपि विशेषतश्चेश्वरः प्रस्तुत इति तत्त्वविदां संप्रदायः। अत एव कर्मकाण्डदेवताधिकरणमपि कर्मप्राशस्त्यमात्रपरम्; किमलौकिकदेवता विग्रहादिसमर्थनप्रयासेन? यथाश्रुतकर्मण एव फलप्रदत्वशक्तिरित्येतावतैवोक्तेन परप्रतिक्षेपात्, अश्रुतवेदान्तानां प्ररोचनासिद्धेश्च, सहसा च गुह्यार्थानामवचनीयत्वात् । एवं सति ब्रह्मकाण्डदेवताधिकरणैकरस्यसिद्धेः । द्रव्यदेवतयोर्द्रव्यबलीयस्त्ववर्णनमपि न देवताविग्रहाद्यपारमार्थ्यलिङ्गम्, प्रतीतिसन्नि कर्षविप्रकर्षाभ्यामेव प्राबल्यदौर्बल्यसिद्धेः। यद्यपि द्रव्यस्यापि धर्मत्वं परोक्षम्, अथापि स्वरूपतः प्रत्यक्षतया विशेषोऽस्त्येव । एवं सर्वत्राविरोधः सेश्वरमीमांसायामनुसन्धातव्यः ।
तथाऽपि “मध्वादिष्वसम्भवादनधिकारं जैमिनिः “(ब्र.सू.1-3-30)” धर्मं जैमिनिरत एव “(ब्र.सू.3-2-35)” शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः” (ब्र.सू.3.4.2) “परामर्शं जैमिनिरचोदनाच्चापवदति हि” (ब्र.सू.3-4-18) “परं जैमिनिर्मुख्यत्वात्” (ब्र.सू.4-3-22) “ब्राह्मेण जैमिनिरुपन्यासादिभ्यः” (ब्र.सू.4-4-5) “भावं जैमिनिर्विकल्पामननात्” (ब्र.सू.4-4-22) इति सूत्रेषु जैमिनिमतस्य पूर्वपक्षत्वेनोपादनाद्विरोधस्सिद्ध इति चेन्न; अत्यल्पतराप्रधानार्थविवादस्य प्रधानभेदकत्वाभावात् । अत एव हि शास्त्रेषु वार्तिकावतारः । किंपूर्वकृतप्रासादखण्डविषमांशापनयने शेषनिर्माणे तदैक्यं नास्ति? अतः प्रतिसंस्कारेणात्रापि सन्धानम् । यद्वा वैभवोक्तेषु तत्त्वभ्रमो मन्दधियां माभूदिति तदनुवादप्रतिक्षेपौ ।
“तदुक्तं तदुक्त”मिति जैमिनिपरिग्रह एव बहुशो दृश्यते । विशेषतश्च “साक्षादप्यविरोधं जैमिनिः” (ब्र.सू.2-2-25) “सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति”, (ब्र.सू.2-2-22) “अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके” (ब्र.सू.2-7-28) “तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः” (ब्र.सू.3-4-40) इति सूत्रेषु भगवता बादरायणेन स्वाभिमतार्थस्थापनाय जैमिनिस्स्वनाम्नैवोपात्तः । स च भगवान् जैमिनिः “आैत्पत्तिकस्तु शब्दस्यार्थेन सग्बन्धस्तस्य ज्ञानमुपदेशो व्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं वादरायणस्यानपेक्षत्वात्’ (पू.मी.सू.1-1-7) इति स्वोक्तार्थसंप्रतिपत्तये स्वाचार्यं बादरायणमेव पुरस्करोति । जैमिनेर्बादरायणशिष्यत्वं च महाभारतादिषु प्रसिद्धम्- “सुमन्तुं जैमिनिं बैल्वं वैशम्पायनमेव च “(श्री महा भा) इत्यादिना । नत्वत्र व्यासशिष्यो जैमिनिरित्युक्तम्, सत्यं व्यास एवात्र बादरायणः”-“द्वीपे बदरिकामिश्रे बादरायण मच्युतम् । पराशरत्सत्यवती पुत्रं लेभे परन्तपम्” ।। (श्री महा भा) इति हि स्मर्यते । व्यासव्यतिरिक्तेऽपिबादरायणसंज्ञा प्रयुक्तेतिचेत्, तथाऽपि”तपोविशिष्टादपि वैवसिष्ठान्मुनिसत्तमात् । मन्ये ज्येष्ठतमं त्वाऽद्य रहस्यज्ञानवेदने” (श्री.महा.भा) इति रहस्यतमार्थज्ञापकत्वेन प्रसिद्धिप्रकर्षादेः संप्रदायादत्र व्यास एव स्वीक्रियते । अत एव हि युष्मद्भूमिकामाश्रिताः वाचस्पतिप्रभृतयोऽपि व्यासमेव ब्रह्मासूत्रकृतमाचरव्युः । येषु च सूत्रेषु पूर्वपक्षतया जैमिनिमतमुक्तं शारीरके तेष्वपि देवतासद्भावः परब्रह्मसद्भावो मुक्तस्य परब्रह्मसाम्यापत्तिर्विग्रहादिसद्भावश्च प्रतीयते, तदपि च तत्प्रणीत कर्मकाण्डदेवताधिकरणादेरन्यपरत्वं स्थिरीकरोति । न ह्यर्वाचीनवज्जैमिनिहृदयानभिज्ञस्तदाचार्यो बादरायणः, अतः परस्परसम्मत्या कार्यान्तरेष्विवात्रापि यथांशकरणमपि युक्तम् ।
तदेतदखिलमभिप्रेत्योक्तं भगवता बोधायनेन-“संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः” (बोधायन वृत्ति) इति । तदेतदुपादाय व्यस्तृणीत च भाष्यकारः ।
नन्वेतावताऽपि कर्मब्रह्ममीमांसयोरैकशास्त्र्ये प्रबन्धैक्ये वा किंप्रमाणमुपन्यस्तमिति चेत्, किं वा कर्मकाण्डद्वादशाध्यायादौ शारीकचतुरध्याय्यां च प्रत्येकमैकशास्त्र्ये त्वया निर्णीतम् ? क्रमविशेषनि यामकसंगतिविशेषविशिष्टाविरुद्धावान्तरार्थशास्त्रान्तरव्यावृत्तासाधारणोपकारार्हसप्रकारैकप्रधानार्थत्वमिति चेत् इदं तु किंप्रमाणमिति निपुणो भूत्वा त्वमेव निरूपय, त्यज वा सर्वत्रैक्यम् । तस्मात् “अथातो धर्मजिज्ञासा” (पू.मी.सू.1-1-1) इत्यारभ्य “अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्” (ब्र.सू.4-4-22) इत्येवमन्तं कर्मदेवतापरदेवतागोचरतया विभक्तकाण्डत्रयं विंशतिलक्षणमेकं शास्त्रमिति तदिदं-मीमांसाशास्त्रमित्यादिना भाष्येण दर्शितमिति ।।
।। इति श्रीकवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्व्यां ऐकशास्त्र्यसमर्थनवादस्तृतीयः ।।3।।