शतदूषणी
।।अथ विकल्प्रामाण्यभङ्गवादः सप्तचत्वारिंशः ।।47।।
संसारसागरोत्तारकारणं वारणाचले । अविकल्पविकल्पाभ्यामध्यक्षितमुपास्महे ।।
यदुच्यते -विप्रतिपन्नो विकल्पो मिथ्याविषयः विकल्पत्वात्, यथा शुक्तिरजतविकल्पः, नासौ जात्यादिविशिष्टप्रत्यय इति सर्वस्यापि भेदस्य विकल्पविषयतया मिथ्यात्वे परिशेषादद्वैतसिद्धिरिति; तदेतत् सविकल्पकमपि प्रत्यक्षविभागतयोदाहरद्भिर्भाष्यकारैर्निरस्तप्रायम् । तद्विस्तृणीमहे । तत्र तावत्पक्षादयो न निर्विकल्पकविषयतया सिद्धाः, तथा सत्यभिलापसम्बन्धानर्हत्वप्रसङ्गात् । विकल्पविषयतया सिद्धौ तु, य एते पक्षादिग्राहिणो विकल्पाः किं तेऽपि पक्षीक्रियन्ते, उत तद्धतिरिक्ताः? इति । न प्रथमः, व्याघातात् । विकल्पानां विसंवादित्वविकल्पस्य विसंवादे पुनस्तेषामपि संवादपर्यवसानात् आश्रयाद्यसिद्धिप्रसङ्गात् । अविसंवादातिरिक्तायाश्च तत्सिद्धेरनिरूपणात् । विसंवादेऽपि वा तत्सिद्धौ सर्वत्र विशिष्टार्थसिद्धेर्दुर्निवारत्वात् । नापि द्वितीयः, तैरेवानैकान्त्यात् । अविसंवादोऽपि तेषामनिश्चित इति चेन्न; तथाऽपि सन्दिग्धानैकान्त्यस्य स्थितत्वात् । अन्यतस्तेषां विसंवादसाधनेऽप्युक्तदोषानुधावनात् । यदि च सर्वे विकल्पा विसंवादिनः, कथमनुमानादिविकल्पास्ते प्रमाणं भवेयुः? परम्परया अर्थप्रतिबन्धादिति चेत्; तुल्यं विकल्पेऽपि । माभूत्तेषां प्रामाण्यमिति चेत्; तथाऽपि कथमेतदनुमानं समीहितसाधनायोदाहरसि? लोकव्यवहारसिद्धतया परमतसिद्धतयेति चेन्न; आत्मघातिनामीदृशानां बालिशैः परीक्षकैश्च साध्यसिद्ध्यङ्गत्वानभ्युपगमात् ।
किंच निर्विकल्पकस्यापि संवादः किं विकल्पगृहीतः, उत निर्विकल्पकगृहीतः? नाद्यः, निर्विकल्पकस्य विसंवादित्वप्रसङ्गात् । अन्यथा क्वचिद्विकल्पप्रामाण्यानभ्युपगमेऽनैकान्त्यादिदोषात् । न द्वितीयः, स्वस्यापि संवादित्वग्रहणे तस्यानधिकारात् । अधिकारे वा विकल्पपसङ्गात् । तेन विकल्पवन्निर्विकल्पकस्यापि प्रामाण्यनिर्मूलनादप्रयत्नविजयिनो माध्यमिकाः ।
कश्चायं विसंवादः? किं संवादिज्ञानान्तरराहित्यम्? आहोस्वित् अर्थक्रियास्थित्यभावः? बाधकज्ञानान्तरोदयो वा? यद्वा अनर्थभूतत्वम्? अथवा अनर्थविषयत्वम्? यद्वा अन्यस्यान्यात्मनोल्लेखः? अन्यद्वा किंचित्? इति । न प्रथमः, क्वचिद्बाघात्; क्वचिदिष्टप्रसङ्गात्, अकिंचित्करत्वाच्च । संवादकाभावे कथमध्यवसाय इति चेत्; यथा संवादकस्येति पश्य । परस्परसंवादादुभयाध्यवसाय इति चेन्न; शुक्तिरजतबोधधारावाहिकसन्ततौ तदसिद्धेः । अर्थक्रियाविरहव्यवसायविसंवादात्तत्र सर्वत्राप्रमात्वमिति चेत्; एतेन द्वितीयः कल्पः परिजिघृक्षितः । सोऽपि न, सर्वासामर्थक्रियाणां विकल्पोज्ञत्वात् । नहि निर्विकल्पकेन कश्चित्प्रवर्तते । न च विकल्पतः प्रवृत्तस्यार्थक्रिया न संभवति; मणिप्रभाविषयमणिविकल्पप्रवृत्तस्येव स्वलक्षणप्रसूतनिर्विकल्पकजनित तदारोपितार्थोल्लेखविकल्प प्रवृत्तस्यापि पारम्पर्येणार्थसम्बन्धात् । निर्विकल्पकनिदान एव संवाद इति चेन्न; नियामकाभावात् । बाधितत्वमिति चेत्; तत्स्तृतीयः पक्षः स्वीकृतः । सोऽप्यसारः, असिद्धेः । अत एवानुमानात्तत्सिद्धिरिति चेन्न; अद्यापि तत्प्रामाण्यानिश्चयात् । अर्थजत्वात्तत्सिद्धिरिति चेन्न; साक्षादसिद्धेः । परम्परया त्वविशेषात् । अत एव न चतुर्थः । न च जात्यादिविशिष्टस्य जात्यादिविशेषणस्य वा दृढोपलम्भसिद्धस्याबाधि तस्याप्यनर्थत्वं निश्चिनुमः, यतस्तत्प्रसूतस्य विकल्पस्यानर्थत्वम् । अतएव न पञ्चमः, अनुमानादिनिर्मूलनाच्च ।
षष्ठोऽपि स्वलक्षणाकारतयैव जात्यादिसिद्धेर्निरस्तः । न चाशब्दात्मार्थः शब्दात्मना विकल्पे भातीति वाच्यम्, सर्वेषु विकल्पेषु शब्दानुवेधाभावात् । यत्र च शब्दानुवेधः तत्रापि शब्दोऽर्थात्मना प्रतिभाति, अशब्दात्मनैव पूर्वमेवाध्यवसायात् । नच गौरित्यत्र गकारौकारविसर्जनीयात्मकोऽयमिति मन्यते, अपि तु गोशब्दप्रवृत्तिनिमित्तभूतगोत्वाश्रय इति । एकार्थानेकशब्देष्वनेकार्थैकशब्देषु च शब्दानामर्थानां च परस्परविरोधादेव नैकतादात्म्याध्यवसायसंभवः । न चात्र साम्यसन्निकर्षादिकमध्यासनिमित्तं पश्यामः । नच चाक्षुषनीलादिप्रत्यये श्रावणनीलादि शब्दात्मनोल्लेखो युक्तः । नच विकल्पास्सर्वे समानाः, मानसबाह्येन्द्रियव्यापारान्वय व्यतिरेकानुविधानविरोधात् । न च गोशब्दात्मना खण्डशब्दात्मना च गोव्यक्तौ विकल्पितायां जातिव्यक्तिशब्दविभागनिमित्तं संभवति । न च जातिशब्दो व्यक्तौ नाध्यस्त इति वाच्यम्; गौरयमित्येव प्रतिभासात् । तथा च व्यक्तिशब्दस्यापि तुल्यन्यायतया नाध्यासः । अतस्तटस्थ एव शब्दस्स्वविषयमावेदयति, वस्त्वन्राच्च व्यवच्छिनत्तीति न शब्दाध्याससंभवः ।
नापि सप्तमः, बाधपर्यवसितस्य कस्यचिदन्यस्यानुपलम्भात्, अन्यादृशस्य साधनेऽपि विरोधाभावादिति ।
न च संस्कारप्रसूततामात्रेण विकल्पस्याप्रामाण्यम्, स्मृतिप्रामाण्यवादिषु तस्य दुर्वचत्वात्, संस्कारमात्रासाधारणकारणस्य स्मृतित्वात् । स्मृत्यनुभवात्मकपक्षेऽप्यंशे स्मृतित्वलक्षणमप्रामाण्यं प्रसज्येत, न पुनर्विसंवादित्वलक्षणम् ।
विकल्पत्वादिति हेतुश्च विशिष्टप्रत्ययत्वमात्रम्? तद्विशेषो वा? नाद्यः, निर्विकल्पकस्याप्यस्मन्मतेन यत्किंचिद्विशिष्टप्रत्ययत्वेनानैकान्त्यात्; तस्यापि पक्षीकारे तदतिरिक्तनिर्विकल्पकस्यानुपपत्त्या सर्वप्रत्यक्षोच्छेदप्रसङ्गात् । नापि द्वितीयः, प्रथमाक्षसन्निपातजविशिष्टप्रत्ययादुपरितनाविशिष्टप्रत्ययस्य कारणदोषादिविशेषाभावात्; संसारसंभेदादेश्चादोषरूपत्वस्थापनात् । अतो विशिष्टप्रत्ययमात्राप्रामाण्यवादिना सर्वप्रत्यक्षनिर्मूलने, परिशेषोऽपि शून्यतत्त्वमुपस्थापयेत्,न पुनरद्वैतम् । किंच कल्पितबाह्यविषयनिर्विकलप्कस्य त्वन्मतेन मिथ्याविषयत्वात् तद्दृष्टान्तेनाद्वैतविषयनिर्विकल्पकस्यापि मिथ्याविषयत्वमनुमेयमिति । किंच -विकल्पाविषयत्वं चेत् ब्रह्मणः प्रतिपाद्यते । श्रोतव्यादिविधीनां स्यादश्रोतव्यत्वमेव ते ।।
अतो न निर्विशेषस्यापि ब्रह्मणो विकल्पाविषयत्वमपीति ।।
।। इति शतदूषण्यां विकल्पप्रामाण्यभङ्गवादः सप्तचत्वारिंशः ।।47।।