शतदूषणी
।।अथ कथानधिकारवादः नवमः ।।9।।
हयग्रीवसुधासिन्धुहर्षहेषारवोर्मयः । जयन्ति वादवेलान्तक्षिप्तबाह्यकुदृष्टयः ।।
विस्तरेण कुदृष्टिमतमनुभाष्य, “तदिदम्”इत्यादिना, “न्यायानुगृहीतवाक्यप्रत्यक्षादिसकल प्रमाणवृत्तयाथात्म्यविद्भिरनादरणीयम्” (श्रीभाष्यं-जिज्ञा) इत्यन्तेन शिष्यान् प्रत्युपदिशतो भाष्यकारस्यायं भावः, सौगतानामिव प्रच्छन्नसौगतानामपि कथायामनधिकार इति । वेदार्थसंग्रहे च स्पष्टमाह, “सर्वशून्यवादिनो, ब्रह्मव्यतिरिक्तसर्ववस्तुमिथ्यात्ववादिनश्च स्वपक्षस्थापकप्रमाण पारमार्थ्यानभ्युपगमात् अभियुक्तैर्वादानधिकार एव प्रतिपादितः, “अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः” (श्लोकवार्तिके निरालंबनवादः125) इति । अयमाशयः,
“यदि प्रपञ्चमिथ्यात्ववादी वादाधिकारिताम् ।
भजेन्माध्यमिकस्यापि भवेत् वादाधिकारिता” ।।
“तथाच ब्रह्मतत्त्वं ते निर्गुणं निष्प्रमाणकम् ।
कथं मध्यमबौद्धस्य विवादैर्नापलप्यते” ।।
एतच्च विस्तरादुपपादयामः । तत्र यत्तावत्खण्डितम्, कथकयोः प्रमाणादिसत्ताभ्युपगमः कस्य हेतोः? किं तत्सत्ताभ्युपगमसाहित्यनियतस्य व्यवहारस्यान्यथा प्रवर्तयितुमशक्यत्वात्, उत तद्यवहारं प्रति तस्य हेतुत्वात्, लोकव्यवहारसिद्धत्वात्, तदनभ्युपगमास्य कथाफलातिप्रसञ्जकत्वाद्वा?
न प्रथमः; तमन्तरेण तत्तीर्थकरैस्तदनुसारिभिश्च व्यवहारस्य प्रवर्त्यमानत्वात् । अन्यथा भवतः तन्निरासप्रयासानुपपत्तेः । साधनबाधनक्षमो व्यवहारः प्रमाणादिसत्ताभ्युपगमसाहित्यनियत इति तमन्तरेण तत्क्षमत्वं न स्यादिति चेन्न; साधनबाधनक्षमत्वं प्रति सद्वचनाभासलक्षणयोगित्वस्यैव प्रयोजकत्वात् । सत्त्वाद्यभ्युपगमे सत्यपि आभासे तदक्षमत्वस्य सर्वसंमतेः । अस्मद्वाक्ये चाऽऽभासत्वस्य दुरुपपादत्वात् । सत्तानभ्युपगममात्रेणाऽऽभासत्वोक्तौ सताभ्युपगमेन भवद्यवहार एवाऽऽभास इति विपरिवर्तप्रसङ्गात् । अस्ति च सत्ताभ्युपगमे सत्यपि असिद्धविरुद्धादेरभासत्वम् ।
ननु प्रमाणादिसत्ताभ्युपगमाभावेव्यवहारस्यैव धर्मिणोऽसिद्धौ तस्य कथमाभासत्वसाधनम्; कथं वा सद्वचनाभासलक्षणयोगित्वादिप्रयोजकावधारणामुखेन दूषणदूष्यादिव्यवस्थापनम्; सर्वेषां स्थापनबाधनानां प्रमाणाधीनत्वात् । मैवम्; सत्ताभ्युपगममात्रेण प्रसिद्धिसिद्धैः प्रमाणादिभिरस्माकं व्यवहारोपपत्तेः । उक्तञ्च इष्टसिद्धिकारैः, “सत्यं प्रसिद्धिरस्ति, अत एव व्यवहरामः; किंतु नास्या मूलं पश्यामः” इति । यथा प्रमाणादीनि सद्रूपाणि स्वीकुर्वता भवता, “प्रमाणं साधकम्, न तदाभासः’ ‘ इत्यादि व्यवह्नियते, तथा व्यवहारिभिरेव सर्वैः प्रमाणादिसत्त्वचिन्तायामुदासीनैःकथा प्रवर्त्यतामिति ह्यादिशामः । यदि चैवं नानुमन्यसे, तिष्ठामस्त्वयाऽस्मास्वारोपिते सत्तानभ्युपगमपक्षे । तथाऽपि मां प्रतित्वदुक्तमाश्रयासिद्ध्यादिदूषणं दुर्वचम् । दूषणं हीदं कथायां प्रवृत्तस्यैव वाच्यम्; न पुनराहरतो विहरतो वा । साच कथा कयाऽपि मर्यादया प्रवर्तनीया । तत्र वादिप्रतिवादिभ्यां सत्त्वाभ्युपगमे तादृक्पर्यनुयोगानवकाशः । उभाभ्यामसत्त्वाभ्युपगमे परस्येव स्वस्यापि प्रसङ्गः । एकेन सत्त्वम् इतरेण चासत्त्वमभयुपगम्य प्रवर्तितायामिदं दूषणमुच्यते चेत्, तद्वदेव कथान्तरस्यापि प्रसक्तिरनिवार्या; कथानियमस्य चोभयाभ्युपगमप्रकारानुरोधित्वात् । अन्यथा कस्य स्वेच्छया त्वदुक्तेऽपि, वाङ्मात्रेणापि दूषणप्रसङ्गेन जयपराजयव्यवस्थाभङ्गप्रसङ्गात् । यश्चैकस्तस्यां कथायां प्रमाणादिसत्त्वमिच्छति, तस्यैवैषा नियमभरयन्त्रणा । अथोभाम्यामपि प्रमाणादिसत्त्वाभ्युपगमौदासीन्येन व्यवहारनियमे समयं बद्धवा प्रारब्धायां कथायां दूषणमिदमुच्यते तदा स्वाभ्युपगमविरोध एव त्वयैवाऽऽपादितः स्यात् ।
अथ दुर्वैतण्डिकेन कथां बद्धवा तस्यैव दूषणं न ब्रूमः; अपितु शिष्यादीन् प्रति तस्य कथानधिकारं दर्शयाम इति चेन्न; शिष्यादीन् प्रत्यपि चार्वाकसौगतमायावादिनामयं दोष इति वक्तव्यम्; स च दोषो निग्रहस्थानात्मा, तस्य कथाप्रवेशाप्रवेशयोः न तद्बाधक्षमः; न च कथामन्तरेण निग्रहः ।
नापि द्वितीयः; सत्ताभ्युपगममन्तरेणापि प्रमाणादीनां व्यवहारहेतुत्वस्य माध्यमिकादिषु प्रदर्शितत्वात् । अथ व्यवहारहेतुत्वादेव प्रमाणादीनां सत्त्वम्, सत्वाच्च तदभ्युपगमः असतोऽभ्युपगमायोगादित्युच्यते, तदपि न; अस्याप्यर्थस्य कयाऽपि नियमस्थित्या प्रवर्तितां कथामन्तरेण दुःसाधत्वात् । ततश्च सिद्धा सत्ताभ्युपगमात्पूर्वं कथाप्रवृत्तिः । न च साऽपि नियमस्थितिःसत्ताभ्युपगमगर्भेति वाच्यम्; तत्त्वावधारणपरपराजयौपयिकोभयसंभावतिव्यवहारनियमसमयबन्धमात्रेण समीहितसिद्धेः ।
न च समयबन्धेऽपि सत्ताभ्युपगमगन्धः प्रमाणतर्काभ्यां व्यवहर्तव्यम्, परस्परं प्रतिज्ञाहान्याद्यन्यतमनिग्रहस्थानं प्रदर्शनीयम्, तद्व्युत्पादने तद्वतो भङ्गो व्यवहर्तव्यः, अन्यथा तद्व्युत्पादनासमर्थस्य अ(न्य)भग्नस्तु जेतेति व्यवहर्तव्यः, प्रामाणिकतया प्रतीतः पक्षः तत्त्वमिति व्यवहर्तव्य इत्येवमादिस्वरूपे नियमबंधेपि सत्ताभ्युपगमप्रसंगाभावात् । न च समयबंधोऽपि हेतुर्वाच्यः । स च कथाप्रवृत्तिमन्तरेण न वक्तुं शक्यः” इति सत्ताभ्युपगमहेतुत्वाभिधानविषयप्रत्यवस्थान प्रतिबन्द्यवतारः; तत्त्वनिर्णयविजयमूलत्वेन लोकसिद्धस्याविचारितरमणीयस्य व्यवहारनियमस्य हेतुमन्तरेण वादिभ्यां द्वाभ्यामपि स्वेच्छयैव ग्रहणात् । न चैवं प्रमाणमूलत्वाभावेन विचारतद्विषय तत्फलविप्लवप्रसङ्गः, अनादि पारम्पर्यागतस्य लोकव्युत्पत्तिसंवादिनस्तस्यासंभवान्यथाभावा भावरूपस्वतश्शुद्धिसिद्धत्वात् । न च प्रमाणादिसत्ताऽपि स्वेच्छयैवाङ्गीकार्या; व्यवहारनियममात्रेणैवान्य व्यतिरेकवता निरपेक्षेण कथाप्रवृत्तितत्फलोपपत्तौ तादृशेतरनिरर्थकसत्ताभ्युपगमायोगात् ।
नापि तृतीयः लोकव्यवहार इति प्रमाणिकव्यवहारविवक्षायां तस्य विचारप्रवृत्तिमन्तरेण दुर्निरूपतया तदर्थमेव पूर्ववत् नियमस्य गवेषणात्; पामरादिव्यवहारविवक्षायां निर्मूलव्यवहारशरण्यस्य ते शरीरात्मत्वादयोऽपि स्वीकर्तव्यास्स्युः । पश्चात्तनबाधात् तत्परित्यागश्चेत्, प्रमाणादिसत्ताऽपि सामान्यतो विशेषश्चास्मदुक्ताभिर्युक्तिभिर्बाध्यमाना परित्याज्या । अथ बाधाभावात् तत्परिग्रहः, तथाऽपि न लोक व्यवहारस्य तत्परिग्राहकता । बाधाभावविचारे च पुनर्नियमान्वेषणावतारः ।
नापि चतुर्थः; प्रमाणादिसतामभ्युपगच्छता त्वयेव तत्सत्त्वासत्त्वानुसरणोदासीनेन मयाऽपि तथाविधस्यैव व्यवहारनियमस्यवलम्बनात् । तस्य च मां प्रति फलातिप्रसञ्जकत्वे त्वां प्रत्यपि तुल्यप्रसङ्गस्स्यात् । यथा चाभ्यवहारादिव्यापारेष्वपि सत्तामनिच्छतां माध्यमिकादीनां तत्फलनियमः, तथाऽत्रापि ।
ननु व्यवहारनियमसमयबन्ध एव सत्ताभ्युपगमोऽनुप्रविष्टः । व्यवहारोऽपि हि क्रिया । सा च निष्पादनात्मिका; तच्चासतस्सद्रूपताप्रापणम्; प्रमाणादिभिर्व्यवहर्तव्यमित्यत्र प्रमाणादेः करणत्वं नियमान्तर्गतम् । तच्च कारणत्वविशेषः । कारणत्वं तु नियतपूर्वकालसत्त्वम् । दूषणसत्त्वे भङ्गः, साधनाङ्गभूतव्याप्त्यादिसत्त्वे च तद्विषयस्तत्त्वमिति च नियम्यते । अतो व्यवहारनियमसमयबन्धादावेवव्यवहारक्रिया-तत्कारण-दूषण-साधनाङ्गादेः सत्त्वं कण्ठोक्तमिति कथं सत्तामनभ्युपगम्य कथारम्भ इति ।
मैवम्; एभिरपि सत्तानभ्युपगमबाधकैः कथायां प्रवृत्तायामेव सत्ताभ्युपगमस्य प्रसाधनीयत्वात्; ततश्च पूर्वोक्तबाधाया दुस्तरत्वात् ।।………………………………..
इति श्री कवितार्किकसिंस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां कथानधिकारवादः नवमः ।।9।।