[highlight_content]

शतदूषणी जीवेश्वरैक्यभङ्गवादः(37)

शतदूषणी

अथ जीवेश्वरैक्यभङ्गवादः सप्तत्रिंशः ।

आत्मतत्वविदां पुंसां यद्दास्यं लास्यकारणम् । तद्वन्दे परमानन्दमिन्दिरामन्दिरं महः ।।

यत्पुनर्महासाहसिका दृढतरनिरूढहेदात्ममोहमन्दधियः प्रत्यक्षादिविरोधमपि तिरस्कृत्य स्वात्मानमेवेश्वरमभिमन्यन्ते, तदपि भेदसामान्यस्य आत्मनानात्वस्य च समर्थनात् “”एको बहूना” मित्याद्युक्तैकानेकतादात्म्यायोगाच्च निरस्तप्रायमेव । विशेषतोपि पश्यामः ।

जीवस्येश्वरत्वं किं प्रत्यक्षबलादभ्युपगम्यते, उतो पपत्तिसामर्थ्यात्, यद्वा शास्त्रवैभवात्? अन्यतः कुतश्चित्र सम्भत्येव ।

नाद्यः, अनीश्वरतयैव स्वात्मन उपलम्भात् । अप्रतीत्तेश्वरस्य कथं तत्प्रतियोगिकानीश्वरत्वनिरूपणमिति चेन्न; – श्रुत्यादिभिः प्रमितेश्वरतत्वानां तत्प्रतियोगिकभेदनिरूपणोपपत्तेः, स्वात्मनि अप्रत्यक्षमेर्वादिभेदोपलम्भवत्, यदीश्वरःस्वात्माप्रत्यक्षमवे तथोपलभ्येतेत्यप्रतीतेश्वराणामपि स्वगसेच्छाविघात दुःखादिदर्शनात्तावत एवानीश्वरत्वोपलम्भरूपत्वात् । अनीश्वरोहमित्युपलम्भो नास्तीति चेन्न; अशक्येष्वनीश्वरोहमित्येवोपलम्भात् । सामर्थ्याभावलक्षणधर्मविषयोयमनीश्वरशब्द इति चेन्न; – ईश्वरप्रतीतावपि तस्यैव धर्मस्य ईश्वरव्यतिरेकात्मनोल्लिख्यमानत्वात् । माभूद्वा स्वात्मन्यनीश्वरशब्दः, ईश्वरव्यतिरेकरूपधर्माणां स्वरूपतस्तावत् प्रतीतिरपरिहार्या । कार्यविशेषेषु ईश्वरोहमित्यभिमन्यन्त एव सर्वे पुरुषाः । कर्मण्यैश्वर्यबोधोधिकर इत्युच्यत इति चेन्न; – क्षेत्रज्ञानामपि तावन्मात्रेश्वरत्व प्रतिपादनेस्माकमिष्टापातात् । एतावानेवेश्वरशब्दार्थो लोके व्युत्पत्तिसिद्ध इति चेन्न; – ईश्वरत्वस्यात्यन्तनिम्नोन्नततारतम्यवत्तयोपलम्भात् । ततः किमिति चेत्? इयदेवेश्वरत्वमिति परिच्छेदासिद्धिः । तथापि लोकसिद्धोत्कर्षकाष्ठामात्रे पर्यवसानमस्त्विति चेन्न; – लोकायतवादप्रसङ्गात्, सर्वव्यक्तिसाधारणाकारस्यैव वाक्प्रवृत्तिनिमित्तत्वेन लोके प्रसिद्धेः । साधारणाकारेपीश्वरशब्देन प्रतिपिपादयिषिते तद्विरुद्धदुःखादिधर्मवत्तामात्रस्य प्रतिक्षेपायोगात् । सर्वविषयमीश्वरत्वमनुपलब्धमिति चेत्? सत्यम्, तत एव हि शास्त्रावतारः । अनुपलम्भादेव बाधे शास्त्रमपि तत्प्रतिपादनासमर्थमिति चेन्न; – अनुपलम्भमात्रेण बाधेतिप्रसङ्गात्, योग्यानुपलम्भस्यासिद्धेः, सिद्ध्यतश्च तस्य स्वस्मिन्नीश्वरत्वमात्रप्रतिक्षेपसामर्थ्यात् । ततश्च नाहमीश्वर इत्यनुपलम्भात् सिद्ध्यति, न पुनरीश्वरो नास्तीति । तदेवं कर्मवश्यानां प्रतिहतिभूयिष्ठसङ्कल्पानामाध्यात्मिकादिदुःख सन्ततिसन्तप्तानां स्वदुःखमूलोन्मूलनाय लौकिकमलौकिकं वा हेतुमन्विच्छतामस्मदादीनामनीश्वरत्वे प्रत्येकं प्रत्यक्षतः परस्परमनुमानतश्च सिद्धे न काचिदप्युपपत्तिर्जीवेश्वरत्वं साधयितुमीष्टे ।

एतेन द्वितीयोपि विकल्पो निरस्तः, स्वशरीरवत्परशरीरेपि जीवानामीश्वरव्यतिरेकस्य दुःखादिसम्भेदसिद्धत्वात् । तस्य च तेषां प्रत्यक्षत्वात् । तथाच सति जीवः ईश्वराद्भिन्नः चेतनत्वादित्यादौ बाधप्रतिज्ञाविरोधादयो द्रष्टव्याः । अत विरुद्धधर्ममित्यात्वेन जीवेश्वरयोः स्वरूपैक्यमविरुद्धमित्युच्यते, तथापि जीवेश्वरयोः कार्यकारणोपाधिरूपेणाध्यस्तत्वाभ्युपगमात् रज्जवारोपितसर्पभूदळ नादेर्ब्रह्माध्यस्ततेजस्तिमिरादिविरुद्धवर्गस्य च तादात्म्यविरोधो न स्यात् । न चैतद्युक्तमभ्युपेतुम्, व्यावहारिकत्वेपि यथालोकं व्यवस्थाप्यत्वात् । आरोपितोभयबाधदशायामप्यधिष्ठानमात्रपरिशेष एव, न पुनरारोपितयोस्तादात्म्यम्, नाप्यधिष्ठानारोपितयोः; अन्यथा सर्वशून्यत्वे सर्वसत्यत्वे वा पर्यवसानात् । तैमिरिकस्य चन्द्रे चन्द्रान्तरवत् स्वस्मिन्नेव स्वाध्यासात् अविरोध इति चेन्न; – उपरिदेशस्य तत्र चन्द्रान्तराध्यासाधिष्ठानत्वञ्चन्द्रस्य वा द्वित्वाध्यासाधिष्ठानत्वमिति न क्वचिदपि स्वस्मिन्नेव स्वाध्यासः । स्वमहिमप्रतिष्ठितत्वाद्युक्तेरपि निराधारत्वादिमात्रे तात्पर्यम् । तथापि चन्द्रद्वित्ववत्स्वरूपभेदाध्यासः, तन्निवृत्तौ स्वरूपैक्यमविरुद्धमिति चेत्? हन्तैवमचेतनवर्गेपि किन्न कल्प्यते । तन्मिथ्यात्वप्रतिपादनबलादिति चेन्न; – “नेह नानास्ती’ त्यादीना ज्ञानज्ञेयज्ञानरूपसमस्त निषेधाभ्युपगमात्, “यत्रत्वस्य सर्वमात्मैवा भृदि’ ति वाक्यशेषेण त्वदनभिमतस्यापि सर्वस्वरूपैक्यस्य स्वरसप्रतीतेः । प्रत्यक्षादिसिद्धविरोधानुसारेण तत्र तादात्म्यं परित्यजाम इति चेत्? तर्हि सैव दृष्टिर्जीवेश्वरयोरपि किन्न निक्षिप्यते । अन्यथा कालात्ययापदेशस्य विरोधस्य च निर्मूलत्वे प्रतिवाद्यपि यत्किमपि जल्पन्न निगृह्येत ।

नापि तृतीयः । शास्त्रमपि हि सहस्रशो जीवेश्वरयोर्भेदमेव कण्ठोक्त्या क्वचित्प्रतिपादयति, क्वचिद्विरोधिधर्मम्, क्वचित्तु भेदाक्षेपकं सम्बन्धविशेषम् । यथा “”क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोपि दृष्टः। ” “”जुष्टं यादपश्यत्यन्यमीशम्’ “पृथगात्मानं प्रेरितारं च मत्वा’ “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं साद्वत्त्यनश्नन्नन्योभिचाकशीति’ “तस्माद्वा एतस्माद्विज्ञान मयात् । अन्योन्तर आत्मानन्दमयः’ “अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः’ । “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ । “अन्यश्च राजन् स परस्तथान्यः पञ्च विंशकः’ इत्यादिभिर्जीवपरयोर्भेदः स्वशब्देनोच्यते । तथा “यस्सर्वज्ञस्सर्ववित्’ “परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ “स कारणं करणाधिपाधिपः’ “तमीश्वराणां परमं महेश्वरं तन्दैवतानां परमं च दैवतम् । पतिं पतीनां परमम्’ “दासभूतास्स्वतस्सर्वेह्यात्मानः परमात्मनः’ “आत्मदास्यं हरेस्स्वाम्यं स्वभावञ्च सदास्मर’ इत्यादिभिर्विरोधिनो धर्माः । “एषत आत्मान्तर्हृदये’ “एवमयमन्तरात्मन्’ “पुरुषो मनोमयः’ । “य आत्मनि तिष्ठन्….यस्यात्माशरीर’ मित्यादिभिः, “पतिं पतीनामि’ त्यादिभिश्च पूर्वोक्तौर्भेदाक्षेपकः सम्बन्धः । मुक्तिदशायामपि विशेषतो भेदः श्रूयते सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता । ‘ “तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ “इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः । ‘ इत्यादिभिः । एवंच प्रत्यक्षद्यविरुद्धतत्वस्थितौ श्रुतिशतसिद्धायां सर्वत्र जीवेश्वर सामानाधिकरण्यमैक्यनिर्देशश्च स्वस्मामिभावबन्धादिभिरुपचारतोपि निर्वोढव्यम् । तथाच श्रुतिशैली – “सराष्ट्रं नाभवत् स राष्ट्रमभवत् स इदं भविष्यती’ त्यादि । श्रुतवेदान्तस्य तु शब्दशक्तिनिष्कर्षे सत्यपर्यवसानात् विशिष्टैक्यादिविवक्षया च तयोरुपपत्तिः । एवमनभ्युपगमे चेतनवदचेतने प्यैक्यव्यपदेशबाहुल्यात् अचेतनतादात्म्यमपीश्वरस्य दुर्वारम्, विरुद्धधर्माध्यासादेरनादरमात्रेण वाङ्मात्रेण परिहर्तु मशक्यत्वात् । चेतनस्यापरमार्थत्वाद्बाधार्थं तत्र सामानाधिकरण्यमिति चेन्न; – जीवेपि प्रसङ्गात् । उपास्तिप्राप्तिदशयोरप्यैक्यव्यपदेशाज्जीवैक्यं परमार्थभूतमिति चेन्न; – आरोपेणाप्युपासनस्य सगुणब्रह्मोपासनादिषु भवद्भिरेव स्वीकारात् । नचाहङ्ग्रहोपासनमात्राज्जीवेश्वरैक्यसिद्धि;, भवत्पक्षेहमर्थभूतान्तःकरणेन ब्रह्मण ऐक्यप्रसङ्गात् । केवलाहमर्थोपासनदशायान्तदीश्वरत्व प्रसङ्गस्याभावात् । ईश्वरदृष्टिविधौ तु जीवेश्वरभेदस्यैव पारमार्थिकत्वम् । यथात्मनि गरुडदृष्टौ गरुडात्मनोर्भेदस्य । अन्यथा दृष्टिविधेः सत्योपासनविधेश्च वैषम्यासिद्धिप्रसङ्गात् । वामदेवेन्द्रादिवदहमर्थविशिष्टतदन्तर्यामिनिर्देशेपि विशेषणविशेष्यभावादिना भेदस्सिद्धः । एवमेव परमात्मशरीरत्वविशेषितप्रत्यगात्मोपासनेपि ।

तदेवमचेतनेपि चेतनभ्रमवदनीश्वरेष्वपि जीवेष्वीश्वरभ्रमं परित्यज्य तद्वशीकरणहेतुभिस्तत्पारतन्त्र्यानुसन्धानादिभिरात्मानं बन्धान्मोचय, न पुनस्समस्तनिग्रहानुग्रहक्षमसत्यसङ्कल्पेश्वरतादात्म्यमोहमहापराधेन सर्वनिग्रहपात्रमात्मानमन्धे तमसि पातय । प्राप्तावैक्यव्यपदेशोपि भवत्पक्षे प्रपञ्चैकक्यव्यपदेशद्बाधेनापि किन्नोपपद्यते । आत्मबाधे कथं मोक्षस्य पुरुषार्थत्वमिति चेत्? धिङ्मूर्ख, अहमर्थबाधे मोक्षस्य पुरुषार्थतां वदन् किमीद्दशोक्तौ जिह्रेषि । तत्वावेदकवाक्यप्रतिपन्नं जीवैक्यमिति चेत्? अचिद्यैक्यमपि हि तेनैव प्रतीयते । अन्यथा तत्र बाधार्थसामानाधिकरण्यस्वीकारोपि दुश्शकः, आरोपितैक्यमात्रेण समन्वयोपपत्तेरौपचारिकोक्तेरपर्यनु योज्यत्वात् । नदीसमुद्रघटाकाशमहाकाशादिदृष्टान्तेन मुक्तौ भेदनिवृत्तिवचनं च साम्यसहश्रुत्याद्यनुरोधेन कर्मोपाधिक नामरूपादिवैधर्म्यरूभेद तन्निवृत्तिभ्यामचरितार्थम् । जीवेश्वरैक्यश्रुतीनां च निवार्हक्रमं”अवस्थितेरिति काशकृत्स्न’ इत्यसूत्रयत् । आह च मोक्षधर्मे – “”अन्यश्च राजन् स परस्तथान्यः पञ्चविंशकः । तत्स्थत्वादनुपश्यन्ति ह्येक एवेति साधवः ।।”इति । इममेवार्थमभिप्रेत्य “आत्मेति तूपगच्छन्ति ग्राहयन्ति चे’ त्यहङ्ग्रहोपासनमपि सूत्रितम् । नच भेदविषयस्फुटानेकश्रुतिबाधोन्याय्यः । एकवाक्यप्रतिपाद्ये च क्वचिच्चिदतिरीश्वरतादात्म्ये वैरूप्यकल्पनप्रयासश्च ते निरर्थकः । भिन्नवाक्यप्रतिपन्नेपि सम्भवदैकरूप्यमपरित्याज्यम् । अस्मत्पक्षे तु भेदश्रुतिघटकश्रुतिप्रत्यक्षाद्यविरुद्धं सर्वत्र विभूतितद्वद्भावेनैकरूपमेव चिदचितोरीश्वरसामानाधिकरण्यम् ।

ननु भवतोपि क्वचिद्वैरूप्यमङ्गीकार्यम्, “ब्रह्म वेद ब्रह्मैव भवती’ त्यादिना मुक्तस्य ब्रह्मसामानाधिकरण्ये विभूतितद्वद्भाव विवक्षानुपपत्तेः । प्राप्याकारोहि तत्र निर्दिश्यते । नच विभूति भावः प्राप्यः, तस्य नित्यसिद्धत्वाभ्युपगमात् । तदाविर्भाव विवक्षायां तस्य तत्राशब्दत्वात् । यदि चेश्वरविभूतित्वं मुक्तस्याङ्गीक्रियते, तदा मुक्तस्य तत्पारतन्त्र्यशेषत्वे अपि स्याताम् । न चायमिष्टप्रसङ्ग इति वाच्यम्, स्वरूपाविर्भावलक्षणस्य मोक्षस्यापि संसारवद् दुःखात्मकत्वप्रसङ्गात्; चेतननिष्ठयोश्शेषत्वपारतन्त्र्ययोः दुःखानुषङ्गव्याप्तेः । तथाच स्मरन्ति – “सर्वं परवशं दुःखं सर्वमात्मवशं सुख’ मिति निषेधन्ति च पारतन्त्र्यम्, “सेवाश्ववृत्तिर्व्याख्याता तस्मात्तां परिवर्जये’ दिति । श्रुतिश्च मुक्तस्य स्वातन्त्र्यमेव दर्शयति – “सस्वराड्भवती’ ति । सूत्रं च मुक्त विषयम् – “अत एव चानन्याधिपति’रिति । “सङ्कल्पादेवास्यपितरस्समुत्तिष्ठन्ते’ “सत्यकामस्सत्यसङ्कल्पः’ “सर्वेषु लोकेषु कामचारो भवति’ “कामान्नी कामरूप्यनुसञ्चरन्नि’ त्येवमादयश्च मुक्तस्य पारतन्त्र्यगन्धं प्रतिरुन्धते । “सङ्कल्पादेव तच्छ्रुते’रिति च मुक्तस्य विचित्रसृष्टौ हेत्वन्तरनैरपेक्ष्यमसूत्रयत् । नच “जगद्धापारवर्ज’ मिति जगद्धापारनिषेधात्पारतन्त्र्यमपि सूत्रकार सम्मतमिति वाच्यम्, प्रतिसर्गदशायामीश्वरस्येव स्वतन्त्रस्याप्यनिच्छतो जगद्धापारनिवृत्त्युपपत्तेः । अस्तु वा जगद्धापारोचितस्वातन्त्र्यविरहः, तथापि स्वप्रवृत्त्यादिषु न पराधीनत्वसिद्धिः । अल्शक्तिरधिकशक्त्यपेक्षया परतन्त्र एवेति चेन्न; – भिन्नविषयत्वे तत्प्रसङ्गाभावात् । एकविषयत्वे प्यविरोधे परस्परसहकारित्व मात्रेण परस्परं पारतन्त्र्यस्य परस्परं स्वातन्त्र्यस्य वा प्रसङ्गात् । स्वव्यापारांशे नैरपेक्ष्यस्य च द्वयोरपि वक्तुं शक्यत्वात् । नच मुक्तकर्तृकप्रवृत्तिनिष्पत्तावीश्वरः मुक्तनिरपेक्ष इति युक्तम्, स्ववचनाविरोधात् । नच मुक्तसङ्कल्पाधीनभोगनिर्माणे मुक्तेश्वरयोः प्रयोज्यप्रयोजकभावः, प्रमाणभावात्, पूर्वोक्त श्रुत्यादिविरोधाच्च । कारयितृत्वश्रुतेरप्यन्निनीषाधोनिनीषागर्भत्वेन कर्मवश्यमधिकृत्यैव प्रवृत्तेः । आनन्दयितृत्वश्रुतेश्च मोक्षप्रदनादिना चरितार्थत्वात् । नच निवारणसमर्थेश्वरस्यानिवारणमुपजीव्य मुक्तः प्रवर्तत इति वाच्यम्, विपरिवर्तेपि निवर्तका भावात् । नच प्रागशक्त्या परापेक्षया च पश्चादपि तयोः नियमः, प्राङ्मुक्तत्वाभावेनापवर्गस्यात्यन्तोच्छेदप्रसङ्गात् । प्रागशक्त्योदश्च कर्मोपाधिकत्वात् । संसारदशायामीश्वरपारतन्त्र्यमपि सांसारिकसुखदुःखैकभोगहेतुतया राजादिपारतन्त्र्यवत् कर्मानुरूपमेव । अतः कर्मनिवृत्तौ तदपि निवर्तिष्यत एवेति स्वतन्त्रो मुक्तः । अतः सस्वराड्भवतीत्यत्राकर्मवश्य इति व्याख्यानेपि कर्मवश्यत्वाविनाभूतमीश्वरपारतन्त्र्यमपि फलतो निवर्तितं भवति । नच मुक्तस्वातन्त्र्यविषयाणां श्रुतीनां “पतिंविश्वस्ये’ त्यादिश्रुतिबलादनीश्वरविषयतया सङ्कोचः, पतित्वश्रुतीनामेवामुक्तविषयतया सङ्कोचोपपत्तेः । नच द्वयोरपि पृथग्विषयलाभे नियामकाभावात्कस्य सङ्कोच इति नित्यसन्देह इति वाच्यम्, “सस्वराड्भवती’ त्येवंरूपस्य व्यपदेशस्य स्वेतरसमस्तवश्यत्व निवृत्तावेव तात्पर्योपलम्भात् । यदि तु न कस्य चिद्वश्यो मुक्त इत्येवमादिव्यपदेशस्स्यात्तदा स्यादेव सन्देहः । नच तथास्ति । अतएव सूत्रकारोपि अनन्याधिपतिरिति शब्दं प्रायुङ्क्त, न त्वधिपतिरहित इति । अत्र “ब्रह्मवेद ब्रह्मैव भवती’ त्येवमादयश्च मुख्यार्थत्यागमसहमाना भवत्पक्षेण परमसाम्यश्रुतयोवा निस्संकोचत्वमभिलषन्त्यः सहकारिण्यो भवेयुः । आदिभरत मृगत्वप्राप्तिवत् कृशोदरीनीडनिहितस्य कीटस्य कृशोदरीत्ववच्च ब्रह्मोपासकस्य ब्रह्मतापत्तिश्च युक्ता । नचास्य मुख्यब्रह्मत्वे “यतो वा इमानी’ त्यादिलक्षणस्याव्याप्तिः, तस्य जगद्धापारजागरूकजिज्ञास्यव्यक्तिविशेषविषयतया विरोधाभावात् । कारणब्रह्मविषयैका द्वितीयादिशब्दोपि विभक्तनामरूपकार्यबहुत्वाभावाधिष्ठात्रन्तरनैरपेक्ष्यादिकमेव दर्शयतीति भवद्भिरेव व्याख्यातम् । अन्यथा नित्यसूरिपरिग्रहाद्ययोगात् । नच समनिषेधश्रुतिबलात् परमसाम्य श्रुतेस्संकोचः, पारम्यविशेषणविरोधप्रसङ्गात् । नच भोगमात्रसाम्यपारम्याच्चरितार्थता, स्वतन्त्रपरतन्त्रयोर्भोगसाम्यासम्भवेन स्वातन्त्र्यसाम्यस्यापि नान्तरीयकत्वात् । अनिच्छया जगद्धापारविरहरूपवैषम्यन्तु न भोगवैषम्यहेतुः, इच्छाविघातादिप्रसङ्गाभावात् । अतस्सिद्धम्मुक्तानामीश्वरद्भेदे सत्यपि तदपेक्षया पारतन्त्र्यासम्भवादैक्ये साम्ये वा पारम्यविशेषिते विभूतितद्वद्भावेन मुक्तेश्वरयोस्सामानाधिकरण्यमनुपपन्नमिति ।

अत्रोच्यते – न वयं सर्वत्रैकरूप्यमन्विच्छामः, यावद्बाधं तदभ्युपगमात् । अचेतनेश्वरयोः क्षेत्रज्ञेश्वरयोश्च सामानाधिकरण्ये विभूतितद्वद्भावेनैकरूप्यस्य बाधकाभावात्तदभ्युपगच्छामः । ब्रह्मैव भवतीत्यत्र तु फलनिर्देशरूपतया पूर्वसिद्धस्य प्राप्यत्वाभावाच्च विभूतित्वातिरिक्तः कश्चिदर्थस्सामानाधिकरण्यहेतुरित्यास्थेयम्, स च “परमं साम्यमुपैती’ ति श्रुत्यन्तरानुसारेण परमसाम्यापत्तिरूप इति निश्चीयते । अतो गौणोयं प्रयोगः, “”वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमान् लोकानभिजयती”ति वत् । नहि तत्र पश्चालम्भनमात्राद्विष्णुतादात्म्यमुपपद्यते । एवम् – “विष्णुक्रमान् क्रमते विष्णुरेव भूत्वेमान् लोकानभिजयती’ त्यादि भाव्यम् । एवकारश्चोपमाद्योतक इत्यपि कैश्चित्पूर्वैर्व्याख्यातम् । “इववद्वैवमेव’ ति नैखण्डुकाश्च पठन्ति । अतो गौण तया मुख्यतया वा ब्रह्मसाम्यमेवात्र प्रयोगे विवक्षितम् । अस्तु वा ब्रह्मविभूतित्वमेवात्रापि सामानाधिकरण्यहेतुः, तथापि तदाविर्भावविवक्षया प्राप्यत्वोपपत्तिः । यत्तत्रोक्तं – शाब्दत्वाभावादिति; तत्स्वपक्षमपरामृश्योच्यते, भवत्पक्षेपि हि नित्यं ब्रह्मभूतस्य नामापूर्वब्रह्मभावः । आरोपिताकारनिवृत्तिर्वा ब्रह्मस्वरूपत्वप्रकाशो वेति चेत्? न तर्हि तत्रैवशाब्दत्वम्, साक्षाद्ब्रह्मभावस्य नित्यसिद्धत्वेन साध्यत्वयोगात् । अशाब्दोपि साध्यः कश्चिदर्थो विवक्षित इति कल्प्यत इति चेत्? हन्त तर्ह्य स्मदुक्ते कःप्रद्वेषः । नूनं प्रमाणोपपत्तिशतविरोधमप्यनादृत्य नित्यनिर्दोषस्य ब्रह्मण एवाज्ञत्वसंसारित्वादिकमङ्गीक्रियत इत्ययमेव भवतो लाभः । अस्मदुक्तार्थे तु “पतिं विश्वस्य’ “करणाधिपाधिपः’ “यस्यात्मा शरीरं’ “दासभूतास्स्वतस्सर्वेह्यात्मनः परमात्मन’ इति श्रुतिस्मृत्यादिकमप्यनुग्राहकं भवति । यदुक्तं पारतन्त्र्यशेषत्वयोरपुरुषार्थान्वितत्वमिति; तत्र किन्ताभ्यां तदपि साध्यते, उत तदभ्युपगमे तत्प्रसङ्गमुखेन तद्विपर्ययेण तद्विपर्यय इति? तत्र न तावत्तत्साधनम्, कालात्ययापदिष्टत्वात् । तथाहि – मुक्तोपि कदाचिद्दुःखी, चेतनत्वे सति परतन्त्रत्वात्, शेषत्वाद्वा, सम्प्रतिपन्नवत्; मुक्तगतं पारतन्त्र्यं शेषत्वं वा स्वाश्रयस्य कदाचिद्दुःखावहम्, चेतनगतपारतन्त्र्यादिरूपत्वात्, सम्प्रतिपन्नवत्; ईश्वरो मुक्तानामपि इच्छाविघातानिष्टापादनादिभिः कदाचिद्दुःखहेतुः, तदपेक्षया तदानीमपि स्वातन्त्र्यादियोगित्वात्, यो यच्चेतनापेक्षया उक्तसाधनः स तद्दुःखहेतुः, यथा सम्प्रतिपन्नः, इत्यादिर्हि तत्र प्रयोगस्स्यात् । तत्र तावत् सर्वत्र मुक्तस्य दुःखरहितनिरतिशयानन्दविधायकैः “अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः’ “रसँ ह्येवायं लब्ध्वानन्दी भवती’ त्यादिभिः श्रुतिशतैर्बाधस्सुगमः । उपाधिश्च – कर्मवश्यत्वं दुष्कर्ममूलत्वं दुष्कर्मजनिताप्रीत्यादिदुःखकारणयोगित्वमित्यादिरूह्यः ।

किञ्च मुक्तः कदाचिद्दुःखीत्यत्र प्राच्यदुःखित्वेन सिद्धसाधनम्, मुक्तिदशायां दुःखवानिति साध्ये दृष्टान्तस्य साध्यविकलता, एवं पारतन्त्र्यपक्षीकारेण प्रयोगेपि तस्य यावदात्मभाविन एकत्वात् प्राचीनदुःखहेतुत्वेन सिद्धसाधनता, मुक्तिदशायां दुःखावहमिति साध्ये पूर्ववत्साध्यवैकल्यम्, एवमीश्वरोमुक्तानां दुःखहेतुरिति साध्येपि प्राचीनदुःखहेतुत्वेन सिद्धसाधनत्वम्, मुक्तिदशायां दुःखहेतुरिति साध्ये साध्यवैकल्यञ्च सिद्धम् ।

ननु यत्काले पारतन्त्र्यं तत्काले दुःखहेतुत्वं व्याप्तमिति मुक्तिकालवर्तिनोपि पारतन्त्र्यस्य सामान्यव्याप्तिबलादेव पक्षधर्मतासहकृतात्तत्कालवर्तिदुःखहेतुत्वं सिध्द्यति, अतो न वैकल्यं सिद्धसाधनत्वंचेति; तदपि मन्दम्, किं यत्काले पारतन्त्र्यं तत्काले सर्वत्र दुःखहेतुत्वं व्याप्तिसिद्धम्, उतात्यन्तायोगव्यवच्छेदमात्रम्, उत दुःखसम्भावनामात्रमिति?

न प्रथमः, व्यभिचारात्; नहि पतिप्रभृतीनां परतन्त्रा भार्यापुत्रदासादयः सर्वे सर्वदा ततो दुःखिनो दृश्यन्ते, प्रत्युत पारतन्त्र्यमेव परमं भूषणमभिमन्य मानाः केचित्सद्भृत्यपुत्रादयः स्वातन्त्र्यनिर्देशेपि रोषलोहितचक्षुषः परिवादाभिमानिनो विमन्यन्ते । अतस्तेषु स्वातन्त्र्यमेवानिष्टतमम्, पारतन्त्र्यं त्विष्टतममेव दृश्यते । यदापि च तस्य किञ्चिद्दुःखहेतुत्वम्, तदापि तदनुबन्धित्वादेव तद्दुःखं सहन्ते । भ्रान्तिमूलन्तदिष्टत्वमिति चेत्? हन्त स्वातन्त्र्यस्य वान्यस्य वा कस्य चिच्छब्दादेरिष्टत्वमपि भ्रान्तिमूलमेव । सांसारिकं हि सर्वं भोगजातमन्ततो भ्रान्तिमेव कूटस्थयति । स्वयं दुःखरूपत्वेपि इष्टान्तरप्रतिलम्भकत्वात् पतिपारतन्त्र्यादेरिष्टतमत्वम्, यथा – कृषिचिकित्सादेरिति चेत्? तर्हि स्वातन्त्र्यस्यापि स्वयं सुखत्वाभावेपीष्टान्तरप्रतिलम्भकत्वादेवेष्टतमत्वमपि स्यात् । नियमनमात्रमपि केभ्यश्चित्स्वदत् एवेति स्वातन्त्र्यस्य स्वतस्सुखत्वमिति चेन्न; तृणाद्युत्क्षेपणादिस्वातन्त्र्यस्य तथाविधसुखत्वादर्शनात् । यत्र तु स्वातन्त्र्यं स्वरूपेण सुखवद्दृश्यते, तत्रापिख्यात्यादिकमन्तर्भाव्यैव तत्तथा । तच्च क्वचित्पारतन्त्र्येपि समानमिति तस्यापि स्वतस्सुखत्वसिद्धिस्स्यात् । अतो यत्रेष्टसाधनत्वबुद्धिर्गुणताभिमानो वा, तत्स्वातन्त्र्यं पारतन्त्र्यं वेष्टतमम्, यत्रत्वनिष्टसाधनत्वबुद्धिर्दोषत्वाभिमानो वा, तत्र तु तद्वा तदन्यद्वानिष्टतममविशेषाद्दृश्यते । अतः पारतन्त्र्यस्य स्वसत्ताकाले सर्वत्र दुःखहेतुत्वव्याप्तिर्न सिद्ध्यति ।

नापि द्वितीयः, निर्दोषभृत्यस्य गुणवत्पारतन्त्र्यादिभिर्व्यभिचारात् । तत्र पारतन्त्र्यस्य स्वाभाविकं दुःखहेतुत्वं गुणवत्प्रतिसम्बन्धित्वादविशादपोद्यत इति चेत्? तर्हि पारतन्त्र्यस्य दुःखहेतुत्वमपि दुष्टप्रतिसम्बन्धिकत्वादिनैवेति किन्न स्यात् । गुणवत्प्रतिसम्बन्धिकत्वेपि तस्य क्वचिद्दुःखहेतुत्वदर्शनादिति चेत्? तर्हि तस्यापवादकत्वमपि न स्यात् । निर्दोषभृत्यस्य तदपवादकमेवेति चेन्न; – तथापि पारतन्त्र्यस्य सुखहेतुत्वं दुष्टप्रतिसम्बन्धिकत्वादिनापोद्यत इति विपरिवर्तस्य दुष्परिहरत्वात् । एतदुक्तं भवति, स्वातन्त्र्यं पारतन्त्र्यस्य न कश्चिद्विशेषः सुखदुःखसम्भवे, अपितु भोगादृष्टादिकमेव नियामकमिति । किञ्च तत्तद्देहात्माभि मानानुगुण्येन देवतिर्यङ्मनुष्यस्त्रीपुंसादिषु पुरुषार्थव्यवस्थादर्शनादत्रापि स्वतन्त्रात्माभिमानिनां पारतन्त्र्यं दुःखाय, परतन्त्र यथाविस्थतात्मदर्शिनां पारतन्त्र्यमेव सुखकारणमिति यथालोकमनुसन्धेयम् । अतः पारतन्त्र्यस्य दुःखात्यन्तायोगव्यवच्छेद उपाधिमूलत्वादुपाधिनिवृत्तौ निवर्तेतैवेति न मुक्ते तत्साधनम् ।

नच तृतीयः, स्वरूपयोग्यत्वमात्रसाधने सिद्धसाधनात्; सहकारियोग्यत्वस्य संशयस्य वा साधने कालात्ययापदेशात् । नापि प्रसङ्गतद्विपर्ययाभ्यां मुक्तस्य पारतन्त्र्याभावसाधनम्, तत्रापि व्याप्तेरवश्यम्भावात् तस्याश्च दूषितत्वादिति । अतः “सर्वं परवशं दुःख’ मित्यादिकमपि संसारिविषयम् । “सेवा श्ववृत्तिर्व्याख्याते’ त्येतदप्यसेव्यसेवाविषयम् । स्वातन्त्र्यमपि दुःखाय स्वाङ्गळिच्छेदनादिषु । पारतन्त्र्यं सुखायैव पत्नीनान्तु स्वभर्तृषु ।। ,स्वातन्त्र्यं सुखहेतुः स्यादिति चेद्भवतोच्यते । न कथं सुखशाली स्यात्कीलोत्पाटी स वानरः ।। अयोग्यपारतन्त्र्यं हि दुःखायेति निषिध्यते । भगवद्दास्यमेवाहुर्लास्यहेतुं मनीषिणः ।। ईश्वरोहमहं भोगी सिद्धोहं बलवान् सुखी । इत्यादिकानुसन्धानमासुरम्भावमाह हि ।। हिरण्यासुरसिद्धान्तसिद्धामीश्वरभावनाम् । भावयन्तोवलम्बन्ते हरिदास्यविडम्बनम् ।। हरिदासस्य राजर्षेरिति तन्मुनिभाषितम् । दासोहं कोसलेन्द्रस्येत्यादिसंवादमृच्छति ।। परतन्त्रान्वयाभावे स्वातन्त्र्यं ब्रह्मणः कथम् । अस्वातन्त्र्ये कथं सौख्यमात्मनो निर्गुणस्य ते ।। स्वातन्त्र्यपारतन्त्र्याभ्यां सुखंवा दुःखमेव वा । न व्याप्तं हि यतस्तत्तत्प्रमाणानुगुणं द्वयम् ।।

“स स्वराड्भवति’ “अत एव चानन्याधिपति’ रिति श्रुति सूत्रे अपि दुःखहेतुकर्माधीनपारतन्त्र्य प्रतिक्षेपपरे एव, आत्मतत्वस्य शरीरत्वविधायकश्रुतिबलात्स्वतोदासत्वस्मृतेश्च तत्सङ्कोचोपपत्तेः प्रपञ्चयिष्यमाणत्वात् । “सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ते’ इत्यत्रावधारणेनापि तत्तत्कार्यहेतुतया तथा प्रसिद्धकारकव्यापारादिनैर पेक्ष्यमेवोच्यते, न पुनरीश्वरव्यापारनैरपेक्ष्यम्, तथा सति चास्यैव सङ्कल्पादिति निर्देशेन भवितव्यम् । व्युत्क्रमेणान्वये स एव दोषः । नचेश्वरसङ्कल्पसापेक्षतामात्रेण सत्यसङ्कल्पत्वश्रुतिविरोधः? ईश्वरस्य तत्सङ्कल्पानुगुणसङ्कल्पयोगित्वात् । एतेन कामचार श्रुतिः सङ्कल्पादेवेति सूत्रं च निर्व्यूढम् ।

यत्तु स्वतन्त्रस्याप्यनिच्छतो जगद्धापारनिवृत्त्युपपत्तिरिति; तदसत्, मुक्तस्य सर्वगोचरशक्तिसद्भावे प्रमाणभावात् । नच मातापितृप्रभृतिसृष्टिवचनात्सर्वविषयशक्तिक्लृप्तिः, तन्मात्रसृष्टिशक्तेरेव सिद्धेः । नच “यं कामं कामयते सोस्य सङ्कल्पादेव समुत्तिष्ठती’ ति सामान्यवचनात्सर्वशक्तित्वसिद्धिः, “यं कामं कामयत’ इत्यस्यानुवादकत्वात्, तस्यच काम्यमानमात्रविषयत्वात्, मुक्तस्य कामनायाः सर्वविषयत्वे प्रमाणाभावात् । विश्वामित्रादिसङ्कल्पवत्सङ्कलुचितविषयत्वेनापि तत्सिद्धेः । ईश्वरस्य तु “सोकमयत बहुस्या’ मित्यादिभिस्तत्सिद्धेः । मुक्तस्य तु कामनायां सत्यां जगद्धापारविरहायोगात् । शक्तस्य चिकीर्षा हि व्यापाराविनाभूता । अशक्तस्य कामना दुःख हेतुरेव । नच “सएकथा भवती’ त्यारभ्य, “अपरिमितथ भवती’ ति श्रुतेर्मुक्तस्य जगद्धापारोपि सम्भवतीति वाच्यम् तस्याःश्रुतेः परमात्मभोगशेषभूतस्व भोगार्थानन्तशरीरपरिग्रहमात्र विषयत्वात् । यत्तु मुक्तकर्तृकभोगनिर्माणे मुक्तेश्वरयोः प्रयोज्यप्रयोजकभावे प्रमाणाभावः, पूर्वोक्तश्रुत्यादि विरोधश्चेति; तत्र विरोधः परिहृत प्रायः । प्रमाणमपि समर्थयिष्यमाणनियन्तृत्वादिश्रुत्यसङ्कोचः । अत एवेश्वरानिवारणान्मुक्ताप्रवृत्तौ विपरिवर्तप्रसङ्गोपि प्रत्युक्तः ।

यत्तु कर्मनिवृत्तौ पारतन्त्र्यमपि निवर्तत इति; तत्र किकं कर्माधीनस्य पारतन्त्र्यस्य निवृत्तिर्विवक्षिता, उत पारतन्त्र्यमात्रस्य? पूर्वत्रेष्टापादनम् । तदतिरिक्तं पारतन्त्र्यं जीवेषु न दृष्टिमिति चेन्न; – समर्थयिष्यमाणत्वात् । संसारिणामीश्वरपारतन्त्र्यं कर्महेतुम्, कर्मफलभोगहेतुत्वात्, राजादिपारतन्त्र्यवदिति चेन्न; – नित्यैरेव तद्धेतुभूतैर्जीवपरस्वरूपादिभिरनैकान्त्यात् । नच तेषान्तादर्थ्यनियमाभावान्नानैकान्त्यमिति वाच्यम्, ईश्वरपारतन्त्र्यस्यापि तादर्थ्यनियमानिश्चयेनासिद्धिप्रसङ्गात् । कार्यत्वे सतीति विशेषणासिद्धेः । कार्यपारतन्त्र्यपक्षीकरणे सिद्धसाधनात् । उत्तरत्राचेतनेष्वनैकान्त्यम् । चेतनगतं पारतन्त्र्यं कर्मव्याप्तमिति तन्निवृत्त्या तन्निवृत्तिरिति चेन्न; – तथाप्यप्रयोजकत्वात् । मुक्तो न परतन्त्रः, चेतनत्वे सत्यकर्मवश्यत्वादीश्वरवदिति हि तदा प्रयोगः, तत्रेश्वरत्वमेवोपाधिः । नचेदं पक्षेतरत्वम्, अचेतनानां संसारिचेतनानां च पक्षव्यतिरिक्तानां व्यवच्छेद्यानां सिद्धेः । नच पक्षेतरत्वमित्येतावता परित्यागः, बाधे सति तस्याप्युपाधित्वस्य क्वचित्स्वीकारात् । अग्नेरनुष्णत्वसाधने पदार्थत्वेनग्नित्वमेवोपाधिमाहुः । मुक्त ईश्वरपरतन्त्रः, अनीश्वरत्वात्, सम्प्रतिपन्नवदिति प्रत्यनुमानञ्च । नचात्र मुक्तेतरत्वमुपाधिः, ईश्वरे तस्य व्यभिचारात् । नापि मुक्तेश्वरव्यतिरिक्तत्वमुपाधिः, मुक्ते पारतन्त्र्यस्य बाधकाभावेन तद्व्यतिरेकस्याप्युपाधि कुक्षिनिक्षेपायोगात् । अन्यथा पक्षविपक्षव्यतिरिक्तत्वमुपाधिरिति सर्वानुमानभङ्गप्रसङ्गात् । निर्विशेषणत्वाच्च । प्रत्यनुमानबलीयस्त्वं वा । अतः कर्मनिवृत्तावपि मुक्तस्य पारतन्त्र्यनिवृत्त्ययोगात् “सस्वराड्भवती’ त्यत्राकर्मवश्यत्वविवक्षायां न स्वरूपप्रयुकक्तपारतन्त्र्यनिवृत्तिः फलति ।

यत्तु “सस्वराड्भवती’ त्येवम्भूतव्यपदेशसामर्थ्यात् “पतिं विश्वस्ये’ त्यादिश्रुतीनां सङ्कोच इति; किमस्य सामर्त्थ्यम्? स्वाधीनत्वप्रतिपादनं वा, पराधीनत्वनिवृत्तिपर्यवसितत्वं वा? नाद्यः, स्वाधीनमात्रस्येश्वराधीनत्वेन सह विरोधाभावात् । एकस्यैवानेकाधीनत्वं हि लोकवेदयोर्दृष्टम् । जीवश्वराधीनं हि क्षेत्रज्ञशरीरम् । स्वाधीनत्वं चात्र स्वसङ्कल्पाधीनप्रवृत्त्यादियोगित्वम्, तच्चेश्वरानुमत्या सिद्ध्यत्येव । न द्वितीयः, कर्माधीनत्वनिवृत्तिमात्रादपि तदुपपत्तेः । स्वतेरसमस्ताधीनत्वनिवृत्तिस्तात्पर्यतो लभ्यत इति चेन्न; – स्वेतरसमस्तपेक्षया ईश्वरत्वस्य परमात्मन्यपि “सर्वस्येशान’ इत्यादिभिश्शब्दत एव सिद्धेः । एवमपि सन्देहे मुक्तस्य पारतन्त्र्यन्न सिद्ध्यतीति चेन्न; – शाब्दत्वेनाविळम्बितप्रतीतसर्वेश्वरत्वस्यैव सङ्कोचोपपत्तेः । भूयसांन्यायाच्च । भूयांसि वाक्यानि परमात्मनस्सर्वेश्वरत्वं विदधति । “स स्वराड्भवती’ त्येकमेव मुक्तस्यानन्येश्वरत्वं विवक्षतीति ततोप्यस्यैव सङ्कोचो युक्तः । श्रुतिस्मृतीतिहासेषु पुराणेषु च सर्वतः । सर्वोत्तरागमेष्वेवं विष्णोस्स्वातन्त्र्यमुच्यते ।।

“सङ्कल्पादेव’ त्यादिकन्तु नान्याधीनत्वं प्रतिक्षेप्तुमलमिति प्रागेवोक्तम् । “यस्यात्मशरीर’ मित्यात्मतत्वस्य शरीरत्वविधानात् शरीरत्वस्य चाधेयत्वविधेयत्वशेषत्वस्वभावरूपत्वादपि तत्सङ्कोचो न्याय्यः । उपबृंहणानुसाराच्च । “आत्मदास्यं हरेस्स्वाम्यं स्वभावं च सदा स्मर । ‘ “दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मानः’ इत्यादिभिः स्वाभाविकं भगवद्दास्यमभिधीयते, “स्वभावं’ “स्वत’ इति च कण्ठोक्तितः, “दासभूता’ इति च्विप्रत्ययमन्तरेण प्रयोगाच्च । तत्रैवादरातिशयाद्धि स्वत इत्यप्यनृद्यते, दासभूता इति निरुपाधिकनिर्देशेनैव स्वतस्त्वसिद्धेः । सर्वशब्दश्चात्र न मुक्तबहिष्कारं क्षमते, प्रतिनिर्देशसामर्थ्याच्च । “अन्यराजानस्ते क्षय्यलोका भवन्ती’ त्वयिदुषां क्षय्यलोकत्वकारणमन्य राजत्वमुच्यते, तच्च निष्कर्षे कर्माधीनत्वमेव, तन्निवृत्तिश्च विदुषः “सस्वराड्भवती’ इति “सस्वराड्भवती’ ति विवक्षिता । अतोपि कर्मवश्यत्व मात्रमेवात्र निषिध्यत इति न स्वाभाविकभगवद्दास्यनिषेधः । अन्यथा “पतिंविश्वस्ये’ त्यादिप्रमाणेन विरोधः । एतेनानन्याधिपतिरिति सूत्रमपि निर्व्यूढम् । एवं बद्धमुक्ताविशेषेण शेषशेषिभावादिभेदे जीवेश्वरयोस्स्वाभाविके स्थिते तदविरोधेन “ब्रह्मैव भवती’ त्यादीनां “अविभागेन दृष्टत्वात्’ इति मुक्तिविषयसूत्रस्य च विभूतित्वाविर्भावादिमुखेन निर्वहणं प्रागुक्तन्यायेन भाव्यम्; ऐक्यापत्तिब्रह्मद्वित्वयोर्भेदश्रुत्या समाधिकाराहित्यश्रुत्या च प्रतिक्षेपात् । समनिषेधो हि केन चिदाकारेण सर्वातिशायित्वं प्रथयति । तथाच लक्षणवाक्यस्वारस्यम्, स्वतेरसमस्तवस्तुव्यावर्तकत्वाल्लक्षणस्य । नच परमसाम्यश्रुत्यसङ्कोचाय मुक्तस्यापीश्वरत्वमङ्गीकार्यमिति द्वयोस्सर्वप्रकाराविशेषादैक्यमभिलषितुं शक्यम्, “भोगमात्रसाम्यलिङ्गाच्चे’ ति भगवता सूत्रकारेणैव तत्परिहारात् । आहच वृत्तिकारः – “”जगद्धापारवर्जं समानो ज्योतिषे” ति । द्रमिडभाष्यकारश्च – “”देवतासायुज्यादशरीरस्यापि देवतावत्सर्वार्थसिद्धिस्स्या” दिति । ज्ञानानन्दयोरत्यन्तसाम्यादपि हि परमसाम्यशब्दश्चरितार्थः । सर्वज्ञत्वनिरतिशयानन्दत्वे हि तत्र तत्र मुक्तस्यापि वाक्यान्तरैः प्रतिपाद्येते इति सर्वगुणसाधारणरूपपरमसाम्यशब्दस्तत्रैव पर्यवसितुमर्हति । पारम्यविशेषणं च तत्रत्याल्पसादृश्यव्यवच्छेदेन सप्रयोजनम् । यथा – दशवर्णषोडशवर्णस्वर्णनिष्कयोः काञ्चनकलधौतनिष्कयोर्वा परमसाम्योक्तौ परिमाणवैषम्यमात्रं निषिध्यते, नतु वर्णवैषम्यम् ।

यत्तु स्वतन्त्रपरतन्त्रयोर्भोगसाम्यासम्भवेन मुक्तस्यापि स्वतन्त्रत्वमिति; तदसत् स्वातन्त्र्यपारतन्त्र्ययोर्भोगाप्रयोजकत्वस्य प्रागेव स्थापनात् । यथावस्थितात्मानुसन्धानानुगुण्येन स्वतन्त्रस्य स्वातन्त्र्यं परतन्त्रस्य च पारतन्त्र्यमनुकूलं भवतीति द्वयोरपि यथावस्थितात्मानुसन्धानानुबन्धिभोगस्याविशेषात् । पुत्रस्य पितृपारतन्त्र्यमेव स्वस्वातन्त्र्यादपि प्रीतिं जनयति । विभूतिमत्त्व जगद्धापारादिभिरीश्वरानन्दो मुक्तानन्दातिशयितस्स्यादिति चेन्न; – स्वाभाविकदास्यानुसन्धायिनः सद्भृत्यस्य स्वाम्यैश्वर्येणेव मुक्तस्यापि परमात्मविभूतिभिरेव निरतिशयानन्दोदयात् । एतदुक्तं भवति – यद्यत्प्रामाणिकम् तत्तत्सर्वं मुक्तेश्वरयोर्यथावस्थिताकारेणानुकूल्येन भातीति भोगमात्रसमानता, यथा – राजराजान्तरङ्गयोस्सर्वमपि राजैश्वर्यमानुकूल्येन साधारणमेवेति ।

तदेवं चेतनाचेतनयोरिव जीवश्वरयोरपि यावदात्मभाविनि भेदे सिद्धे तद्भेदस्य मिथ्यात्वं आैपाधिकत्वं स्वाभाविकत्वेपि अभेदसहत्वं वा वदतां कलिब्रह्ममीमांसकानां वेदान्तेषु न कश्चिदवकाशो दृश्यत इति स्थिते तार्किकरञ्जनार्थं ब्रूमः – ब्रह्म सत्येनात्मना सद्वितीयम्, पदार्थत्वात्, घटवदित्यादिभिर्मायावादिनो मुखपिघानम् । जीवः ईश्वरादनौपाधिकभेदवान्, सार्वज्ञ्यरहितत्वात्, घटवदित्यादिभिर्भास्करतिरस्कारः । ईश्वराहम्भावोपि विच्छेदरहितनित्याहम्भावान्तर सद्वितीयः, अहम्भावत्वात्, सम्प्रतिपन्नजीवाहम्भाववदिति यादव प्रकाशपिशाचवित्नासनम् । ईश्वराहम्भावस्य नित्यत्वाभावात् दृष्टान्तस्य साध्यविकलतेति चेन्न; – तथासतीश्वरस्य कदाचित् अचित्कल्पत्वादिप्रसङ्गात् । नचायमिष्टप्रसङ्ग इति वाच्यम्, सर्वज्ञत्वादिश्रुतीनां कालावच्छेदाभावात् । नच सर्वज्ञ इत्यादिशब्दाश्शक्ति विषयाः, अनुशासनस्य “शुक्तौ हस्ती’ त्यादिना नियतविषयत्वात् । “परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे’ ति ज्ञानशक्त्योः पृथक्स्वाभाविकत्ववचनाच्च । नच प्रळयादिषु निद्रानिर्देशात् कदाचिदज्ञता, तस्य निर्व्यापारदशामात्र विषयत्वात्, “व्यपगतनिद्राभयक्रोधतन्द्रि’ रित्यादिश्रुत्यनुसारात् । नचावतारेष्वज्ञानादि दृष्टमिति वाच्यम्, तस्याभिनयरूपत्वात् । उक्तं हि महाभारतेय – “”कालस्यहिच मृत्योश्च जङ्गमस्थावरस्यच । ईशते भगवानेकस्सत्यमेतद्ब्रवीमि ते ।। ईशन्नापि महायोगी सर्वस्य जगतः प्रभुः । कर्माण्यारभते कर्तुं कीनाशइव दुर्बलः ।। तेन वञ्चयते लोकान्मायायोगेन केशवः । ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ।।” इति । नच सदेवेत्यादिवशात्प्रळयदशायां गुणादेरपि विलयः, चिदचिदीश्वरशक्तित्रयस्यापि विलयप्रसङ्गेन पुनस्सृष्ट्याद्यभावप्रसङ्गात् । सद्विद्यानिरूपणेनैव सदेवेत्यादेर्निर्विशेषपरत्वप्रतिक्षेपात् । अतः स्वज्ञानमेव कुमतीनामविद्योपाध्यवस्था विशेषादिप्रयुक्तमीश्वराज्ञानकल्पनम् । तदेवमभेदगन्धासहवैधर्म्यशतप्रतिष्ठितो यावदात्मभावीजीवेश्वर भेदः । स्वदुःखं यदि जानाति नारभेत परः पुमान् । यदि नैव विजानाति नारभेत पुनः पुमान् ।।

तदेतत्सर्वं “विभेदजनके ज्ञाने’ इति श्लोकमुपक्षिष्य भाष्ये प्रपञ्चितम् ।

इति शतदूषण्यां जीवेश्वरैक्यभङ्गवादः सप्तत्रिंशःवादः । (37)

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.