शतदूषणी
।।अथ निवृत्त्यनुपपत्तिवादः चतुश्चत्वारिंशः ।।44।।
सत्त्वानीव विरुद्धजातिजनुषा सिद्धानि सिद्धाश्रमे वैरं यत्र मिथस्त्यजन्ति विधयस्सर्वैर्निषेधैस्सह ।
तं रङ्गेशयमङ्गसङ्गिकमलालक्ष्येश्वरप्रक्रियं शान्तावद्यमनन्तमङ्गलगुणं देवं प्रपद्येमहि ।।
येयं ब्रह्मणः श्रवणमनननिदिध्यासनादिक्रमपरिणतविशदाद्वैतवाक्यार्थविज्ञानहेतुका निश्शेषाविद्यानिवृत्तिरुच्यते, सा किमध्यासरूपा, नवा?
पूर्वत्र कथं निश्शेषाविद्यानिवृत्तिः,अध्यासरूपायां तस्यां सत्यां तन्मूलाविद्याया अपि विद्यमानत्वात्, उपादानमन्तरेणोपादेयस्थित्ययोगात् । आत्मोपादाना साऽस्त्विति चेन्न; आत्मनःपरिणामित्वप्रसङ्गात् । सत्योपादानायाश्च सत्यत्वेन सद्वितीयत्वप्रसङ्गात् । नच दोषमन्तरेणाध्यासो भवतामपीष्टः, तथा सत्यविद्याकल्पनस्यैव निर्मूलत्वप्रसङ्गात् । यदि सा ब्रह्मवदविद्यावच्च उपादानरहिता, तदा कथं तया सहाविद्या तिष्ठेत्? सिथ्ता वा किमिति पश्चान्नावतिष्ठते? निवृत्तिरपि ब्रह्मव्यतिरिक्तत्वैकप्रयोजकप्रयुक्तमिथ्यात्ववशान्निवर्तिष्यत इति निश्शेषाविद्यावृत्तिरिति चेन्न; निवृत्तिनिवृत्तौ तन्मिथ्यात्वे च निवर्त्योन्मज्जनतत्सत्यत्वयोः प्रसङ्गात् । प्रागभावनिवृत्तिरूपस्य घटस्य निवृत्तावपि प्रागभावानुन्मज्जनवत्, जागरदशायां स्वाप्नान्धकारनिवृत्तिरूपस्य स्वाप्नप्रदीपस्य निवृत्तावपि स्वप्नान्धकारमिथ्यात्ववच्चानुन्मज्जन मिथ्यात्वयोस्सिद्धिरिति चेन्न; घटतत्प्रागभावनिवृत्त्यात्मकस्य प्रध्वंसस्य स्वाप्नतेजस्तमोबाधकस्य जागरस्य च विद्यामानत्वेन तद्दुयानुन्मज्जनमिथ्यात्वयोरुपपत्तेः । अत्र त्वविद्यातन्निवृत्त्योर्द्वयोरपि प्रत्यनीकमन्यत्र परिशिष्यते । अस्ति ब्रह्मस्वरूपमिति चेन्न; तस्य तदुभयप्रत्यनीकत्वे तस्यानादित्वात्तयोः प्रागप्यारोपाभावप्रसङ्गात् । तथा च सति भेदप्रतिभासादेर्निर्मूलत्वे सर्वप्रमाणविरोधो मोक्षशास्त्रानारम्भश्च, पूर्वं तदविरोधित्वे पश्चादपि तद्वैरासंभवात् । कैवल्येन रूपेण पश्चाद्विरोध इति चेन्न; कैवल्यस्य स्वरूपमात्रत्वे दत्तोतरत्वात् । स्वरूपातिक्तित्वे सत्यत्वे सद्वितीयत्वप्रसङ्गात्, तन्मिथ्यात्वे तत एवाविद्यास्थित्यवश्यंभावात् । एतेन प्रयोजकं यदुक्तम्, तदपि दत्तोत्तरम् ।
अतएव न द्वितीयः, अनध्यासरूपाया निवृत्तेस्स्वरूपान्तर्भावादिविकल्पदुःस्थत्वात् । अन्तर्भावे ब्रह्मणोऽनादित्वेनाविद्याया नित्यनिवृत्तिप्रसङ्गात् । यद्यपि घटादेः स्वरूपमेव तत्प्रागभावनिवृत्तिरितिवत् ज्ञानस्वरूपं ब्रह्मैवाज्ञाननिवृत्तिरिति वक्तुं शक्यम्, तथाऽपि स्वप्रागभावनिवृत्तिरूपघटादेरिव स्वाज्ञाननिवृत्तिरूप ब्रह्मणोऽपि तदनन्तरत्वावश्यंभावे कादाचित्कत्वादयो दोषास्समुन्मिषेयुः।
ननु पूर्वसिद्धभूतलस्वरूपमेव पश्चिमसिद्धघटादिनिवृत्तिरित्यभावापलापवादिभिरभ्युपगम्यत इति चेत्; किमनेन? अस्माभिस्तत्रापि घटसंसर्गप्रत्यनीकतारूपस्य पराभिमतघटाभावाविनाभूत भावान्तरात्मककालविशेषसंसर्गतन्मूलपरिणामादेः प्रत्यक्षसिद्धस्य भूतलावस्थाविशेषस्य यथायथं घटाभावत्वाभ्युपगमात्तस्य घटसंसर्गोत्तरभावित्वेन पूर्वसिद्धत्वासिद्धिः । नन्वभाववादिनोऽपि कार्यप्रागभावस्य कारणाश्रयत्वात्कारणेऽपि कार्यप्रागभावस्य सम्बन्धोऽभ्युपगतः, सम्बन्धिनः प्रागभावस्य निवृत्तौ च तत्सम्बन्धनिवृत्तिरास्थेया, सा च सम्बन्धनिवृत्तिः कारणस्वरूपानतिरेकिणीष्टा च, कार्यं तु दृश्यमानं स्वप्रागभावस्यैव निवृत्तिः, एवं कार्यकारणयोस्सम्बन्धोऽपि स्वप्रागभावनिवृत्तिरेवेति परिशेषात् पूर्वसिद्धकारणस्वरूपमेव कार्यप्रागभावकारणयोस्सम्बन्धनिवृत्तिरिति; तदप्यसत्, कार्यतत्प्रागभावयोः कारणेन सह स्वरूपातिरिक्तसम्बन्धमनभ्युपगच्छतां पुरतो नेदं चोद्यम् । अभ्युपगच्छतामपि कार्यसम्बन्धप्रागभावः कार्यप्रागभावकारणयोस्सम्बन्ध एवेति तस्य तन्निवृत्तित्वं युक्तम् । कार्यमेव वा स्वप्रागभावतत्सम्बन्धयोरप्यभावो भवतु, विरोधाविशेषात् । यथैक एव प्रध्वंसः कार्यतत्प्रागभावयोः प्रतिपक्षः, इत्यादि स्वयमूह्यम् ।
ननु भवतामप्यविद्यानिवृत्तिः पूर्वसिद्धजीवस्वरूपाविर्भाव एव, *स्वेन रूपेणाभिनिष्पद्यत इति श्रुत्यनुसारात्, तद्ब्रह्मस्वरूपाविर्भाव एवास्माकमविद्यानिवृत्तिरस्त्विति चेन्न; संसारदशायामनाविर्भूतानेकाकारगोचरस्याविर्भावशब्दार्थस्य धर्मभूतज्ञानविकासविशेषस्य पूर्वं कर्मणा प्रतिबद्धस्य पश्चात्तन्निवृत्तौ स्वरूपानुबन्धित्वादनिवर्तनीयस्यास्माभिरभ्युपगमात् । भवतस्तु निराकारे ब्रह्मणि नित्याविर्भूतज्ञप्ति (व्यक्ति) मात्रस्वरूपे नापूर्वः कश्चिदाभिर्भावः । ननु ब्रह्माकारविवर्तान्तः करणवृत्त्युपलक्षितस्वरूपेणापूर्वेण ब्रह्म स्वाज्ञाननिवृत्तिः, कारणविनाशाच्चोपलक्षकान्तः करणवृत्तिनाशे तदुपलक्षणाभावेन न सद्वितीयत्वादिप्रसङ्गावकाश इति चेत्; तदप्यतिमन्दम्, उपलक्षणस्वरूपस्यैव निष्कर्षवशान्निवृत्तिरूपत्वप्रसङ्गेनाध्यासरूपविकल्पानुप्रवेशात्, तस्य च दूषितत्वात् । उक्तानां च विकल्पोत्तराणां तथाविधान्तः करणवृत्तिनाशे तन्मूलोपलक्षणनाशे च तुल्यप्रसरत्वात् । बहिर्भावे तु सद्वितीयत्वापत्तेः । समुच्चये विरोधात् । आकारभेदकल्पनेऽनवस्थानात् । आकारैक्ये भेदाभेदयोरैक्यप्रसङ्गात् । किंच बहिर्भावे च सा किमनादिरुतादिमती? पूर्वत्र नित्यमविद्यानिवृत्ति प्रसङ्गः । उत्तरत्र कारणाभावात् कार्याभावः, न हि मिथ्याभूतमविद्यादिकं सत्यभूतायास्तस्याः कारणं संभवति, असत्यात् सत्योत्पत्तेरन्यत्र दूषणात् । न च सत्यं ब्रह्मैव तत्कारणमस्त्विति वाच्यम्; तदनादित्वप्रसङ्गेन प्रागुक्तोपद्रवात् । नहि विगलितशबलभावं ब्रह्मैव तत्कारणम्, शबलभावविगलनस्यैव कारणान्वेषणेनात्माश्रयप्रसङ्गात् ।
नन्वविद्यानिवृत्तिर्न सती, ब्रह्मव्यतिरिक्तत्वात्; नापि सदसदात्मिका, व्याघातादिदोषशतोन्मेषात्, नच सदसद्विलक्षणा, सदसद्विलक्षणनिवृत्त्यात्मकत्वव्याघातात्; अतः परिशेषादसती वा, तामपि कोटिं परित्यज्य पञ्चमप्रकारो वा । भावाभावयोरेव हि सदसदादिप्रकारा निवृत्तयः । सदसद्विलक्षणञ्चाज्ञानम्, तन्निवृत्तिश्च प्रमाणसिद्धेति सदसदनिर्वचनीयाज्ञानानुसारेण यक्षानुरूपो बलिरिति न्यायात् सदसदादिसर्वप्रकारविलक्षणा तन्निवृत्तिः कल्प्यत इति किं नोपपन्नमिति चेत्;
अहो परापादनीयमात्मनः परिवादमात्मनैवाविष्कृत्य वैदग्ध्यमभिनयसि । तथा हि -कोटित्रयस्य भवतैव दूषितत्वात् अल्पशेषं कृतं शत्रुकार्यम् । यत्त्वसतीवेत्युक्तम्, तत्र भावान्तराभावनयेन भावान्तरविवक्षायां सद्वितीयत्वप्रसङ्गः । अतिरिक्ताभावविवक्षायां च सद्वितीयत्वं तेनैव भावेन तत्प्रतियोगिना च सत्यत्वेन दुस्त्यजम् । अभाववादिनां सत्यस्यैवाभावप्रतियोगित्वात् । निरुपाख्यविवक्षायां च तस्याश्शशश्रृङ्गादिवदकादाचित्कत्वप्रसङ्गः । ततश्च पूर्ववत्सर्वदैवाविद्यानिवृत्तिरनिवार्येत्यसंसारः । तस्यास्संसारस्य चाविरोधे अनिर्मोक्षः । परमार्थतस्सर्वदा संसाराभावात् तत एव परमार्थमोक्षाभावश्चेति नानिष्टप्रसङ्गाविमाविति चेन्न; व्यावहारिकबन्धमोक्षव्यवस्थाभङ्गस्यैव प्रसज्यमानत्वात् । तामपि व्यवस्थां परित्यजतः लौकिकवैदिकसर्वव्यवहारविलोपप्रसङ्गः ।
किं च अविद्यानिवृत्तेरसत्त्वे नित्यमविद्यासद्भावप्रसङ्गः । ननु घटप्रध्वंसस्यासद्रूपत्वाभावात् । स ह्यभावात्मकोऽपि तत्कालीनतया प्रमाणतस्सिद्धः । अन्यथा घटनित्यत्वस्यापि दुर्निवारत्वात् । असद्रूपमेव घटप्रध्वंसमभ्युपेत्य दूषणं ब्रूया इति चेन्न;शमलं भक्षय शापितोऽसि गुरुणेत्यादिवदशक्यत्वात् । शक्यत्वाभ्युपगमे वा त्वयैव दूषणमनुमतमिति किमस्माकं तत्समर्थनेन?
पञ्चमीं कोटिमाटीकमानस्यापि ते न काचिद्गतिः । साहि माध्यमकिगोष्ठीमध्ये भवन्तमध्यारोप्यानिर्वचनीयाग्रहविशिष्टं च सदद्वितीयं ब्रह्म विलुपन्ती त्रय्यन्तवादवारवाणमवधूयान्तर्गतं प्रकाशयेत् । ते ह्येवमाहुः *न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ।। इति । न चैकदेशवैषम्याद्विशेषः, पञ्चमकोटिपरिग्रहस्य भिक्षुपादप्रसरणन्यायेन समस्तभवत्सिद्धान्तावस्कन्दात् । व्यवस्थाहेतूनामपि व्यावहारिकत्वेना व्यवस्थितत्वस्यैव व्यवस्थितत्वात् । नच यक्षानुरूपो बलिरिति न्यायस्यात्रावकाशः, आनुरूप्यस्याविरोधित्वरूपत्वे सदसदनिर्वचनीयाज्ञाननिवृत्तेरप्यनिर्वचनीयरूपत्वप्रसङ्गात् । विरोधिरूपत्वे त्वनिर्वचनीयत्वप्रत्यनीकत्वस्य निर्वचनीयत्वेन सदसत्त्वसमुच्चयकोटिबहिर्भावायोगात् । तस्याश्च दूषितत्वात् । यदा च भवदभिमता सदसद्विलक्षणकोटिरपि निशिततर्कशूलकोटिमारोपिता तदा कैव कथा निर्विशेषपरब्रह्माधिष्ठानानिर्वचनीयभावरूपाज्ञानविक्षेपात्मकव्यतिरिक्तजडरूपाह मर्थाहङ्कारवृत्तिविशेषरूपमिथ्यास्वरूपतत्त्व मस्यादिवाक्यलक्षणप्रभवब्रह्मात्मैक्य विज्ञानकृतसदसद निर्वचनीय विश्वनिवृत्तिरूपायागन्धर्वनगरगोपुराधिरूढगगारविन्दमकरन्दपानमदभरमन्थरवन्धा सुतशुभकरतलकलितखर विषाणकोदण्डकोटिघटितकमठरोमशिञ्जनीर्नियत्न निर्यदैन्द्र जालिकशरशलाकाकृतभविष्यद्देवदत्त पुत्रशिरश्छेदसोदराया दुरभिलपकारकज्ञापिकायाः पञ्चम्याः कोटेरित्यलमपरिणतभणितिपरिहसनेनेति ।।
।। इति शतदूषण्यां निवृत्त्यनुपपत्तिवादः चतुश्चत्वारिंशः ।।44।।