शतदूषणी
।।अथ दृश्यत्वानुमाननिरासवादः पञ्चदशः ।। 15।।
अबाधादध्यक्षप्रभृतिमितिवर्गेष्ववधृतं शरीरं यस्येदं जगदखिलमन्तर्यमयितुः । स मे तर्कैरतैर्निजविभवल्लुण्टाकमथनैः प्रसीदत्वासीदन्निगमशतसीमा हयमुखः ।।
यदेतत् सन्मात्रग्राहिप्रत्यक्षदूषणान्ते भाष्यम् – “सन्मात्रब्रह्मणः प्रमेयभावश्च । ततो जडत्व नाशित्वादयस्त्वयैवोक्ताः” इति । अनेन पश्यतोहराणां दृश्यत्वानुमानस्यानैकान्तिकत्वमपि सूचितम् । उत्तरत्रापि क्वचित् परमतव्याप्त्या प्रसङ्गं प्रायुङ्तः “ब्रह्म मिथ्या ज्ञानविषयत्वात्” इति । सांख्याधि करणे च व्याघातमसूचयत् – “दृश्यत्वबाध्यत्वाभ्युपगमात् सुतरामसङ्गतम्” इति । योगाचारोक्त संवेदनहेतुनिरासेन च इदमपि निरस्तं भविष्यतीत्यमंस्त । तदिह वयं विस्तृणीमहे विगींतं मिथ्या दृश्यत्वात्, यद्यपि इत्थं तथा, यथा शुक्तिरजतमित्यादि । तत्र किमिदं मिथ्यात्वमभिप्रेतम्? किं तुच्छत्वम्, उत अन्यथाख्यातिविषयत्वम्, उत सदसद्विलक्षणत्वम्, अत प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपं बाध्यत्वम्, अथवा स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वम्, यद्वा सत्यब्रह्मविलक्षणत्वम्, यद्वा अन्यदेव किंचिदिति ।
नाऽऽद्यः; प्रतीतिविरोधात् अपसिद्धान्ताच्च । अत एव न द्वितीयः मिथ्यात्वाध्यासादिविषयतया सिद्धसावधनत्वाच्च । शुक्त्यादिरेव हि रजताद्यात्मनाऽन्यथाख्यातेर्विषय इत्यभ्युपगम्यते । अथाऽऽरोपितत्वेन विषयत्वमिष्येत, तथाऽपि सिद्धसाधनता; सर्वस्यापि वस्तुनो यत्र क्वचित् येन केनचिदारोप्यमाणत्वात् । न तृतीयः; परं प्रति अप्रसिद्धविशेषणत्वात् । अर्थापत्तिप्रसिद्धं तदिति चेन्न; तस्याः स्वावसरेदूषयिष्यमाणत्वात् ।
न चतुर्थः; तद्धि बाध्यत्वम्, बाध्यमबाध्यं वा? पूर्वत्र, सिद्धसाधनत्वम्, तस्य प्रपञ्चसत्यत्वाविरोधित्वात् । उत्तरत्र किं ब्रह्मस्वरूपम्, उत ततो भिन्नम् आद्ये सिद्धसाधनत्वम्, ब्रह्मसम्बन्धस्यास्माभिरिष्यमाणत्वात् । बाध्यत्वधर्मयोगो हि प्रपञ्चस्य साध्यते; बाध्यत्वं च ब्रह्मस्वरूपमित्यभिधत्से । द्वितीये तेनैव दृश्यत्वहेतोरनैकान्त्यम् । तेनैव हेतुना तत्सिद्ध्यसिद्ध्योर्नानैकान्त्यमिति चेन्न; तेनैव तत्सिद्धावनैकान्त्य प्रसङ्गः, तदसिद्धौ हेतोरसाधकत्वमिति प्रसङ्गपर्यवसितत्वात् । तेनैव तत्सिद्धौ तत्साधनस्य सतः कथमनैकान्त्यम् । न हि तत्साधकत्वे तदसाधकत्वप्रसङ्ग इत्युन्मत्तोऽपि ब्रूयादिति चेन्न, अभिप्रायानभिज्ञानात्; न हि तत एव तत्सिद्धिमभ्युपगम्यानैकान्त्यं ब्रूमः, अपितु, अबाधिते बाध्यत्वे दृश्यत्वहेतुर्वर्तत इति भवताऽभ्युपगतत्वेन तथाऽभ्युपगमे अन्यतरानैकान्त्यप्रसङ्ग इति । तर्हि तत्र दृश्यत्वहेतुर्न वर्तत इत्यभ्युपगम्यानैकान्त्यं परिहरिष्याम इति चेत् – तदा दृश्यत्वानुमानेन तत्साधनं न शक्यते; तज्जनितज्ञानविषयत्वे तस्य दृश्यत्वावश्यम्भावात् । अतोऽनुमानमेव परित्यज्यानैकान्त्यं परिहर्तुमर्हसि । ननु बाधितस्याबाधितस्य चसाधारणंबाध्यत्वमात्रं साध्यत इति चेन्न;
तथाऽपि सिद्धसाधनत्वस्य दुष्परिहरत्वात्; बाधितबाध्यत्वमभ्युपगच्छतासाधारणाकारस्याभ्युपगमात् । पक्षधर्मताबलादस्मदभिमतविशेषलाभ इति चेन्न; तस्याः तद्विरुद्धत्वात् । अविरोधेऽपि पूर्वोक्तानैकान्त्यस्य स्थितत्वात् ।
न पञ्चमः; प्रत्यक्षाद्यैस्तद्विधायकैस्तदभावग्रहासंभवात् । श्रुतीनामपि निषेधिकानामन्यत्र व्यवस्थापनात् । अत एव योग्यानुपलम्भनिराकृतसद्भावस्य तदभावस्यानुमानेन साधयितुमशक्यत्वात् । कृत्स्नप्रत्यक्षोपरोधे च निर्मूलतयाऽनुमानप्रामाण्यस्यैवासंभवात् । तदभ्युपगमे च स्वोक्तिविरोधात् । परसिद्धान्तस्थिरीकरणाच्च । अप्रमाणेन साधितस्यापि सत्यत्वे अस्मदुक्तिमात्रेणापि तद्दूषणस्य दुर्वारत्वात् ।
नापि षष्ठः; सिद्धसाधनादेव । सर्वं ब्रह्मात्मकमिति भास्करादिभिरिव त्वयाऽपीष्यत इति चेन्न; तदपृथक्सिद्धिमात्रेणास्माभिस्तदुक्तेः । तथाऽपि सत्यभूतब्रह्मव्यतिरेकसाधनादसत्यत्वं फलतीति चेन्न; स्वयमपि सत्यस्य सत्यान्तरव्यतिरेकमात्रेणासत्यत्वप्रसङ्गाभावात् । स्वयं घटस्य घटान्तरव्यतिरेकेऽपि न ह्यघटत्वम् । ब्रह्मैकमेव सत्यमिति सिद्धे तद्व्यतिरेकसाधनेनैवासत्यत्वं सिद्ध्यतीति चेन्न; आत्माश्रयप्रसङ्गात् । अवधारणेन हि प्रपञ्चासत्यत्वं विवक्षितम्, तत एव च तत्सिद्धिरिति । श्रुतिसिद्धब्रह्ममात्रसत्यत्वोपजीवने अनुमाननैरर्थक्यप्रसङ्गः; अन्ततः श्रुतेरेव पुरस्करणीयत्वात्, तस्याश्च निरपेक्षत्वात्। विप्रतिपन्नं प्रति अनुमानं सप्रयोजनमिति चेन्न; श्रुतिप्रामाण्यमनिच्छतः तदुपजीवनासंभवात्, इच्छतस्तयैव तत्सिद्धेः । श्रुतेश्च प्रत्यक्षाद्यविरोधिविषयत्वे सिद्धे, सा कथं प्रत्यक्षादिबाधकानुमानस्योपजीव्या? ननु सत्यमिति केनचित् सामान्यतो निश्चित्य तद्व्यतिरेकः साध्यत इति चेन्न; प्रत्यक्षादिभिस्तन्निश्चये प्रपञ्चस्यैव सत्यतया तस्य तद्व्यतिरेकसाधनायोगात् । ततश्च शास्त्रनिश्चितसत्यव्यतिरेकसाधनेऽपि तस्य सत्यान्तरत्वमात्रं सिध्येत् । सत्यत्वात्यन्ताभावःसाध्य इति पक्षेऽप्येवमेव दोषो ग्राह्यः ।
नापि सप्तमः; तत् किं लोकतः शुक्तिरजतादिषु विधातुम्, आपणिकरजतादिषु निषेद्धंु च शक्यंकिंचित्, अथाशक्यमिति; न प्रथमः, प्रत्यक्षादिभिर्बाधस्य दुर्निवारत्वात् । न द्वितीयः, तस्याप्रसिद्धत्वात् । तथाविधस्य कस्यचिदन्यस्य साधने तेनाप्युपहितस्य प्रपञ्चस्याक्षतत्वेनानिष्टाभावात् । एवं प्रत्यक्षबाधेनिरूपिते सति अर्थापत्त्यभावयोः पृथक्प्रामाण्यमिच्छतां ताभ्यामपि बाधःसिद्धः । अबाध्यत्वलक्षणव्यवहाराविसंवादान्यथानुपपत्त्या सत्यत्वसिद्धिः । अभावोऽपि प्रपञ्चस्य बाध्यत्वाभावाख्यं सत्यत्वं प्रकाशयन् मिथ्यात्वानुमानं बाधत एव । न चात्र योग्यानुपलब्धिःनास्तीति वाच्यम्; योग्यत्वस्योपपादितत्वात् । न हि लोकसिद्धमिथ्यात्वादन्यत् किमप्ययोग्यं मिथ्यात्वमस्ति । न चानयोः श्रुतिबाधः, तदान्यपर्यस्थापनात् ।
ननु सत्यत्वे सिद्धे बाधः, तदेव न किञ्चित् पश्यामः किं सत्तासामान्यम्, उत स्वरूपसत्त्वम्? अथवा भावत्वम्? यद्वा प्रामाणिकत्वमात्रम्; अथवा किञ्चिदित। ि नाद्यः; सामान्यमनिच्छतस्तदयोगात्, इच्छतोऽपि सामान्यादिषु मिथ्यात्वसाधनस्य निरुपद्रवत्वप्रसङ्गात् । न द्वितीयः; तत्रापि किं स्वरूपमेवसत्त्वम्, उत स्वरूपस्य सत्त्वम्? पूर्वत्र मिथ्याभूतस्यापि स्वरूपं स्वरूपमेवेति न किञ्चित् व्यतिरिक्तं भवति । निस्स्वरूपं तदिति चेन्न; तेनैव रूपेण तत्स्वरूपनिर्णयात् । अन्यथा प्रातिस्विकवस्त्वन्तरस्वरूपाभावे सर्वेषां निःस्वरूपत्वप्रसङ्गात् । उतरत्र, तत्सत्त्वस्य सत्त्वान्तराभावे मिथ्यात्वं दुर्वारम् । ततश्च विश्वमिथ्यात्वम् । न तृतीयः; अभावस्य मिथ्यात्वप्रसङ्गात् । इष्टमिदमिति चेन्न; अविशेषात् भावस्यापि तत्प्रसङ्गात् । भावान्तराभाववादे तु भावानामेवाभावत्वात् तत्प्रसङ्गः । न चतुर्थः; दृश्यत्वानुमानमपोद्य तदसिद्धेः । न पञ्चमः; तस्य सर्वत्र प्रमाणबाध्यत्वे शशविषाणवदसिद्धेः । योग्यत्वेऽनुपलम्भबाधादिति ।
तदेतदसारम्; प्रामाणिकत्वमेव हि सर्वत्र सत्त्वमभ्युपगच्छामः । तदुक्तं भाष्ये, “व्यवहारयोग्यता सत्त्वम्” इति । न चैतत् बाधकानुमाने जीवति न सिद्ध्यतीति वाच्यम्; कालात्ययापदेशस्यनिर्मूलत्वप्रसङ्गात्; यथा वह्न्यनुष्णत्वानुमानं प्रतियोगिभूतोष्णत्वग्राहिणा बाध्यते, तथेहापि सत्यत्वव्यतिरेकानुमानं प्रतियोगिविशेषसत्यत्वग्राहिणा बाध्यते । न च तन्न गृह्यत इति वाच्यम्; तद्व्यतिरेकासिद्धिप्रसङ्गात् । ब्रह्मणि तद्ग्रहात् व्यतिरेकसिद्धिरिति चेन्न; ब्रह्मण्यपि सत्त्वस्य त्वदुक्तयुक्तिभिः खण्डनात् । तत्राखण्डितत्वे तदेव विश्वस्यापि सत्त्वमिति पश्य । स्वतस्सदेव ब्रह्मेति चेत्, किमहेतुकत्वं विवक्षितम्, उत स्वयंप्रकाशत्वम्? यद्वा सत्त्वाभावेऽपि सदिति पूर्वत्र ब्रह्मव्यतिरेकात् प्रपञ्चस्य कार्यत्वमेव साधिंत स्यात् । ततश्चांशतस्सिद्धसाध्यता । द्वितीयेऽपि परप्रकाश्यत्वसाधनात् स एव दोषः । तृतीये तु प्रपञ्चस्यापि तद्वत् सत्त्वे को विरोधः? एतेन सत्त्वस्य सत्त्वान्तराभावात् असत्त्वप्रसङ्गोऽपि प्रत्युक्तः । अतः सत्त्वमात्रप्रतिक्षेपे शून्यवादावतारः । क्वचित् तदभ्युपगमे प्रामाणिकेषु सर्वेषु तत्सिद्धिरनिवार्येति । न चैवं मिथ्यात्वासत्त्वादौ; तस्य सामान्यतोऽस्माभिरप्रतिक्षेपात् । सत्यस्यैव हि रजतत्वादेः स्वात्यन्ताभावाश्रयनिष्ठतया प्रतीयमानत्ववेषेणमिथ्यात्वम्; तत्तन्निष्ठात्यन्ताभावप्रतियोगित्वमेव तस्यासत्त्वमिति यथालोकमभ्युपगमात् । किंच य एष विश्वं विचारासहमलीकमनिर्वचनीयं चेत्यादिरूपं व्याहतप्रतिज्ञानमाद्रियते, स किं स्वपक्षं किंचित् स्थापयति, न वा? स्थापनेऽपि प्रमाणतः, अप्रमाणतोऽपि वा नेति पक्षे परपक्षं दूषयतोऽयमेव विकल्पः । तत्र प्रमाणत इति पक्षे तत् प्रमाणं तथात्वेन विचारसहम्, नवा? पूर्वत्र कथं विश्वमिथ्यात्वम्? तस्यापि तदन्तर्भावात्; उत्तरत्र कथं तत् प्रमाणम् । प्रमाणताभ्रमेणेति चेत्, तथाऽपि किं तेन? अन्यथा हेत्वाभासानामप्रतिक्षेपे सर्वसमयसाम्राज्यप्रसङ्गात् । लोकव्यवहारसिद्धमिति चेन्न; तस्य सपरिकरस्य परिग्रहे लोकस्थिरीकरणात् । प्रमाणान्तराविरोधादेश्च तत्परिकरत्वात् । अन्यथा लोकतोऽप्यसिद्धेः । त्रिचतुरकक्ष्या विमर्शावस्थापितमिति चेन्न; तथैव विश्वानुग्राहकप्रमाणानामव्यवस्थापनात् । तत्तद्विमर्शबाधस्य विश्वद्वेषिण्यपि निवारकाभावात् । तस्य तु प्रथमकक्ष्यायामेव स्फुटप्रतीति व्याघातादिभिर्विलय इति विशेष इति ।
न चापच्छेदनिमित्तनैमित्तिकशास्त्रयोः प्रामाण्याविशेष इव अप्रामाण्यविशेषेऽपि परत्वात् प्राबल्यम्; न मिथ्येत्यस्मदुक्तेस्ततोऽपि परत्वात् । अविश्रमस्तर्हीति चेन्न; स्वदोषस्य परत्राऽऽरोपात् । परत्वमात्रेण प्राबल्यं ब्रुवतस्तवैवासौ दोषः । किंच यद्यप्रमाणं परं स्वविषयं नावस्थापयेत्, कथं प्रबलम्; स्थापयतो वा कथमप्रामाण्यम्? । ननु प्रमाणत्वे कथं बाध्यत्वम्, तस्मिन् वा कथं तदित्यपच्छेदेऽपि प्रसज्यत इति चेन्न; अनियतविरोधपौर्वापर्यतया अन्यतरोदयसंभावनया च प्रयोगान्तरेषु प्रामाण्योपपत्तेः । किंचत्वदुक्तप्रमाणस्यापि दुष्टकारणप्रसूतत्वं त्वयैवाभ्युपगम्यत इति अदोषप्रसूततयाऽपि न प्राबल्दौर्बल्य विभागः । अन्यथा माध्यमिकयुक्तीनां सर्वसिद्धान्तजीवितास्वादिनीनां सर्वतः परत्वेन प्राबल्यप्रसङ्गात् । तदेवं सिद्धं न कथंचिदपि विश्वमिथ्यात्वप्रतिज्ञानं शक््यमिति ।
दृश्यत्वं च किमभिप्रेतं? किं चाक्षुषत्वम्? उत प्रत्यक्षज्ञानविषयत्वम्, यद्वा ज्ञानविषयत्वमात्रम्, उत दृग्व्यतिरिक्तत्वम्, अथवा अन्यत् किंचिदिति?नाऽऽद्यः; भागासिद्धत्वात् । अत एव न द्वितीय; व्यर्थविशेषणत्वाच्च । ब्रह्मव्यच्छेदार्थं विशेषणं सार्थकमिति चेन्न; तस्य ज्ञानविषयत्वानभ्युपगमात् । अभ्युपगमे वा योगिप्रत्यक्षादिविषयतया सन्मात्रग्राहिप्रत्यक्षवर्णनाच्च हेतोस्तत्र वृत्तेः । न च तृतीयः; अनैकान्तिकत्वादेव । ज्ञानविषयत्वमात्रमपि ब्रह्मणो नास्तीति चेन्न; “आत्मा वाद्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” (बृ.4 – 4 – 5) “ब्रह्म वेद ब्रह्मैव भवति” (मुंड – 3 – 2 – 1) “अथातो ब्रह्मजिज्ञासा”(ब्र.सू.1 – 1 – 1) इत्यादिस्वपराभ्युपगतश्रुतिसूत्रादिविरोधात् । सन्मात्रग्राहि प्रत्यक्षमिति वादस्यापि प्रहाणप्रसङ्गाच्च ।
व्यावहारिकं ब्रह्मणो दृश्यत्वम्, न तु पारमार्थिकमिति चेत्, हन्त! किं प्रपञ्चदृश्यत्वं पारमार्थिकम्, येन तस्मिन् मिथ्यात्वं सिद्ध्येत् । तथाच सति पारमार्थिकं दृश्यत्वम् । तत एव दृश्यम् अपारमार्थिकमिति भ्रान्तजल्पितायेत । अतः प्रपञ्चस्यापि व्यावहारिकदृश्यत्वमभ्युपेयम्; तच्च ब्रह्मणोऽप्यविशिष्टमिति तस्यापि मिथ्यात्वप्रसङ्गस्याविशेषेऽपि सत्यत्वे, प्रपञ्चस्यापि सत्यत्वप्रसङ्गः । यदिच व्यावहारिकमपि दृश्यत्वं ब्रह्मणो नास्तीत्युच्येत, तदा ब्रह्मविज्ञानान्मोक्ष इति वेदान्तसिद्धान्तविरोधश्च ।
किंच, “ब्रह्मणो दृश्यत्वं नास्ति’ इत्यत्र ब्रह्मशब्दः किं कस्यचिदप्यबोधकः उताब्रह्मबोधकः अथवा ब्रह्मबोधक इति? नाद्यः ब्रह्मशब्दप्रयोगनैरर्थक््यप्रसङ्गात् । न द्वितीयः; अब्रह्मणस्तेनाभिधाने तस्यैव दृश्यत्वनिषेधात्; ततः प्रपञ्चे हेतोरसिद्धेश्च । न तृतीयः; ब्रह्मणो दृश्यत्वस्य दुस्त्यजत्वात् । स्वयंप्रकाशस्यब्रह्मणो यथाकथंचिल्लक्षणया ब्रह्मशब्देन प्रतिपादनमिति चेत्, तथाऽपि लक्षणया वृत्त्या शब्दजन्यप्रतीतिविषयत्वं सिद्धम् । तावतैव दृश्यत्वमवर्जनीयम् । ब्रह्मशब्देन ब्रह्मणो लक्षणा चानुपपन्नेति आदावेवोक्तम् । एतेन सर्वशब्दागोचरत्वं ब्रह्मणो वदन् प्रत्युक्तः; ब्रह्म न शब्दप्रतिपाद्यमित्यत्र पूर्ववत् विकल्पदूषणयोरवर्जनीयत्वात् । “यतो वाचो निवर्तन्ते” (तै.आनं.1) इत्यत्रापि यच्छब्देन ब्रह्मानुवादोऽवर्जनीयः उपहितमूनद्यत इति चेत्, तथाऽपि ज्ञानविषयत्वं सिद्धम् । उपहितानुवादेनानुपहितेतन्निषेधश्चाशक्यः । एवमनुभूतिःस्वयंप्रकाशेत्यादिभिरवेद्यत्वप्रतिपादनमपि तन्निराससमये निरस्तं द्रष्टव्यम् ।
न चतुर्थः;पारमार्थिकव्यतिरेकस्य शुक्तिकारजतादौ प्रपञ्चेऽप्यनभ्युपगमेन साधनविकलत्व असिद्ध्यादिदोषात् । अपारमार्थिकव्यतिरेकस्य ब्रह्मण्यपि विद्यमानत्वेनानैकान्त्यादेव । अत एव प्रातिभासिकव्यतिरेकपक्षोऽपि निरस्तः । किंच घटोऽस्ति पटोऽस्तीत्यादिषु सत्त्वमनुभूतिविषयतयैव प्रतिभासते ।
।।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषुशतदूषण्यां दृश्यत्वानुमाननिरासवादः पञ्चदशः ।।15।।