शतदूषणी
अथ भावरूपाज्ञानभङ्गवादः एकोनचत्वारिंशः ।
श्रुतिकिरीटनिरूपणनिर्भरप्रसरयैव धिया परिशोधिताम् ।
सुखिमलां पदवीमदवीयसीं भजत माधवभक्तिमयीमिमाम् ।।
भावरूपं यदज्ञानं ये जनाः परिचक्षते ।
तच्चिते तत्तथाभूतं निश्चिन्वन्ति विपश्चितः ।।
एवं ह्यज्ञानमुषिततत्त्वज्ञानैर्विज्ञातम् – प्रत्यक्षानुमानागमैर्भावरूपमज्ञानं प्रतीयते । तत्र प्रत्यक्षं तावदहमज्ञो मामन्यं च न जानामीत्यादिरूपं सर्वसम्मतम् । तत्किं भावरूपमज्ञानं विषयीकरोति उताभावरूपमिति विवेचनीयम् । न तावदभावरूपम्; अभावो हि प्रतियोगिनिरूपणाधीननिरूपणः; ततश्च ज्ञानभावप्रतीतिर्ज्ञानग्रहणमन्तरेण नोपपद्यते; ज्ञानं विषयनिरूपणाधीननिरूपणमिति विषयेण सहैव गृह्यते, ततश्च यद्विषस्य ज्ञानस्याभावो व्यवजिहीर्षितस्तद्विषयं ज्ञानं तदानीमेव संजातमिति कथं तदभावः प्रतीयेत? यः प्रतियोगिभूतज्ञानावच्छेदकत्वेन विषयः यदा व्यवह्रियते तदैव तद्विषयज्ञानाभावं वदन् स्ववचनविरोधमपि न जानाति । ननु ज्ञानव्यक्तिभेदाददोषः, निषिध्यमानं ज्ञानमन्यत्तस्य निषेधप्रतियोगिनो निरूपणौपयिकं ज्ञानं चान्यदिति; नैवम्, संसर्गाभावस्य तज्जातीयसमस्तप्रतियोगिनिरूप्यत्वात्; इह भूतले घटो नास्तीतिवत् । ततश्च सर्वज्ञानप्रतियोगिको निषेधः एकयापि ज्ञानव्यक्त्या विरुद्ध एवः न ह्येकस्मिन् घटे विद्यमानेऽप्यघटं भूतलमिति व्यवहरन्ति ।
एतावन्तं कालं न किञ्चिदहमज्ञासिषमिति च प्रतीतिरपि न काञ्चिदपि तदानीं ज्ञानव्यक्तिं क्षमते । ननु कालभेदेन ज्ञानाज्ञानयोरविरोधः, न हि ज्ञानाभावप्रतिपत्तिकाल एव ज्ञानाभावेन भवितव्यमिति नियमः, मैवम्, प्रत्यक्षज्ञानस्य वर्तमानग्राहित्वनियमात् । तथा च सूत्रितंभगवता जैमिनना* सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वादिति । यद्यपि योगीश्वरणां प्रत्यक्षमतीतानागतेऽपि गृह्णातीति शास्त्रबलादभ्युपगन्तव्यम्, तथाप्यस्मदादिप्रत्यक्षं वर्तमानग्राहीत्येव नियमः । अस्तु तर्हि प्रत्यक्षेतरेण प्रमाणेनावर्तमानज्ञानेन ज्ञानाभावप्रतीतिः, अस्वाप्समेतावन्तं कालं न किञ्चिदहमज्ञासिषमित्यादिषु कालविशेषस्येव ज्ञानाभावस्याप्यतीतस्यानुमेयत्वोपपत्तेरिति चेत्; तन्न, अहमज्ञो मामन्यं च न जानामीत्यत्र वर्तमानतयावैज्ञानप्रतीतेः । किमिदं जानासीति पृष्टश्च कश्चिन्न जानामीत्युत्तरं दिशति । अत एवात्र प्रमाणान्तरजन्यज्ञानेनापि विरोधः स्थित एव । एतेन ज्ञानाभावगोचरज्ञानेनापि विरोधस्सिद्धः । नहि ज्ञानमुदयमानं तदानीमेव सर्वज्ञानाभावं प्रकाशयितुमलम्, स्वस्यापि ज्ञानत्वाविशेषात्, विद्यमानत्वाच्च । एवमाश्रयज्ञानेनापि विरोधः, न हि यत्किञ्चिदाश्रयप्रतीतिमन्तरेणाभावप्रतिपत्तिमनुमन्यामहे । उक्तं चाभियुक्तैः *लब्धरूपे क्वचित्किंचित्तादृगेव निषिध्यत इति । ननु सामान्यतः आश्रयप्रतियोग्यादिज्ञानमुपजीव्य विशेषतस्तत्तद्विषयं ज्ञानं निषिध्यत इति न कश्चिद्विरोध इति; तदपि मन्दम्, निषिद्धेस्तन्निषेधायोगेन व्याघातस्य स्थितत्वादिति ।
नच भावरूपेऽप्यज्ञाने विरोधप्रसङ्गः, भावरूपत्वादेव स्वरूपेण निरूपयितुं शक्यत्वात् । अस्ति च स्वरूपेणैव प्रतीतिःमुग्धोऽस्िम, मूढोऽस्मीत्यादिका । तस्मादहमज्ञ इत्यत्रापि तदेव भावरूपमज्ञानं प्रतीयते । न च वाच्यं नित्यसर्वगतसाक्षिसन्निधाने कथं ज्ञाताज्ञातविभाग इति; ज्ञाततयाऽज्ञाततया वा सर्वस्य साक्षिचैतन्यविषयत्वात् । इदमहं जानामीत्यत्र ज्ञानावच्छेदकतया, दिं न जानामीत्यत्र त्वज्ञानावच्छेदकतयेति विशेषः । न च तत्प्रकाशमात्रेणाज्ञाननिवृत्तिप्रसङ्गः, साक्षिप्रकाशस्याज्ञानगोचरभ्रान्तित्वेन तन्निवर्तकत्वायोगात् । यथा इदं रजतमिति भ्रान्तेरिदंप्रकाशो न निवर्तकः, तद्वदत्रापि अज्ञानावच्छेदकविषयप्रकाशः । प्रमाणभूतज्ञानोदये ह्यज्ञाननिवृत्तिः । नच ब्रह्मस्वरूपप्रकाशस्य ब्रह्माज्ञानविरोधित्वम्, तस्य साक्षित्वावस्थायां तद्विषयत्वेन तदविरोधित्वात् । स्वरूपमात्रप्रकाशदशायामप्यज्ञानाभावादेव तन्निवर्तनस्यानपेक्षितत्वात् । नच ब्रह्मविषयज्ञाने सति तदज्ञानाभावः, तद्विषयज्ञानाभावे तु तदवच्छिन्नाज्ञान प्रकाशानुपपत्तिरिति वाच्यम्, स्वप्रकाशतया स्वविषयज्ञानान्तरमन्तरेणापि तदवच्छेदकत्वोपपत्तेः । तदवच्छेदकप्रकाशस्य तद्विरोधित्वे भवत्पक्षेऽप्यज्ञानग्रहणानुपपत्तिप्रसङ्गात् । एवं बाह्यविषयेऽपि प्रमाणोदयात्प्रागज्ञानावच्छेदकतया साक्षिणैव तत्तद्विषयप्रकाशो न विरुद्धः । अतस्सिद्धं भावरूपमज्ञानं प्रत्यक्षसिद्धमिति ।।
अनुमानं च – विप्रतिपन्नं मानज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेश गतस्त्वन्तरपूर्वकम्, स्वप्रकाशितार्थप्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । धारावाहिक द्वितीयादिव्यवच्छेददार्थं विप्रतिपन्नशब्दः । स्वरूपभूतज्ञानव्यावृत्त्यर्थं भ्रान्तिभूतज्ञानव्यावृत्त्यर्थं च मानशब्दः । करणप्रतीतिव्युदासाय ज्ञानशब्दः । स्वप्रागभावस्वोत्पादकादृष्ट्सवोत्पत्तिप्रतिबन्धकादृष्टस्ववेद्यगतवृत्त्यभिव्यक्तिप्रागभावाः साध्यविशेषणैर्व्यवच्छेद्याः । वस्त्वन्तरशब्दो वैशद्यार्थः । एवं स्वशब्दोऽपि । प्रागभावव्यतिरिक्तेत्येतावता प्रथमचतुर्थविशेषणफलसिद्धौ पृथग्विशेषणनिर्देशो व्यवच्छेद्यविशेषव्यञ्जनाय । धारावाहिकद्वितीयादिष्वनैकान्त्यपरिहारायाप्रकाशितार्थशब्दः । आलोकमध्यारोपितदीपव्यवच्छेदायान्धकारोक्तिः । तत्रापि द्वितीयादिप्रभाव्यवच्छेदाय प्रथमोत्पन्न शब्दः । इन्द्रनीलादिप्रभाव्यवच्छेदाय प्रदीपशब्दः ।
आगमश्च – * अनृतेन हि प्रत्यूढाः, तेषां सत्यानां सतामनृतमपिधानम् * नासदासीन्नो सदासीत्तदानीं तम आसीत्तमसा गूढमग्ने प्रकेतम्, * इन्द्रो मायाभिः पुरुरूप ईयते इत्यादिरिति ।
तदेतदतीव स्थवीयः । तथा हि – यदुक्तं भावरूपमज्ञानं प्रत्यक्षेण प्रतीयत इति, तत्र किं ज्ञानविरोधित्वेनैव भाति? उतविरोधित्वेन?
नाद्यः, पूर्वोक्तसमस्तप्रसङ्गाविशेषात् विरोधितयाऽपि हि भासमानं प्रतियोगिप्रकाशमन्तरेण न प्रकाशेतैव । ततश्च तद्विषयप्रकाशे सति तद्विरुद्धस्याज्ञानस्य दूरापक्रमणात् कुतस्तद्ग्रहणम्? ननु गृह्यमाणमिदमज्ञानं सामान्यतः स्वप्रतियोगिनिरूपणं न विरुणद्धि, अपि तु विशेषत इति चेत्; अभावरूपाज्ञाने तर्हि कः प्रद्वेषः, सामान्य विशेषरूपेण परिहारस्य समत्वात्? यच्च निषिध्यमानविशेषज्ञानेऽपि प्रतियोगिविषयापेक्षया विरुद्धत्वमुक्तम्; तदपि भावरूपेऽपि तुल्यम् । अन्यथा तदविरुद्धत्वप्रसङ्गात् । तत्र सामान्यतः प्रतियोगिविशेषज्ञानमस्तीति चेत्, तदपि तुल्यम् । गौरवं पुनरधिको दोषः । न हि भावरूपाज्ञानस्य ज्ञानविरुद्धत्वं ज्ञानाभावनिरूपणमन्तरेण घटते । यत्तूक्तमज्ञानावच्छेदकतया प्रतियोगिविषयप्रकाशस्याज्ञानविरोधित्वाभावात् ब्रह्मणोऽन्यस्य वा अज्ञानावच्छेदकत्वेन प्रकाशो न निरुद्ध इति; तदभावपक्षेऽपि किं तथा नाङ्गीक्रियते, अभावप्रतियोगिभूतज्ञानावच्छेदकतया तत्तद्विषयप्रकाशो न विरुद्ध इति? तद्विषयज्ञानस्य तद्विषयज्ञानाभावेन विरुद्धत्वादिति चेन्न; भावरूपाज्ञानेनापि तद्विषयत्वहेतुकविरोधाविशेषात् । अन्यथा तद्गोचरप्रमाणज्ञानोदयेऽपि तदज्ञानानिवृत्तिप्रसङ्गात् । प्रमाणत्वादेव तस्य तन्निवर्तकत्वमिति चेन्न; स्वरूपप्रकाशांशेन प्रमाणत्वस्य साक्षिप्रकाशेऽप्यविशिष्टत्वात् । अन्यथोत्तरस्यापि तदभावप्रसङ्गात् । वस्तुतः प्रामाण्यस्य च उभयत्रापि त्वयाऽनभ्युपगमात् । प्रतियोगिविषयप्रकाशतामात्रेण तद्विरोधित्वे त्वज्ञानसाक्षिप्रकाशस्यापि प्रतियोगिप्रकाशत्वावश्यंभावेन विरोधाविशेषात् । इदंप्रकाशस्तु शुक्तिरजतसाधारणाकारगोचरत्वेन विरोधाभावान्न रजतभ्रमं निवर्तयति । न चात्रापि तथेति त्वया वक्तुंशक्यम्, निराकारे तदयोगात्, साकारे तु बाह्ये समाधानाविशेषात् । ततश्च वरं यथोपलम्भमुभयस्वीकारः । स्वप्रागभावव्यतिरिक्तेति वदता त्वयापि ह्यभावरूपमज्ञानं व्यवच्छेद्यतया स्वीकृतम् ।
नापि द्वितीयः,अनुपलम्भात् । मुग्धोऽस्मीत्यादिरूप उपलम्भ उक्त इति चेन्न; तस्यापि ज्ञानविरोधमन्तर्भाव्यैव प्रतीतेः । इतरथा ज्ञानविरोधित्वे प्रमाणाभावात् । अतः प्रध्वंसप्रलयविनाशावसानादिशब्दवन्नञर्थगर्भवाक्यार्थव्युत्पन्ना एव मोहादिशब्दाः । नञनुपलम्भमात्रेण तु स्वरूपतो निरूप्यत्वभ्रमो बालकानाम् ।
यच्च सर्वैः प्रमाणैर्ज्ञानाभावप्रतीतिर्न स्यादिति; तदप्यसत्, तथा सति ज्ञानाभावाभावेन मानज्ञानानां नित्यत्वप्रसङ्गात् । स्वप्रागभावेत्यादि च व्यर्थम्, अज्ञानं च न कदाचिदपि स्यात् । अतस्सिद्धं भावरूपमज्ञानं न प्रत्यक्षसिद्धमिति ।
या चेयमनुमानजीर्णकन्था; तत्र किमिदमप्रकाशितार्थप्रकाशकत्वादित्यत्र प्रकाशकत्वं नाम? किं ज्ञानत्वम्? किं वा ज्ञानकारणत्वम्? अथवा करणानुग्राहकत्वम्? यद्वा ज्ञानहेतुत्वमात्रम्? किं वा प्राकट्यहेतुत्वम्? यद्वा सामान्यतस्साक्षाद्वा परम्परया या विषयव्यवहारानुगुण्यहेतुत्वमिति? नाद्यः, दृष्टान्तस्य साधनविकलत्वात् । न द्वितीयः, पक्षे तदभावेन स्वरूपासिद्धिप्रसङ्गात् । दीपस्य च करणभूतेन्द्रियानुग्राहकत्वेन साक्षात्करणत्वासिद्धेः । न तृतीयः, पक्षे तदभावात् स्वरूपासिद्धेरेव । नापि चतुर्थः, इन्द्रियादिष्वनैकान्त्यात्; स्वरूपासिद्धेश्च । न पञ्चमः, प्राकट्यमनभ्युपगच्छतां स्वरूपासिद्ध्यादेरेव । अभ्युपगच्छतामपि दीपप्रभायास्तद्धेतुत्वाभावेन साधनविकलत्वात् । नापि षष्ठः, इन्द्रियादिभिरनैकान्त्यात् ।
किंच इदमनुमानमप्रकाशितार्थप्रकाशकं न वा? आद्ये स्वगोचरावरणाज्ञाननिवर्तकमनिवर्तकं वा? निवर्तकत्वे स्वगोचराज्ञानविषयाज्ञानान्तरावश्यंभावात् तत्प्रकाशेऽपि तथेत्येवं क्रमेणानवस्था । यदि पुनस्तदेवाज्ञानं स्वात्मानमपि तिरस्करोतीति मतम्, तदा तेनैवानुमानेनाज्ञाननिवृत्तिप्रसङ्गः । यत्प्रकाशकं यज्ज्ञानं तदेव तदज्ञानस्य निवर्तकमिति च व्याहतमेव । अनिवर्तकत्वे तु निष्प्रयोजनत्वमनुमानकुसृतिनिर्माणमहाप्रयासस्य । तेनानैकान्तिकत्वप्रसङ्गश्च । तस्यापि पक्षीकारे तस्मिन्नंशे बाधः । द्वितीयेऽपि प्रकाशितप्रकाशकत्वं वा विवक्षितम्, अप्रकाशकत्वमेव वा? पूर्वत्र निष्प्रयोजनत्वम्, येनैवादौ प्रकाशितं तेनैव कृतत्वात् । उत्तरत्राप्रमाणत्वमेवानुत्पत्तिलक्षणमिति ।
यच्चागमैस्तत्सिद्धिरित्युक्तम्; तदपि न, तन्नानिर्वचनीयत्वाभिमताज्ञानप्रसङ्गभावात् । सदसद्वैलक्षण्यादेर्व्याघातग्रस्तत्वाच्च । अनृतशब्दस्यात्र ज्ञानसङ्कोचहेतुभूतकर्मविषयत्वात् । तद्वि ज्ञानविरोधित्वेन बहुश्रुतिस्मृतिसिद्धम् । ऋतशब्दश्चानुकूले कर्मणि प्रयुक्तः * ऋतं पिबन्तावित्यादिषु; ततो नञस्तदन्यत्वेन तद्विरोधित्वेन वानृतशब्दः । अत्र सांसारिकं पुण्यमपि मुमुक्षोः प्रतिकूलतया पापमिति तदप्यनृतशब्देन संगृहीतम् । * न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निर्वतन्त इति श्रुतेः । तमश्शब्दोऽप्येवं मूलप्रकृतिविषय इति * तम एकीभवति, * यस्य तमश्शरीरम् * आसीदिदं तमोभूतमप्रज्ञातमित्यादिभिस्सिद्धम् । सदसदभावोक्तिश्च व्यष्टिचेतनाचेतनविलयपरा । नह्यत्र सदसदन्यत्वमुक्तम् । विलयोऽप्यवस्थान्तरमे, न बाधः । एवं मायाशब्दोऽपि प्रकृतिविषय एव श्रुत्या समर्थितः * अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः, *मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरमिति । प्रकृतिशब्दस्य रूढ्या पदार्थविशेषे वृत्तेः उपादानार्थत्वादपि तस्य प्रथमं बुद्ध्युपारोहः । अत्र हि मायाशब्देनाभिहितं किमित्यपेक्षायां प्रकृतिरित्युच्यते, न पुनः प्रकृतेर्मिथ्यात्वं प्रतिपाद्यते । न हि संभवति मिथ्याभूतस्योपादानत्वम् । मायाशब्दश्च विचित्रसृष्टिकरार्थवाची, असुरराक्षसास्त्रादिषु प्रयोगात् । * देवयामेव निर्मितेत्यादिषु प्रयोगदर्शनाच्च । अत एवैन्द्रजालिकादिष्वपिमायाशब्दो मन्त्रौषधादिविचित्रसृष्टिकरार्थत्वादेव, एकरूपप्रवृत्तनिमित्ते संभवति विरुद्धार्थकल्पनायोगात् । तत्र मुख्यामुख्यविभागहेत्वभावाच्च । मायामूलभ्रान्तिविषयेषु क्वचिन्मायाशब्दो लक्षणया, न पुनर्मिथ्यार्थत्वात् । मायामृगोऽपि मारीचसृष्टिरेव हि तात्त्विकी । न चेद्रामशरेणास्य निधनं नोपपद्यते ।। शुक्तिरजतादिषु मायाशब्दप्रयोगादर्शनाच्च ।
ननु भावान्तरमभाव इति भवतां सिद्धान्तः, ततश्च भावरूपमेवाज्ञानं भवद्भिरभ्युपगन्तव्यम्, तत्र तत्किमर्थं निषिध्यत इति । अत्र ब्रूमः – यदर्थं भवता प्रसाध्यते तदर्थमस्माभिः प्रतिषिध्यते । यदि भवता ज्ञानाभावात्मकमज्ञानं भावरूपमिति प्रसाध्यते तदा न वयं प्रतिक्षिपामः । अस्ति हि नित्यस्य प्रमाणशब्दाभिलपनीयविषयाभिमुख्यवस्थाविशेषाद्विलक्षणः यत्प्रागभावादिशब्दाभिलप्योऽवस्थाविशेषः । न ह्येतावदेव भवता साध्यते, अपि तु ज्ञानप्रागभावातिरिक्तः कश्चित्सदसदनिर्वचनीयो जगत्कारणत्वब्रह्मतिरोधायकत्वादिविशिष्टः प्रसाध्यते । सच निष्प्रमाणकत्वादस्माभिःप्रतिक्षिप्यते ।।
।।इति शतदूषण्यां भावरूपाज्ञानभङ्गवदः एकोनचत्वारिंशः ।।39।।