[highlight_content]

शतदूषणी शब्दजन्यप्रत्यक्षभङ्गवादः(7)

शतदूषणी

।।अथ शब्दजन्यप्रत्यक्षभंगवादः सप्तमः ।।7 ।।

विभूत्यंशे यस्य स्फुरति जगतामक्षमखिलं ।

श्रुतिर्जात्यन्धानामुपदिशति यं रूपमिव नः ।

निजाध्यक्षप्रेक्षाुलकितसमस्तः स्वयमसौ ।

हृषीकेशो दिव्यं दिशतु मम क्षुः स्वविषयम् ।।

यदूिरे यद्यपि तत्त्वमस्यादिवाक्यश्रवणसमयसम्भवं परोक्षं ज्ञानमविद्यां न निवर्तयति, तथाऽपि श्रवणादिभिर्निरस्तसमस्तभेदवासनामूलासम्भावनाविपरीतसम्भावनाख्यित्तविक्षेपलक्षणप्रतिबन्धस्य तदेव वाक्यमविद्यानिवर्तकमपरोक्षं ज्ञानं जनयति । न शब्दस्य कथमपरोक्षधीहेतुत्वमिति वा्यम्, इन्द्रियस्यापि कथमिति प्रसङ्गात् । दर्शनादिति ेत्, तुल्यम् । क्व तद्दर्शनमिति ेत्, “संवित् स्वप्रकाशा”, “दशमस्त्वमसि” इत्यादिषु । न ह्यत्र संविद्विषयः स्वविषयो वा प्रकाशो नास्ति, सन्नपि वा परोक्षः; स्वधीविरोधात् । प्रत्यक्षे विषये परोक्षप्रकाशव्याघातात् । अन्यथा शुक्तितत्त्वप्रकाशेऽपि रजतावभासाविरोधप्रसङ्गात् । न ायं प्रकाश इन्द्रियजन्यः, वाक्यस्य तदानीमबोधकत्व प्रसंङ्गात्;वाक्यमन्तरेणापि तत्प्रसङ्गा । न रत्नतत्त्वाधिगमवत् शब्दसंभिन्नेन्द्रियजन्यः; अन्यतरेण तदुत्पत्त्युपपत्तौ कल्पनागौरवात् । अन्वयव्यतिरेकाविशेषे सति, इन्द्रियसहकृतशब्दजन्य इति विपरिवर्तप्रसङ्गा । किंनामेन्द्रियं तत्सहकारि स्यादिति ेत्, मनसः सर्वज्ञानकरणसाधारणसहकारित्वं किं न जानासि? । तथापि विनिगमनायां को हेतुरिति ेत्-न; अन्धस्यान्धतमसस्थितस्य वा वाक्यश्रवणात् दशमोऽस्मीति प्रत्यक्षप्रत्ययात् । न ात्रापरोक्षत्वमारोपितम्; बाधकाभावात् । न सम्प्लवे भेदाग्रहात् तद्वयवहारः; कदािदपि तत्र धीभेदानुपलम्भात् । अतो वाक्यजातीयस्य क्वित् प्रत्यक्षज्ञानजनकत्वसिद्धौ क्व विरोधावकाशः?

अन्यदपि वाक्यं किं न जनयतीति ेत् न; गोजातीयत्वे शाक्वरः किं न दुग्धे दुग्धमितिवत् उपहास्यत्वात् । अस्ति तत्रावान्तरोपाधिरिति ेत्, अस्त्वत्रापि कश्ित् । न तदज्ञानं तत्कार्योत्पत्तिप्रतिबन्धि; तज्ज्ञानस्य तत्कारणत्वानभ्युपगमात् । अन्यथा अतिप्रसङ्गात् । यथाऽऽहुः-“न कारणपरिज्ञानं तत्कार्योत्पत्तिकारणम् । न हि बीजाद्यविज्ञानमङ्कुरोत्पत्तिवारणम्” इति ।

ास्यात्यन्ताज्ञातता, स्वतोऽपरोक्षार्थगोरत्वस्योपाधेरवधारणात् । न “तत्त्वमस्या” दिवाक्यस्य प्रत्यक्षज्ञानजनकत्वे किं प्रमाणमिति वा्यम्, निवर्त्यमिथ्यात्वान्यथानुपपत्त्यैव तत्सिद्धेः । स्वतःशुद्धेऽपि हि विश्वसाक्षिणि ब्रह्मणि स्फटिकमणिघटितदाडिमीकुसुमरागोपरागवत् अवभासमात्रसिद्धिरियमशुद्धिः । सा ज्ञानमात्रनिवर्त्येति, “तरति शोकमात्मवित्” (मुंड-3-1-1) इत्यादिश्रुतिशतसिद्धम् । मिथ्याभूतस्य धीमात्रनिवर्त्यत्वं युक्तम् । न परोक्षं ज्ञानं निर्वतकं दृश्यते । अतः परिशेषादपरोक्षमेव ज्ञानं निवर्तकमिति स्थिते-न तावत् करण मिन्द्रियम्, बाह्येन्द्रियाणां प्रत्यक्पराङ्मुखत्वात्; मनसोऽपि सोऽहमस्मीत्यस्मिन्नर्थे स्वातन्त्र्येणाप्रवृत्तेः । शब्दसंस्कारादिपुरस्कारे तु तस्यैव करणत्वोपपत्तेः । मनसश् नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मगोरसाक्षात्कारकरणत्वस्यादृष्टरत्वेन शब्दस्य तत्सहकारित्वकल्पना योगात् । तथात्वे श्रवणादिनैष्फल्यात् । “न क्षुषा गृह्यते नापि वाा” (मुंड-3-1-18), “मनसा तु विशुद्धेन” (मुंड-3-1-18), “मनसैवेदमाप्तव्यम्” इत्यादिश्रुतीनां ित्तैकाग्र्यस्यान्तरङ्गत्वबोधने तात्पर्यात् । अत एव, “अप्राप्य मनसा सह” (तै-उ-आनन्द) इत्यादेरनधिकृतमनोविषयत्व व्यवस्थापनानुपपत्तिः । न मानसं प्रत्यक्षमस्ति; आत्मनः स्वप्रकाशत्वात्; सुखादेस्तु साक्षिवेद्यत्वात्, भावनासहकृतमनोजन्यसाक्षात्कारस्यापि पथिकपरिभावितप्रियतमा साक्षात्कारवत् भ्रान्तित्वात्; भ्रान्तिरूपसाक्षात्कारस्यापि साक्षिरूपत्वेनैव मानसत्वाभावात् ।

अनुमानादेस्त्वापरोक्ष्यविद्वेषशीलत्वात् । अतो वाक्यपरिशेषे तत्रापि भेदगर्भाणां वाक्यानां भेदभ्रमनिवर्तकत्वायोगात् अद्वैतवाक्यान्येवाविद्यानिवर्तकापरोक्षज्ञानं जनयन्तीति ।

किञ् प्रत्यक्षस्य भेदभ्रमस्य परोक्षात्, ऐन्द्रियकप्रत्यक्षाद्वा न परिभवो युक्तः; न्यूनत्वात्; समत्वा । शास्त्रमूलं तु प्रत्यक्षं साक्षात्कारत्वाविशेषेऽपि निर्दोषहेतुकत्वात् बाधक्षमम् । तोक्तं

“न्यूनत्वा समत्वापरोक्षं नाक्षजं क्षमं । निर्दोषहेतुजन्यत्वात् प्रत्यक्षं शास्त्रजं क्षमम्” इति । प्रत्यक्षभेदभ्रमनिवर्तन इति शेषः ।

साक्षात्कारस्य ाविद्यानिवर्तकत्वं तस्य शब्दकरणत्वं शब्दादेव सिध्यति,”निाय्य तं मृत्युमुखात् प्रमु्यते”(कठ.1-3-15), “क्षीयन्ते ास्य कर्माणि तस्मिन् दृष्टे परावरे” (मुंड-2-2-8)इत्यादिभिरपरोक्षज्ञानस्य अविद्यानिवर्तकत्वसिद्धेः । “तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः’ (छां-5-24-3) “वेदान्तविज्ञानसुनिश्ितार्थाः”, (तै.महाना 12) “स्वाध्यायश्क्षुरुतैकमस्य योगो द्वितीयमभिवीक्षणाय’ (?) “अध्ययनमनननयनोऽस्य द्रष्टा’,(?) “न मांसक्षुरभिवीक्षते तम्’, (?) “पितृदेवमनुष्याणां वेदश्क्षुः सनातनम्’ (?) इत्यादेस्तस्य शब्दकारणकत्वसिद्धिः ।

प्रयोगश्-विगीतं ज्ञानं साक्षात्कारि, तत्त्वमस्यादिवाक्यजन्यज्ञानत्वात्, तत्स्वरूपगोरश्रावणज्ञानवत् । न तत् तदजन्यम्; प्रत्यक्षे विषयस्य कारणत्वस्वीकारात् । तत्रैव प्रतिज्ञायाम्, अपरोक्षज्ञानविषयत्वात् सुखादिज्ञानवदिति वा प्रयोगः । तत्त्वमस्यादिवाक्यं वा स्वप्रतिपाद्यगोरसाक्षात्कारजनकम्, स्वप्रकाशार्थोपदेशरूपत्वात्, स्वतोऽपरोक्षार्थविषयत्वाद्वा, “संवित् स्वप्रकाशा”, “दशमस्त्वमसि” इत्यादिवाक्यवत् । अपरोक्षत्वं तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात् ज्ञानत्ववदिति । न ात्र परोक्षत्वं तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्ति, परोक्षनिष्ठात्यन्ताभावाप्रतियोगित्वात्, ज्ञानत्ववदितिसत्प्रतिपक्षसाधनता; सिद्धसाधनात् । तेषामेव हि वाक्यानामसम्भावनाविपरीतसम्भावनाप्रतिबद्धेतसि पुरुषे परोक्षज्ञानजनकत्वमिष्यते । पूर्वोक्तश्रुतिविरुद्धतया कालात्ययापदेशा

वा्यम्-अग्निहोत्रादिवाक्यजन्यज्ञानेष्वप्येवं प्रयोक्तुं शक्यमित्याभाससमानयोगक्षेमतेति; तत्र विपक्षे बाधविरहात् । न हि तत्र प्रामाण्यस्यानुपपत्तिः; अनुमानादिवदुपपत्तेः । नाप्यनुष्ठानस्य; परोक्षनिश्यादपि तदुपपत्तेः । नापि फलस्य; तत एव तत्सिद्धेः । नापि फलकामनायाः; फलसम्बन्धनिश्यादेव तस्या अप्युपपत्तेः । अत एव पुरुषप्रवृत्तिरपि संग्छते । इह तु प्रागुक्तार्थानुपपत्तिरेव विपक्षे बाधिका स्यात् । अतो नाऽऽभासतुल्यतेति । एवं पूर्वेष्वपि प्रयोगेष्वाभासतुल्यतोद्धारो द्रष्टव्यः । अतो विपक्षे बाधकस्यैव प्रतिबन्धरहस्यत्वात् उक्तार्थे महाविद्याजातयश् यथावगाहं प्रयोक्तव्याः । स्वपरपक्षसाधारण्यं हि महाविद्यानां स्वभावः । तत्रानुकूलतर्कसदसद्भावाभ्यामेकत्रार्थासिद्धिः, इतरत्रार्थासिद्धिरिति निर्णयः ।

ननु तर्कपराहता इमे हेतवः; शब्दस्य प्रत्यक्षान्तर्भावप्रसङ्गादिति ेत् न; अप्रसङ्गात् । योगिमनसो बाह्यविषयप्रत्यक्षज्ञानजनकत्वेऽपि बाह्यप्रत्यक्षबहिर्भाववदुपपत्तेः । अथ क्षुरादिपञ्कान्यतमत्वं योगिमनोन्यत्वे सति बाह्यविषयापरोक्षप्रमितिकारणत्वं वा बाह्यप्रत्यक्षान्तर्भावे प्रयोजकमिष्येत, इहापि तर्हि स्वतोऽपरोक्षार्थब्रह्मात्मविषयशब्दान्यत्वे सति अपरोक्षप्रमितिकारणत्वं प्रत्यक्षान्तर्भावप्रयोजकमितिसमः समाधिः। किञ् प्रत्यक्षान्तर्भाव इति इन्द्रियान्तर्भावो वा,साक्षात्कारजनकवाक्यान्तर्भावो वा विवक्षितः स्यात् । पूर्वत्र मनसोऽपि बाह्यान्तर्भाववत् उपलम्भविरोधात्अशक्यः । उत्तरत्र त्विष्टप्रसङ्गता । ऐकराश्ये सिद्धे सति अवान्तरभेदाश्रयणाविरोधात् । तदेव तु कथमिति ेत्, न; दशमस्त्वमसीत्यादौ तद्दर्शनस्य समर्थितत्वात् । वाक्यस्यैवापरोक्षधीजनकत्वे मनननिदिध्यासनविध्यानार्थक्यम्, श्रुतवेदान्तानां संसारानुवृत्तिदर्शनविरोधश्ेति ेत् न; प्रागुक्तप्रतिबन्धनिरासनद्वारेण तयोः श्रवणं प्रति फलोदयकार्यङ्गतया विधानोपपत्तेः । संसारित्वोपलब्धेश् प्रतिबन्धकवत्पुरुषविषयत्वात् ।

अतो बाधकापेतसानुग्राहकश्रुत्यादिसिद्धं तत्त्वमस्यादेः साक्षात्कारजनकत्वमिति ।

अत्र ब्रूमः-यत्तावदुक्तं-केषुिद्वाक्येष्वपरोक्षधीहेतुत्वं दृश्यत इति, तत् नरविषाणाङ्कुरप्रसाधने खरविषाणाङ्कुरनिदर्शनमिति मन्यामहे । तथा हि-संवित् स्वप्रकाशेत्यत्र तावत् सामान्यतः स्वपरसमवेतत्रैकालिकसर्वसंवित्स्वप्रकाशत्वं वाक्यार्थः । तादात्विकी तु तज्जन्या संविदेका तदानीं स्वप्रकाशा; तत्र न सर्वसंविदां स्वप्रकाशत्वमिदानीमपरोक्षम्; यतो वाक्यस्य तदापरोक्ष्यहेतुता स्यात् । न सर्वसंविदैक्यम्; तस्य दूषयिष्यमाणत्वात् । तदैक्येऽपि तत्तदुपहिताकारेण परोक्षापरोक्षविभागस्य दुरपह्नवत्वात् । वाक्यजन्यसंवित्स्वरूपापरोक्ष्ये तावत् वाक्यमेव कारणम्; विषयप्रकाशांशकारणव्यतिरेकेणस्वप्रकाशांशे कारणान्तरानुपलम्भादिति ेत्, तर्हि सिद्धमनुमानादेर्वाक््यान्तराणामप्य परोक्षधीजनकत्वम्; तत्तज्जन्यधियामपि स्वप्रकाशांशेऽपि तत्तत्कारणकत्वात् । सत्यम्; तथाऽपि संवित् स्वप्रकाशेत्यादिवाक्येषु विषयप्रकाशांशः स्वप्रकाशांशश्ैक एवेति विशेष इति ेन्न; सामान्यविशेषविषयतया तद्भेदस्य दर्शितत्वात् । एवम्, “दशमस्त्वमसि” इत्यादावपि यदि दशमत्वं स्वात्मनः पश्यत एवेदं वाक्यमुक्तम्; तदा घटं पश्यतः, “अयं घट” इतिवत् सिद्धानुवादपरमिदं वाक्यं स्यात् । तथा प्रत्यक्षानुवादितामात्रेण प्रत्यक्षताभ्रमः, परोक्षविषयप्रयोग इवापरोक्षविषयप्रयोगेऽपिशब्दशक्तेस्तदवस्थत्वात् । यदा पुनः अविदितस्वात्मदशमत्वं प्रत्यु्येत, तदा तु दशमत्वांशे परोक्षत्वं स्पष्टम् । उद्देश्यांशस्य तु प्रागेव दृष्टत्वात् विशिष्टेऽपि प्रत्यक्षताभ्रमः, प्रतिपत्तिझाटित्यात् । न तत्प्रत्यक्षत्वेनैवविशिष्टस्य प्रत्यक्षता, अयं पर्वतो बह्निमानित्यनुमानेऽपि तत्प्रसङ्गात् । गुरुत्वादेरतीन्द्रियत्वभङ्गप्रसङ्गा । एवं क्षत्रियस्त्वमसीत्यादिष्वपि विकल्पोऽनुसन्धेयः ।

यत्तु प्रत्यक्षे विषये परोक्षप्रकाशव्याघात इति तदप्यसत् । आपरोक्ष्यादेः ज्ञानधर्मत्वे ज्ञानव्यक्तिभेदेन विषयैक््येऽपि परोक्षत्वापरोक्षत्वयोर्विरोधाभावात् । विषयधर्मत्वेऽपीन्द्रियेण तथाविधं ज्ञानं जायताम्, लिङ्गशब्दादिनात्वन्यथाभूतमिति पुरुषभेद इव एकस्मिन् पुरुषेऽपि करणभेदेन एकस्यैव वस्तुनः प्रत्यक्षता परोक्षता प्रागेव दर्शिता विपरीतवासनभूयस्त्वेऽपि करणशक्त्या तत्त्वज्ञानोदयस्योपपादनात् ।

यदि प्रत्यक्षेविषये परोक्षप्रकाशः स्यात्, तदा शुक्तित्वप्रकाशेऽपि रजतावसायाविरोधप्रसङ्ग इति ेत्-किंशुक्तौ क्षुर्व्यापारान्वयव्यतिरेकानुविधायी रजतभ्रमः परोक्षः? येनैवं ब्रवीषि । अथ पुनर्भ्रान्तिरेव प्रसञ्जनीया, तदा शुक्तित्वादिलक्षणविशेषग्रहस्य भ्रमोत्पत्तिप्रतिपक्षतया, विशेषाग्रहाख्यसहकारिविरहेण सामग्रीवैकल्याद्वा शुक्तौ रजतभ्रमानुदयः । इह तु अप्रतिबद्धपरोक्षज्ञानसामग्रीसिद्धौ कथं तदनुत्पत्तिः? तथाविधा तत्सामग्री प्रागेव दर्शिता । अङ्गीक्रियते भवताऽपि श्रवणदशायाम् । अत एव एवंविधप्रसङ्गस्य निर्मूलता ।

किञ्, स्वानिष्टं प्रसञ्जकं परानिष्टं प्रसञ्जनीयमिति तुतर्कतत्त्वव्यवस्था । उक्तश् श्रीपुण्डरीकाक्षाार्यै ः

“प्रसञ्जकं तु स्वानिष्टं परानिष्टं प्रसज्यते । विपर्यये पराभीष्टं स्वाभीष्टे पर्यवस्यति ।। प्रसञ्जके तु स्वाभीष्टे स्वानिष्टे पर्यवस्यति । स्वाभीष्टस्य त्वसिद्धिः स्यात् परेष्टस्य प्रसञ्जने ।।” इति ।

उभयमप्यत्र विपरीतम् । स्वतः प्रत्यक्षेऽपि ब्रह्मणि श्रवणदशायां वाक्यतः परोक्षज्ञानजननस्य भवदभिमतत्वात् । तेन मिथ्यैतदिति ेत्, पश्ात्तनप्रत्यक्षज्ञानजननमपि तथैवेति को विशेषः? शुक्तौ रजतत्वस्येवाविरोधापादकं मिथ्यात्वमिह स्मर्तुमर्हसि ।

सत्यं विरोधा्छुक्तित्वं बाधकत्वेन कथ्यते । मिथ्याभूतं रजतं बाध्यत्वेनाभिधीयते ।

तेनमिथ्यैतदिति वनं तवाविरोधापादकं न भवति । प्रसञ्जनीयं क्विदस्मदिष्टम्; आप्तोपदेशादिभिः शुक्तित्वप्रकाशेऽपि दुष्टेन्द्रियादिना कस्यित् क्विद्रजतावभासानुवृत्तेः । अन्यथा भवतां बाधितानुवृत्तेर्दृष्टान्तस्याप्यभाव प्रसङ्गात् । तथा प्रत्यक्षसिद्धेऽपि शुक्तेस्तत्त्वे भ्रान्तविप्रलम्भकवाक्यादिभिरपि रजतधीरुदेत्येव । सा परोक्षैव । शीघ्रं तु बाध्यमानतया केषांित् तत्र तदनुत्पत्तिभ्रमः ।

किञ् यदि प्रत्यक्षे विषये परोक्षप्रकाशो व्याहतः, तदा पर्वतो वह्निमानित्यादिषु विशेषतोदृष्टानुमानेषु तथाविधार्थगोरवाक्येषु परोक्षप्रकाशोन स्यात्। योग्यतामात्रं तु तत्र; न तु तदानीं प्रत्यक्षतेति ेन्न; यस्यकस्यिदारण्यक-योगीश्वरादेस्तद्दर्शनात् । तथाऽपि नानुमातुस्तथेति ेत्; तर्ह्यत्रापि दशमत्वादेर्वाक््यश्रवणात् पूर्वमदर्शनान्न वाक्यतस्साक्षात्कारसम्भवः । यत्पुनः स्वस्यैव द्रष्टुं योग्यतया अनन्तरं दर्शनाद्वा तत्र तत्सम्भव इष्येत, तर्हि सिद्धमनुमानादावपि तदुभयसम्भवात् तथात्वम् । यदा अयं घट इति मन्यमानं प्रत्येव कश्ित्, अयं घट इति ब्रूयात्, तदा तस्यापि प्रत्यक्षार्थविषयत्वाविशेषात् साक्षात्कारजनकत्वप्रसङ्गः । इष्यत एवेदमपीति ेन्न; स्वतोऽपरोक्षार्थविषयत्वादिति हेतुविशेषणं प्रयुञ्जानस्य तदनिष्टम् । इष्यतां वा; तथाऽपि ज्योतिष्टोमादिवाक्यार्थस्यापि योगिप्रभृतीनां प्रत्यक्षत्वस्याऽऽवयोरविगीतत्वात् तान् प्रति केनिदविदितमाहात्म्येन तत्प्रयोगे ततः साक्षात्कारसम्भवः स्यात् । तथा सर्वमपि वाक्यं कस्यित् साक्षात्कारकारणमिति स्थितौ, केषांिदेवेति व्यवस्थाभङ्गः । अस्त्वेवमपि; किं नश्छिन्नमिति ेत्, न; अनुमानादिष्वपि तत्प्रसङ्गस्योक्तत्वात् । तथा तत्त्वमस्यादिवाक्यपरिशेषासिद्धिः । ततश्ापशूद्रनयविरोधादिप्रसङ्गः । किञ् विश्वस्यापि ज्ञाततयाऽज्ञाततया वा साक्षिवेद्यत्वस्य भवदभिमतत्वात् सर्वैः प्रमाणैः साक्षात्कारसंभवः सुलभ एव । यदि स्वतोऽपरोक्षार्थविषयमेव वाक्यं तज्जनकमिति व्यवस्थाप्येत, तदा दशमस्त्वमसीत्यादिदृष्टान्तासिद्धिः ; यद्यपि त्वमंशस्य स्वतोऽपरोक्षता, तथाऽपि संख्यादिविशिष्टाकारेण स्वतोऽपरोक्षत्वाभावात् । अन्यथा वाक्यश्रवणात्पूर्वमेव तद्वैशिष्ट्यप्रकाशप्रसङ्गात् । अतोऽनुमानस्येव वाक्यजातीयस्य क्विदपि साक्षात्कारहेतुत्वदर्शनस्यासिद्धेः, अनुग्राहकतर्काभावा स्वाभिमतस्यकस्यिद्वाक्यस्य तद्धेतुत्वकल्पनं विरुद्धमेव । अत एव स्वतोऽपरोक्षार्थगोरत्वलक्षणोपाधिरपि निरस्तः ।

यत्तु निवर्त्यमिथ्यात्वानुपपत्त्या पारम्पर्येणापरोक्ष्य-तज्जनकविशेषयोः परिशेष इति तदप्यसिद्ध्यन्यथासिद्धिभ्यामाक्रम्यते । सत्यमेव हि संसारमुपासनप्रीणितेश्वरसङ्कल्पविशेषनिवर्त्यं साधयिष्यामः । यत्तु “तरति शोकमात्मवित्’ (मुं-(3-2-3) इत्यादिभिर्ज्ञानमात्रनिवर्त्यत्वं सिद्धमिति, एतदपि वेदनज्ञानादिशब्दानां उपासनाख्यविशेषपर्यवसानस्य प्रागेव दर्शितत्वान्निरस्तम् ।

यदाहुः वेदनं ध्यानविश्रान्तं ध्यानं श्रान्तं ध्रुवस्मृतौ । सा दृष्टित्वमभ्येति दृष्टिर्भक्तित्वमृ्छति ।। इति ।

मिथ्याभूतस्य ज्ञानमात्रनिवर्त्यत्वं युक्तमित्येत मिथ्याभूततया भवदभिमतस्य तिमिरादिदोषस्य प्रतिभटादेश् भेषजशस्त्रादिनिवर्त्यत्वोदाहरणेन प्रागेव दत्तोतरम् । अस्तु मिथ्यात्वे धीबाध्यत्वे युक्तिः; न ात्र मिथ्यात्वम् ।

“दृश्यत्वात् यदि मिथ्यात्वं प्रपञ्स्याभिधीयते । ब्रह्मणोऽपि मिथ्यात्वं तत एवाभिधास्यते ।।” “ब्रह्मणो यदि दृश्यत्वं व्यावहारिकमु्यते । प्रपञ्स्यापि दृश्यत्वं तात्त्विकं किं त्वयेष्यते” ।।

अपि संसारमिथ्यात्वेऽपि, किं निवृत्तिशब्देन प्रतिभासमानमिथ्यार्थप्रध्वंसनमभिप्रेत्य तदर्थमपरोक्षधीगवेषणम्, उत तद्विषयज्ञानप्रध्वंसनम्, आहोस्वित् तत्कारणो्छेदम्, अथवा तथाविधज्ञानान्तरानुत्पादम्, उत तद्विपरीतविषयावगाहरूपविषयापहारम्, यद्वा तद्विषयसत्यताध्यवसायशैथिल्यम्, अथान्यदेव किंिदसांव्यवहारिकमिति ।

नाद्यः; क्विदपि मिथ्यार्थस्य प्रध्वंसाभावात्; प्रध्वंसो हि स्वरूपस्य प्र्युति; प्रतिपाद्यते । स्वरूपसत्यताऽभावे कस्य प्र्युतिरु्यते? ।।

सत्यपितस्मिन् तेन तदु्छेदायोगात् । अन्यथा बाधकज्ञानात्पूर्वं सुषुप्ते द्रष्टरि पुरुषे शुक्तिरजताद्यवस्थितिप्रसङ्गात् । संविदधीनसत्ताकस्य तस्य तन्निवृत्तिरेव हि निवृत्तिः । आहुश् “आरोपस्य निवृत्तिः स्यात् आरोप(प्य)स्यापि संक्षयः ।

तस्य स्वरूपशून्यस्य का निवृत्तिर्हि कथ्यते ” ।।इति ।

न द्वितीयः; तस्य बाधकज्ञानाभावेऽपि बाधकज्ञानवदेव स्वरसवाहिविनाशहेतुबलादेवाऽऽशुतर विनाशित्वात् । अन्यथा अनुदितबाधकज्ञानस्य भ्रान्तस्य सुषुप्त्याद्यभावप्रसङ्गात् । तथाऽऽहुः

“न भ्रान्तिर्बाधकज्ञानात् नियमेन विनश्यति ।

न स्याद्धि भ्रान्तित्तस्य सुषुप्तौ भ्रान्तिसंक्षयः”इति ।

यद्यपि उत्तरज्ञानमात्रमपि संस्कारादिवत् पूर्वज्ञाननिवर्तकमिष्यते, तथाऽपि यत्किञ्िद विरुद्धविषयात् । परोक्षज्ञानादपि पूर्वज्ञाननिवृत्त्युपपत्तौ विरुद्धविषयप्रत्यक्षज्ञानान्वेषणं निष्फलम् ।

तृतीयः; भ्रान्तिज्ञानकारणानु्छेदे यथावस्थितप्रत्यक्षज्ञानानुदयात् । नह्यङ्गुल्यवष्टम्भतिमिरादिदोषेप्वनुवर्तमानेषु न्द्रैकत्वसाक्षात्कारसम्भवः । सम्भवे वा किं तदु्छेदेन । प्रत्यक्षानुवृत्त्यर्थं तदु्छेद इति ेत्, न; तत्सामग्र्यनुवृत्तिमन्तरेण तदु्छेदेऽपि तदसिद्धेः, तस्यां ानुवर्तमानायां तदवस्थानेऽपि विरोधाभावात् ।। स्वाभाविकप्रत्यक्षप्रतिबन्धकतया तदु्छेदकल्पनमिति ेत्; किमत्र स्वाभाविकत्वम्? किं सामग्र्यां सत्यां स्वरसवाहित्वम्, उत नित्यस्वाभाविकत्वम्? आद्ये प्रागपि कथं तदवस्थाने प्रत्यक्षोदयः? अन्योन्याश्रयणात् । द्वितीयेऽपि नित्यस्वाभाविकप्रत्यक्षस्य किं नाम प्रतिबन्धकम्? अयमत्र संग्रहश्लोकः

“भ्रान्तिकारणसद्भावे प्रत्यक्षस्य ह्यसम्भवः ।

सम्भवे निष्फलैव स्यात् तदु्छेदस्य कल्पना” ।।

“स्वानुवृत्त्यर्थमु्छेदः सामग्र्यैवानुवर्तनात् ।

प्रतिबन्धनिवृत्त्यर्थमु्छेदे प्रथमं कथम्” ।।

प्रत्यक्षं कारणो्छेदे तदु्छेदस्ततोऽपि ेत् ।

अन्योन्याश्रयणं तु स्यात् प्रतिबन्धो न ात्मनि ।। इति ।

नापि तुर्थः; प्रागभावस्यासाध्यत्वात् । तदनुवर्तनस्याप्यन्ततस्तत्प्रतियोगिकारणो्छेद कोटिनिक्षेपात्, तस्य निरस्तत्वात् ।

न पञ्मषष्ठौ; परोक्षादपि तत्सिद्धेः । प्रत्यक्षमपि हि द्विन्द्रादिज्ञानमनुवर्तमानं परोक्षेण न्द्रैकत्वानुमानादिना बाध्यते । तावतैव न्द्रद्वित्वाध्यवसायशैथिल्यं जायते । अन्यथा देहात्मभ्रमवता मनुमानेनाऽऽगमेन वा देहातिरिक्तात्मविस्रम्भो न स्यात् । परोक्षबाधे भ्रमोऽनुवर्तत इति ेन्न; तुल्यमेतदित्युक्तत्वात् ।

“सञ्जातेऽप्यपरोक्षेऽपि बाधे कारणसम्भवात् ।

अङ्गुल्याद्यैर्भवद्भ्रान्तिरुपष्टम्भनहेतुभिः” ।।

नापि सप्तमः; तस्यासांव्यवहारिकत्वेनैतदर्थोपायोपदेशायोगात्, अन्वयव्यतिरेकागोरत्वेना परोक्षपक्षपातविरहा

एवं सामान्येनापरोक्षज्ञानानपेक्षायां कुतस्तत्कारणविशेषिन्तेति अनुत्थानमेव शब्दजन्यप्रत्यक्षवादस्येत्यभिप्रेत्य भाष्यकारैरिह न संरम्भःकृतः-“सत्यां सामग्र्यां ज्ञानानुत्पत्त्यनुपपत्तेः”(श्री भाष्यं-जिज्ञा) इत्यादिना । “द्रष्टव्य” (बृह 6.7.6) इत्यादेर्दर्शनसमानाकारविधिपरत्वोक्तेश्ेदमपि दूषितममंस्त । समन्वयाधिकरणपूर्वपक्षे तु परोक्त्यैव दूषयिष्यति-“न शब्द एव प्रत्यक्षज्ञानं जनयतीति वक्तुं युक्तं; तस्यानिन्द्रियत्वात्” (श्री भाष्यं 1-1-4) इत्यादिना ।

अस्तु वा कथंिदापरोक्ष्यपरिशेषः । तथाऽपि प्रत्यक्पराङ्मुखत्वादिलक्षणविरुद्धव्याप्त्या इन्द्रिय परित्यागे तुल्यन्यायतया वाक्यस्यापि परित्यागप्रसङ्गः । दर्शनादर्शनाभ्यां विशेष इति ेन्न; तदसिद्धेः । तत्सन्देहेऽपि न विरुद्धव्याप्तिरिति ेन्न; इन्द्रियादिष्वपि प्रसङ्गात् । अथ सत्यामेव विरुद्धव्याप्तौ गत्यन्तराभावात् तदनादरेण वाक्यस्यापरोक्षधीहेतुत्वं कल्प्येत, हन्त! तर्हि इन्द्रियादिष्वेव भक्तिरियं प्रयुज्यताम् । तथा सिद्धे गत्यन्तरे किं वाक्येन? अयं तु निर्णयः-

“विरुद्धव्याप्तिसद्भावो वाक्यस्यापि तथा भवेत् ।

असद्भावो यदि भवेत्, सम एव द्वयोरपि” ।।

“दशमस्त्वमसीत्यादौ भवेत् वाक्यात् परोक्षधीः ।

सामग्र्युत्थापनात्पश्ात् प्रत्यक्षादपरोक्षधीः” ।।

प्रत्यक्षादेरद्वैतगोरत्वविरोधः; तेषामपि त्वदभिमतकूटयुक्तिभिस्तत्त्वमस्यादेरिवाद्वैत गोरत्वस्थापनस्य शक्यत्वात् ।

यत्तु-प्रत्यक्षस्य न परोक्षात्परिभव इति-तदपि ज्वालैक्यबाधकभेदानुमानादिदर्शनेन निरस्तमेव। यदपि ऐन्द्रियकप्रत्यक्षा्छास्त्रजन्यप्रत्यक्षस्य प्राबल्यमुक्तम् तदप्यसत्, एकदोषप्रसूतत्वादेर्दर्शयिष्यमाणत्वात् ।

“प्रत्यक्षं ब्रह्म गृह्णाति यदि ब्रह्मदृश्यता ।

अब्रह्मालम्बनत्वे तु कथं नु बलवत्तरम्” ।।

यत्पुनः अपरोक्षज्ञानस्य मोक्षहेतुत्वं श्रुतिसिद्धमितितावन्मात्राभ्युपगमेऽपि न नः काित् क्षतिः ।

यत्तु शब्दादेव शब्दस्यापरोक्षधीहेतुत्वं दर्शितम्, तदपि हास्म्; अन्यपरत्वस्य आकुमारं प्रसिद्धेः । साक्षात्कारहेतोर्मनसस्सहायतया दृढव्यवसायहेतुतामात्रेण वा तदुपपत्तेः । यथाश्रुतग्रहणे क्षुष्ट्वादेरपि स्वीकर्तव्यत्वात् । “श्रुतिस्मृती तु विप्राणां नयने द्वे” इति हि श्रूयते । “वेदान्तविज्ञानसुनिश्ितार्थाः” (तै.महा ना-12) इत्यादिषु परोक्षव्यवसायमात्रमेवो्यते । यत्तु विज्ञानमिति विशेषणेन विशेष विषयत्व सिद्ध्या निश्यहेतुत्वे सिद्धेऽपि सुशब्देन विशेषणादपरोक्षनिश्यहेतुत्वं सिद्धमिति, तदप्यत्यन्तपरिहास्यम्; अकम्पनीयव्यवसायविवक्षया सुशब्दप्रयोगात् ।

यःपुनः, “तत्त्वमस्यादिवाक्यजन्यज्ञानत्वात्” इति प्रयोग; स तज्जन्यश्रावणज्ञानेऽनैकान्तिकः । अतिप्रसङ्गश्, वाक्यान्तरेष्वप्येवं प्रयोक्तुं शक्यत्वात् । परिहारस्य समत्वात् । विषयजन्येषु व्याप्तेः सङ्कोात् ।

“न वाक्यजन्यताहेतुःप्रत्यक्षत्वे तु, किं पुनः।

अर्थजन्यत्वमेव स्यात् ततः सोपाधिकस्त्वयम्”।।

वाक्यविषयप्रत्यक्षेऽपि वाक्यस्यैवार्थत्वादर्थजन्यत्वोपाधेः साध्यव्यापकत्वाविरोधः । यश् स्वप्रकाशार्थोपदेशरूपत्वात्, स्वतः प्रत्यक्षार्थविषयत्वाद्वेति, सोऽपि पूर्ववदेवानेकान्तः । दृष्टान्तस्य साध्यविकलत्वं दर्शितमेवेति । प्रतिप्रयोगश्-विगीतं वाक्यं न स्वार्थविषयप्रत्यक्षज्ञानजनकम्, वाक्यत्वात् ज्योतिष्टोमादिवाक्यवत् । तथा विगीता धीः न स्वविषये प्रत्यक्षा, वाक्यजन्यत्वे सति वाक्येतरविषयत्वात् स्वर्गयागादिसम्बन्धबुद्धिवत् । न ात्र श्रुतिविरुद्धतया कालात्ययापदेशः; श्रुतेरन्यपरत्वस्थापनात् । न दशमस्त्वमसीत्यादिवाक्येन तज्जन्यज्ञानेन वाऽनैकान्तिकता; तत्र साक्षात्कारप्रसङ्गस्यापि निषिद्धत्वात् । न पूर्वैरेव हेतुभिः सप्रतिसाधनता, उपलम्भानुरोधेनानतिप्रसञ्जकव्याप्तिमूलतया प्रबलत्वात्, समत्वेऽपि प्रकरणसमत्वापादनदशायामन्योन्यप्रतिरोधस्येष्टत्वेन तत्प्रसङ्गानुपपत्तेश्

विपक्षे बाधकविरहादप्रयोजकता; अविशेषात् । शब्दान्तराणामपि प्रत्यक्षज्ञानजनकत्वस्य बाधकस्य सत्त्वात् । न ाप्रत्यक्षार्थविषयतया तेषां तदनुत्पादकत्वमिति वा्यम्; तथाऽपि अयं घटः, दशमोऽयमित्यादिवाक्यानां तत्प्रसङ्गात् । न ेह भवताऽपि शब्दस्य साक्षात्कारहेतुत्वमिष्यते । इष्यतां वा; तथाऽपि ज्योतिष्टोमादिवाक्यानां तत्प्रसङ्गो दुर्वारः । तत्रापि मनस्सहकृतशब्देनैव प्रत्यक्षज्ञानं जायत इति साहसस्य सुशकत्वात् । तावतैव तेषां प्रत्यक्षार्थविषयत्वस्यापि सिद्धेरवान्तरविशेषानिर्धारणादिति । अस्तु वा विपक्षे बाधकाभावः । स तु पूर्वेषामपि समान इति । तथाऽपि प्रतिरोधमात्रं सिद्धम् ।

नन्वस्ति पूर्वेषां विपक्षे बाधकं, आत्मविज्ञानस्य मोक्षसाधनत्वश्रुत्यन्यथानुपपत्तिः । तथा हि श्रुत्युपपत्तिभ्यां वाक्यार्थज्ञानादेव मिथ्याभूतसंसारनिवृत्तिरिति स्थिते, प्रत्यक्षस्य भ्रमस्य परोक्षबाध्यत्वायोगेन प्रत्यक्षपरिशेषे, ब्रह्मणि सकलकरणागोरे, अनुमानादिषु साक्षात्कारवैदेशिकेषु, यदि वाक्यादप्यपरोक्षज्ञानं न स्यात्, अपवर्गोऽपि न स्यादेवेति । इदमपि दण्डघातसूदितदर्वीकरनर्तनम्, अस्याः परिपाटिकायाः आरम्भ एव निरस्तत्वात् ।

यः पुनरसावूहः,अपरोक्षत्वं तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्ति, अपरोक्षनिष्ठात्यन्ताभावा प्रतियोगित्वात् ज्ञानत्ववदिति । अत्र तावत् वाक्यस्वरूपजन्यतद्विषयश्रावणसाक्षात्कारेण सिद्धसाधनता, प्रत्यक्षज्ञानहेताविन्द्रियार्थसन्निकर्षे अर्थस्येन्द्रियस्य तुल्यकक्षयत्वात् । अथ पुनः तत्त्वमस्यादिवाक्य जन्यतदर्थविषयज्ञानवृत्तीति साध्यं विशेष्येत, तथाऽपि परोक्षतद्वाक्यार्थानुभवसंस्कारसहकृतश्रवणजन्य तदर्थप्रतिपादकत्वविशिष्टवाक्यस्वरूपसाक्षात्कारेण सिद्धसाधनतैव । स हि प्रत्यभिज्ञात्मा विशेषणतया अर्थं, विशेष्यतया वाक्यं विषयीकरोति । अथ तदर्थैकविषयकज्ञानवृत्तीति विशेषयसि, तथाऽपि ब्रह्मेतरविषयत्वधर्मेण हेतोरनैकान्किता । तत् खलु सम्प्रतिपन्नेष्वपरोक्षेषु सर्वेष्वपि वर्तते, न पुनः संशयत्वविपर्ययत्वाक्षुषत्वादिवत् कुतश्िदपरोक्षान्निवर्तते; तत्त्वमस्यादिवाक्यजन्ये तु ज्ञाने नैव वर्तते । तत्त्वमस्यादिवाक्यव्यतिरिक्तजन्योऽपि ब्रह्मसाक्षात्कारोऽस्तीति ेत्, हन्त! तर्हि वाक्यैकपरिशेषप्रयासं विस्मृतवानसि । तथासति वाक्यजन्यसाक्षात्कारकल्पनावैयर्थ्यं ; तत एव तत्कार्यसिद्धेः । यत्तु परोक्षत्वं तत्त्वमस्यादिवाक्यजन्यज्ञानवृत्तीति प्रत्यनुमाने सिद्धसाधनत्वमुक्तम्, तत्र यदि तत्त्वमस्यादिवाक्यजन्यज्ञानाभिव्यापीति प्रयुञ्जीत, तदा किं ब्रूयाः । श्रुतिविरोधात् कालात्ययापदेशमेव ब्रूम इति ेत्-हन्त! अद्यापि त्वया श्रुतिस्तपस्विनी कूटसाक्षिणी कल्प्यते । सा तु यथार्थवादिनी न किंित् त्वदभिमतं ब्रवीति ।

यत्तु अपरोक्षत्वं ज्योतिष्टोमादिवाक्यजन्यज्ञानवृतीति प्रतिबन्द्यनुमाने विपक्षे बाधकाभावात् वैषम्यमुक्तम् तदत्रापि समानमेव । अर्थापत्तेः कल्पकासिद्ध्यादिनिरस्तत्वात् ।

परोक्षादपि ज्ञानात् प्रत्यक्षोपमर्दादेः प्रागेव समर्थितत्वात् । प्रत्यक्षापेक्षायामपि तत्त्वमस्यादिवाक्यव्यतिरिक्तजन्येनापि प्रत्यक्षेण बाधोपपत्तावन्यथासिद्धेः । अस्ति योगिप्रत्यक्षमदृष्टविशेषसहकृतान्तः करणजन्यम् आगमसमधिगम्यमास्तिकानाम् । श्रूयते हि रामायणे-“रहस्यं प्रकाशं यद्वृत्तंतस्य धीमतः । तत् सर्वं धर्मवीर्येण यथावत् संप्रपश्यति”(श्री.रामा.बा-2-33)इति । यत्तु भाष्ये दर्शनसमानाकारत्वमु्यते, तत् मोक्षसाधनभूताया ध्रुवानुस्मृतेरेव; न पुनर्धर्मवीर्यफलभूतयोगिप्रत्यक्षं निषिध्यते, तस्यापि श्रुतत्वात् । त्वदभिमतस्य तु श्रुतत्वं प्रतिक्षिप्तमिति तस्यैवासम्भवः । यद्यपि योगिप्रत्यक्षं फलमात्रमित्यस्मन्मतम्, तथाऽपि तदधीनायाःपरिशेषासिद्धेरन्यथा सिद्धेश्ोपन्यासो नानुपपन्नः। “क्लृप्तकल्प्यविरोधे तु युक्तः क्लृप्तपरिग्रहः” इति न्यायात् । यदि यत्किंिद्विपक्षे बाधकमित्यभिमानमात्रेण परिगृह्यानुमिनोषि, तदा ज्योतिष्टोमादिवाक्येऽपि भवादृशःकोऽपि तथा तदभिमत्याऽनुमिनुयादेव ।

एवं सिद्धसाधनत्वानैकान्तिकत्वातिप्रसञ्जकत्वाऽऽभाससमानयोगक्षेमत्वान्यथासिद्धत्वादि दोषदूषितत्वादनुमानविशेषोत्प्रेक्षणमेव निपुणधियां सिषाधयिषितस्य प्रामाणिकत्वानुमितिमन्तर्गतां सूयति । अत एवामिस्मन्नर्थे महाविद्यादिप्रयोगान्तरमनोरथोऽपि भग्नः । यत्तु शब्दस्य प्रत्यक्षान्तर्भावप्रसङ्गेस्वतोऽपरोक्षब्रह्मात्मविषयशब्दान्यत्वे सति अपरोक्षप्रमितिकारणत्वं प्रत्यक्षान्तर्भावप्रयोजकमित्युक्तम्, तत् तत्त्वमस्यादेरपरोक्षधीजनकत्वे वक्तव्यम्; तत्तु नाद्यापि सिद्ध्यतीति तत्प्रसङ्गो दुर्वारः ।

तदेवं वाक्यजन्यसाक्षात्कार सिद्धेः परिशेषात् तज्जन्यपरोक्षज्ञानेनैवाप्रतिबद्धसामग्रीसमुद्भवेन बाध इति स्थितौ श्रवणादिविधिनैरर्थक्यं प्रागुक्तं सुस्थितमेव । ततश् श्रुतवेदान्तानां संसारानुवृत्तिदर्शनविरोधो दुर्वारः । बाधितानुवृत्तिस्तु बाधिता(वाद-5) । जीवन्मुक्तिं विस्तरेण दूषयिष्यामः(वाद-31) । तदेवम् अनुमानाऽऽगमार्थापत्तीनां प्रतिक्षेपात्, प्रत्यक्षोपमानादेश् तत्रासंभवात्, त्वयाऽप्यनङ्गीकृतत्वानिष्प्रमाणतया तत्त्वमस्यादेः साक्षात्कारजनकत्ववनं प्राामाार्यवन्दकानांप्रलोभनमात्रमित्युत्पश्यामः

।। इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताार्यस्य कृतिषु शतदूषण्यां शब्दजन्यप्रत्यक्षभङ्गवादः सप्तमः ।।7।।

Languages

Related Parts

error: Content is protected !!