शतदूषणी
।।अथ ज्ञातृत्वाध्यासभङ्गवादः सप्तविंशः ।।27।।
तमाश्रये यस्त्विह चेतनानामेको बहूनां विदधाति कामान् ।
शक्तिः परा यस्य समस्तसूतिः स्वाभाविकी ज्ञानबलक्रिया च ।।
यदाहुः – ज्ञातृत्वादिप्रकाशो भ्रान्तिः, देहात्माभिमानवत एव जायमानप्रकाशत्वात्, स्थूलोऽहमित्यादिप्रतीतिवदिति, तदसत्; हेत्वसिद्धेः । न हीश्वरस्य योगिनां मुक्तानां वा देहात्मभ्रमः, न च तेषां ज्ञातृत्वादिकं न प्रकाशते । यथा परं ब्रह्मैव सङ्कल्पयति – “हन्ताऽहमिमास्तिस्रो देवता” (छां – 6 – 3 – 1) इत्यादि । अस्ति च “वेदाहं समतीतानी” (गीता – 7 – 26)त्यादिभगवद्गीतावाक्यशतम् । तथा “तद्वैतत्पश्यन् ऋुषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च” (बृह – 3 – 4 – 10) “सर्वं ह पश्यः पश्यती”(छां – 7 – 26 – 2)त्यादिभिर्योगिनां मुक्तानां चाहंत्वज्ञातृत्वादिप्रतिपत्तिः । अन्यथा संवित्स्वरूपप्रतिभानस्यापि भ्रान्तित्वप्रसङ्गः । देहात्मभ्रमनिवृत्तावपि तत्प्रतिभासोऽस्तीति चेत् कुतः? श्रुतेरिति चेत्, तुल्यम् ।
किंच ज्ञातृत्वावभासो निरधिष्ठानस्साधिष्ठानो वा? नाद्यः, अपसिद्धान्तात् । न द्वितीयः, संविदधिष्ठानत्वे तत्सामानाधिकरण्येनानुभवितुः ज्ञातृत्वं ज्ञानमिति प्रकाशप्रसङ्गात्; इदं रजतमिति शुक्तिसामानाधिकरण्येनेव रजतस्य । अधिष्ठानान्तरस्य तु परमार्थस्यानभ्युपगमात्, अपरमार्थस्याप्यन्ततस्संविदधिष्ठानत्वेनोक्तदोषानपायात् । दर्पणादिषु व्यधिकरणतया मुखाद्यध्यासस्तर्हि कथमिति चेन्न; उक्तोत्तरत्वात् । तत्र हि परमार्थभूते दर्पणे मुखदेशत्वमध्यस्ते । तत्र च सामानाधिकरण्यमस्त्येव ।
किंच सत्यस्य दर्पणस्याधिकरणत्वं मुखस्य चारोपितस्याधेयत्वं पश्यामः, अत्र तु सत्यतयाऽभ्युपेतायास्संविद एव मुखवदारोपितत्वाभिमतोऽहमर्थ एवाधिकरणतया प्रतीयते । एवं मुखदर्पणसंसर्गाध्यासपक्षेऽप्यधिकरणसत्यत्वादसिद्धिः।
ननु दर्पणे मुखदेशत्वारोपः, मुखे वा दर्पणदेशित्वारोपः, एवमत्रापि संविद्यहमर्थदेशित्वारोप इति कः पक्षपातः? यथा संप्रतिपन्नस्य देवदत्तस्य गन्धर्वनगरदेशित्वारोप इति चेन्न; सामग्रीसंभवासंभवाभ्यां विशेषात् । तत्र हि दर्पणप्रतिहतप्रतिस्रोतः प्रवृत्तनयनालोकेन देशवियुक्तमुखमात्रग्रहणेऽनुकूलस्रोतसा च दर्पणदेशे गृह्यमाणे देशत्वादिसाम्यान्मुख देशभेदाग्रहणाच्च मुख देशत्वारोपसंभवः; मुखे च यत्किंचिद्देशवर्तिनि दर्पणदेशवृत्तिवस्त्वन्तरेण देशित्वादिसाम्यात् अन्यदेशवृत्तित्वाग्रहाच्च दर्पणदेशित्वारोपः, अत्र तु संविदि निर्विशेषायां देश्यन्तरसाम्यासंभवात्तद्भेदाग्र(हणा)हासंभवाच्च कथमहमर्थदेशित्वाध्यासः? अहमर्थे तर्हि संविद्देशत्वाध्यास इति चेन्न; तदध्यस्तस्य अहमर्थस्य तत्सामानाधिकरण्यप्रतीतियोग्यस्य रजते शुक्तिदेशत्वाध्यासवत्तदनुपपत्तेः । मणिप्रभाविषयसप्रभाकमण्यारोपवत्सर्वमुपपन्नमिति चेन्न; प्रभाश्रयस्य परमार्थमणेस्संप्रतिपन्नत्वेन तस्य तत्प्रभायां तत्साम्यादिभिरारोपस्योपपत्तेः । अत्रापि यदि ज्ञानाश्रयस्सत्य इष्यते ज्ञानस्य सत्यं साधर्म्यम्, तदा तद्धर्मे ज्ञाने कुतश्चित्तदारोपस्संभवतीति शङ्क्येत । न च तत्साधर्म्येऽपि तस्य संभवः, प्रभावद्धर्मभूतस्य ज्ञानस्य धर्मिणमन्तरेण कदाचिदपि प्रकाशासंभवात् । धर्मधर्मिभावेन तु प्रतीतौ धर्मे धर्म्यारोपासंभवात् गमने गन्तृत्वारोपवत्तदसंभवः । न हि मणिधर्मतयैव प्रतीतायां प्रभायां मणिबुद्धिसंभवः ।
स्फटिकरागायः पिण्डौष्व्यादिवत्संविद्यपि तच्छायापत्तितः संसर्गतो वा ज्ञातृत्वमस्त्विति चेन्न; जपाकुसुमवह्न्यादेर्वास्तवरागौष्व्ययोगेन तच्छायापत्तिसंसर्गाभ्यां तद्गुणकत्वेन प्रतीत्युपपत्तेः; अत्र तु संविद्यहंकारे च वास्तवज्ञातृत्वानभ्युपगमात्, अवास्तवज्ञातृत्वच्छायापत्त्यादावन्योन्याश्रयानवस्थादि दोषात् । ज्ञप्तिमात्रत्वच्छायापत्त्यादौ ज्ञप्तिमात्रत्प्रतिभासप्रसङ्गाच्च । अहङ्कारवृत्तिविशेषेऽनुभवस्य च्छायापत्त्या ज्ञातृत्वप्रकाश इति चेन्न; शब्दगन्धरसादीनां कीदृशी प्रतिबिम्बतेति न्यायेन नीरूपस्य च्छायापत्त्ययोगात् । भेदाग्रहमूलभ्रमस्यापि निर्विशेषे दुर्निर्वहत्वस्यान्यत्र प्रपञ्चितत्वात् ।
उभयत्रासिद्धमपि चूर्णहरिद्रासंसर्गजरागवत् ज्ञातृत्वं प्रकाशत इति चेन्न; तथा सति वास्तवज्ञातृत्वप्रसङ्गात् । आगन्तुकचैतन्यवादावतारस्त्वधिकः, लोकायतवादावतारो वा । ते ह्येवमाहुः – “पृथिव्यप्तेजोवायव एव तत्त्वानि, तेभ्यश्चैतन्यं किण्वादिभ्यो मदशक्तिवदि” (चार्वाकसूत्रं) ति ।
ननु च ज्ञातृत्वोत्पत्त्यभ्युपगमे स्यादिदं चोद्यम्, न पुनरध्यासे । तथा हि – क्रियाशक्तिमानहङ्कारो व्यञ्जकस्वभावत्वात् दर्पण इव स्वनिष्ठतया मुखम्, स्वक्रियात्नाऽनुभूतिमभिव्यनक्ति, तत एव जानामीति भ्रम इति । तदपि मन्दम्, नित्यप्रकाशस्यानुभवस्याभिव्यक्तिनैरपेक्ष्यात्; अपेक्षायामपि जडस्याहङ्कारस्य संविद इव साक्षाद्धञ्जकत्वाभावात् । इन्द्रियादिवद्व्यञ्जकत्वाभ्युपगमेऽपि तज्जन्यज्ञानान्तरानभ्युपगमेन तदसिद्धेः । ज्ञानान्तराध्यासस्य त्वद्यापि निरूप्यमाणत्वात् । तज्जन्यज्ञानविषयतया घटादेरिव संविदोऽपि त्वदुक्तप्रकारेणाननुभूतित्वमिथ्यात्वादिप्रसङ्गाच्च ।
किंच, किमनभिव्यक्तस्यैवाहङ्कारस्यानुभूतिव्यञ्जकत्वम्? उताभिव्यक्तस्य वा? नाद्यः, सत्याकारत्वेनानारोपितत्वप्रसङ्गात् । न द्वितीयः, संविदभिव्यक्तिमन्तरेण तदनभिव्यक्तेः । अनभिव्यक्तायाश्च संविदो व्यञ्जकत्वे स्वयंप्रकाशत्वादिपरित्यागप्रसङ्गात् । तदभिव्यक्तितः पश्चादभिव्यक्तस्याहङ्कारस्य तदभिव्यक्तिं प्रति करणत्वे विरोधात्, तादधीन्यादिप्रसङ्गाच्च । पूर्वाभिव्यक्तस्याप्यनुभवस्य तद्व्यङ्ग्येनैवाहङ्कारेण विशदव्यक्तिस्साध्यते, रविकरव्यङ्ग्येन करतलेन पूर्वव्यक्तरविकरविशदीकरणवदिति चेन्न; निर्द्धर्मके निरंशे स्वप्रकाशे वैशद्यासंभवस्यान्यत्रोक्तेः । रविकरे तु सधर्मके सावयवेस्फुटास्फुटभावाद्युपपत्तेः । न च तत्र करतलेन तद्विशदीकरणम्, करतलप्रतिहति वशाद्बहुलीभूतस्यालोकस्य सेतुसंरुद्धस्रोतस इव स्वयमेव बहुलतयोपलम्भात् । न च तत्र निरोध एव नास्तीति वक्तुं शक्यम्, तिरोधानवैयर्थ्यादिप्रसङ्गात् । न च निरोधेऽपि बाहुल्यं नास्तीति शङ्कनीयम्, प्रतीपस्रोतसा तत्सिद्धेः । तच्च दर्पणादिप्रतिफलितरविकिरणैर्गर्भगेहान्धकारनिरसनादिषु सिद्धम् । न च तावता करतलादुपरिष्ठादपि बहुलोपलम्भप्रसङ्गः, मूलाग्रयोरालोकानां घनविरलभावस्य सर्वत्र दीपादिष्वप्युपलब्ध्या प्रतिहतालोकस्याप्यग्रवैरल्योपपत्तेः । न च मात्रयापि पार्श्वालोकात् करतलोपरितनस्यालोकस्य न वैषम्यं दृश्यत इति वाच्यम्, सूक्ष्मस्य वैषम्यस्य दुर्ग्रहत्वात् । अन्यथा माध्यंदिनमार्ताण्डमण्डलालोकमध्यजाज्वल्यमानप्रदीपालोकसन्निधाने तत्रत्यालोकमण्डलस्य बहुलतरत्वेन ग्रहणप्रसङ्गात् । न च करतलप्रतिहतौ मूलेऽपि तत्प्रसङ्गः, उपलम्भव्यवस्थाप्यत्वादुपलब्धि योग्यबाहुल्यस्य ।
किंच यत्स्वनिष्ठतयाऽभिव्यक्तेः प्रयोजकं व्यञ्जकत्वम्, तत्किं ज्ञानत्वम्? उत ज्ञानजनकत्वम्? यद्वा इन्द्रियत्वम्? उत तदनुग्राहकत्वम्? उत तत्सम्बनहेतुत्वम्? यद्वा बोद्धृबोध्ययोरन्यतर गतप्रतिबन्धनिराकर्तृत्वम्? अथवा सांख्यादिमते घटादिं प्रति दण्डादेरिव स्वानतिरिक्तस्वाभिमतानुभूतिं प्रति जनकत्वमेवेति । नाद्यः; असिद्धेः, विरोधाच्च । उत्तरे कल्पास्सर्वेऽपिसंविदो ज्ञानविषयत्वानभ्युपगमेनैव निरस्ताः । विशेषतोऽपि ब्रूमः । न द्वितीयः, इन्द्रियादिभिरनैकान्त्यात् । न तृतीयः, असिद्धेः । अहङ्कारजन्मनामेकादशानामेव हीन्द्रियत्वं श्रूयते । न चतुर्थः, अदृष्टेश्वरादिभिर्व्यभिचारात् । अत एव न पञ्चमः । इन्द्रियक्रियादिभिश्च व्यभिचारोऽधिकः । न षष्ठः, शमदमादिभिर्दोषादिभिश्चानैकान्त्यात्; दर्पणादिदृष्टान्तस्य च साधनवैकल्यात् । न चाहङ्कारापनेयं किंचिदनुभूतिविषयज्ञानोत्पत्तिप्रतिबन्धकं संभवति, बाह्यस्यान्धकारादेरिवान्तरस्यकिल्बिषादेरप्यहङ्कारनिवर्त्यत्वाभावात् । अज्ञानस्यापि भावरूपस्याभावारूपस्य या ज्ञानमात्रनिवर्त्यत्वात् । भवदभिमताज्ञानस्य स्वरूपाश्रयविषयादिदुर्निरूपत्वस्यन्यात्र स्थापनात् । नच ज्ञानप्रागभावस्तदुत्पत्तिप्रतिबन्धकः, प्रागभावस्य कैश्चित्कारणत्वाभ्युपगमात्, अन्येषामपि कार्यस्य तन्निरसनरूपत्वेन कार्योत्पत्तेः प्रागभावनिरसनापेक्षायामात्माश्रयप्रसङ्गात् ।
किंच व्यञ्जकानां स्वनिष्ठतयाऽभिव्यङ्ग्याभिव्यञ्जनस्वभावत्वे सौगतसौहार्दं प्रकाशितं भवति । अप्रामाण्यं स्वत इति हि तैरङ्गीक्रियते । स्वतः प्रामाण्यभागे चापौरुषेयी श्रुतिरिति न प्रमाणं स्यात् ।
अथ मन्यसे – आत्मा तावन्निर्विकार इति श्रुतिसिद्धम्, तस्य च ज्ञातृत्वाभ्युपगमे विकारित्वप्रसङ्गः,ज्ञातृत्वं हि गन्तृत्ववत्क्रियाविशेषकर्तृत्वरूपत्वाद्विक्रियात्मकम्; अतः कृतिशक्तिमतोऽन्तःकरणस्य सैव कृतिश्चितिशक्ति रूपात्मसन्निधानेन ज्ञानरूपेव भातीति न क्वचिदपि तात्त्विकं ज्ञातृत्वम् । प्रयोगश्च – ज्ञातृत्वकर्तृत्वाहंत्वादिकं नात्मधर्मः, विक्रियात्मकत्वात्, दृश्यत्वात्, दृश्यनिष्ठत्वात्, अहमर्थसमानाधिकरणतया प्रतीयमानत्वात्, संप्रतिपन्नवत् । अत्रैव विकारिद्रव्यस्थमिति वा साध्यम् ।
विप्रतिपन्नोऽहंप्रत्ययो नात्मगोचरः, अहंप्रत्ययत्वात्, देहाहंप्रत्ययवदिति; यद्वा, आत्मा वा ज्ञातृत्वकर्तृत्वाहंत्वादिरहितः, निर्विकारत्वात्, अन्तः करणरूपाहङ्कारव्यतिरिक्तत्वात्, अजडत्वात्, प्रत्यक्त्वात्, आत्मत्वादित्यादिभिश्चेति ।
अत्र ब्रूमः यथा निर्विकारत्वमात्मनश्श्रुतिसिद्धं तथा ज्ञातृत्वमपि तत एव सिद्धम् । तथाहि “अथ यो वेदेदं जिघ्राणीति स आत्मे” (छां 8 – 12 – 7) त्यादि तथा “एष हि द्रष्टा (स्प्रष्टा)श्रोते” त्याद्यारभ्य “विज्ञानात्मा पुरुष” (प्रश्न 4 – 9) इत्यादिभिरात्मन एव साक्षाज्ज्ञातृत्वं श्रूयते। निर्विकारश्रुतिविरोधात् भ्रान्तिसिद्धविषया ज्ञातृत्वश्रुतिरिति चेन्न, विपरिवर्तप्रसङ्गात् । निर्गुणनिरूपणे च विषयव्यवस्थाया निर्वहणं द्रष्टव्यम् ।
कथं च ज्ञातृत्वस्य विकारात्मत्वम्? न तावन्मृत्पिण्डादिवत्स्वरूपान्यथाभावेन; तदसिद्धेः । नापि धात्वर्थयोगितामात्रेण, अस्तिभवतीत्यादियोगेनानुभूतेरपि विकारित्वप्रसङ्गात् । नित्यत्वादस्त्यादेर्वि कारत्वं नास्तीति चेन्न; ज्ञातृत्वेऽपि समानत्वात् । ज्ञातृत्वस्य कादाचित्कतयोपलम्भाज्ज्ञानं विकार इति चेन्न; अस्त्यादेरपि कादाचित्कतयोपलम्भात्तस्यापि विकारत्वप्रसङ्गात् । ज्ञाननित्यत्वश्रुत्या दिबलादस्त्यादेर्न विक्रियात्मत्वमिति चेत्, तर्हि ज्ञातृत्वमपि श्रुतिसिद्धमेव; यथा – “न विज्ञातुर्विज्ञा तेर्विपरिलोपो विद्यत” (बृह.6 – 3.30) इति । एवंच सति कर्मोपाधिकतत्तत्करणव्यापार द्वारकनियतविषयज्ञानप्रकाशाप्रकाशावपेक्ष्य उदयास्तमयव्यपदेशः । उक्तं च भगवता शौनकेनापि – “यथा न क्रियते ज्योत्स्रा मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा” ।। (विष्णु धर्म 1.1.55) “यथोदपानकरणात्क्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिमसतस्संभवः कुतः ।।” (विष्णुधर्मः1 – 1 – 76)।। “तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते” ।। इति । (विष्णुधर्म 104 – 189)
एतेन ज्ञाननित्यत्वे नित्योपलम्भप्रसङ्ग इति चोद्यमपि परिहृतम्, कर्मोपाधिकसङ्कोचवशात्तदप्रकाशात् । ज्ञानसङ्कोचविकासाभ्यामात्मनो विकारित्वमिति चेन्न; साक्षात्तदाश्रयत्वाभावात्,व्यवधानेन तदाश्रयत्ववचनस्य स्वरूपविषयनिर्विकारश्रुत्या सह विरोधगन्धाभावात् । एवं च सति प्रत्यक्षकलहशान्तिरपि स्यात् ।
यच्च विक्रियात्मकत्वादित्याद्यनुमान तूलजालम्, तत्रापि बाधानैकान्त्यादिपवनदहनसंमूर्च्छनम् । बाधस्तावन्नित्यज्ञातृत्वप्रतिपादक श्रुत्यादिवशात्सर्वत्र सिद्धः । विशेषतश्च ब्रूमः –
विक्रियात्मकत्वादिति स्वरूपपरिणामविवक्षायामसिद्धिः । क्रियायोगमात्रादि विवक्षायामस्त्याभिरनैकान्त्यम् । दृश्यत्वान्नात्मधर्म इत्यस्य दूषणं तु निर्विशेषत्वनिराकरणे ग्राह्यम् । दृश्यनिष्ठत्वादित्येतदप्यात्मनो दृश्यत्वसमर्थनेन परिहृतम् ।
यदि पुनर्द्रष्टुनिष्ठत्वनिषेधे तात्पर्यम्, तदा व्याघातः नहि ज्ञातृत्वमेव ज्ञातृनिष्ठं न भवतीति संभावयामः । यच्चहमर्थसमानाधिकरणतया प्रतीयमानत्वादिति, तदप्यात्मत्वेनानैकान्तिकम् । अस्ति ह्यहमात्मेत्यपि सामानाधिकरण्यम् । आत्मा तावदस्ति, तस्यात्मत्वं नाम किमपि नास्तीति कुत्रानैकान्त्यमिति चेत्? तर्हि ज्ञाता नाम कश्चिदस्ति ज्ञातृत्वं नाम किंचिन्नास्तीति परिभाष्य तत्पक्षीकारणे प्रयोगं परित्यज्य तूष्णीमास्स्व ।
एषु च ज्ञानमात्रात्मधर्मत्वनिषेधे त्वप्रसिद्धविशेषणता । ज्ञानधर्मत्वमात्रनिषेधेंऽशतस्सिद्धसाधनता । ज्ञातृधर्मत्वनिषेधे स्ववचनविरोदापसिद्धान्तौ । विकारिद्रव्यस्थमिति साध्येऽप्यात्मनोऽपि शरीरसम्बन्धादिमात्रविकाराभ्युपगमेन सिद्धसाधनता उत्पत्तिविनाशादि विकारिद्रव्यनिष्ठमिति साध्येऽपि बाधाप्रयोजकत्वादिरपरिहार्यः ।
एवमहंप्रत्ययो नात्मगोचरः, अहंप्रत्ययत्वादित्यत्रापि ज्ञानमात्राहमर्थाद्यात्मशब्दार्थविकल्पेन सिद्धसाधनत्वाप्रसिद्धविशेषणत्वविरोधापसिद्धन्तादिर्द्रष्टव्यः । न च भ्रान्तिस्थलेऽहंप्रत्ययस्यानात्म विषयतया अन्यत्रापि तथैव भवितव्यम्, अतिप्रसङ्गात् । यश्चात्मा ज्ञातृत्वादिरहित इति साध्ये निर्विकारत्वादिति हेतुः, सच विकारविकल्पेन निरस्तप्रायः । यस्त्वन्तः करण रूपाहङ्कारव्यतिरिक्तत्वादिति, सोऽपि तेनैवात्मनो ज्ञानरूपत्वमपि निषेद्धुं शक्यमिति प्रसञ्जकत्वादप्रयोजकत्वाच्च परिहृतः । ज्ञातृत्वाभ्युपगमे जडत्वपराक्त्वानात्मत्वादिप्रसङ्ग इति विपक्षे व्याप्तिसिद्धेः प्रयोजकत्वमिति चेन्न; ज्ञातृत्वेऽप्यजडत्वादिकं भवत्विति त्वत्प्रयुक्तप्रसङ्गव्याप्तावपि पर्यनुयोगावतारात् । एतेनाजडत्वादित्यनुमानमपि निरस्तं भवतीति ।
यश्चाहङ्कारस्य ज्ञातृत्वमिच्छति, स कथं दृश्यत्वप्रकृतिपरिणामत्वादिभिर्देहस्याचेतनत्वं साधयति । यदि पुनर्दृश्यत्वाद्यविशेषेऽपि देहस्याचेतनत्वमन्तःकरणस्य ज्ञातृत्वं च देहत्वादिवव्यवस्थितं मन्येत, तदाऽन्तःकरणस्यैव दृशित्वमपि साधयेत्, पर्यनुयोगपरिहारयोस्तुल्यत्वात् । विकारिद्रव्यविशेषस्यैव परिणामविशेषवशाज्ज्ञातृत्वमिच्छन्नूनं भूतचैतन्यवादमेवाभिप्रेत्यात्मापह्नवादिषु भिक्षुपादप्रसारणन्यायेन प्रव(र्ते)र्तत इत्यायातम् । अतस्सिद्धं ज्ञातृत्वमात्मन एव; तच्चानध्यस्तं सत्यमिति ।।
।।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां ज्ञातृत्वाध्यासभङ्गवादः सप्तविंशः ।।27।।