श्रीमद्वेदान्ताचार्यविरचिता
मीमांसापादुका
मीमांसापादुका धर्मलक्षणाधिकरणम्
धर्मश्चोद्दिश्यतेऽर्थात्स्वयमिह मुनिना तद्विचारार्थसूत्रे लक्ष्मादृष्टेरचिन्त्यभ्रममिह नुदता चोदनासूत्रमूचे । तत्र त्वार्थं प्रमाणं तत इह न भवेद्वाक्यभेदप्रवृत्तिर्मानप्राधान्यपक्षान्तरमपि कतिचिद्वैभवादाश्रयन्ति ॥ ७८ ॥
कञ्चित्पित्रादिकल्पं प्रथयति पुरुषं चोदनाद्युक्तिरर्थाद्वाक्यादेश्चोदकत्वग्रहणमनुचितं शास्त्रसिद्धोज्झनं च । त्याज्योपादेयवर्गत्यजनभजनविध्युन्मुखाज्ञाभ्यनुज्ञाकिम्मीरो वेदराशिः किमिति न विदतः शासनं विश्वगोप्तुः ॥ ७९ ॥
नित्यत्वादीश्वराज्ञा न भवति निगमः पौरुषेयोऽन्यथा स्यादित्येतत्क्षुद्रहृद्यं नियतनिजगिरा नित्यमाज्ञाप्रवृत्तेः । तन्त्रन्यायादमन्त्रेष्वपि विविध(हि निज)भिदां विश्वकर्ता विधित्सेदाचार्यत्वं च वेदेष्वगणि भगवतः कर्तृता चेतरेषु ॥ ८० ॥
वेदार्थः कार्यरूपस्त्विति जगति मिथः कश्चिदाचष्ट धार्ष्ट्याद्विध्युद्देशांशमात्रे तदलमिह यतो वक्ष्यते सिद्धभागः । शक्तिं संरुद्ध्य शाब्दीं श्रुतिमुनिवचसोश्छन्दवृत्तिं निरुद्ध्य व्रीडानाघ्रातचित्तो वितथमिति वदन्वैदिकैरुज्झनीयः ॥ ८१ ॥
यत्कार्यं तद्धि सर्वं निगमविषय इत्येतदव्याप्तिदुःस्थं यो वेदार्थस्सकार्यात्मक इति च तथा तत्रतत्रातिचारात् । उद्देश्यादेर्विभागे बहुरिह विहतिर्दर्शिता वाक्यविद्भिः किंचास्मिन्नर्थशब्दत्यजनभजनयोः स्यादयुक्तिर्विचित्रा ॥ ८२ ॥
निष्कृष्टं चोदनार्थं यदि नियमयति स्पष्टमेतन्न पाठ्यं तस्माद्धर्मस्वरूपप्रभृतिकथनतस्सार्थकं सूत्रमेतत् । प्रामाण्यं कार्यशेषं प्रथयति यदि तत्प्रापितार्थं परस्तादप्रामाण्यं तु सिद्धे वदति यदि तदप्युत्तरत्रोपरोध्यम् ॥ ८३ ॥
व्याकुर्वन्ति क्रियाप्रेरकमिह वचनं चोदनायुद्युक्तिवेद्यं तस्यानाम्नायसाम्यान्नियतमिदमतिव्यापि धर्मस्य लक्ष्म । मैवं वेदत्वयोगे सति खलु पुरुषप्रेरकं वाक्यमेतद्वेदोक्तार्थे तु धर्मे कथय कथमतिव्याप्तिरव्यापनं वा ॥ ८४ ॥
यश्चाहिंसादिधर्मश्श्रुतिभिरभिहितस्सोऽपि ताभिः प्रतीतस्स्याद्धर्मो बाह्यतन्त्रैस्तदवगतिरवस्थाप्यते निष्फलेति । स्वाध्यायाधीतिसिद्धग्रहणफलधिया धर्मसिद्धिर्नियाम्या तस्माद्बौद्धागमाद्यैरिह तदवगतिर्गोपनिर्मन्थ्यवत्स्यात् ॥ ८५ ॥
धर्मोऽधर्मश्च लक्ष्यौ समुपनिपततश्चोदनालक्षणोक्त्या तत्राधर्माद्विभागं प्रकटयितुमसावर्थशब्दः प्रयुक्तः । अर्थ्यत्वादार्यभावादभिमतफलनिष्पादकत्वाच्च तस्मिन्नर्थत्वं भाति केचिद्विदुरभिचरणाक्षेपकं त्वर्थशब्दम् ॥ ८६ ॥
न भ्रातृव्यस्य हिंसा मरणमभिमतं मारणं श्येनपूर्वं तच्चाभीष्टाभ्युपायश्श्रुतिविहित इति क्वार्थशब्दोऽत्र सार्थः । सत्यं हिंसा पशूनां सुहिततममतस्सा चिकित्सोपमा स्यान्नैवं शत्रोरतस्तद्धनननिरसने सार्थको ह्यर्थशब्दः ॥ ८७ ॥
॥ इति धर्मलक्षणाधिकरणम् ॥