शतदूषणी
।।अथ वेदप्रामाण्यपरिग्रहानुपपत्तिवादः चतुर्दशः ।।14।।
यदात्मानो वेदा यदनुगुणवर्णाकृतिजुषः ।
प्रमाणं यत्रैते नियतमपरिच्छेद्यविभवे ।
य एषामाहर्ता दनुजमथनो वाजिवदनः ।
स मे देवः श्रीमान् विदलयतु संमोहमखिलम् ।।
वेदप्रामाण्यवाङ्मात्रकञ्चुकच्छन्नमर्मणाम् ।
बुद्धसिद्धान्तसुहृदां सन्तः पश्यन्तु बाध्यताम् ।।2।।
अतीन्द्रिये हि धर्मादौ वेदाः प्रमाणमिति साधितं प्रथमकाण्डे । तदुपजीवनेन सिद्धेऽपि प्रामाण्यं शारीरके । अतस्तथागताद्यागमस्तत्त्वानुष्ठानयोरप्रमाणमिति सर्वमीमांसकसम्मतम् । तदेतत् संविन्मात्रव्यतिरिक्तमिथ्यात्ववादे न संगच्छते । तदुक्तमभियुक्तैः –
“प्रमाणत्वाप्रमाणत्वे पुण्यपापादि तत्फलम् ।
विध्यर्थवादमन्त्रार्थनामधेयादिकल्पना” ।
“सर्वेषु लक्षणेष्वेव स्वप्रमाणगणे स्थितिः ।
वचनव्यक्तिभेदेन पूर्वसिद्धान्तपक्षता” ।
“कर्मभ्यः फलसम्बन्धः पारलौक्यैहलौकिकः ।
सर्वमित्याद्ययुक्तं स्यादर्थशून्यासु बुद्धिषु” ।। (कुमारिल श्लोकवार्तिकं) इति ।
तदिह किंनाम वैषम्यमाश्रित्य वेदाः प्रमाणम्, बुद्धाद्युपदेशा न प्रमाणमिति निष्कृष्यते! किं शब्दस्वरूपसत्यत्वासत्यत्वाभ्युपगमेन, उत परमार्थभूतप्रामाण्याप्रामाण्याश्रयत्वेन, उत प्रमातृसत्यत्वा सत्यत्वाभ्युपगमभेदेन, यद्वा सत्यभूतप्रमितिहेतुत्वाहेतुत्वाभ्याम्, किं वा नित्यत्वानित्यत्वाभ्याम्, अथानादित्वसादित्वाभ्याम्, उत दोषतदभावाभ्याम्, अथ व्यवहार विसंवादसंवादाभ्याम्, अथवा महाजनपरिग्रहबहिष्काराभ्याम्, आहोस्वित् वेदत्वावेदत्वमात्रेण, अथाविद्याविशेषजनिताभिमानानभि मानमात्रेण, अथ वा इक्षुक्षीरादिवत् स्वात्ममात्रसाक्षिकेणानिर्देश्य रूपभेदेनेति ।
नाऽऽद्यः; असिद्धेः न हि योगाचारादिभिः बुद्धप्रणीतोऽक्षरराशिः सत्य इत्यभ्युपगम्यते; नापिभवता वेदरूपः । न वयं वेदस्यशशश्रृङ्गादिवदसत्यत्वमभ्युपगच्छाम इति चेत्, किं तर्हि सत्यत्वमभ्युपेतम्? । तदपि नेति चेत्, तर्हि को विशेषः? । व्यावहारिकापरपर्यायकाल्पनिकसत्यत्वाभ्युपगम इति चेन्न, तैरपि संवृतिसत्यत्वाभ्युपगमात् । अयमेव तावत् विशेष इति चेन्न; पर्यायमात्रस्य वैषम्यानाधायकत्वात् । अन्ततो वञ्चनार्थत्वस्याप्युभयोरविशेषात् यथाऽऽहुः – “तुल्यार्थत्वेऽपि चैतेषां मिथ्या संवृतिशब्दयोः । वञ्चनार्थ उपन्यासो लालावक्त्रासवादिवत्” । । “नास्तिक्यपरिहारार्थं संवृत्तिः कल्पितेति च” । (कुमारिल श्लोकवार्तिकं) इति ।
न च युष्माभिः संवृतिसत्यत्वस्यावाच्यत्वं संकेतितम् । उक्तं च गूढपाषण्डिगोष्ठीगरिष्ठैः “तदेतत् संवृतिरिति गीयते” इति । अस्तु वा तदभ्युपगमेन वैषम्यम्; भवता तु निपुणधिया द्वयोरपि व्यावहारिकसत्यत्वमविशिष्टमेष्टव्यम्; व्यवहारानुबन्धित्वमात्रस्य तुल्यत्वात् । अतो भवता परित्यक्तपक्षपातेन न तद्बहिष्कारः कार्यः । यदि चाभ्युपगमसिद्धेन सत्यत्वेन प्रामाण्यसिद्धिः, तर्हि वैभाषिकाद्यागमानां तदभ्युपेतेन तेन तत्सिद्धिरनिवार्या ।
एतेन द्वितीयतृतीयचतुर्था निरस्ताः । विशेषतोऽपि ब्रूमः । द्वितीये तावत् प्रामाण्यलक्षणवैषम्यसिद्धिः प्रामाण्याश्रयत्वेनेति वदता साध्यमेव साधनत्वेनोपन्यस्तम् । ननु विशेषणविशिष्टाकारेण साधनत्वम्, स्वरूपतस्तु साध्यत्वमिति चेन्न; विशेष्यासिद्धौ विशिष्टस्याप्यसिद्धेः । भवन्मते विशेषणमप्यसिद्धमेव;वेदप्रामाण्यस्यापि ब्रह्मव्यतिरिक्तस्य पारमार्थ्यानभ्युपगमात् । तदभिमानमात्रस्य चोभयोरविशेषात् । तृतीयेऽपि, सत्यप्रमातृत्वेन कस्तावदिष्यते भवता? किं संविन्मात्रम्, उत तदेवोपहितम्, उतोपाधिभेद एव? आद्ये व्याहत्यपसिद्धान्तौ । अनन्तरे प्रमातृत्वस्य सत्यतानभ्युपगमात् नेष्टसिद्धिः । तत्र स्वरूपमात्रस्य सत्यता योगाचारैरप्यङ्गीक्रियते । उपाधिमात्रपक्षे तु उपाधिस्वरूपस्य तत्प्रमातृत्वस्याप्यसत्यत्बमेवेति ।
नापि चतुर्थः; विकल्पासहत्वात्; तत्र किं प्रमितेः स्वरूपतः सत्यत्वं विवक्षितम्, उत विषयतः? न पूर्वःशास्त्रजन्यायाः प्रमितेर्भवता स्वरूपसत्यत्वानभ्युपगमात् । तेन तु तदभ्युपगमेन तदागमस्यैव प्रामाण्यापातः । तुल्यैस्तु तदपि नेष्यत इति त एव भवतोऽत्रान्तरङ्गसंबन्धिनः । नाप्युत्तरः; विषयतः सत्यत्वस्य चिद्व्यतिरिक्तांशे भवता योगाचारेणाप्यनभ्युपगमात् । चिदंशस्य विषयत्वेऽभ्युपगम्यमानेऽपि सत्यत्वमुभयसम्मतम्; तत्र क्षणिकत्वनित्यत्वादिभेदस्तु दुरुपपादः । निर्धूतसमस्तधर्मविप्लवा हि संवित् भवद्भिः तैश्च परिगृह्यते ।
नापि पञ्चमः;आविद्यकस्य वेदस्य भवताऽपि नित्यत्वानभ्युपगमात् । अभ्युपगमे वा नित्यसंसारादिप्रसङ्गात् । क्षणिकत्वनित्यत्वादिकल्पनाभेदस्याप्यप्रयोजकत्वात् ।
नापि षष्ठः; अविद्याकल्पितत्वाभ्युपगमेनानादित्वासिद्धेः । अनादित्वेनैवेयं कल्पनेति चेन्न; बाह्यैरपिसर्वज्ञसन्तानान्तरितधर्मदेशनासन्तानस्य अनादित्वाभ्युपगमात् । क्षणभङ्गतदभावादिकं तु वाक्यार्थयाथार्थ्यं प्रति अकिञ्चित्करमेव ।
नापि सप्तमः; तत्पक्षेण तदागमस्य दोषमूलत्वाभावात्; भवत्पक्षेण तु उभयोरपि दोषमूलत्वाविशेषात् । वक्तृदोषो वेदे नाभ्युपेत इति चेत्, किं दुष्टेन्द्रियादिषु सोऽभ्युपेतः; येन तदप्रमाण्यं सिद्ध्येत । अतो येनकेनापि दोषेणाप्रामाण्यं स्यादित्यनुसन्धत्स्व । अविद्याख्यदोषमूलत्वमपि वेदस्य नेष्टमिति चेत्, आगतोऽसि पन्थानम्; अत एव कल्पितत्वादेरपि प्रतिक्षेपात् । अकल्पितत्वेऽपि प्रतीतिबाधाभ्यां मिथ्यात्वमिति चेन्न; ब्रह्मणोऽप्यकल्पितस्य त्वदभिमतयुक्त्याभासैर्बाधप्रसंगात् । अर्निवचनीयकुसृतेश्च निरसिष्यमाणत्वात् ।
नाप्यष्टमः; कारणदोषाविशेषे विसंवादानुदयस्याकिञ्चित्कत्वात्; दोषज्ञानेनैव बाधसिद्धेः । तथा चाहूः, “दुष्टकारणबोधे तु सिद्धेऽपि विषयान्तरे । अर्थात् तुल्यार्थतां प्राप्य बाधो गोदोहनादिवत् ।।” (कुमारिल श्लोकवार्तिकं) इति । किञ्च बाह्यागमेषु न विसंवादस्त्वया सुवचः । अदृष्टस्यातीन्द्रियत्वेन तत्र तदयोगात्; दृष्टार्थेषु विषहरणाद्युपदेशेषु तत्राप्यविसंवाददर्शनात् । तत्त्वविषये तु प्रत्यक्षादिविसंवादस्य, तद्विरोध गमनिकाकुसृतेश्चोभयतुल्यत्वात् । वेदाधीनस्य संविन्नित्यत्वादिरूपविसंवादस्यवेदप्रामाण्यसिद्धिसमनन्तराभिधेयत्वात् । अन्यथा विपरिवर्तप्रसङ्गात् ।
एतेन नवमोऽपि दत्तोतरः; बहुजनविवक्षायां समानत्वात् । निपुणजनविवक्षायां सर्वेषामप्यज्ञानभ्रमादिकलुषितत्वाभ्युपगमेन त्वत्पक्षे तदसिद्धेः । हेतुदर्शनरहितपुरुषपरिग्रहविवक्षायामपि परमार्थतः कारणदोषे निर्णीते दोषानभिज्ञैः भ्रान्तैरेव परिग्रह इत्यायातम्; ततश्च न विशेषः ।
नापि दशमः; संज्ञावैषम्यमात्रस्याकिञ्चित्करत्वात्; तद्व्यवहारभेदरूपस्य किञ्चित्कारस्य प्रस्तुतानुपयोगात् ।
नाप्येकादशः; तथाविधाभिमानस्य पुरुषभेदेनोभयत्रापि सुलभत्वात् । न तत्र वयं प्रामाण्यमभिमन्यमाह इति चेत्, ते वा किं वेदे? अतो यस्यकस्यचिदभिमानसिद्धं प्रामाण्यमिति त्वयैव स्थापनीये त्वमेव कथं तत्प्रामाण्यं नाभिमन्यसे?
द्वादशस्तु परिशिष्यते, तत्र स्वात्मशब्देन किं सर्वेषां प्रमातृणां स्वात्मा विवक्षितः, उत भवदन्तरात्मा । नाद्यः; इक्षुक्षीरादिरसभेदवत्, “ज्योतिष्टोमेन स्वर्गकामो यजेत” (आप.श्रौत 5 – 6) “चैत्यं वन्देत स्वर्गकामः” इत्यनयोः प्रामाण्याप्रामाण्यलक्षणभेदस्यान्यैरनुपलम्भात् । नेतरः; भवत्स्वात्मानमपि हि वयमितरात्मसमानतयैवोन्नयामः । रत्नतत्त्वपरीक्षकवदहमतिशयितप्रज्ञ इति चेत्,सौगतेनाप्येवमुक्ते किमुत्तरम् । मध्यस्थदृष्टिरिति चेन्न;तदसिद्धेः ।
अस्तु वेदप्रामाण्यमप्यविचारितरमणीयम्; किंनन्छिन्नमिति चेत्, प्रथमं तावत् वैषम्योपपादनाभिमानः। ततो वैदिकत्वविडम्बनम् । पश्चात् तत्त्वानुष्ठानव्यवस्थाभङ्गः । ततश्च स्वर्गापवर्गगमनसरणेः । एवंच सौगतसौहार्दभयपलायितेन द्वैवर्गिकमतमहादुर्गमेवानुप्रविष्टमिति । अत्र च प्रामाण्यादेरप्रयोजका एव केचित् कल्पा मन्दमतिसम्मोहशमनायोपन्यस्य निरस्ताः । एतदभिप्रायेण यादवप्रकाशैरुक्तम्, “वेदोऽनृतो बुद्धकृतागमोऽनृतः प्रामाण्यमेतस्य च तस्य चानृतम् । बोद्धाऽनृतो बुद्धिफले तथाऽनृते यूयं च बौद्धाश्च समान संविदः ।।”इति
किंच प्रत्यक्षतोऽनुमानतश्च भवद्भिर्निर्विशेषं प्रसाध्यते । ततश्च प्राप्तार्थतयाऽपि शास्त्राप्रामाण्यम्, द्वित्रावयवानुमानवाक्यपाठमात्रेण ब्रह्मविद्यानिष्पत्तौ क खलु जडः श्रुतिनिकरशिखर परिशीलनप्रयासादिकमारभेत । न ब्रूमस्तर्ह्यनुमानादिकमस्मत्सिद्धान्तसाधनतयेति चेत्, किमिदं श्रुति प्रामाण्यभङ्गभीरुतया, उत अनुमानादेस्तत्र प्रामाण्ययोगात्? नाद्यः; भवद्भिरनुक्तेऽपि तत्सद्भावमात्रेण श्रुतिप्रामाण्यभङ्गस्य दुर्वारत्वात् । संप्लवोदयस्य च शास्त्रयोन्यधिकरणनिरस्तत्वात् । न द्वितीयः; ज्ञानोदयादेवानुत्पत्तिलक्षणस्याप्रामाण्यस्यासिद्धेः; एककोटिनियततया च संशयरूपत्वस्याप्यभावात् । निपुणतरप्रयोगे च प्रयोगदोषाणामभावात् । विपर्यसलक्षणं तु विषयापहारमन्तरेण न सिद्ध्यतीति । तथाच सति तुल्यविषयतया तत एव शास्त्रमप्यप्रमाणमिति घट्टकुट्यां प्रभातम् । एवं च सति अद्वैतवाक्यानां न तत्त्वावेदकत्वं द्वैतवाक्यानामेव तत्त्वावेदकत्वमित्यभिमतविपर्यासश्च । अन्ततः शास्त्राप्रामाण्य मप्यस्माकमिष्टमेवेति चेन्न; पूर्वन्यायेन दत्तोत्तरत्वात् । असन्दिग्धाविपर्यस्तबोधोदयस्य दुरपह्नवत्वात् । बोध्यमिथ्यात्वे च वैदिकव्यपदेशकञ्चुकं मुञ्चतस्ते बाह्यसमयसुरङ्गाप्रवेशमन्तरेण कथासमरसीम्नि संशयापत्तेः । तदेतदखिलमभिसन्धाय भाष्ये सन्मात्रग्राहिप्रत्यक्षप्रतिक्षेपाय, गृहीतमात्रग्राहित्वेन सन्मात्राभिमतब्रह्मस्वरूपपरवेदान्तवाक्यानामप्रामाण्यप्रसङ्ग उदाहृतः । स्थलान्तरेषु विप्रकीर्णं शेषमवघातव्यमिति ।
।।इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषुशतदूषण्यां वेदप्रामाण्यपरिग्रहानुपपत्तिवादः चतुर्दशः ।।14।।