शतदूषणी
।।अथ व्यावर्तमानत्वानुमानभङ्गवादःषोडशः ।।16।।
विश्वं व्यावर्तमानत्वान्निवर्तयितुमिच्छतः ।
निवर्तयामः कुमतीन् कथासंग्रामसीमतः ।।
यत् तावत् घटादयोऽपरमार्थाः; व्यावर्तमानत्वात्; यदुक्तसाधनं तदुक्तसाध्यम्, यथा रज्जवाद्यधिष्ठानसर्पभूदलनाम्बुधारादि; यत्सत्, न तद्व्यावर्तते, यथा सर्पाद्यधिष्ठानभूता रज्जुः; यद्वा सर्वाधिष्ठानं ब्रह्म । यदि व्यावर्तमानस्यापि सत्त्वम्, तदा सत्यमिथ्यार्थविभागाभावप्रसङ्ग इति तर्कानुग्रहः इति । तत्र किमिदं व्यावर्तमानत्वम्? किं यतःकुत श्चिदन्यत्वम्? अथ यत्र कुत्रचिद्देशादावसत्त्वम्? यद्वा प्रध्वंसवत्त्वम्? उत प्रतिपन्नोपाधौ निषेधप्रतियोगित्वम्? किं वा कदाचित्क्वचिदेव प्रकाशमानत्वम्? अन्यद्वा किंचित्? ।
नाद्यः, युष्मदर्थादन्येन ब्रह्मणैवानैकान्त्यात् । “युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमः प्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुपपत्ति”(शांकरभाष्यं) भवतां भाष्यारम्भे भाषिता । यदिब्रह्मणस्तदन्यत्वं मिथ्या, तर्हि परमार्थतस्तयोरैक्यप्रसक्तिः, यथा घटस्य स्वरूपादन्यत्वे मिथ्याभूते तदैक्यम् । ततश्च मिथ्याभूतप्रपञ्चैक्याद्ब्रह्मणोऽपि मिथ्यात्वं सत्यब्रह्मतादात्म्यात्तस्यापि सत्यत्वं वा स्यात् । किंच ब्रह्मनिष्ठमन्यत्वं मिथ्याभूतमिति वदता किं प्रपञ्चनिष्ठमन्यत्वं सत्यमभिमतम्? तर्हि तेनैवान्यत्वेन परमार्थतो ब्रह्मणोऽन्येनानैकान्तिकत्वसद्धितीयत्वापसिद्धान्ताः । यदि तन्मिथ्या, तथाविधान्यत्वस्य ब्रह्मण्यपि त्वयैवाभ्युपगमाद्दुस्तरमनैकान्त्यम् ।
न द्वितीयः, तस्य मिथ्यात्वं प्रत्यप्रयोजकत्वात् । न हि शुक्तिरजतादेर्देशान्तरादावभावान्मिथ्यात्वम्, अपि तर्हि प्रतिपन्नदेशादावभावात् । अन्यथा येनाप्याकारेणासत्त्वात् ब्रह्मणोऽपि मिथ्यात्वं स्यात् । न हि ब्रह्मासद्रूपेण वा सदसद्विलक्षणरूपेण वा सदिति भवन्तोऽप्यभ्युपगच्छन्ति । अथ यत्र देशे काले वा तदभावस्तत्रैव मिथ्यात्वं साध्यं तदा सिद्धसाधनं । न हि वयं क्वाचित्कस्य कादाचिक्तस्य च सर्वत्र सर्वदा सत्वं विरोधेन ब्रूमः । तथा सति आपणस्थ रजतस्य सर्वदेशवृत्तिकत्वाविरोधे (न) शुक्तिरूप्यादेरपि सत्यत्वापातात्; कार्यकारणभावविलोपप्रसङ्गाच्च ।
न तृतीयः, दृष्टान्तस्य साधनविकलत्वात् । न ह्यध्यस्तं सर्पादिकं बाधदशायामपि प्रध्वस्तमिति कश्चिद्वदति, बाधविनाशयोर्विविक्ततयैव व्युत्पत्तेः । प्रतिपन्नस्य नेति निषेधो बाधः । विनाशस्तु लब्धसत्ताकस्य स्वरूप प्रच्युतिः । दण्डादिना निहतेषु सत्येषु हि सर्पादिषु प्रध्वस्तबुद्धिः । तत एव चेदं प्रध्वंसप्रतियोगित्वं देशकालसत्यत्वेन व्याप्तमुपलब्धमिति विपरीतसाधकत्वम् ।
नापि चतुर्थः, असिद्धेः । नहि स्वदेशादौ घटादयो न सन्तीति बाध्यन्ते । नेदं रजतमितिवन्नायं घट इत्यादिस्वारसिकबाधादर्शनात् । ननु सर्वानुवृत्तस्य सत एव सर्ववस्तुदेशत्वेनाभासात्तत्रैव चास्ति पट इति पटादिविधौ तद्विरोधिघटादेर्निवृत्तिदर्शनान्मिथ्यात्वं स्यादिति चेत्, मैवम्; सतोऽत्र पटादिस्वरूपस्य देशत्वाभावात्, अननुवृत्तेश्च । घटोऽस्ति पटोऽस्तीत्यादिप्रतीतौ सत्त्वं घटादिधर्मत्वेनैव प्रतीयते, नतु घटादीनामाश्रयत्वेन, घटश्चलति पटश्चलति घटो महान् पटो महानित्यादिषु क्रियागुणादिवत् । अतोऽनुवृत्तत्वात्सतो देशत्वमित्यपि निरस्तम् । ब्रह्म तु सर्वानुवृत्तं सदपि न घटोऽस्ति पटोऽस्तीत्यादिधीविषयः।
न पञ्चमः, अप्रयोजकत्वात्, यत्र कुत्र(क्व)चित्प्रमितत्वमात्रेणैव सत्यत्वसिद्धेः । कालान्तरादौ प्रकाशानुत्पत्तेस्तत्सामग्र्यभावप्रयुक्तत्वात् । नचाप्रकाशमानत्वेन विरुद्धत्वात्प्रमितत्वमेवात्र नास्तीतिवक्तुं युक्तम्, देशकालादिभेदेन विरोधपरिहारात् । अन्यथा विपरिवर्तस्यापि दुर्वारत्वात् । यदिच यथाकथञ्चिदप्रकाश (मानत्वा) नान्मिथ्यात्वम्, तदा ब्रह्मणोऽपि तत्प्रसङ्गः, तस्याप्यामोक्षादविद्यावशेना प्रकाशमानत्वस्य भवद्भिरेव स्वीकारात् । अन्यथा कथमप्रकाशितार्थप्रकाशकत्वादित्यस्य भवदुन्नीतभावरूपाज्ञानानुमानहेतोरत्र सिद्धिः? कथंच ब्रह्माज्ञानसाधनं तिरोधानवाचोयुक्तिश्च? तरोहितस्वरूपस्यापि तस्य सर्वदा कथञ्चित्प्रकाशमानत्वमप्यस्तीति चेत्; तद्धटादेरप्यस्तीति न कश्चिद्भेदः । स्वकालावच्छिन्नस्य तत्प्रकाशस्य कालान्तरेऽप्यनपायात् । घटादिप्रकाशस्य कादाचित्कत्वादस्ति भेद इति चेन्न; “नित्यो नित्यानामि (कठ 2 – 7 – 23) त्यादिशास्त्रसिद्धनित्येश्वरबुद्धिविषयत्वेन घटादेरपि नित्यं प्रकाशमानत्वात्, भ्रान्तबुद्धिविषयतया शुक्तिरजतादेश्च । वयं तु तथा न जानीम इति चेन्न; अस्माभिरपि तथाऽङ्गीकारात् । (शास्त्रेणा तथा ज्ञायमानत्वात् । ) अस्माकं नित्यं घटादिप्रकाशो नास्तीति विवक्षितमिति चेत्; तुल्यम् । न ह्यस्मदर्थनिष्ठो ब्रह्मप्रकाशो नित्य इति त्वयाऽपि स्वीकृतम् । नित्यस्तु ब्रह्मप्रकाशो नास्मत्प्रतिसम्बन्धिकः । किंच किं प्रकाशस्य नित्यत्वं वस्तुसत्यत्वव्यवस्थापकम्? उतावाधितत्वम्? आद्ये निर्दोषत्वादिमात्रेणैव प्रामाण्यसिद्धौ तन्नित्यत्वस्य प्रामाण्यं प्रत्यनङ्गता । दोषे सति च प्रकाशानुवृत्तेरप्रयोजकत्वम् । द्वितीये तु कादाचित्कस्यापि घटादिप्रकाशस्य तदस्तीति घटादिसत्यत्वमकामेनापि स्वीकार्यम् । ततश्च,व्यावृत्तिरनुवृत्तिर्वा न मिथ्यात्वादिसाधिका । न वाधो जगतोऽध्यक्षाद्ब्रह्मणोऽप्यस्ति यौक्तिकः ।। अयमत्र विभागः – वाधश्शुक्त्यादिधीरत्र व्यावृत्तिर्भ्रमसंशयः । मिथ्यात्वं रजताद्यर्थस्वरूपाभाव उच्यते ।।
नापि षष्ठः, तस्य बाधपर्यायस्य तत्फलभूतभ्रान्तिविषयत्वनिवृत्तिलक्षणस्य वाऽनुपलम्भादि निरस्तत्वात् । इतरस्य त्वप्रयोजकत्वात् ।
व्यतिरेकासिद्धिश्च बहुधा द्रष्टव्या । यन्न मिथ्या तन्न व्यावर्तत इति हि व्यतिरेकः । ब्रह्म तु न मिथ्या, सर्वतो व्यावर्तते, सर्वान्यत्वात्, सर्वत्र स्वयमवर्तमानत्वाच्च ।
एवमनुवृत्त्यनुमानेऽपि द्रष्टव्यम् । एतेन व्यावर्तमानत्वविकल्पदूषणन्यायेन भिन्नत्वात्, क्वाचित्कत्वात्, बाध्यत्वात्, जडत्वात् – इत्यादिप्रपञ्चमिथ्यात्वहेतुजालं समूलोन्मूलितमिति तेषूदासि भाष्यकारैः।
तर्कश्च दुष्टः, बाधाबाधादिभिरेव सत्यमिथ्यार्थविभागसिद्धेरिति ।।
।। इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषुशतदूषण्यां व्यावर्तमानत्वानुमानभङ्गवादः षोडशः ।।16।।