[highlight_content]

शतदूषणी संविन्निर्विकारत्वानुमानभङ्गवादः(22)

शतदूषणी

।।अथ संविन्निर्विकारत्वानुमानभङ्गवादः द्वाविंशः ।।22।।

परिणमयति विश्वं यस्स्वयं निर्विकारः परिणमति च योऽसौ तत्तदर्थान्तरात्मा ।

विषमविषयतृष्णाधन्वकान्तारजातं व्यपनयतु भयं मे विश्वजिष्णुस्स विष्णुः ।।

यदुच्यते – अनुभूतिर्निर्विकारा, अनुत्पन्नत्वात्, यदुक्तसाध्यं न भवति तदुक्तसाधनमपि न भवति, यथा घटादिरिति । तत्र संविदुत्पत्त्यादिसमर्थनादसिद्धिबाधौ सुगमौ ।

किंच किमिदं निर्विकारत्वं नाम? किमुत्तारवधिराहित्यम्? उत घटादिवन्नामान्तरव्यपदेशार्हावस्थाविशेषराहित्यम्? उतावस्थामात्रराहित्य मिति ।

नाद्यः, अनुत्पन्नेन प्रागभावेनोत्तरावधिमता व्यभिचारात् । भावरूपाज्ञानेन न भवत्पक्षे । भावान्तराभाववादिनस्तेऽनुत्पन्नः प्रागभावो नास्तीति चेन्न; त्वदभिमतेनाप्यन्यतरानैकान्त्यनिर्वाहात् । भावत्वे सतीति विशेषयिष्याम इति चेन्न; कथायामविशेषितस्य हेतोर्विशेषणे हेत्वन्तरापातात् । अस्मान्प्रति व्यर्थविशेषणत्वाच्च । ततश्च पुनस्त्यागे प्रतिज्ञाहानिः । भावरूपाज्ञाने व्यभिचारस्तदवस्थः । इदं सर्वं हृदि निधायाह – भावेष्विति विशेषणे तर्ककुशलताऽऽविष्कृता भवतीति । (श्री भाष्यं जिज्ञा) विशेषितोऽप्ययं हेतुर्भवदभिमतयाऽनाद्यविद्यया तत्त्वज्ञानोदयादन्तवत्याऽनैकान्तः । मिथ्याभूतायास्तस्याः प्रघ्वंसोऽपि मिथ्याभूत इति नानैकान्त इति चेन्न; घटादिप्रध्वंसस्यापि मिथ्यात्वेन यदुत्तरावधिमदिति व्यतिरेक व्याप्तेर्दुर्ग्रहत्वापातात् । व्यवहारिकं घटादेरुत्तरावधिमत्त्वमुपजीव्य व्याप्तिग्रह इति चेन्न; अविद्याया अपि तथाविधोत्तरावधिमत्त्वाभ्युपगमेनानैकान्त्यस्यानिस्तारात् ।

अथ पुनः परमार्थोत्तरावधिराहित्यमेव साध्यार्थ इत्यातिष्ठसे, तथाऽपि व्यतिरेकासिद्धिः; यत्परमार्थविकारवत्तदुत्पन्नं यथा घट इति भवता उच्चैर्भाषितुमशक्यत्वात् । माभूद्धातिरेकः; अविद्याऽपिसपक्ष एवास्तु, हेतुश्च सपक्षैकदेशवर्तिकेवलान्वयी भविष्यतीति चेन्न; तथाऽप्यप्रसिद्धविशेषणत्वापातात् । न ह्यप्रमितप्रतियोगिकं व्यतिरेकमभ्युपगच्छामः । न च परमार्थविकारं प्रमितमिच्छसि । न चाप्रमितस्य परमार्थता सम्भवति । क्वचिच्च परमार्थविकाराभ्युपगमेऽपसिद्धान्तः । ततश्च भवद्दृशा विकारश्चेदपरमार्थ इति व्याप्तौ सिद्धायां व्यवच्छेद्याभावाद्वार्थं विशेषणमिति । तदेतदखिलमभिसन्धायाह – “किं भवतः परमार्थभूतोऽप्यस्ति विकारः? येनैतद्विशेषणमर्थवद्भ (विष्य) वती”ति (श्री भाष्यं जिज्ञा) ।

ननु माभूद्धवच्छेद्यम्, तथाऽप्यनैकान्त्यपरिहारक्षमतयाऽपि सार्थं विशेषणमिति चेत्, हन्तैवं शशविषाणरूपविकारहितेति किं न साध्यते? तावताऽपि ह्यनैकान्त्यं सुपरिहरम् । अप्रसिद्धविशेषणत्वापातादिति चेत्, तुल्यम् । अस्तु तर्हि सिद्घसाधनत्वपरिहारार्थं परमार्थेति विशेषणम्, प्रसङ्गतस्त्वनैकान्त्यमपिपरिहरिष्यति; विकारराहित्यमात्रे हि साध्यमाने मिथ्याभूतविकारराहित्यमात्रेण यदि भवान् सिद्धसाधनतां ब्रूयात्तदाऽस्माभिर्विशेषितव्यमिति चेन्न; अतिप्रसङ्गात् । पर्वतोऽग्निमानित्यादिषु सर्वेष्वपि प्रयोगेषु परमार्थाग्निमानित्यादिप्रयोगप्रसङ्गात् । स्वयंप्रकाशानुमानेषु च भवताऽनुभूतिः परमार्थतः स्वयंप्रकांशेत्यादिप्रयोगो वाच्यः, अन्यथा हि मिथ्याभूतस्वयंप्रकाशत्वाभ्युपगमेन परः सिद्ध साधनतामुद्धाटयेत् । नच वयमप्यपरमार्थान् कांश्चन विकारानिच्छामः, येन संविदस्तद्योगात्सिद्धसाधनतां प्रब्रूम इति बिभेषि । अतः सुष्ठूक्तं भाष्ये विशेषणवैयर्थ्यम् ।

उत्तरयोरपिकल्पयोरनैकान्त्यमदर्शयत् – “भवदभिमताऽविद्याऽनुत्पन्नैव विविधविकारास्पद”मि (श्री भाष्यं जिज्ञाति) ।

तत्र न तावद्वितीयः, अविद्याया एव महदादिनामान्तरव्यपदेशार्हसमस्तविकारयोगित्वस्य भवद्भिरेव स्वीकारात् । घटकपाललोष्टाद्यवस्था विशेषोऽपि ह्यन्ततोऽविद्याया एव । अनुभूतिस्मृत्यादि नामान्तरव्यपदेशार्हावस्थाभेदाश्च संविद एव प्रत्यक्षमीक्ष्यन्त इति कथं तदभावसाधनम्? अनुभूतित्वादयः संविदवस्थाविशेषा मिथ्याभूता इति चेन्न; दत्तोत्तरत्वात् । नहि सत्यः कश्चिदवस्थाविशेषस्ते समस्ति ।

अत एव न तृतीयोऽपि । अपसिद्धान्तप्रसङ्गस्त्वधिकः,मिथ्याभूतानामवस्थाविशेषाणां संविदो भवतैव स्वीकारात् । अन्यथा जगद्भ्रमतन्निवृत्त्यपेक्षातदुपायगवेषणतदनुष्ठानतदर्थशास्त्रारम्भादेरभावप्रसङ्गात् । इष्टप्रसङ्गोऽयमिति चेन्न; व्यावहारिकव्यवस्थाप्रतिष्ठितानां तेषां त्वयैव स्वीकारात् । अन्यथा तिष्ठ सत्यपक्षे, त्यज वाशास्त्रारम्भादिकमिति । संविद्विकाराणां मिथ्यात्वेवात्र साध्यत इति चेन्न; अत्रापि व्यतिरेकभङ्गप्रसङ्गात् । नहि यद्विकारवत्तदुत्पन्नं यथा घट इत्यत्र सत्यविकारयोगित्वमुत्पत्तिव्याप्तं दृष्टम्, येन तन्निवृत्त्या तन्निवृत्तिस्स्यात् । लोकदृष्ट्या तथा दर्शनमस्तीति चेन्न; तस्याः संविद्विकारेषु घटादिविकारेषु च पक्षपाताभावेन त्वदुक्तव्याप्तेर्दुर्ग्रहत्वात् । त्वद्दृष्टेस्तूभयविद्वेषशीलतयाऽपि तथाविधनियमग्रहासिद्धेः । केवलान्वयित्वशङ्काऽपि पूर्ववद्दूष्या ।

ननु भवतोऽपि ब्रह्मानुत्पन्नं निर्विकारं च, ततस्तदेव समर्थयमानेष्वस्मासु कस्ते कोप इति चेन्न; अस्मत्सिद्धान्तापरिज्ञानात् । नहि वयं लोकसिद्धामुदयास्तमयादिविकारशतशालिनीमहमर्थधर्मभूतां संविदं परं ब्रह्मेति परिभाषामहे; नच तामेव सकलविषयाश्रयशून्यावस्थाम्; अपितु समस्तचिदचिद्विशिष्टतया स्वविशेषणभूतचिदचित्प्रतिष्ठितक्लेशादिजन्मादिविकारजातं स्वरूपतोऽस्पृष्टविकारक्लेशं सङ्कोचविकासवैदेशिकसार्वज्ञ्यमनन्तमङ्गलगुणमीश्वरतत्त्वम् । यदि तस्य निर्विकारत्वं साधयसि, कामं साध्यताम् । तत्र प्रमाणमिदमन्यद्वेति निपुणं विभावय । न चेश्वररूपस्यापि समस्तावस्थाशून्यत्वं साधयितुं शक्यम्, कादाचित्कतत्तन्मूर्तद्रव्यसंयोगविभागाद्यवस्थाविशेषाणां वियदादिष्विव विश्वव्यापिनीश्वरेऽपि दुर्वारत्वात् नित्यासङ्कुचितप्रकाशात्मनि तज्ज्ञानेऽपि तत्सङ्कल्पाद्यवस्थाविशेषणामनन्तानामाम्नातत्वात् । अकर्मनिबन्धनतया च तेषामपुरुषार्थत्वप्रसङ्गा भावात् । बीजाङ्कुरवदवस्थाप्रवाहाना दित्वेनाहेतुकत्वादिचोद्यानवतारात् । आगमिके चास्मिन्नर्थे हैतुकसंक्षोभस्याशक्यत्वादिति ।।

।। इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां संविन्निर्विकारत्वानुमानभङ्गवादः द्वाविंशः ।।22।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.