शतदूषणी
।।अथ साधनचतुष्टयपूर्ववृत्तत्वभङ्गवादः अष्टमः ।।8।।
शास्त्रैक्ये विषयाद्यभेदनियते सङ्गत्यधीन क्रमे कर्माऽऽलोच्य तदङ्गिकामथ परां विद्यामुपादित्सुभिः।
यस्तद्वेद्यतया स्वयंफलतयाऽप्यारोहति ज्ञेयतां कुर्वीतैष विभुः श्रिया सह मम स्वान्तं निजान्तः पुरम् ।।
इह तावत् आनन्तर्यार्थे प्रचुरप्रसिद्धिकं अथशब्दमादौ प्रयुञ्जानस्य सूत्रकारस्य तत्सम्भवे तदर्थतैवाभिमतेत्यङ्गीकार्यम् । तत्सम्भवश्च यदि नियतपूर्ववृत्तमसाधारणं तथात्वज्ञापने स प्रयोजनं चकिमपि स्यात्, तदा स्यात् । अन्यथा न स्यात्। यथा”अथ योगानुशासनम्”(पा.योग.सू.1.1) इत्यादौ । न हि यदृच्छागतं यत्किञ्चिन्निमेषोन्मेषादिकं मक्षिकासंचारादिकं वा पूर्ववृत्ततयाऽत्र वक्तुं युज्यते, तस्य सर्वत्र सम्भवात्; अभिधानप्रयोजनविरहाच्च । अत एव सर्वपुरुषव्यापार-साधारणापेक्षितभोजनादि पूर्ववृत्तत्वोक्तिरपि निरस्ता; विशेषनियमाभावात् । अवधान-आत्ममनस्संयोगादिकमपि न विचारविशेषं प्रति विशेषहेतुः, सर्वशास्त्रसाधारण्यात् । सामग्री तु तथा स्यात् । तदुक्तिरपि यदि सामग्रीत्ववेषेण, तदपिसर्वकार्यसाधारण्यात् तदभिधाननैरर्थक्याच्च निरस्तम् । तेन सामग्रीविशेषविशेषकं विशेषकारणमेव वाच्यम् ।
अतः सप्रयोजनाभिधानासाधारणनियतपूर्ववृत्तवस्तुगवेषणे-
नित्यानित्यवस्तुविवेकादिसाधन चतुष्टयं पूर्ववृत्तम्; तस्यैव ब्रह्मजिज्ञासायां नियमेनापेक्षितत्वात्; तदुक्तेश्चाधिकारिविशेषप्रतिपादनार्थतया सप्रयोजनत्वाच्चेति यदुक्तम्, तत् परामृशामः ।।
तत्र नित्यानित्यवस्तुविवेकस्तावत् कथंभूत इति । किम् “इदं वस्तु नित्यम्, इदं वस्त्वनित्यम्” इत्येवमात्मा; उत “नित्यानित्ययोर्वसतीति नित्यानित्यवस्तु, तच्च नित्यानित्ययोर्धर्मः, हेयत्वोपादेयत्वे इत्यर्थः” इति वाचस्पतिकल्पितप्रकार इति ।
तत्र न प्रथमः; तस्य वेदान्तश्रवणात्पूर्वमसिद्धत्वात् । तत्रैव ह्यात्मादेर्नित्यत्वं वियदादेश्चानित्यत्वं विविच्यते । तथाचान्योन्याश्रयणम्, “वेदान्तश्रवणे सिद्धे नित्यानित्यविवेकधीः । नित्यानित्यविवेकेन वेदान्तश्रवणं त्विति” ।।
अथ यदि शास्त्रान्तरात् तद्विवेक इति मन्यसे, तदा विपरीतविवेकापत्तिः । वियदादयो वैशेषि कादिभिर्नित्या एव परिगृह्यन्ते । आत्मादयश्च सौगतादिभिरनित्याः,असन्तो वा । अथादूरविप्रकृष्ट सांख्य-योगशीलनेन तद्विवेक इति चिन्तयसि, तर्हि तत्रैवाऽऽत्मानात्मविवेकसिद्धेः किं ब्रह्ममीमांसया? अनन्यलभ्यं हि शास्त्रफलम् । विशेषज्ञप्त्यर्थमिति चेन्न; निर्विशेषे तदयोगात् । आत्माद्वैतसिद्ध्यर्थमिति चेन्न; स्वात्मनो नित्यनिर्लेपत्वादिव्यवसायमात्रेण समीहितसिद्धौ स्वव्यतिरिक्तात्मसदसद्भाव चिन्तनस्य ध्वाङ्क्षदन्तपरीक्षायमाणत्वात् । आत्मव्यतिरिक्तमिथ्यात्वावसायार्थमित्येतदपि तत एव दत्तोतरम् । तस्य सौगतसमयेऽपि सुलभत्वाच्च । उक्तं हि योगाचारेण, “अविभागोऽपि वित्त्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते” । इति ।
अथ वेदविरुद्धतन्त्रत्वात् ततो न निश्चय इत्याशयः; तर्हि सूत्रकारैरेव तद्वन्निराकरिष्यमाणसांख्यादितन्त्रैरपि नाश्वसिहि । “न हि तद्वा तादृग्वेति कश्चिद्विशेषः’ ‘इति न्यायात् । अविरुद्धांशं स्वीकुर्म इति चेत्, कस्तर्हि सौगतेषु ते प्रद्वेषः? तेष्वपि भवदुपजीव्या बहवोऽर्थराशयः सन्ति । कथं च, अयमर्थो न विरुद्धः, अयं तु विरुद्ध इति वेदान्तश्रवणात् पूर्वमवगच्छसि? तथाच तत्राप्यन्योन्याश्रयणम् । हितोपदेशिपित्रादिवचनविस्रम्भादिति चेत्, तर्हि तत एव नित्यानित्यवस्तुविवेकोऽपि सिध्यति; किं सांख्यादिकपोलजलकणिकाखादेन? अस्त्वेवमपि, का नो हानिरिति चेत्; वेदान्तश्रवणहानिः । तदुपदेशमात्रेणालसास्तिकवत् समस्तार्थविस्रम्भोपपत्तेः । सर्वस्यापिविवेकस्य आत्मानात्मविवेकार्थतया तत्सिद्धौ ज्ञातव्यान्तरपरिशेषाभावात् । परिशेषे च निर्गुणत्वव्याघाताच्च । ख्यातिलाभपूजार्थप्रवचनादिकौतुकात् स्वयं तत्परीक्षणमिति चेत्; हन्तैवं साधुशमादिसाधनसम्पत् सम्पादिता । कामक्रोधादेरेव वेदान्तश्रवणनिमित्तत्वेनोपादानात् । ख्यातिलाभाद्यर्थश्रवणे च नित्यानित्वस्तुविवेकादेः क्वोपयोगः?
अथ वैधत्वान्मीमांसाश्रवणस्य स्वयं विमर्श इति तदपि न; अर्थनिश्चयसिद्ध्यर्थत्वात् विमर्शस्य । निश्चयो यद्युपदेशात् सिध्यति, किं वृथा प्रयासेन? अन्यथा प्रदक्षिणनमस्कारादिवत् अदृष्टार्थत्वमेव स्यात् मीमांसाश्रवणस्य । न च मीमांसाश्रवणस्य वैधत्वमिति प्रागेव समर्थितम् । अस्तु च वैधत्वम्, तथाऽपि नित्यानित्यवस्तुविवेकस्यापि स्वेतिकर्तव्यताभूतमीमांसाधीनस्यैव विधिना स्वीकारात्, तथाविधस्य च तस्य अविरोधलक्षणसाध्यत्वान्न पूर्वत्वसिद्धिः ।
यदि च वैधं वेदान्तश्रवणमिच्छसि, तदा कर्ममीमांसायां कुतस्ते कोपः । श्रूयते हि “स्थाणुरयं भारवाहः किलाभूत् अधीत्य वेदं न विजानाति योऽर्थम्” (यास्कनिरुक्तिः) इति । तेन कर्मभागश्रवणपूर्वकमेव ब्रह्मभाग श्रवणमिति सिध्यति । न तावत् अनधीतवेदस्य वेदान्तश्रवणमुपपद्यते; अनधिकारात् । न चोपनिषन्मात्राध्ययनं कस्यचित् शास्त्रार्थः; “स्वाध्यायोऽध्येतव्यः” (तैत्तरीयारण्यकं) इत्यखण्डग्रहणात् । तन्मात्राध्ययनविध्यश्रवणाच्च । कृत्स्नाध्ययने च कृत्स्नार्थविचारमेव विधिः प्रयुङ्क्ते । तथाच ब्रह्मविचारात्पूर्वं पश्चाद्वा कर्मविचारोऽपि कर्तव्य एवेति पश्य । तथाच सति यदि साधनचतुष्टयसम्पतिपूर्वकमश्रूयन्त वेदान्ताः, कथमसौ पुनरनपेक्षितं विरुद्धत्वाभिमतं कर्म जिज्ञासेतेति परिशेषात् कर्मविचारस्य पूर्वत्वसिद्धिः । यदा तु कर्म पूर्वं विचारितम्, तदा, “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्” (मुंड-1-2-12) इत्यादिश्रुतिसिद्धप्रकारेण ब्रह्मबुभुत्सा संभवतीत्यतोऽपि क्रमनियम इति कर्मविचारस्य पूर्ववृत्तत्वमवश्याश्रयणीयम् ।
एवं रागप्राप्तश्रवणपक्षेऽपि क्रमसिद्धिः । रागोऽपि साङ्गाधीतसशिरस्कवेदस्याऽऽपातप्रतीत सर्ववेदभागार्थस्य कर्मब्रह्मभागयोरविशेषेण सातिशयनिरतिशयसमस्तपुरुषार्थप्रतीतौ उभयत्राप्यविशेषेण प्रवर्तने क्रममपेक्षमाणः, स्वाध्यायानां सर्वेषां प्रायशः कर्मोपक्रमत्वात् सारस्वताङ्गवत् मुख्यक्रमानुरोधेनस्वाध्यायेतिकर्तव्यताभूतमीमांसाक्रमं प्रयुञ्जानः, “काङ्क्षन्तःकर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रंहि मानुषे लोके सिद्धिर्भवति कर्मजा। ”(श्री भ.गीता-4-12) इति न्यायेन त्रिवर्गे प्रथमप्रावण्यरूपमर्थ क्रमञ्चापेक्षमाणः, “यज्ञेन दानेन”(बृह-6-10-22) इत्यादिना यज्ञाद्यङ्गकोपासनविधौ यज्ञादि दृष्टान्तेषु यज्ञादिकल्पने च पदार्थभूतयज्ञादि स्वरूपाधिगमसाकाङ्क्षतया पूर्वमेव कर्मविचारक्षेपं पश्यन्, ब्रह्मविद्याङ्गभूतकर्मसमृद्ध्यर्थतया ब्रह्मदृष्टिरूपतया च शारीरके मुख्यसङ्गतस्योद्गीथविद्यादेश्च कर्माङ्गा श्रयतया तदाश्रयाङ्गकर्मपरिज्ञानज्येष्ठतामालोचयन् कर्मब्रह्ममीमांसयोः क्रमेण पुरुषं प्रवर्तयति ।
किंच प्रसङ्गचिन्तितस्याप्यर्थस्य प्रकृते केनचिदुपयोगेन भवितव्यम् । तत्र यद्यपि विद्यारूपत्वाविशेषात् इहोद्गीथविद्यादीनां प्रसङ्गः सम्भवति, तथाऽपि तच्चिन्तनस्यात्र क उपयोगः । कर्मिणां तदनुष्ठानेन कर्मसाद्गुण्यार्थमिह चिन्तेति चेन्न; कर्मनिष्ठस्यात्र शास्त्रे त्वयाऽधिकाराभावकथनात् । अथ यदि कर्मवित् मध्ये समागत्य स्वोपयुक्तांशं कंचिच्चिन्तयत्विति मन्यसे, तदसत्; अनिरूपितब्रह्मस्वरूपस्य ब्रह्मदृष्टिरूपासु तासु चिन्तनानवकाशात् । तदाह “उद्गीथाद्युपासनानि कर्मसमृद्ध्यर्थान्यपि ब्रह्मदृष्टिरूपाणि ब्रह्मज्ञानापेक्षाणि” (श्री भाष्यं -जिज्ञा) इत्यादि । अथ स एव कर्मार्थं ब्रह्मापि चिन्तयेत्, तर्हि तत एवैकशास्त्र्यं तावत् सिद्धम् । प्रागुक्तनयेन क्रमश्च । गुणप्रधानभाववैपरीत्यमेव तु भवता साधितम् । ब्रह्मविदस्तु तच्चिन्तया क्वोपयोगस्त्वन्मते? कर्मविद्भ्यस्तदुपदेश उपयोग इति चेत्, तर्हि कर्मापि चिन्तयेत् अविशेषात् । अथ विविदिषार्थकर्मसाद्गुण्यसिद्ध्यर्थमिति पश्यसि, तथाऽप्यनुपयोग एव; विविदिषायां जातायामेव श्रवणे प्रवृत्तेः तत्रापि पूर्ववत् परोपदेशार्थत्वायोगात् । कर्मणां च वेदनाङ्गत्वस्य प्रागेव स्थापितत्वात् न विविदिषाङ्गकर्मसिद्धिः । ब्रह्मविद्याभ्यः पृथक्करणमेव प्रयोजनमिति चेन्न;तस्यैकाधिकरणमात्रसाध्यत्वात् । तथाचात्र चिन्तस्यादर्शनात्, प्रकारान्तरैरेव तु बहुशोऽत्र तासां चिन्तनात् । एवं कर्मविन्निरूपणे ब्रह्मवेदनापेक्षणात् ब्रह्मनिरूपणे च कर्मवेदनसापेक्षत्वात् अन्यतरविदोऽशक्यनिरूपणासु उद्गीथविद्यासूभयविद एव चिन्तनावकाश इति फलितम् । शारीरके च ब्रह्मस्वरूपनिरूपणानन्तरमेव तच्चिन्तनं सूत्रितम् । तस्मादत्रैव साक्षात्संगतस्य तच्चिन्तनस्य प्रधानोपयोगापेक्षायामङ्गभूतकर्मसमृद्धिद्वारा अङ्गिनो वेदनस्य शीघ्रनिष्पादनं नाम महान् उपयोगः । तदप्याह “तान्यपि कर्माण्यनभिसंहितफलानि ब्रह्मविद्योत्पादकानीति तत्साद्गुण्यापादकान्येतानि सुतरामिहैव सङ्गतानि” (श्री भाष्यं जिज्ञा) इति ।
किंच, “अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत्” ।।इति न्यायात् कर्ममात्रेण चेत् अमृतत्वं लभ्येत, कःपुनः कर्माङ्गकात् (मी.शाबर भाष्यं) कर्मसमुच्चिताद्वाज्ञानादमृतत्वं लिप्सेतेत्येतदप्युक्तं प्रागेव । अतोऽपि कर्मण्येव प्राक्प्रवृत्तिः । कर्मणि तु निरूपिते न्यायपरिश्रान्तचेतस्तया उत्तरोत्तरातिशयितकर्मविधानादिभिः कर्मणामल्पास्थिरफलत्वमवसाय, तत्संवादकानि च, “परीक्ष्य लोकान्” (मुं.1-2-12) इत्यादीनि वाक्यानि प्रागापातधीजनकान्यपि निरूपितसंवादात् यथाश्रुतार्थानि सामान्यतो निश्चित्य, अनन्तस्थिरफलस्य केवलकर्मभिरलभ्यतां मत्वा, प्राचीनकर्मोपस्कृतज्ञानसाध्यानन्तस्थिरफलाऽऽपातप्रतीत्या प्रतिबन्धकरहितया सञ्जातबुभुत्सातिशयः शारीरकशास्त्रमारभेतेति स्थितमेतत् ।
कथंच नित्यानित्यवस्तुविवेकसिद्धये शास्त्रान्तरावकाशः? प्रागुपनयनात् कामचारवादभक्षितया यथोपलब्धकुक्षिंम्भरेर्बालस्य शास्त्रान्तरावतारशङ्काऽपि नास्ति । उपनीतस्य वेदाध्ययने नियुक्तत्वात्अधीतवेदस्यापि तदर्थविचारे विधिना रागेण वा प्रेरितत्वात् तयोश्च विंशतिलक्षणीश्रवणमन्तरेणानुपरमात् । अक्रमप्रवृत्तांस्तु न शास्त्राधिकारिण इति स्वीकुर्मः । अन्यथेदानीमेव अतव्रतस्य अनधिगताङ्गस्य लिखितपठितस्वाध्यायस्यैव मीमांसाधिकारप्रसङ्गात् । सौगतादीनामप्यस्मन्मतदूषणार्थिनां ब्रह्मविचाराधिकारप्रसङ्गाच्च । अतो हेत्वन्तरान्नित्यानित्यवस्तुविवेकोऽयमाशामोदकायते । तेनान्यस्मात् तदसिद्धौ न तद्वतो ब्रह्मविचारः, तेनैव तद्वतेति तु मिथस्संश्रयः पुनरुन्मज्जति । एतदभिप्रायेण भाष्यम्-“नित्यानित्यवस्तुविवेकादयश्च मीमांसाश्रवणमन्तरेण न संपत्स्यन्ते” इत्यादि ।
एतेनैव द्वितीयोऽपि कल्पो दूषित इति भाष्यकाराभिप्रायः । तथा हि-यदि नित्यानित्यौ पदार्थौ प्रमाणेन निश्चित्य तद्गते हेयोपादेयत्वे विविच्येते, तदा पूर्वोक्तमेवोत्तरम्, चक्रकापत्तेः । अथ नित्यमस्तिचेत्, तदुपादेयम्; अनित्यं चेत्, अनुपादेयमित्येवमात्मविवेकः-तदपि मन्दम्; अपुरुषार्थत्वे नित्यस्यापि अनुपादेयत्वात्, अनित्यस्यापि पुरुषार्थतायामुपादेयत्वात् । अत एव ह्यनित्यस्वरूपस्य मोक्षसाधनस्य अनुष्ठानम् । अथ पुरुषार्थेषु नित्यमस्ति चेत्, तदेवोपादेयमिति विवेकः एवंविधसंशयात्मकविवेकस्तु शास्त्रान्तरे कर्मविचारेऽपि प्रवर्तयितुमलमिति नासाधारण्यम् । तत्रापि हि, “अपाम सोमममृता अभूम” (तै.सं.3-2-5) “अक्षय्यँ ह वै चातुर्मास्ययाजिनः सुकृतं भवति” (आप श्रौत-8-2-2) इति नित्यफलापातप्रतीत्या संशय उपपद्यते । वस्तुतस्तत्र नित्यफलं नास्तीति चेत्, किमतः? अधिकुर्वाणस्य तदनिश्चयात् । आप्तवाक्यादेवाऽऽदौ निश्चिनोतीति चेत्; तर्ह्यत्रापि तत एव नित्यमस्तीति निश्चिनुयादिति, “नित्यमस्ति चेत्” इत्येवंरूपयद्युपनिबन्धनानुपपत्तेः तथा निश्चये च प्राग्वदेवोत्तरम् । यदि नित्यमस्तीति सामान्यतो विस्रम्भः, तर्हि इदं नित्यम्, इदमनित्यमिति विविच्योपदिष्टेऽपि शक्यं विश्वसितुम् । तथाच वृथा वेदान्तवाक्यविचारः इति ।
या च शमदमादिसाधनसम्पत्, सा किं श्रवणौपयिकतादात्विकावधानरूपा विवक्षिता, उत “शान्तो दान्तः” (बृह.6-4-23) इत्याद्युक्तजितेन्द्रियत्वरूपेति । पूर्वस्यास्तावत् हेतुत्वमिच्छामः तस्याः सर्वग्रन्थश्रवणसाधारण्यात् “नासौ वेदान्तश्रवणे विशेषः” इति नात्र तद्विवक्षा युक्ता । सांख्यादि श्रविणोऽपि हि तादृग्विधतादात्विकशान्त्यादिसम्पत् युक्तैव । द्वितीया तु न श्रवणं प्रति साधनम्, “शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्” (बृह.6-4-23) इति दर्शनसाधनतया तच्छ्रुतेः । न च तद्दर्शनं श्रवणफलमिति दर्शनसाधनभूतश्रवणाङ्गत्वं शमादीनामिति वक्तुं युक्तम्; श्रुतहानाश्रुतक्लृप्त्यादिदोषप्रसङ्गात् । अविधेयज्ञानवाद-शब्दजन्यप्रत्यक्षयोश्च निरस्तत्वात्(वादौ – 4-7) । एषां च शमादीनां ब्रह्मविद्याङ्गतयोपादेयत्वं साधनलक्षणे शमदमाधिकरणे(ब्र.सू.3-4-21)ऽवगन्तव्यम् । अत एते शमादयः कथं शारीरकश्रवणात्पूर्वमुपात्ताः स्युः? अयमत्र संग्रहः- “शान्त्यादयो विधास्यन्ते विद्याङ्गत्वेन संयुताः । शास्त्रारम्भे कथं तेषामुपयोगस्त्वयोच्यते” ।। इदं चोक्तं भाष्ये “नित्यानित्यवस्तुविवेकादयश्च” इति आदिशब्देन संग्रहात् । तथा शमादीनां साधनत्वावगतेः कर्ममीमांसापेक्षतया कर्मविचारपूर्ववृत्तत्वस्य दुस्त्यजत्वमप्युक्तम्-“एषां साधनत्वंविनियोगावसेयम् विनियोगश्च श्रुतिलिङ्गादिभ्यः । स च तार्तीयः” इति । यद्यपि शारीरकमीमांसायामेवापेक्षिताः श्रुतिलिंगादयोपि व्युत्पादयितुं शक््यन्ते तथाऽपि संगतिविशेषात् सामान्यतस्तृतीयाध्याय एव तद्व्युत्पादनं प्राप्तमिति सिद्धोपयोगमात्रमत्र कर्तव्यम्; न पुनस्तद्व्युत्पादने प्रयतितव्यम् ।
इदं च तार्तीयश्रुत्यादिसापेक्षत्वाभिधानं प्रदर्शनार्थम्; कथं वेदप्रामाण्यस्थापनमन्तरेण तदर्थभूत ब्रह्मविचारोऽपि स्यात्? तत्प्रामाण्यं च प्रथमाध्यायसाध्यम् । कथं च सामान्यतः शास्त्राणां शास्त्रार्थानां वा द्वैतीयभेदाभावे दुरनुष्ठानतादुःस्थं प्रामाण्यं प्रतिष्ठितं भवेत्? कथं वा विद्याख्येषु शास्त्रार्थविशेषेषु भेदाभेदचिन्तावकाशः? तेन शब्दान्तरादयो द्वैतीयाः विशेषतश्चिन्त्याः । तार्तीयोपयोगस्तु दर्शितस्थलान्तरेभाव्यः श्रुतिलिङ्गादेस्सर्वत्रापेक्षणात् । उद्गीथविद्यादेः क्रत्वर्थत्वपुरुषार्थत्वादिविमर्शस्तु तौर्यप्रयुक्तिसापेक्षः । षोढाविभक्त-पाञ्चमिकक्रमप्रमाणापेक्षिणी च अर्चिराद्यातिवाहिकगणपौर्वापर्यव्यवस्था । कर्तृलक्षणन्यायोपजीविनी च ब्रह्मविद्याधिकारवर्णाश्रमादिधर्मविशेषस्थापना । एवम्, “तेषामेकैक एव तावान् यावानसौ पूर्वः” (?) इत्यादिष्वप्यतिदेशादिसापेक्षत्वमनुसन्धेयम् । सूत्रकारोऽपि तदुक्तमित्यादिना कर्ममीमांसायां सामान्यन्यायान् पृथक्सिद्धानुदाहरति (?) इति भवद्भिरपि व्याख्यातमेव । न चायं शारीरके वक्तव्यमेव तन्द्रालुतया परोपजीवनेन दर्शयतीति वाच्यम्; तत्र तत्रैव तत्सङ्गतेः स्थापितत्वात् । न च प्रसिद्धैर्न्यायैः स्वयमेव वेदप्रामाण्यादिकं विचारयामः, किं जैमिनीयेनेति वाच्यम्; तथाऽपि कर्मविचार पूर्ववृत्तत्वस्य दुष्प्रतिक्षेपत्वात् । तत्र विचारसागरे परिप्लवमानानां यदि जैमिनिना कर्णधारायितम्, स एष क्षम्यतामपराधः । एवं च लोकोत्तरप्रज्ञेन भवता बादरायणीयमपि नादरणीयम्; अविशेषात् । न चायं क्रमनियमोऽर्थस्वाभावादापतन् जैमिनीयो बादरायणीयो वा, येन तत्राभ्यसूयिष्यति । अतः कात्स्नर्येन कर्ममीमांसासापेक्षत्वप्रदर्शनार्थमेव शमादिसाधनत्वावगतेस्तार्तीयापेक्षाभाषणम् ।
यद्यपि इहामुत्रफलभोगविरागमुमुक्षुत्वे पूर्ववृत्तत्वेन भाषिते (यद्यपि इहामुत्रफलभोगविरागो मुमुक्षुत्वं चेत्युभयं नियतपूर्ववृत्तमसाधारणं सप्रयोजनाभिधानं चेत्यभ्युपगच्छामः, तथोक्तं भाष्ये-), “अधिगताल्पास्थिरफलकेवलकर्मज्ञानतया संजातमोक्षाभिलाषस्य अनन्तस्थिरफलब्रह्मजिज्ञासा ह्यनन्तरभाविनी”ति (श्री-भाष्यं-जिज्ञा) तथाऽपि पुरुषप्रवृत्तिक्रमविशेषसूचनस्वारस्यात् कर्मविचारपूर्ववृत्तत्वोक्त््यैव तयोरप्यर्थलब्धत्वात्, अनन्तस्थिरफलतया प्रथममापातप्रतीतकर्माख्यप्रतिबन्धकनिवृत्तिसूचनेन निर्विघातब्रह्मविचारारम्भद्योतनात्, यज्ञादिवाक्यार्थापेक्षितपदार्थ निश्चयवत्त्वव्यञ्जनात् यथावस्थितब्रह्मतदुपासनादितत्त्वावगमहेतुभूतन्यायकलापशीलनोद्भेदात् अपवर्गोपायभूतोपासनापेक्षितानभिसंहितफलसहकारिवर्गस्वरूपनिश्चयांशोपजीवनाभिप्रायाच्च कर्मविचारस्यैव पूर्ववृत्तत्वोक्तिः प्रयोजनवत्तामेतीति तामेवाद्रियामहे । अव्यवहित पूर्ववृत्ततया वक्तव्यमिति चेत्, तर्हि मुमुक्षुत्वमेकमेव त्वयाऽपि वक्तव्यम् । तदर्थतया पूर्वेषामुक्तिरिति चेत् तुल्यम् । प्रयोजनाधिक्यं मिथस्संश्रयाद्यभावश्च विशेषः ।
एतेन तापत्रयाभिहतिपूर्ववृत्तत्ववादिनोऽपि प्रत्युक्ताः, तापत्रयाभिहतिमात्रस्य मन्त्रौषधिनीतिशास्त्रादिप्रवृत्तिसाधारण्यात् । दृष्टानुश्रविकविषयवितृष्णापर्यन्तायास्तु तस्याः कर्मविचारसापेक्षत्वस्थापनात् । तथोक्तं सांख्यैरपि, “दुःखत्रयाभिधाताज्जिज्ञासा तदुपघातके हेतौ । दृष्टे साऽपार्था चेत्-नैकान्तात्यन्ततोऽभावात् ” । । “दृष्टवदानुश्रविकः स ह्यविशु शुद्धि क्षयातिशययुक्तः । (सांख्यकारिके 1-2) इति । एवं कर्मपरीक्षोपबृंहितैव सा भाष्येऽप्युक्ता, “तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्यः” (श्री भाष्यं जिज्ञा) इति । श्रुतिश्च, “परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात्” (मुंड-1-2-12) इत्यादिका ।
अतः, “अथातो ब्रह्मजिज्ञासा” (ब्र.सू.1-1-1) इत्यत्र न साधनचतुष्टयाद्यानन्तर्यं सूत्रकृदभिप्रेतम्, अपि तु कर्मविचारानन्तर्यमेव । तथा च वृत्तिकारः “वृत्तात् कर्माधिगमादनन्तरं ब्रह्मविविदिषा” (बोधायनवृत्तिः) इति । अयं च पक्षो भास्करैरप्यङ्गीकृतः । निरीश्वरमीमांसकैरपि, “कृत्स्नाध्येतुर्निश्शेषवेदार्थविज्ञानाय मीमांसारम्भः” (?) इति वदद्भिः कर्मोपक्रमं शास्त्रमर्थतो ब्रह्मविचारशिरस्कमित्यभ्युपगन्तव्यमेव । न च द्वादशाध्यायमात्रे शास्त्रं पर्यवसितम्; शबरस्वामिप्रभृतिभिः सङ्कर्षकाण्डांशस्थसूत्रोपादानात् । “शास्त्रान्तत्वादुपनिषद्भागचिन्ता” इति पक्षस्य च त्वदीयैः कैश्चित् परिग्रहात्’ इति ।।
इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु शतदूषण्यां साधनचतुष्टयपूर्ववृत्तत्वभङ्गवादः अष्टमः ।।8।।