श्रीमद्वेदान्ताचार्यविरचिता
मीमांसापादुका
मीमांसापादुका अन्यप्रमाणकत्वनिरासाधिकरणम्
धर्मस्तत्तत्क्रियादि श्रुतमिदमिह खल्वस्मदाद्यक्षवेद्यं तस्माच्छास्त्रैकमानस्स कथमिति यदि स्थूलमेतच्छलत्वात् । धर्माख्यानं क्रियादौ धृतिजनकतया सा च नाध्यक्षवेद्या दुर्दर्शार्थोपदेशान्निगमसफलता तेन सत्सूत्रसाध्या ॥ ९३ ॥
धर्मे प्रत्यक्षतोक्तिर्भवति च सुगमा सिद्धसाध्यानुवृत्ता सत्सूत्रं साध्यमात्रप्रवणमिति च ते कल्पना निष्प्रमाणा । ज्ञानं तस्योपदेशस्त्विति च सममिदं द्विप्रकारेऽपि धर्मे सर्वं तात्पर्यवृत्त्या सुघटितमिह नः पश्यतां वृत्तिकारम् ॥ ९४ ॥
धर्मं जिज्ञासमाने भवभृति करणायत्तबोधे प्रसिद्धे तस्याध्यक्षस्स नेति प्रथयितुमुदितं लौकिकाध्यक्षलक्ष्म । नो चेत्पश्यत्यचक्षुःप्रभृतिबहुविधश्रुत्यनीकावमर्दैर्लुण्टाकी हन्त लोकायतगतिरघृणा रुध्यतां चोदनाभ्यः ॥ ९५ ॥
आत्मा देहाक्षबुद्धिप्रभृतिसमधिको धर्मचिन्ताधिकृत्यै निर्द्धार्यस्त्वन्यथा चेत्सुरगुरुसयस्वैरजल्पास्स्वदेरन् । इत्थं निश्चित्य सूत्रे व्यधिकरणविभक्त्यादिभिस्तत्तदर्थव्यावृत्तो धर्मकर्ता तदुचितफलभुक्सूचितस्सूत्रकारैः ॥ ९६ ॥
अन्यैरात्मावसाये भवति विफलता तत्र वेदान्तवाचां नो चेद्देहादितोऽन्यस्स कथमिह मतश्श्रूयतां सावधानम् । यद्यन्यैरस्य बोधो भवतु विशदतावाप्तिराम्नायवाक्यैस्तैरेवास्यावसाये परमिह कथितस्तर्कतोऽनुग्रहस्स्यात् ॥ ९७ ॥
पाठे चार्थे च भेदं विदधति कतिचिद्वृत्तिकारानुशिष्टास्स्यादत्रातिप्रसक्तिः क इह निपुण इत्येतदप्यत्र चिन्त्यम् । प्रख्यातो वृत्तिकारो मुनिरनृतमसौ व्याचकारेति मन्दं बाधे सत्यान्यपर्यं क्वचिदिति तु मतिर्मत्सरातङ्कमुक्ता ॥। ९८ ॥
पाठादत्रौपवर्षादनुपचितफला ह्यन्यथा पाठ्यकॢप्तिस्स्वच्छन्दस्त्वात्तसारो विषयविषयिवत्संप्रयोगोक्तिलभ्यः । यद्वृत्तं पूर्ववाक्ये न पठितमथ च न्यासि तद्वृत्तमन्यत्पाठश्चार्षो न भेत्तुं क्षम इति विदुषां वृत्तिकारोऽनुवर्त्यः ॥ ९९ ॥
वृत्तौ षट् चेत्प्रमाणान्यगणिषत न सा मानसंख्या ततस्स्यात्त्यक्तं षष्ठं च कैश्चिद्भवति च फलिनी गोबलीवर्दनीतिः । धर्मे मानान्तराणां गतिमिह नुदतो नात्र संख्याभिसन्धिर्मानानि त्रीणि शोध्यान्यमनुत च मनुः प्रेप्सतां धर्मसिद्धिम् ॥ १०० ॥
प्रत्यक्षादिर्न हेतुर्जिनसुगतमुखैः कल्पितानां कथानामित्येतत्सिद्धमत्र श्रुतिरपि न हि तन्मूलमूह्यं विरोधात् । इत्यप्येतद्विरोधाधिकरणविदितं तेन मोहादिरन्यैरन्यैर्बाधोपरोधौ न तु निगमगिरामित्युपक्रान्तसिद्धिः ॥ १०१ ॥
नन्वेवं क्वापि रामायणपरिपठिता युक्तयष्पट् कथं स्युर्मन्वादेस्त्रित्ववादोऽप्यथ भवतु परं न्यूनसंख्यानिवृत्त्यै । मैवं तत्तद्विशेषैः पृथगनुपठितैरर्थवैशद्यसिद्ध्यै मानैस्तत्तद्विशेषास्सह परिपठितास्सन्तु तत्रान्यथा वा ॥ १०२ ॥
प्रत्यक्षं सांख्यबौद्धप्रभृतिभिरुदितं भावनोत्थं न विद्मस्संस्काराणां प्रकर्षस्स्मृतिमुपजनयेद्दृष्टमात्रे प्रकृष्टाम् । तस्माद्धर्मे निमित्तं भवति न सुगताद्यागमः क्षिप्तमूलः श्रद्धेया चोदनैवेत्यवधृतिरियमित्यत्र तात्पर्यसिद्धम् ॥ १०३ ॥
प्रत्यक्षादिप्रमाणं स्वविषयनियतं दर्शयन् सूत्रकारः प्रत्याचष्ट प्रवृद्धान् प्रमितिपरिभवे विश्वलुण्टाकवादान् । पश्यन्तो वृत्तिमीर्षीं तत इह शबरस्वामिमुख्यास्समीचीं चिन्ताव्याघातभीताश्चिदचिदनुगतां सत्यतां साधयन्ति ॥ १०४ ॥
॥ इति अन्यप्रमाणकत्वनिरासाधिकरणम् ॥