[highlight_content]

शतदूषणी सगुणनिर्गुणश्रुतिव्यवस्थावादः(52)

शतदूषणी

।।अथ सगुणनिर्गुणश्रुतिव्यवस्थावादः द्विपञ्चाशः ।।52।।

सत्त्वानीव विरुद्धजातिजनुषां सिद्धानि सिद्धाश्रमे वैरं यत्र मिथस्त्यजन्ति विधयस्सर्वे निषेधैस्सह ।

तद्गङ्गेशयमङ्गसङ्गिकमलालक्ष्येश्वरप्रक्रियं शान्तावद्यमनन्तमङ्गलगुणं ब्रह्म प्रपद्येमहि ।।

निर्गुणश्रुतिभिः केचिद्बाधन्ते सगुणश्रुतीः ।

तासामन्योन्यसौहार्दमाहुर्यतिवराश्रयाः ।।

अस्ति तावदुपनिषत्सु ब्रह्मण्येव सगुणवादो निर्गुणवादश्च । यथा-* यस्सर्वज्ञस्सर्ववित्, *पराऽस्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानबलक्रिया च, * सत्यकामस्सत्यसङ्कल्पः,* ब्रह्मणा विपश्चितेत्याद्याः परस्सहस्रास्सगुणश्रुतयः । एवं * निर्गुणं निरञ्जनं निष्कलं निष्क्रियं शान्तम्,* अपहतपाप्मा विजरः,* यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम्, *अस्थूलमनण्वित्याद्याः निर्गुणश्रुतयः । आसामन्योन्यविरोधस्तावदापाततः प्रतीयते । नच सिद्धे वस्तुनि विकल्पसंभवः । तत्र विरोधस्थिरीकरणेन बाध्यबाधकभाव इति नीचाः,विषयव्यवस्थया सन्धिरिति साधवः ।

ननु कथं विषयव्यवस्था? सा ह्याश्रयभेदेन वा शीतोष्णवत्? देशभेदेन वा चित्रे नीलपीतादिवत् कालभेदेन वा पाकजपरमाणुगुमवत्? समुच्चयेन वाप्रदेशवर्तिसंयोगतदभाववत्? प्रतिसम्बन्धिभेदेन वा पितृत्वपितृव्यत्ववत्? ग्राहकभेदेन वा रूपस्पर्शवत् । गृहीतृभेदेन वा जातिव्यवस्थितभोगादिवत्? विधेयनिषेध्यभेदेन वा ब्रह्महत्याग्नीषोमीयादिवत्? अन्येन वा केनचित् श्वेतपीतादिबोधवत्? इति ।

न तावदाद्यः;परमेव ब्रह्माधिकृत्य सगुणनिर्गुणश्रुत्योरुदयात्; नच जीवविषयाः काश्चित्, अन्यास्तु परविषया इति विवेक्तुं शक्यम्, विशेषाभावात् । नच सर्वज्ञत्वादिश्रुतीनां जीवविषयत्वम्, प्रत्यक्षविरोधात्, संसारोच्छेदप्रसङ्गाच्च । नचेदं यौगिकं सार्व यम्, नित्यसर्वज्ञत्वोक्तेः । नापि निर्गुणश्रुतीनाम्, तत एव; उपलभ्यते हि बुद्धिसुखादिमत्तया जीवः; तदभावे च तस्य संसरणं निर्बीजम् ।

न द्वितीयः; स हि सम्बन्धिदेशभेदो वा स्यात्, स्वप्रदेशभेदो वा? आद्ये रूपाद्यवच्छिन्नप्रदेशभेदेन सगुणत्वनिर्गुणत्वयोर्व्यवस्थेति स्यात्;तत्र तावदेकस्यैव पुंसः क्वचित्सर्वज्ञत्वं क्वचिदान्ध्यमिति स्यात्; तत्तु व्याहतम्, धर्मिभेदाभावात् । प्रदेशवर्तिगुणोत्पत्तिवदेवेति चेन्न; प्रदेशवर्तिनोऽपि ज्ञानस्य सर्वविषयीकरणे तद्धर्मिणः कार्त्स्न्येन सर्वज्ञत्वानपायात्; यद्यपि प्रदेशान्तरे तस्य समवायो नास्ति, तथापि तत्र भ्रान्त्यादियोगित्वं क्वाचित्केनापि सार्व येन विरुद्धमेव; यथावत्प्रकाशमाने अध्यासाद्यसंभवात् । आैपाधिकब्रह्मभेदाभेदवादनिराकरणेन चायमर्थो व्यक्तमनुसन्धेयः । प्रादेशिकगुणसमवायाभावकथनेन च न ब्रह्मणः कश्चिदतिशयः, सर्वद्रव्यसमत्वात् । एतेनैव स्वप्रदेशभेदोऽपि निरस्तः । स ह्यौपाधिकस्तावन्निरस्त एव; स्वाभाविकोऽपि तुल्यन्यायतया निरस्त एव । नच स्वाभाविकोंऽशस्तत्र संभवति, निरवयवत्वश्रुतिविरोधात्; निरवयवत्वाविरोधेन सावयवत्वलक्षणनिषेध्यासिद्धौ निषेधासिद्धेः । समुदायेषु सांशतया तत्सिद्धिरिति चेन्न; अत्रापि तत्सम्भवात्तन्निषेधासिद्धेः । एकदेशस्य त्वेकदेशत्वनिषेध इति निरर्थोक्तिः ।

नापि तृतीयः; प्रागुक्तविकल्पायोगात्; पूर्वमत्यन्तनिर्गुणत्वे पश्चादपि कारणाभावेन गुणोत्पत्ययोगात्; पश्चान्निर्गुणता हेतुतः संभवन्त्यपि सर्वविशेषमिथ्यात्वाभावेनात्यन्ताय स्यात्; वस्त्वन्तरसत्यत्वे तत्संयोगादिलक्षणस्यावर्जनीयत्वात्, वस्त्वन्तराणां च मिथ्यात्वमन्तरेणात्यन्तोच्छेदा संभवात्; सत्कार्यवादसमर्थनेन निरन्वयविनाशादिनिराकरणात् ।

अत एव चतुर्थोऽपि निरस्तः, प्रत्येकपक्षोक्तदोषस्य समुच्चये समुच्चयस्याप्यपरिहार्यत्वात् । न हि ब्रह्मांशस्य कदाचित्संसरणं कदाचिदपवर्ग इति भास्करयादवप्रकाशमताद्दवीयः । दूषितं चैतत् कालावच्छिन्नसार्व यदूषणादिना; यथोक्तम्-

सार्व यसर्वशक्त्यादिगुणकः केन सिध्यति । नेश्वरस्यापि विज्ञेयः स्वतः सर्वगुणश्रुतेः ।। सार्व यादिस्वतस्त्वे तु विवादो यदि कल्प्यते । सत्यत्वादौ विवादः किं न स्यान्निर्गुणवादिनाम् ।। इति । न पञ्चमः; पितृव्यपितृत्वादिवत्सगुणनिर्गुणत्वयोः प्रतिसंबन्ध्युपाधिकत्वाभावात्; नीलपीतादिवन्निर पेक्षत्वेनैवोपलम्भात् । न हि तत्त्वतो नीलमेव कञ्चित् प्रति पीतम्, पुरुषभेदेनानुष्णश्च कृष्णवर्त्मा कदाचिद्भवतीति चेन्न; तत्रानुष्णत्वाभावात्, प्रतिबन्धकबलेन तु कश्चिदुष्णत्वं नोपलभते, तत्कार्यं च स्फोटादिकं तदा न जायते । *शीतो भव हनूमतः, * तत्रैष वह्निः पवनेरितोऽपि न मां दहत्यत्र समन्ततोऽहम् । पश्यामिपद्मास्तरणास्तृणानि शीतानि सर्वाणि दिशां मुखानि ।। इत्यादि कथमिति चेत्; इत्थम्-तत्र हि प्रभावविशेषप्रतिबद्धतया दाहकत्वाभाव एव हि तात्पर्यम्; यद्वा चान्द्रमसमहस इव देवताप्रभावोपनीतसलिलाद्यवयवनिवहसंवलनवशादनुद्भूतौष्ण्यस्य दहनस्योपलभ्यमानशीतिमारोपेण शीतव्यपदेशः ।

नापि षष्ठः; ग्राह्यभेदस्य ग्राहकभेदधीनत्वे रूपस्पर्शादिभेदविलयप्रसङ्गात्; हिंसाहिंसा वाक्ययोरेकस्मिन्नेव क्रतावन्वयेऽपि विरोधाभावप्रसङ्गाच्च । न च भिन्नकरणग्राह्यरूपस्पर्शयोरिव सगुणत्वनिर्गुणत्वयोविरोधः, भावाभावरूपत्वात्; रूपस्पर्शयोस्तु सहानवस्थानहेतोः कस्यचिदप्यदर्शनात् ।

नापि सप्तमः; आनुकूल्यप्रातिकूल्यादेः सप्रतिसम्बन्धिकत्वेन जातिव्यवस्थितभोगाद्युपपत्तेः । सगुणत्वनिर्गुणत्वयोस्तु तदभावेनानुपपत्तेः; उपपत्तौ वा ब्रह्मणोऽव्यवस्थितस्वभावत्वप्रसङ्गात् ।

नचाष्टमः; निर्गुणश्रुतीनां सर्वगुणनिषेधपरत्वेन विधेयगुणविशेषपरिशेषासिद्धेः; गुणविधिवशादेव निर्गुणश्रुतयः सङ्कोचमर्हन्तीति चेन्न; असङ्कुचितनिर्वाहे सति सङ्कोचानुपपत्तेः । तथा सति सगुणश्रुतीनामप्रामाण्यं प्रसज्येतेति चेन्न; अपच्छेदनयेन प्रमाणत्वेऽपि बाध्यत्वोपपत्तेः । पौर्वापर्यायोगेनापच्छेदनयानवतार इति चेन्न; अपच्छेदनये प्रमाणपौर्वापर्यस्य निमित्तपौर्वापर्यमात्राधीनत्वात्, अत्राप्यर्थतो विधिनिषेधयोः पौर्वापर्यसिद्धेः । विदिर्ह्यन्यानपेक्षतया पूर्वो भवति, निषेधस्तु निषेध्यप्रसङ्गसाकाङ्क्षतया परः । एवं सति हिंसाविधिनिषेधवाक्ययोरप्यपच्छेदनयावतार इति चेन्न; तत्र विधिवाक्यस्यात्यन्ताप्रामाण्यप्रसङ्गात्; अत्र तु सगुणवाक्यानां विद्यादिविषयाणामपि दृष्टिविशेषणोक्तिन्यायेन तत्तत्फलाभिलाषबम्भ्रम्यमाण पुरुषविशेषवषयोपासनविधिशेषतयाऽपि प्रामाण्योपपत्तेः । अतःउभयोः प्रामाण्येऽपि बाध्यबाधकव्यवस्था । अत एव तत्त्वतो निर्गुणत्वं च सिध्यतीति न निर्गुणश्रुतीनां सङ्कोचहेतुमुपलभामहे ।

अत एव नवमोऽपि दत्तोत्तरः; अस्मत्सिद्धान्तनीतिमन्तरेणोभयप्रामाण्यनिर्वहणासिद्धेः । उभयाप्रामाण्यस्य वैदिकैः सामान्यतस्तावदनभ्युपगमात्; उभयोरप्यान्यपर्यवादिनां निरीश्वरमीमांसकनिगमतरुवन्दकानां सिद्धार्थतात्पर्यसमर्थनादिभिरुन्मूलितत्वात् । अन्यतराप्रामाण्यपक्षेऽप्यन्ततोऽस्मन्नयमन्तरेण गत्यभावात् । न हि निर्गुणवाक्यमेव बाधितुं युक्तम्, तदुपदेशनैष्फल्यप्रसङ्गात् । न च स्वरूपपराणां वाक्यानामुपासनविधिशेषत्वेन यथाकथञ्चन नेयता शङ्क्या, त्रय्यन्तराद्धान्तापराधप्रसङ्गात् । अतः पारिशेष्यान्निर्गुणवाक्यैः सगुणवाक्यानामेव बाधः ।

यद्यपि सत्यज्ञानादिवाक्यं स्वरूपपरमपि सामानाधिकरण्यं पदसाधारण्यं शरणयद्भिः भवद्भिस्तत्तत्प्रवृत्तिनिमित्तविशिष्टस्वरूपपरमित्युपपादितम्, तथापि ज्ञानान्दादिशब्दावगतं ब्रह्मस्वरूपं न तृत्वानन्दित्वादिविशेषसहमित्युपपनीपद्यते । न हि ज्ञानस्य ज्ञानमानन्दस्यानन्दो वा गुणपक्षपातिभिरपि भवद्भिरभ्युपजिगमिष्यते; अतः शब्दादर्थाच्च गुणनिषेधसिद्धिः । न च वाच्यं सुखमात्ररूपत्वे तद्भावापत्तेर्मोक्षस्य पुरुषार्थता न स्यात्, न हि सुखं स्यामिति कश्चिदिच्छति, अपि तु सुखी स्यामित्येव । अतः सुखसंबन्धेन वैशिष्ट्यमवर्जनीयमिति सुखापरोक्षमात्रेण पुरुषार्थतासिद्धौ सम्बन्धस्याप्रयोजकस्य कल्पनायोगात् ।

द्रव्यत्वोपादानत्वादिभिस्स गुणत्मनुमीयत इति चेन्न; द्रव्यशब्देन वस्तुत्वादिमात्रविवक्षायां मुख्यामुख्यविकल्पेन दोषात्, अन्ततस्तयोरपि परिहरणीयत्वात् । एतेनोपादनत्वमपि निरस्तम्; आत्मत्वमप्यात्मभेदानभ्युपगात् दृष्टान्तहीनम् । तथा आत्मशब्देन आत्मत्वजातिचैतन्यादिगुणविशिष्टाकारविवक्षायामसिद्धिः । ज्ञानत्वविवक्षायामप्रयोजकत्वं विरोधो वा । एवमन्यदपि दूष्यम् । न च वाच्यम्, अहं जानामीत्यादिप्रत्यक्षेणैव बुद्धिसुखादिविशिष्ट एवात्मा प्रतीयत इति; तत्तद्धृत्तिविशेषविशिष्टस्यैवाहङ्कारस्य तथा प्रतीतेः । अन्यथा स्थूलोऽहमित्यादिप्रत्यक्षेण स्थौल्यादिगुणवैशिष्ट्यस्यापि प्रसङ्गात्; देहव्यतिरेकसाधनात्तन्निषेधे अहङ्कारव्यतिरेकसाधनात्तद्धर्म निषेधस्यापि सिद्धेः; अतः प्रत्यक्षाद्यप्राप्तार्थप्रतिपादकनिर्गुणश्रुतिसामर्थ्यादेव निर्गुणे ब्रह्मणि सिद्धे, मायावच्छिन्नमिथ्यागुणविशिष्टेश्वरगोचराः सगुणश्रुतय इति ।

अत्रोच्यते । यदुक्तं सगुणनिर्गुणश्रुतीनामाश्रयभेदादिना निर्वाहे दूषणम्, तदस्माकमपीष्टमेव । यत्तु विधेयनिषेध्यभेदेन विषयव्यवस्थायामुक्तम् असंकुचितनिर्वाहे सति सङ्कोचोऽनुपपन्न इति; तत्तदा शोभेत यदि सगुणश्रुतिबाधमन्तरेणासंकुचितनिर्वाहः स्यात् । बाधात् सङ्कोच एव न्याय्यः । सङ्कोचोऽपि क्वाचित्कबाध एवेति चेत्; सत्यम्, न तु सार्वत्रिकः, तत एव तस्य संग्रहणीयता । अन्यथा उत्सर्गापवादनय एव निर्मूलः स्यात् । यच्चोक्तमपच्छेदनयेन प्रमाणत्वेऽपि बाध्यत्वमुपपद्यत इति;तदपि मीमांसामांसलितचेतसां जुगुप्सनीयम् । अनियतविरोधपौर्वापर्येह्यपच्छेदनयः, अन्यतरापच्छेदे बाधकाभावेन प्रामाण्यसिद्धेः, युगपदपच्छेदे विकल्पत उभयोः प्रामाण्यसंभवात्; क्रमेणापच्छेद एव केवलं * पूर्वाबाधेन नोत्पत्तिरुत्तरस्य हि सिध्यतीति न्यायेन पूर्वबाधः । तथापि प्रयोगान्तरे प्रामाण्यं सिध्यत्येव, नियतविरोधपौर्वापर्ये तूपक्रमाधिकरणन्यायेन परानुत्पत्तिरेव । ततश्चोत्सर्गापवादन्यायस्यैव सगुणनिर्गुणश्रुत्योर्विषयता, अतो विहितव्यतिरिक्तगुणविषयो निषेधः ।

यच्चोक्तं सगुणवाक्यानां मिथ्याविषयाणमपि दृष्टिविधिवत् फलविशेषार्थोपासनार्थतया प्रामाण्यमिति; तदपि न, तत्रैव मोक्षाख्यस्य फलस्य बहुलमुपलब्धेः । पुण्यपापप्रहाणपूर्वकस्वाभाविकरूपाविर्भावरूपफलविशेषस्य सांसारिकित्वोक्तः साहसिकेभ्य एव स्वदते । अस्तु तर्हि मिथ्यार्थविषयसगुणोपासनेनापि विधिबलान्मोक्ष इति चेन्न; तथा सति निर्गुणवाक्यानामेव मिथ्यार्थविषयत्वकल्पनं किं न स्यात्? तत्त्ववेदनस्यैव मोक्षहेतुत्वमिति नियमनिष्कासनात् । तथा च तत्त्वोपदेशश्च निष्प्रयोजनस्स्यात्, अन्यथापि मोक्षसिद्धेः । अतो विषयव्यवस्थयैवोभयप्रामाण्यसिद्धिः । अतो नवमस्य कल्पस्यानवतार एव।

यत्पुनरुक्तं न ज्ञानस्य ज्ञानमानन्दस्यानन्दो वा जाघटीतीत्यर्थतो गुणनिषेधसिद्धिरिति; किं तत्र धर्मस्य धर्मान्तराभ्युपगमेनानवस्थादिरभिप्रेतः? उतैकजातीययोर्धर्मधर्मिभावो नोपपद्यत इति? यद्वा ज्ञानानन्दाद्यवान्तरजातीयस्य धर्मान्तराभ्युपगमेनानवस्थादिरभिप्रेतः? उतैकजातीययोर्धर्मधर्मिभावो नोपपद्यत इति? यद्वा ज्ञानानन्दाद्यवान्तरजातीयस्य तत्तदवान्तरजातीयाधारत्वं न दृष्टमिति? अथ ज्ञानानन्दयोरज्ञानानन्दरूप एवाश्रयो दृष्ट इति? अथवा ज्ञानानन्दरूपस्यात्मनो ज्ञानानन्दादिकं शशादेरिव श्रृङ्गादिकमुपलम्भबाधितमिति ? नाद्यः, अनुक्तोपालम्भरूपत्वात् । न हि वयं धर्मभूतचैतन्यादेश्चैतन्यान्तरादिकं ब्रूमः । धर्मस्य चोपलम्भादेव धर्मान्तराभ्युपगमे कथमनवस्था? नापि द्वितीयः, धर्मधर्मिणोः सर्वत्र सत्तादिभिर्यथाकथञ्चिदेकजातीयत्वावश्यंभावात् । प्रभाप्रभावदादिषु विशेषतोऽपि सजातीययोर्धर्मधर्मिभावो दृष्टः । अवयविवादे च परमाणुद्धणुकादिष्वाश्रयिषु पार्थिवत्वादिविशेषसाजात्यमिष्टम् । नापि तृतीयः; अन्यत्रादृष्टेरन्यत्र निषेधकत्वाभावात् । अन्यथाऽतिप्रसङ्गात् । तत्र दृष्टान्तेनानुमाने तु श्रुत्यादिबलेन कालात्ययापदेशत् । नापि चतुर्थः, असिद्धेः । ननु किं आनन्दतया च ज्ञातोपलभ्यत इति चेत्; किं वा जडतया दुःखतया चोपलभ्यते? तदपि नास्तीति चेत्; कस्तर्हि विरोधः? सन्दिग्धस्वरूपत्वमिति चेन्न; तावता विरोधहेतुत्वासिद्धेः । शास्त्रादिभिस्तु विशेषनिष्कर्षात् । पञ्चमस्तु प्रत्यक्षश्रुतिभ्यामेव प्रतिक्षिप्यत इति नानुपपत्तिं पश्यामः ।

यत्तूक्तं सुखापरोक्ष्यमात्रेण पुरुषार्थ (ता) सिद्धौ सम्बन्धस्याप्रयोजकस्य कल्पनमयुक्तमिति; तदपि निजहृदयविसंवादि जल्पितम् । तथा हि- न हि परस्य सुखापरोक्ष्यमात्रेण स्वयमपि लब्धपुरुषार्थो भवति, तथा सत्येकस्य सुखस्य दुःखस्य सर्वार्थत्वप्रसङ्गेन प्रत्यक्षानुमानशास्त्रादिसमस्तप्रमाणक्षोभप्रसङ्गात् । स्वरसतश्च परोपकारापकारयोरपि प्रवृत्तिनिवृत्तिप्रसङ्गात् । अतः स्वसम्बन्धितयैव सुखमपरोक्षतयार्थनीयं भवति । स्वरूपस्य तर्हि भवतां कथं सुखत्वमिति चेत्; सच्चिदानन्दरूप आत्मेति वदता भवता नैवं चोदनीयम् । स हि सदात्मा सुखत्वविशिष्टाकारेण प्रकाशात्मतया संबध्यत इति निपुणं चिन्तय ।

यत्तु सगुणत्वानुमाने दूषणमुक्तम्; न तेनास्माकं चेतसि चमत्कारः । जीवेश्वरयोः प्रत्यक्षागमाभ्यां सगुणत्वसिद्धेः । यत्तु अहं जानामीत्यादिप्रत्यक्षस्य वृत्तिविशेषविशिष्टाहङ्कारविषयत्वमुक्तम्, तत्तु अहमर्थात्मत्वसमर्थनादौ परिहृतं द्रष्टव्यम् । अतो जीवस्य सर्वगुणशून्यत्ववचनं प्रत्यक्षादिसर्वप्रमाणविरुद्धम् । ईश्वरस्य तु आगमैकसमधिगम्यस्यागमविरुद्धम् ।

एतदुक्तं भवति-निर्गुणश्रुतिवदेव सगुणश्रुतयोऽपि तत्त्वविषयाः प्रमाणभूताश्च । अत एव न तासां मिथो बाध्यबाधकभावः । उत्सर्गापवादनयाच्च विहितव्यतिरिक्तविषयोऽत्र निषेधः, अतो भिन्नविषयत्वान्न विरोधगन्धः । विरोधाभावाच्च न बाध्यबाधकभावः । तदभावाच्चोभयप्रामाण्यं यथार्थरूपं स्वतः प्रतीयमानमनपोदितमिति । उक्तं च श्रीवरद गुरुभिस्तत्त्वसारे-

यद्ब्रह्मणो गुणशरीरविकारजन्मकर्मादिगोचरविधिप्रतिषेधवाचः ।

अन्योन्यभिन्नविषया न विरोधगन्धमर्हन्ति तन्न विधयः प्रतिषेधबोध्याः ।। इति ।

।। इति शतदूषण्यां सगुणनिगुर्णश्रुतिव्यवस्थावादः द्विपञ्चाशः ।।52।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.