शतदूषणी
।।अथ शास्त्रविरोधपरिहारवादः एकोनत्रिंशः ।।29।।
विदितमनुवदन्तो विश्वमेतद्यथावद्विदधति निगमान्ताः केवलं यन्मयत्वम् ।
अविदितबहुभूमा नित्यमन्तर्विधत्तां हयवरवदनोऽसौ सन्निधिस्सन्निधिं नः ।।
यदाहुः – शास्त्रप्रत्यक्षयोर्विरोधे शास्त्रं बलीयः । अन्यथाऽद्वैतशास्त्रस्य प्रामाण्योच्छेदप्रसङ्गात्, अपरोक्षदेहात्मभ्रमादेश्च दुर्निरासत्वापातात् । न चात्र विरोध एव न सम्भवतीति वाच्यम्, भेदप्रपञ्चगोचरत्वतन्निषेधाभ्यां विरुद्धविषयत्वोपलम्भात् । न च देशकालस्वरूपादिभेदेन निषेधः संकोचमर्हति, “नेह नानास्ति किंचन”, (बृह.6 – 4 – 9) “तस्मान्न विज्ञानमृतेऽस्ति किंचित्क्वचित्कदाचिद्विज वस्तुजातमि” (वि.पु.2 – 12 – 43) त्यादिभिस्सर्वदेशसर्वकालवर्तिनां ब्रह्मव्यतिरिक्तवस्तूनां सर्वप्रकारनिषेधोपलम्भात् । “त्रय आवसथास्त्रयः स्वप्ना” (?) इति च स्वप्नस्येव जागरसुषुप्त्योरपि मिथ्यात्मेव ह्युच्यते । नच जागरादिवत्स्वप्नस्यापि सत्यत्वमुच्यत इति विपरिवर्तः, स्वप्नशब्देनैव तयोरुपचरितत्वात् । स्वप्नशब्दस्य च मिथ्यार्थे लोकप्रसिद्धत्वात् । अन्यत्र तदभावात् । न ह्यावसथशब्दस्सत्ये प्रसिद्धः । न च भेदविधायकश्रुतिबलात् भेदनिषेधकश्रुतीनामन्यपरत्वम्, निषेधस्यैव प्रसङ्गसापेक्षत्वेन विध्यपेक्षया परत्वात् अपच्छेदन्यायेन बलीयस्त्वात् । नच सिद्धवस्तुविषययोस्समुच्चय – विकल्पादिसम्भव इति निर्गुणवादे निरूपितम् । अतोऽत्यन्तविरोधे रज्जवधिकरणसर्पभूविदलन – वत्कम्बुकलधौतवच्चोभयबाधोऽन्यतरबाधो वाऽवश्यंभावी । तत्र नाद्यस्संभवति, पारमार्थिकत्वा पारमार्थिकत्वातिरिक्तकोटिदर्शनाभावात् । निषेधकतया परस्य चशास्त्रस्यनिषेधकान्तरादर्शनात् । न च विधिरेव निषेधस्य निषेध इति वाच्यम्, तस्य स्वरूपतस्स्वार्थावगाहित्वात् । निषेधस्य तु प्रतियोगिप्रतिक्षेपात्मकतयैव स्वरूपलाभः । विनाशादिषु कथमिति चेन्न; तत्रापि प्रतियोग्यपेक्षत्वात् । विनाशादिषु शब्देषु नास्तिशब्दस्य गोचरः । नञुपश्लेषवैधुर्यात् केवलं प्रतिपद्यते ।।
अतोऽन्यतरबाधोऽवशिष्यते । बाधश्च बलवता दुर्बलस्यैव । न च प्रत्यक्षपरोक्षयोः प्रत्यक्षत्व परोक्षत्वाभ्यामेव प्राबल्यदौर्बल्ये, शुक्तिप्रत्यक्षेण शुक्तिरजतप्रत्यक्षबाधस्य दीपशिखादिभेदानुमानेन दीपैक्यप्रत्यभिज्ञानबाधस्य च परित्यागप्रसङ्गात् । न चोपजीव्योपजीवकाभावात्प्रत्यक्षशास्त्रयोः प्राबल्यदौर्बल्ये; व्याप्तिग्राहकप्रत्यक्षोपजीविनाऽनुमानेन ज्वालैक्यप्रत्यक्षबाधस्योक्तत्वात् । नच पूर्वत्वादुपक्रमवत् प्रत्यक्षप्राबल्यम्, पूर्वत्वमात्रस्यापच्छेदे परस्यैव प्राबल्यनिश्चयेनाप्रयोजकत्वात् । न च परत्वस्य बाधप्रयोजकत्वे माध्यमिकमर्यादया त्रय्यन्तानामपि बाध्यत्वमिति वाच्यम्, परत्वमात्रस्य बाधकत्वेनानुपन्यासात् । अन्यथा द्विचन्द्रज्ञानादिना प्राक्तनचन्द्रैकत्वज्ञानादिबाधप्रसङ्गात् । तस्माद्वयोर्ज्ञानयोर्विरोधे सावकाशत्वादन्यथासिद्धं बाध्यम्, अनवकाशत्वादनन्यथासिद्धं बाधकम् । अवकाशश्चाविरुद्धविषयलाभोऽप्रमाणकोटिनिवेशो वा । तत्र पूर्वस्येहासंभवो दर्शितः । उत्तरस्तु कारणदोषे पर्यवसितः । न च शास्त्रजन्यज्ञानस्य दुष्टकारणप्रसूतत्वम्, कर्त्रभावेनैव भ्रमविप्रलम्भप्रमादाशक्ति मूलत्वशङ्कोच्छेदात्; अविच्छिन्नसम्प्रदायत्वेन शैथिल्यावापोद्वापादिविचारवैदेशिकत्वात्; उपबृंहणब्रह्ममीमांसाद्यनुग्रहेण प्रतिपत्तृदोषाणामपि निर्मूलत्वात् । अतश्शब्दप्रमाणदोषतयासंप्रतिपन्नसमस्तसम्भावनाविरहे शास्त्रजन्यज्ञानस्य निर्दोषकारणप्रसूतत्वेन प्रामाण्यात् प्राबल्यं प्रतिष्ठितम् । न च प्रत्यक्षदोषतया संप्रतिपन्नकाचकामीलादिदोषविरहात् गगनपवनदहनसलिलवसुधा – दिगोचरप्रत्यक्षस्यापि प्राबल्यं स्थितमिति वाच्यम्, भेदवासनायाः प्रत्यक्षदोषत्वेन वासनामूलभेदभ्रमे दृष्टत्वात्; भेदवासनायाश्च बीजाङ्कुरन्यायेन प्रवाहानादितया तत्तत्प्रत्यक्षमूलत्वोपपत्तेः । अतो दुष्टकारणप्रसूतं भेदज्ञानं निर्दोषनिगमान्तजन्मना निर्विशेषाद्वैतज्ञानेन बाध्यत इति ।
अत्रोच्यते । यदुक्तम् – शास्त्रबलीयस्त्वाभावे सत्यद्वैतशास्त्रप्रामाण्योच्छेदप्रसङ्ग इति, तदसत्; प्रत्यक्षाविरोधिन्येवाद्वैते द्वैते वा तत्प्रामाण्यस्य निर्वाह्यत्वात् । यच्च प्रत्यक्षप्राबल्ये देहात्मभ्रमादौ दुर्निरसत्वमिति, तदयुक्तम्; देहात्मभेदप्रत्यक्षानुसारिणैव शास्त्रेण तन्निरसनात् । अन्यथा प्रत्यक्षाच्छास्त्रस्य बलीयस्त्वे यूपादित्यैक्यवाक्येन यूपादित्यभेदग्राहिप्रत्यक्षबाधप्रसङ्गात् ।
यच्चोक्तं निषेधस्य सर्वविषयत्वोपलंभेन संकोचो न युज्यत इति, तदपि मन्दम्; सर्वविषयत्वे सत्येव हि प्रमाणान्तरविषयात् संकोचो युज्यते । अन्यथा न हिंस्यादित्यस्याग्नीषोमीयवाक्येनापि संकोचो न स्यात् । न चात्र प्रत्यक्षविरोधमात्रेण संकोचः, प्रकरणाद्यापन्नविशेषेणापि तत्सिद्धेः । तथा हि
यत्र परमात्मानं प्रतिअपृथक्सिद्धत्वं विवक्षितम्, तत्र प्रपञ्चस्य स्वातन्त्र्यनिषेधे तात्पर्यम्, न तु ब्रह्मविशेषणभूतसमस्तनिषेधे । यथैक एव देवदत्तस्तिष्ठति नान्यत् किंचिदित्युक्ते तत्तुल्यपुरुषान्तरनिषेधे तात्पर्यम्, न पुनस्तदवयवगुणजात्यादिनिषेधे । तदुक्तं संवित्सिद्धौ – “यथा चोलनृपः सम्राडद्वितीयोऽस्ति भूतले । इतितत्तुल्यनिवृत्तिनिवारणपरं वचः ।। न तु तत्पुत्रतद्भृत्य कलत्रादि वारणं” ।। इति
यत्र पुनर्जीवानां स्वाभाविकस्वरूपप्रतिपादने तापर्यं तत्र देहात्मभ्रमप्रतिक्षेपाय देहादेस्तस्मिन्नध्यस्तत्वमात्रमुच्यते । न पुनस्स्वरूपेण मिथ्यात्वम् । यथा शुक्तौ रजतस्याध्यस्तत्वेन शुक्तिरजतमिथ्यात्वम्, न रजतमात्रमिथ्यात्वं तद्वत् ।
यत्र तु जीवानां परिशुद्धानां परस्परसाम्ये तात्पर्यं तत्र देवादिरूपस्य तत्प्रयुक्तसुखदुःखादिरूपस्य च वैधर्म्यस्यौपाधिकत्वेन स्वाभाविकत्वनिषेध एव क्रियते । यथैकजातीयानां रक्तानामुपरञ्जकद्रव्यान्तरसंसर्गप्रयुक्तवर्णवैषम्यादेरस्वाभाविकत्वमुच्यते ।
निर्गुणवादादेश्च हेयगुणनिषेधे तात्पर्यमित्यन्यत्र स्थितम् ।
सदेवेत्यादि च सद्विद्यानिरूपणसुगमार्थम् । एवं सर्वत्रोह्यम् ।
यत्पुनः “त्रयस्स्वप्ना” (?) इति जागरसुषुप्त्योरपि स्वप्नसाम्यमुच्यत इति, तत्र जागरसुषुप्त्योस्स्वप्नसाम्ये विवक्षितेऽपि न मिथ्यात्वाकारेण साम्यमिति पश्यामः । यथा पैंगल्यातिशयविवक्षया कश्चिदग्निर्माणवक इत्युपचरति, कश्चिदूष्मलत्वविवक्षया, कश्चिच्च तपश्चर्यादिप्रयुक्तपरिशुद्धिविवक्षया, एवमत्रापि प्रमाणान्तराविरोधाय स्वप्नसाधर्म्यान्तरे तात्पर्यं ग्राह्यम् । तच्च यथा स्वप्नस्य ईश्वरसृष्टत्वेन जीवस्य कर्मानुगुमनियतदेशकालस्वरूपतत्तत्स्वप्नफलभोगादौ न स्वातन्त्र्यं तद्वज्जागरसुषुप्त्योरपि कर्मफलत्वेनेश्वराधीनत्वान्न तत्र जीवस्य स्वातन्त्र्यमित्येवमादिरूपेण प्रमाणाविरोधेन ग्राह्यमिति । ततश्च – “आैपचारिकवाक्येषु योग्यमेवोपचर्यते । तत्तत्प्रकरणादिभ्यस्तद्विशेषोऽपि सिध्यति” ।।
यत्तु भेदनिषेधकश्रुतीनां भेदविधायकश्रुत्यपेक्षया परत्वेन बलीयस्त्वमिति, तत्रापि नापच्छेदन्यायविषयत्वमिति निर्गुणनिरूपणे ग्राह्यम् ।
यच्चाद्वैतगोचरशास्त्रस्य निषेधकान्तरं न दृश्यतइति; तदपि परमसुहृदं माध्यमिकं विस्मृत्योच्यते । स हि शून्यमेव तत्त्वमिति वदन् संविदद्वैतमपि निषेधति । न च तद्वाक्यं दोषमूलत्वेनाप्रमाणत्वात्परमप्यकिंचित्करमिति वाच्यम्, वेदान्तवाक्यस्यापि अविद्याख्यदोषमूलत्वस्य त्वयैव वर्ण्यत्वात् । दोषाणामवान्तरभेदस्तु न बलाबलहेतुः, भ्रमविप्रलम्भादीनामितरेतरभिन्नत्वेऽपि दोषत्वस्याविशेषात् । तथाऽपि प्रामाण्यभ्रमो वेदेषु बहुलमुपलभ्यत इति चेत्, किमतः? तत्त्वस्थिनिरूपणेऽनुपकारकत्वात् । अत एव शास्त्रप्रत्यक्षयोः प्राबल्यदौर्बल्यहेतुरपि निर्मूलः, अविद्याख्यदोषमूलत्वाविशेषात् ।
न च भेदवासना दोषः, शास्त्रतो निर्विशेषाद्वैते सिद्धे हि तद्विपरीतसंस्कारात्मनो भेदवासनाया दोषत्वकल्पनासिद्धिः, तद्दोषत्वे च सति तन्मूलात्प्रत्यक्षात्प्राबल्येन शास्त्रतो निर्विशेषाद्वैतसिद्धिरित्यन्योन्याश्रयात् । “शास्त्रेण निर्विशेषत्वे सिद्धे स्याद्भेदवासना । दोषस्तद्दोषभावे च सिद्धे स्यान्निर्विशेषधीः” ।
न च क्वचिद्भेदवासना दोष इति लोके सर्वत्र प्रसङ्गः, अभेदवासनायामपि तथा प्रसङ्गात् । तस्यापि च भेदवासनाख्यदोषस्य शास्त्रेऽपि दुस्त्यजत्वाच्च । अन्यथा प्रकृतिप्रत्ययपदवाक्यतदर्थादि भेदस्याकाङ्क्षासन्निधियोग्यतादिभेदस्य चानुपलम्भे वाक्यार्थविशेष प्रत्ययस्यानुदयप्रसङ्गात् । न च भेदवासना प्रत्यक्षस्यैव दोष इति वाच्यम्, विपरीतसंस्कारात्मना दोषत्वे क्वचिद्दोषता क्वचिन्नेति नियामकाभावात् । आकारान्तरेण तद्दोषत्वस्य दुष्प्रतिपादत्वात् । तद्दोषत्वे सति तन्मूलस्य भ्रान्तत्वम्, तद्भ्रान्तत्वे च सिद्धे तद्दोषत्वमिति च परस्पराश्रयणात् । प्रत्यक्षस्य भ्रान्तत्वम्, तद्भ्रान्तत्वे निर्विशेषत्वप्रतिपादनम्, तत्प्रतिपादने भेदवासनाया दोषत्वमिति चक्रकं चात्रानुसन्धेयम् । न चाद्वैतवाक्यार्थज्ञाने त्वभेदवासना मूलम्, अत एव ध्यानादिविध्युपयोग इति वाच्यम्; अभेदवासनाया अप्यन्ततो भेदवासनामूलत्वात् । न ह्यभेदज्ञानं भेदज्ञानमन्तरेण संभवति । स्वयमेव प्रतियोग्यादिभेदवासनावहत्वात्, न चाभेदवासना निष्प्रतियोगिकस्वरूपधीहेतुरिति वाच्यम्, नित्यस्फुरितस्य चिन्मात्रस्य निष्प्रतियोगिकत्वेऽपि तस्य वासनामूल त्वतन्मूलप्रत्यक्षादि विषयत्वस्या त्वयैव प्रतिक्षेपात् । अतो भेदनिषेधकाद्वैत वाक््यार्थज्ञानस्यापि भेदवासनामूलत्वं तदापादकत्वं च फलितम्, ततश्च तुल्यदोषत्वे किं कस्य बाधकं बाध्यं वा?
किंचाभेदवासनाया दृष्टरूपेणादृष्टरूपेण वा तत्त्वमस्यादिवाक्याद्वाक्यार्थज्ञानोपकारकत्वम्? नाद्यः, वाक्यार्थवासनामन्तरेणापि वाक्यस्य यथासम्भवं सत्यासत्यस्वरूपस्वार्थबोधकत्वस्य भवद्भिरपि स्वीकर्तव्यत्वात् । उक्तं चाभियुक्तैः । अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हीति । अन्यथा क्वचिदप्यपरिचितविचित्रवाक्यार्थप्रत्ययो न स्यात् । तथा च सति गतं कवीनां प्रावीण्येन, भवतां च पूर्वपक्षविज्ञानेन, श्रुतीनां चाप्राप्तार्थसमर्पणसामर्थ्येन । नापि द्वितीयः, शक्त्युपबृंहितज्ञाननिवर्त्यत्वाकृष्टप्रपञ्चसत्यत्वभीरुभिर्भवद्भिरनभ्युपगमात् । अभ्युपगच्छतामप्याकाङ्क्षादित्रयपरामर्शादिरूपदृष्टसामग्रीघटनमन्तरेणादृष्टस्योपयोगाभावात् । अत्र चाद्वैतानुध्यानजन्यवासनामन्तरेण तत्प्रत्ययसामग्रीसिद्धेः । अन्यथा तच्छ्रवणस्याप्यनुपपत्त्या वासनाजनकस्य तद्व्यानस्याप्यसिद्धिप्रसङ्गात् । न चापरोक्षरूपवाक्यार्थज्ञानजननार्थं दृष्टद्वारेणादृष्टद्वारेण वा तदुपयोग इति वाच्यम्, शब्दजन्यप्रत्यक्षादेर्दूषणात् । “न शब्दजन्यं प्रत्यक्षं प्रत्यक्षत्वाद्यथेतरत् । व्यवस्थाभञ्जने तु स्यात्सर्वमानेषु संकरः ।। अन्त्यप्रत्यक्षवेद्यं तु ब्रह्म चेदधिकान्वितम् । सविशेषत्वमेव स्यान्न चेत्प्राग्वच्च संसृतिः।। ”
अत एव शास्त्रप्रत्यक्षजन्यज्ञानयोः परोक्षत्वापरोक्षत्वलक्षणवैषम्यनिषेधोऽपि प्रत्युक्तः ।
यच्चोपजीव्यस्यापि प्रत्यक्षस्य ज्वालाभेदानुमानेन बाधो दृष्ट इति; तदप्यतिस्थवीयः, तत्र उपजीव्यविरोधाभावात् । नहि तत्र ज्वालैक्यप्रत्यभिज्ञादिकं भेदानुमानस्योपजीव्यम् । न च भेदानुमानं स्वोपजीव्यव्याप्तिग्राहकप्रत्यक्षविशेषं बाधते । तथाऽप्युपजीव्यजातीयस्यापि विरोधे तद्वा तादृग्वेति नकश्चिद्विशेष इति चेत्, सामान्यत उपजीव्यजातीयस्यापि ज्वालैक्यज्ञानस्य विशेषतोऽपि दृष्टदोषजातीयत्वात् । अचिरनिर्वापितारोपितप्रदीपेऽपि निर्वाणादर्शिनस्तदेवेदमिति दृढप्रत्यभिज्ञानमुदेत्येव । तत्रापि हि भेदादर्शनसादृश्यादिकं दोषः । सोऽत्रापि संभवन् ज्वालैक्यज्ञानस्य निर्दोषत्वनिर्णयं प्रतिरुणद्धि । तावति चानुमानमबाधितमुदेतीति न दोषगन्धः । इह तु स्वोपजीव्यं तज्जातीयं च कृत्स्नं प्रत्यक्षं बाध्यत्वेन प्रसक्तमिति स्थितः स्वव्याघातः । अत उपजीव्यप्रत्यक्षबाधेन शास्त्रं नोदेतुमलम् । किंच शास्त्रप्रत्यक्षयोर्बलाबलपरीक्षकप्रमाणमपि ब्रह्मव्यतिरिक्तभेदगोचरत्वेन शास्त्रेणैव बाध्यत इति स्वेनैव स्वबलं प्रतिक्षिपत् शास्त्रं कथं प्रत्यक्षात्प्रबलं भविष्यति? असत्यात् सत्यप्रतिपत्त्यादिकं तु दूषयिष्यते । अतः प्रत्यक्षादिसिद्धानुपमर्देनैव भेदनिषेधकश्रुतीनां तात्पर्यमुपपादनीयमिति ।।
।। इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां प्रत्यक्षशास्त्रविरोधपरिहारवादः एकोनत्रिंशः ।। 29।।