[highlight_content]

सिद्धधर्मविजयमङ्गलदीपिका

NOTE: This is unpublished till date and brought out from a manuscript, here Page # are kept the same as in the manuscript for easy checking. There are few missing words and words that are not clear in the original, kindly request learned community to highlight the same and write to me at ayeenarasimhan @ gmail.com

 

 

सिद्धधर्मविजयमङ्गलदीपिका

                                  – श्रीनिवासदास:

वरवरमुनिवर चरणौ तरुण सरोजातमृदुल रमणीय्यौ।

अपि मम शिरस्य कस्मात् करुणा परिणामदापितौ कलये॥

 

लक्ष्मणार्या क्षरानीता पाराशर्यवसस्सुधा।

सौम्योपयन्त्य योगीन्द्र दययात्र प्रकाश्यते॥

अथ-ये च वेदविदो विप्रा ये चाध्यात्म विदोजना: ।

ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्॥

            इत्युक्त सिद्धधर्म विचारात्मिकां ब्रह्ममीमांसां स्वयमेव आरभमाणो भगवान् बादरायण: प्रथमं शास्त्राणां चेतन यत्न साध्ये सलक्षणे मानान्तरानवगते च पुरुषार्थरूपे धर्म एव प्रमाणभावावगमात्तद्विपरिताकारत्वाच्च। ब्रह्मण: तस्मिन्नवेदान्तानां प्रमाणभावासम्भव इति नेयमारम्भणीय्या स्यादिति पूर्वपक्षं प्रतिक्षिथ तदारम्भं साधयत्यथात इत्यादिना सूत्रचतुष्टयेन तदुक्तमभियुक्तै:– व्युत्पत्त्यभाव: प्रतिपत्ति द्यौस्थ्यमन्येन सिद्धत्वामथाफलत्वम् एतानि वै सूत्र चतुष्टयेन अनारम्भमूलानि निराकृतानीति। तत्र कार्य एवार्थे शब्दशक्त्यवधारणादव्याजसिद्धतया  ‘येनाक्षरं पुरुषो वेदसत्यम् इति।सत्य शब्दवाच्यस्य सिद्धधर्मभूतस्य ब्रह्मणो जिज्ञास्यस्य तथात्व विरहाच्च।न तत्र वेदान्ता: प्रमाणमिति नेयमारम्भणीय्या स्यादिति अत आह– “अथातो ब्रह्मजिज्ञासा” इति। अथ– कर्मविचारानन्तरं, अत: – कर्म विचारस्य कृतत्वाद्धेतो:, ब्रह्मजिज्ञासा– ब्रह्मज्ञानेच्छा–ब्रह्माधिगम इति यावत्।इच्छाया: – इष्यमाण प्रधानत्वात् – स कर्तव्य इत्यर्थ:।अयं भाव:– बालान्मातृपितृ पित्रप्रभृतिभि: अम्बा, तात, मातुलादिषु तत्तदभिधायिन: शब्दात् प्रयुञ्जानैस्सहस्रशश्शिक्षितानां सिद्धेष्वपि तत्तदर्थेषु शब्दशक्त्यवधारणदर्शनात् सिद्धधर्मभूतं परं ब्रह्म वेदान्ता: प्रतिपादयन्त्ये वेति नोक्त दोष इति। अथैवमपि सिद्धधर्मभूतस्य ब्रह्मणो लक्षणवैधुन्नतत्र

Page-2

वेदान्ता: प्रमाणमिति।तद्दोषतादवस्थ्यमित्य आह– ‘जन्माद्यस्य यत:’ इति।अस्य विविध विचित्रभोग्य-भोक्तृपूर्णस्य जगतो जन्म-स्थिति-लयमोक्षा: यतो तद्धेतुकास्तत् ब्रह्मेत्यर्थ:।अयं भाव:– असङ्कुचित सर्वकारणत्वरूपस्य, सिद्धधर्मलक्षणस्य सत्त्वात्तेन लक्षणेन ‘यतो वा इमानि’ इत्यादिवाक्यं ब्रह्मप्रतिपादयितुं शक्नोत्येवेति न पूर्वोक्त दोष इति। अथैवमपि जगत्कारणभूतस्य ब्रह्मणो महीधराधिकं सकर्तृकं कार्यत्वात् घटादिवत् इत्यनुमान प्रमाणगम्यत्वेन न तत्र प्राप्ताभिधानस्वभावं शास्त्रं प्रमाणं भवितुमर्हतीति पुन: तद्दोषतादवस्थ्यम् इत्यत्राह– ‘शास्त्रयोनित्वात्’ इति। शास्त्रयोनि: कारणम् प्रमाणं यस्य तच्छास्त्रयोनितत्त्वात् । ब्रह्मण: शास्त्रैक प्रमाणकत्वादित्यर्थ:।अयं भाव:।कुलालादि सजातीयस्य कस्यचिज्जगत्कारणत्वेनानुमान प्रमाणगम्यत्वेऽपि सर्वजगन्निमित्तस्यैव स त उपादानभूतस्य सर्वज्ञस्य सर्वशक्तस्य सत्यसङ्कल्पस्य सहायान्तर निरपेक्षस्याखिलहेयप्रत्यनीकस्य निखिलकल्याणगुणैकतानस्य अवाप्तसमस्तकामस्य सर्वविलक्षणस्य ब्रह्मण: पुरुषोत्तमस्य प्रमाणान्तरागम्यत्वेन तत्र शास्त्रप्रामाण्यादि विरोधात् नोक्त दोष इति।अथैवमपि प्रवृत्तिनिवृत्त्यन्वयाविरहिणो ब्रह्मण: अपुरुषार्थत्वात् पुरुषार्थवबोधिशास्त्रं न ब्रह्म प्रतिपादयतीति पुनरपि तद्दोषतादवस्थ्यमित्यत्राह –”तत्तुसमन्वयात्’। ‘तु’ शब्द: प्रसक्ताशङ्कानिवृत्त्यर्थ:।तत्पूर्वसूत्रोदितं ब्रह्मण: शास्त्रयोनित्व समन्वयात् पुरुषार्थतयान्वयात् वेदितुर्निरतिशयानन्द स्वरूपत्वेन परमपुरुषार्थतया वेद्यत्वेन अन्वयात् ब्रह्मण: शास्त्रप्रमाणकत्वं सिद्ध्यत्येवेत्यर्थ: अयं भाव:।अनादिकर्मरूपाविद्यावेष्टन तिरोहितपरावर तत्त्वयाथात्म्य स्वरूपावबोधानां देवासुरगन्धर्व- विद्याधर- सिद्ध- किन्नर- किंपुरुष- राक्ष:- पिशाच- मनुज- पशु- शकुनि- सरीसृप- वृक्ष- गुल्म – लता- दूर्वादीनां- स्त्री- पुं- नपुंसक- भेदभिन्नानां क्षेत्रज्ञानां व्यवस्थित धारक पोषक भोग्यविशेषाणां स्वरूपगुणविभवचेष्टितै: अनवधिकातिशयानन्द जननं परब्रह्मस्तीति बोधय देववाक्यं प्रयोजनपर्यवसायि।

Page-3

प्रवृत्तिनिवृत्ति निष्ठन्तु यावत्  पुरुषार्थान्वयबोधनं न प्रयोजनपर्यवसायीति ब्रह्मण: शास्त्रप्रमाणकत्वेन कोऽपि विरोध इति।ब्रह्ममीमांसा कर्तव्यैवेति।एवं प्रथमसूत्रात्मकेन जिज्ञासाधिकरणेन सिद्धधर्मभूतस्यैव ब्रह्मण: सर्ववेदान्तवेद्यत्वमुक्तम्।अथ द्वितीय्यसूत्रात्मकेन जन्माद्यधिकरणेन सर्वकार्यकारणत्वमेव तस्य लक्षणम् इत्युक्तम्।अथ च तृतीय्य सूत्रात्मकेन शास्त्रयोन्यधिकरणेन तस्य सिद्धधर्मभूतस्य ब्रह्मण: सहायान्तरनैरपेक्ष्यादिना सकलेतर विलक्षणत्वेन शास्त्रैकसमधिगम्यत्वं प्रतिपादितम्।अनन्तरं च चतुर्थसूत्रात्मकेन समन्वयाधिकरणेन यथा ‘स्व वेश्मनि निधिरस्ति’ इति वाक्येन निधिसद्भावं ज्ञात्वा तृप्तस्सन् पश्चात्तदुपादाने च प्रवर्तते। यथा च “कश्चितद्राजकुमारो बालक्रीडासक्तो नरेन्द्र भवनान्निष्क्रान्तो मार्गात् भ्रष्टो नष्ट इति राज्ञा विज्ञात: स्वयं चाज्ञातपितृक: केनाचिद्द्विजवर्येण वर्धितोऽधिगतवेद शास्त्रष्षोडश वर्षस्सर्वकल्याणगुणाकरस्तिष्ठन् पिता ते सर्वलोकाधिपति गाम्भीर्यौदार्यवात्सल्य शौर्यपराक्रमादि गुणसम्पन्न: त्वामेव नष्ठं पुत्रं दिदृक्षु: पुरवरे तिष्ठतीति केनचिदभियुक्ततमो न प्रयुक्तं वाक्यं शृणोति चेत् तदानीमेव अहं तावत् ज्जीवित: पुत्रोऽस्मत् पिता च सर्वसम्पत्समृद्ध इति निरतिशय हर्षसमन्वितो भवति।राजा च स्वपुत्रमरोगमति मनोहरदर्शनं विदितसकलवेद्यं श्रुत्वा”ऽवाप्तसमस्तपुरुषार्थो भवति।पश्चात् तावुभौ सङ्गच्छेत् एवमेव निखिलजगज्जनकमनवधिकातिशयानन्दां ब्रह्मावगमयता वेदान्तवाक्येनापि स्वयं प्रयोजनरूप तद्विषयक ज्ञानोपासनादि जननाद्वेदान्तानां प्रयोजनपर्यवसायितया ब्रह्मण: तद्वेद्यत्वमुपपद्यत इत्युक्तिमुखेन सिद्धधर्मभूतस्य ब्रह्मण: परमप्राप्यत्वं प्रपञ्चितम्।इत्थमधिकरण चतुष्टयेनाप्यव्याजसिद्धतया सर्ववेदान्तवेद्य सकलजगज्जन्मादिकारण सर्वप्रकार विलक्षणपरमप्राप्य ब्रह्मविषयकतया स्वयं प्रयोजनभूतो ब्रह्मविचार: कर्तव्य: इति शास्त्रारम्भ: समर्थित: अथ शास्त्रमारभ्यते॥

Page-4

श्रिय: श्री: सर्वेषां गुरुरपि विरिञ्चाञ्चितपदस्तथाभूतै: भूपै: दिनकरकुलीनैश्च महित:।

निधिर्नाथाधीनां यतिपति नतो रङ्गशयनोयत: पूर्णस्सेयं जयतु परयोगीन्द्र गुरुता।

वेदैक वेद्यस्य सनातनस्य धर्मात्मनश्श्रीरमणस्य पुंस: वचो मयी मङ्गलदीपिकीयं कुर्म:॥

निरासै: कुशलं करोतु – तत्र तावन्निर्हेतुकसिद्धधर्मभूत: श्रिय: पति: परमकारुणिक: सौलभ्य सौशील्यादिसकलकल्याणकरो रिपूणामपि वत्सल: पुंसां दृष्टिचित्तापहारीदिव्यसुन्दर विग्रहस्सर्वेश्वर एव सर्ववेदवेद्य:। तत्र सर्वदेवतान्तरात्मा सर्वकर्मसमाराध्य: सकलफलप्रदस्सिद्धधर्मभूत: पुरुषोत्तम एवार्थ: प्राधान्येनाग्नीन्द्राधाराधनरूप यज्ञादि साध्यधर्म पूर्वभागवेद्य: – इत्तरभागे तु शब्दकोऽर्थतश्चोभयथापि प्राधान्येन स साक्षादेव वेद्य इत्येतावानेव विशेष:। एतद्विशेषाभिप्रायेणैव हि उत्तरभागस्योपनिषदिति समाख्या प्रवर्तिता। तदाहु: – श्रुतप्रकाशिकाचार्या: – ब्रह्मण्युपनिषूण्णोत्युपनिषत् – उपनिषण्णत्वाद्वा उपनिषदीति हि वाक्यम्। गहने धीयं विद्यासन्निविष्टेति तद्विषयं द्रविडभाष्यम्। गहने ब्रह्मण्युपनिषण्णेति तद्विषया वामनटीका – अद्वारक भगवत्प्रतिपादकत्वमुपनिषण्णत्वमिति श्रीभाष्ये च – श्रुतिशिरसिदीप्त इतीमं विशेषमभिप्रेत्यैवह्यनुगृहीतम् – तथा च पूर्वभागे यज्ञादीनांशा॥

श्रीमत् भवतोचितैश्वर्य धुर्यसेनेश्वरायितान्।

संश्रयामि वाधूलश्रीनिवासमहागुरून्॥

परं तत् गरुडारूढं तत्त्वं यस्य वशं पदम्।

तथास्थितिगतिभेजे तमीढे स जीयात् घनदेशिक:॥

यदीय्यानां वृषाद्रीश: स्वीय्यदास्याभिधा ददौ।

तस्मात् गुरुकूटस्थं श्रीनिवासगुरुं भजे॥

श्रीरङ्गशायि तत्ब्रह्म गूढं प्राणवशी पुटे।

यस्याभूत् गौरवे साक्षी तमीढे वरयोगिनम्॥

Page-5

अष्टादश प्रबन्धैस्तत् गोष्ठीपूर्णादृतं रह:।

यस्सर्वसुलभं चक्रे तं वन्दे लोकदेशिकम्॥

योऽवतीर्य पुनर्भूमौ यतीन्द्रप्रवणात्मना।

प्रोवाच भाष्यतत्त्वार्थान्स्तं यतीन्द्रं गुरुं भजे॥

य स्वयं परमाचार्य स्वाचार्यश्च यतीशितु:।

मुनिं नाथ सनाथं तं यामुनेयं नमाम्यहम्॥

नाथाद्रि शिखरे श्रीश दयावर्षं ववर्षय:।

तं शठद्वेषि जलदं वन्दे निगम गर्जितम्॥

आलक्ष्मीनाथ मास्मा कीं नत्वा गुरुपरंपराम्।

सिद्धधर्म महौदार्य चिन्तनाय यतामहे॥

पत्युश्रियस्सर्वशुभप्रदातु: भवाब्धिपोतस्य सनातस्य।

मया पिता मङ्गलादि पिकेयं xxxx केळी कबळी करोतु॥

तत्र तावत् निर्हेतुकसिद्धधर्मभूत: श्रिय: पति: परमकारुणिक: सौलभ्य – सौशील्यादि सकलकल्याणगुणकरो रिपूणामपि वत्सल: पुंसां दृष्टिचित्तापहारि दिव्यसुन्दरविग्रह: सर्वेश्वर एव प्राधान्येन सर्ववेदवेद्य: – तत्र सर्वभुतान्तरात्मा सर्वकर्मसमाराध्य सकलफलप्रद सिद्धधर्म भूत: पुरुषोत्तम एव अर्थ प्राधान्येन साध्यधर्मपर पूर्वभागवेद्य: उत्तरभागे तु शब्दान्तोऽर्थश्चोभयतोऽपि प्राधान्येन स साक्षादेव वेद्य इत्येतावानेव विशेष: । तद्विशेषज्ञापनायैवोत्तरभागस्योपनिषदीति समाख्यावेदपुरुषेण प्रवर्तिता। उपनिषण्णत्वाद्वोपनिषदीति हि वाक्यम्। गहने हि इयं विद्यासान्निविष्टेति द्रमिडभाष्यम्। गहने ब्रह्मण्युपनिषण्णेति तद्विषयावामनटीका। अद्वारक भहवत्प्रतिपादकत्वम् उपनिषण्णम्। अत एव आह भगवान् भाष्यकारोऽपि श्रुति शिरसि विदीप्र इति।तथा च

Page-6

पूर्वभागे यज्ञादिना राजपुरुषशब्दे राजपरुषस्येव शाब्दप्राधान्येपि तस्याकिञ्चन करत्वात् सिद्धधर्मभूत: पुरुषोत्तम एव प्राधान्येन सर्ववेद्य इत्युपपन्नम् – तदित्थं पुरुषोत्तमस्स्वयमेवाह – श्रीगीतोपनिषदि । ‘वेदैश्च सर्वै: अहमेव वेद्य:’ इति।

ननु भगवत: सर्ववेदवेद्यत्वेऽपि धर्मत्वेनाकारेण न तस्य तथात्वं सम्भवति – ‘चोदनालक्षणार्थो धर्म:’ इत्युक्तस्य धर्मलक्षणस्य सिद्धे तस्मिन्न सम्भवादिचेन्न; तस्य साध्यधर्ममात्रलक्षणस्य सिद्धधर्मभूते भगवत्यसम्भवेऽपि सिद्धधर्मसाधारणस्य अलोकिकत्वे सति श्रेयस्साधनत्वरूपधर्मलक्षणस्य भगवत्यनपायात्।तदिदं धर्मत्वस्य सिद्धस्तु साधारण्याङ्गीकारेणोक्तम् अभियुक्तै: – द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते तेषाम् इन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मतेति नेवमपि – भगवतो धर्मत्वेनाकारेण सर्ववेदवेद्यता न घटते। अत एव मीमांसाशास्त्रादौ ‘अथातो धर्मजिज्ञासा’ इत्येषा कर्मब्रह्मपर तत्पूर्वापरभागद्वय साधारणी महर्षि कृता जिज्ञास प्रतिज्ञाप्युपपद्यते। नन्वेवमपि भगवतो धर्मत्वेनाकारेण सर्ववेदवेद्यता न सङ्घटते। तस्य तथात्वेन पूर्वभागवेद्यत्वासम्भवात्। तथा हि – किं सिद्धधर्ममात्रं स्वर्गादिफलकरणत्वेन पूर्वभागवेद्यम् उत सिद्धधर्मसाध्यधर्मोभयमपि – नाद्य:; साध्यधर्म सामान्यस्य जलाञ्जलि प्रसंगात्। न द्वितीय्य: एकैकफलस्यैकैक करत्वनियमभङ्ग: प्रसङ्गात्। तस्मात् स्वर्गादिफलं प्रति ज्योतिष्टोमादिनामेव करणत्वेन भगवतो धर्नत्वेन पूर्वभागवेद्यता दुर्वचैवेति चेन्न: त्रैवर्गिकफलसामान्यं प्रत्पापि सिद्धधर्मस्यैव करणत्वे

बाधकाभावात्। न च साध्यधर्मसामान्यस्य जलञ्जलिप्रसङ्ग:। तेषां स्वर्गादि तत्तत्फलरूपश्रेयस्साधनत्वाभावेऽपि ‘यजदेव पूजायाम्’ इति धातु पाठादिभि: भगवदाराधनात्मकत्वेनावगतानां तेषां स्वयं प्रयोजनभगवत्प्रीतिरूप श्रेयस्साधनत्वेन तेनाकारेण तेषामवश्यानुष्ठीयत्वात्। न चैवं त्रैवर्गिकफलानामपि निरपेक्षसिद्धोपायसाध्यत्वे सर्वेषां सर्वसिद्धफलप्रसङ्ग इति वाच्यम्। दृष्टार्थक साध्यधर्मानुष्ठितेऽपि न फलसिद्धि: दृश्यते ।तत्र यथावा भवद्भि: प्रतिबन्धकसद्भाव: कल्प्यते तथैव अस्माभिरपि तत्र तत्र प्रतिबन्धकविशेष सद्भावभ्युपगमेनैव तत्प्रसङ्ग वारणा सम्भवात्,

Page-7

न च साध्यधर्माणां तत्तत्फलसाधनतावाचिशास्त्रविरोधश्शङ्का: तेषां शास्त्राणां वस्तुस्वभावेन तत्तत्फलप्रतिबन्धकनिग्रहविशेष, भगवत्कालुष्यशक्तस्य भगवत्प्रीति विशेषसाधनताभिप्रायकत्त्वात्। किञ्च न ह्याशुतरविनाशिनां यज्ञादीनां अपूर्वद्वारमन्तराकात्वान्तर भाविफलजनकत्वसम्भव:। अपूर्वन्तु सिद्धान्ते भगवत्प्रसाद एव। प्रसादो नाम कालुष्य शान्तिरेवेति सार्वजनीनम्।तस्याश्वकालुष्य शान्ते: तत्तत्फलप्रतिबन्धक निग्रहविशेषशान्तिरूप भगवत्प्रसादात्मकापूर्वजाते सहज सार्वज्ञेन तत्तत् अपोदित: सिद्धधर्मभूत: पुरुषोत्तम: स्वाभाविकौदार्यविशिष्टेन स्वात्मनैव तत्तदपेक्षितं ददातीत्येव वक्तव्यत्वेन गत्यन्तराभावाच्च।

ननु प्रतिबन्धक निवृत्तिमात्रार्थकेषु लोके साधनत्व व्यवहारस्यादृष्ट चरत्वेन कर्मसु तदव्यवहारोपत्तये। देवता कर्तृकफलप्रदानसङ्कल्परूपापूर्वद्वारेणैव तेषां हेतुत्त्वं वक्तव्यम् इति चेन्मैवम् ; स्वालोक विकासैरस्माकं चाक्षुषज्ञानप्रतिबन्धकसन्तमस निबर्हणमात्रेणोप कुर्वाणेषु दीपादिषृप्यर्थ प्रकाशसाधनत्व व्यवहारस्य दृष्टचरत्वेन तद्रीत्यैव कर्मणांफलसाधनत्व व्यवहारसामञ्जस्ये सति कर्मादीनां भगवत्प्रसादसाधनत्वसम्प्रदाय परित्यागेनासाम्प्रदायिक सङ्कल्पद्वारता कल्पनस्यासामर्थ्यकृतत्वापातात्। किञ्च कर्मादीनां फलप्रदानं सङ्कल्पं प्रति हेतुत्व स्वीकारे तथा विध कर्मकर्तृविषये भगवत: फलप्रदान सङ्कल्पस्य राज्ञे भटविषये प्रतिप्रदानसङ्कल्पतुल्यत्वेनार्थिकार्थ परिदान दीक्षितत्त्वरूपभगवदौदार्यस्य अनवकाशपराहतत्वेन जलाञ्जलिदानप्रसङ्गाच्च। अन्यच्च – कर्मादीनां फलसाधनत्वाभ्युपगमे तेषां अपि कृत्वा दिव्यापारवत् स्वातिशयार्थप्रवृत्तिरूपत्वेन तेषां केवलभगवदतिशयाधायकत्वरूप भगवदाराधनत्वाकारभङ्ग प्रसङ्गाच्च। न चास्मन्मतेऽपि तत्प्रसङ्गश्शङ्का:। तत्तत्फल प्रतिबन्धक निग्रहक विशेषशान्तिरूप प्रसङ्गादविशेषमुद्दिश्य तत्तत्कर्माद्यनुष्ठानेऽपि स्वयं प्रयोजन भगवत्प्रीतिमात्रोद्देशेनानुष्ठितै: कर्मादिभि: जनिताया: भगवत्प्रीते: वस्तुस्वभावेन तत्कालुष्यनिवर्तकतया कर्मादीनां तथाविध कालुष्य निवृत्तौ प्रसङ्गादुपकारकत्वात्।अत एव हि

Page-8

कर्मादयस्सर्वेऽपि तत्तत्फलं प्रति व्याजभूता एवेति पूर्वाचार्यै: तत्र तत्रोद्बाहुतयोद्घुष्यन्ते । किं बहुना? तत्तत्कर्मविशेषस्वरूप याथात्म्य ज्ञानरहितैश्चेतनै: अयथावस्थिता कारेण तत्तत्कर्माद्यनुष्ठानेऽपि स्तनन्धय प्रजाप्रवृत्तिविशेषदर्शनेनात्यन्त वत्सतौ मातापिरताविव स्वाभाविक वात्सल्येन पुरुषोत्तम:। स्वत एव प्रीतो भूत्वा शास्त्रास्तिक्य देहात्मविवेकाद्युत्तरोत्तरावस्थारूप परमपदारोहण सन्मार्गसोपानारोपणेन तत्तत् चेतानानुज्जीवयितु काम: स्वाभाविकौदार्य विशेषेण स्वत एव तत्तदपेक्षित फलानि ददातीतित्येव तत्त्वतश्शास्त्रैरवगम्यते। तदिदमाहस्वयमेव भगवान् पार्थसारथि: –

यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति।

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्॥

स तया श्रद्धया युक्त: तस्याराधनमीहते।

लभते च तत: कामान् मयैव विहितान् हि तान्॥

इति अस्य च भाष्यम्।  सर्व एव हि लौकिका: पुरुषा: स्वया प्रकृत्या स्ववासनया गुणमयभावविषयया नियतस्तैस्तै: स्ववासनारूपैर्गुणमयैरेव कामैरिच्छाविषयभूतै: श्रुतमत् स्वरूपविषयज्ञाना: तत्तत्काम्यसिद्ध्यर्थम् अन्यदेवतां अर्चयन्त: रिक्ता: केवलेन्द्रादिदेवतास्तत्तन्नियममास्थाय तत्तद्देवताविषयमात्रप्रीणनासाधारण नियममास्थाय प्रपद्यन्ते। ता एवाश्रित्यार्चयन्ते। ता अपि देवतामदीय्यास्तनव: – ‘य आदित्ये तिष्ठन् यमादित्यो न वेद, यस्यादित्य: शरीरम्’ इत्यादिश्रुतिभि: प्रतिपादितामदीय्यास्तनव इत्यजानन्नपि – ‘यो यो यां यां इन्द्रादिकां तनुं भक्त: श्रद्धयार्चितुमिच्छति। तस्यतस्या जानतोऽपि मत्तनुविषयै श्रद्धेत्याहमनुसन्धाय तामेवाचलां निविघ्नां विदधामि। स तया निर्विघ्नया श्रद्धया– युक्तस्येन्द्रादे: आराधनं प्रतीहते। ततो मुक्तानुभूतेन्द्रादि देवताराधनात्। स्वाभिलषितान् कामान् मयैव विहितान् लभते। यद्यप्याराधनकाल इन्द्रादयोमदीय्यास्तनवस्तव एव तदर्चनं च मदाराधनमिति न जानाति तथापि तस्य वस्तुतो मदाराधनत्वात्।आराधकाभिलषित महमेव विन्दयामीति।

Page -9

अत्र चेतनापेक्षादर्शनमात्रेण भगवत: स्वाभाविकौदार्येणैव तत्तदपेक्षितफलप्रदान तद्व्याजभूतसाध्यधर्मप्रवर्तन तद्धेतुभूत श्रद्धाप्रवर्तनादि कार्यकर्तृत्वां स्पष्टमुक्तं द्रष्टव्यम्।तस्माद्धर्मत्वेनाकारेण भगवत: पूर्वभागवेद्यत्त्वात् तेनाकारेण तस्य सर्ववेद वेद्यत्वाम् उपपद्यत एवेति दिक्; नन्वेवं कर्मनिरपेक्षस्य भगवतस्स्वाभाविकौदार्येणैव सकलफलप्रदत्वस्वीकारे तस्य सर्वसमत्वेन महोदारतया सर्वेषामसङ्कोचेन सकलफलप्रदानप्रसङ्ग: निरङ्कुश स्वातन्त्र्येणैव तत्परिहारे च तस्य वैषम्य– नैर्घृण्य प्रसङ्ग इतिचेत् सत्यं भगवत: सर्वसमता महोदारता च विद्यते एव। य एवमाह – प्रयोजनान्तर परविषयेप्युदारा: सर्व एवैते इति। ये मत्तो यत् किञ्चिदपि गृह्णन्तितेऽपि मम सर्वस्वदायिन इति हि तद्भाष्यम्। तथापि नातिप्रसङ्ग:। युष्माभि: कर्मादीनां फलतारतम्य प्रयोजका पूर्वतारतम्य हेतुता स्वीकारवत् अस्माभिरपि प्रतिबन्धकनिवृत्तितारतम्य स्वीकारादेव प्रयोजकता स्वीकारादेव तत्प्रसङ्गपरिहारात्। यद्वा —  तत्तत्कर्मजनिताया भगवत्प्रीते: तत्तत्फलप्रतिबन्धकनिग्रह शामकत्व स्वाभाव्येऽपि तथा विद्यानुग्रहभावेनानुग्रहरूप प्रतिबन्धकविशेषैरेव फलप्रदानतारतम्य उपपत्तेश्च। सम्भवन्ति हि अनादिकालमारभ्य तच्चेतनोज्जीवनेच्छया व्याप्ति सृष्ट्यवतारादिभि: कृषिपरंपरा विधायिन: परमपुरुषस्य स्वसङ्कल्पकल्पित तत्तद्यादृच्छिक प्रासङ्गिकादि सुकृत विशेषमूलकास्त्रैवर्गिकफलानुभव तद्वासनारुचिनिवृत्तिगोचरास्वात्म्यैक वेद्यानानाविधा: सङ्कल्पा:। अत एव हि उच्यते

याचितोऽपि सदाभक्तैर्नाहितं कारयेद्धरि:।

बालमग्नौपतन्तं तु माता किन्न निवारयेत्॥

इत्यादि तस्माद्धमत्वेन आकारेण भगवत: पूर्वभागवेद्यत्वे विरोधाभावेन तस्य तथात्वेन सर्ववेदवेद्यत्वं युज्यत एवेति निरवद्यम् । नन्वेवं सति सिद्धधर्मभूतस्य भगवत: तथात्वेन उत्तरभागवेद्यत्वासम्भवात्। पुन: तद्दोषतादवस्थ्यम्। तथा हि – सिद्धधर्मस्योत्तरभागवेद्यत्वम् – किं स्वस्वरूपाविर्भावरूपफलकरणत्वेन उत प्रतिबन्धकनिवृत्तिरूप मोक्षकरणत्वेन वा – नाद्य:; भिन्ने सेतौ जलनिर्गमनस्येव स्वतस्सिद्धस्वरूपाविर्भावस्यान्यानपेक्षत्वात्–

Page-10

नापि द्वितीय्य: – तत्तत्फलप्रतिबन्धक निवृत्ते: तत्तत्साध्यधर्मायत्तत्वस्य त्वयैव स्थापितत्वादिति वेदान्तशास्त्रफलं प्रति भगवत: करणत्वासम्भवेन तेनाकारेण तस्य तद्भागवेद्यता न सम्भवत्येव इति चेन्मैवम्। सिद्धधर्मस्यैव मोक्षकरणत्वे बाधकाभावात् । न च तस्य साध्यधर्मायत्तत्वशङ्का: साध्यधर्माणां प्रसङ्गात्। तत्तत्काम्यफलप्रतिबन्धक भगवत्कालुष्य निवृत्ति योजकत्वस्य पूर्वमुक्तावपि मोक्षं प्रति तेषां तथात्वस्यास्माभिरनुक्तत्वेन मोक्ष प्रतिबन्धक भगवत्कालुष्यासम्भवेन च तदयोगात्।न हि य स्वयमवाप्तसमस्तकामोऽपि परमपुरुषार्थलक्षण मोक्षप्रदानेन सकल चेतनोज्जीवयिषयैव युगपत्सकल जगत्सर्गकरणकलेबर दान सर्वजगद्व्यापन- सर्वप्रकारनियमनसत्त्वप्रदर्शन शास्त्रप्रवर्तन स्वावतारचेष्टित- स्वसौन्दर्याविष्करण निग्रहानुग्रहतत्तत्फल- प्रदानादिकं सर्वं क्रियासमभिहारेण नित्यतमातिष्ठते। सत्यसङ्कल्पस्यानालोचित विशेषाशेषलोकशरण्यस्य तथा विध मोक्षप्रदान प्रतिबन्धककालुष्य लेशसद्भावशङ्का सम्भावनागन्धमप्यर्हति। तस्मान्मोक्षार्थ प्रसादस्य भगवत: स्वतस्सिद्धत्वेन तद्द्वाराभगवानेव मोक्षकारणमिति न साध्य धर्माणां तत्प्रयोजकत्व सम्भव:। किञ्च अनन्य प्रयोजनस्य मुमुक्षो: ब्रह्मविद्याधिकारिण अत्यन्तानुकूल्य व्यवसिततया तद्विषये भगवर एव साधुकर्मकारयितृत्वेन तत्कारितब्रह्मविद्यादे: मोक्षसाधनत्वा योगाच्च। यत् कर्मचेतन स्वातन्त्र्यमूलकं तदेव हि तत्फलसाधनं परमात्मानुमिति मात्रेण चेतनस्वातन्त्र्य साध्यम्।तदेव हि तन्निग्रहानुग्रहादिरूपफलसाधनं भवतुमर्हति। न च वायूदकादि प्रेरितस्येवात्यन्त परवशस्य भगवत्प्रेरितस्य तद्बलात् कारकारितं कर्म। तदिदं सर्वमहिसन्धायानुग्रहीतं वेदार्थसङ्ग्रहे–

ननु सर्वस्यजन्तो: परमात्मान्तर्यामी तन्नियाम्यञ्च सर्वमित्युक्तम्। एवञ्च सति विधिनिषेधशास्त्राणां अधिकारी न दृश्यते। यस्स्वबुद्ध्यैव प्रवृत्ति- निवृत्ति शक्तस्य एव कुर्यान्नकुर्यात् इति विधिनिषेधयोग्य:। न चैष दृश्यते सर्वस्मिन् प्रवृत्तिजाते सर्वस्य प्रेरक: परमात्मा कारयतीति तस्य नियमनं प्रतिपादितम्। तथा च श्रूयते – ‘एष एव साधु कर्म कारयति तं यमेभ्यो

Page-12 (Note: Page-11 is blank)

लोकेभ्योऽधोनि नीषति’ इति साध्वसाधुकर्मकारयितृत्वात्  नैर्घृण्यञ्च । अत्रोच्यते – सर्वेषामेव चेतनानां चिच्छक्तियोग: प्रवृत्तिशक्तियोग: इत्यादि सर्वं प्रवृत्ति निवृत्ति परिकरं सामान्येन संविधाय तन्निर्वहणाय तदाधारो भूत्वान्त: प्रविश्यानुमन्त्रितया च नियमनं कुर्वन् शेषित्वेनावस्थित: परमात्मा एतदाहित शक्तिस्सन् प्रवृत्तिनिवृत्त्यादि स्वयमेव कुरुते। एवं कुर्वाणमीक्षमाण: परमात्मोदासीन आस्ते– अतस्सर्वम् उपपन्नम्।   साध्वसाधुकर्मणो: कारयितृत्वं व्यवस्थितविषयं न  सर्वसाधारणम्। यस्तु पूर्वं स्वयमेवातिमात्रमानुकूल्ये प्रवृत्त: संप्रतिस्वयमेव भगवान् कल्याण बुद्धियोगदानं कुर्वन् कल्याणे प्रवर्तयति – य: पुनरतिमात्रं प्रातिकूल्य प्रवृत्तस्य क्रूरां बुद्धिं ददन् स्वयमेव क्रूरेष्वेव कर्मसु पूरयति भगवानिति – नन्वेव मप्यत्यन्तप्रातिकूल्य व्यवसित चेतनवृत्तिनामपि भगवन्निग्रहादि साधनत्व प्रसङ्गपरिहारार्थं तद्विषये भगवत: क्रूरकर्मप्रेरयितृत्वादिनामपि तदीयप्रातिकूल्यव्यवसायफलत्वस्येवावश्यवक्तव्यतया प्रातिकूल्य व्यवसायस्यैव तदुत्तर सर्वफलसाधनत्व सिद्धिददानुकूल्य व्यवसित विषयेऽपि भगवत: कल्याणप्रेरयितृत्वादीनां तच्चेतनीयानुकूल्य व्यवसायफलत्वेन तदानुकूल्यव्यवसाय एव तदीय मोक्षपर्यन्तफलसाधनमस्त्विति चेन्न; स्वतो भगवत: संसारि चेतनाध:पातेन पूर्वमेव प्रवृत्तत्त्वाभावेन चेतन कर्तृक प्रातिकूल्य व्यवासायस्य प्रथमप्रवृत्तिरूपत्वादनुमितिमात्ररूपत्वाभावाच्च। तस्येतदुत्तर भगवन्निग्रहादिफलप्रदानत्व सम्भवेऽपि सर्वचेतनहित प्रवर्तने भगवत: स्वत: पूर्वमेव प्रवृत्तत्वेन चेतनकर्तृकानुकूल्य व्यसायस्य केवलभगवद्रक्ष्यत्वानुमतिरूपत्वेन प्रथम प्रवृत्तित्वाभावेन च। तस्य तदुत्तरफलसाधनत्वायोगात्। तदिद प्रथमप्रवृत्तेरेव फलसाधनत्वमनुमते: फलसाधनत्वाभावञ्च भगवान् भाष्यकार: प्रादर्शयत् श्रीभाष्ये। नन्वेवं सति विधिनिषेध शास्त्रानार्थक्यं प्रसज्येतेत्युक्तम् तत्राह कृत प्रयत्नापेक्षस्तु विहितप्रतिषिद्धा वैय्यर्थ्यादिभ्य: सर्वासु क्रियासु पुरुषेण कृतं प्रयत्नमुद्योगमपेक्ष्यान्तर्यामी परमात्मा तदनुमतिदानेन प्रवर्तयति। परमात्मानुमतिमन्तरेणास्य प्रवृत्तिर्नोपपद्यत इत्यर्थ:। अत एतद्विहित प्रतिषिद्धावैय्यर्थ्यादिभ्य: आदिशब्देनानुग्रहनिग्रहादयो

Page-13

ग्राह्यन्ते। यथा द्वयो: साधारणे धने परस्वत्वापादनमन्यतरानुमतिमन्तरेणनोपपद्यते। अथापीतरानुमते स्वेनैवकृतमिति तत्फलं स्वस्यैवभवतीति। अत्र श्रुरप्रकाशिकाचार्याश्च जीवस्य कर्तृत्वं किं परमात्मायत्तं उत स्वायत्तमिति। किं परमात्मायत्तत्वे विधिनिषेधशास्त्रानर्थक्यन्नेति यदानूर्थक्यं तदा स्वायत्तम् यदा न तदा परमात्मायत्तं तदिति व्याख्येयं पदम्। उद्योगमिति प्रथमप्रवृत्तिदशायां परस्योदासीनत्वं दर्शितम्। अन्तरेणेति उत्तर प्रवृत्त: – प्रवर्तनरूपानुमिति दानेनैवोपपद्यते इत्यर्थ:। विहितं विधि: प्रतिषिद्धं प्रतिषेध: निग्रहानुग्रहौ कोपप्रसादौ आदय इति तत्फलदानं परानुमति सापेक्षत्वे विधिनिषेधविषयत्वानुपपत्तिरित्यत्र परानुमतिदानेनैव प्रवृत्त्युपपत्तौ तत्रापि प्रथमप्रवृत्तस्यैव फलभावत्वे च दृष्टान्तमाह – यथेति। साधारणे द्रव्ये परानुमत्या स्वांशमादाय राज्ञ उपायने दत्ते तत्प्रसादहेतुक: – फलान्वय: प्रथमप्रवृत्तस्यैव दृस्यते। न त्वनयमन्तु: – तथेदमित्यर्थ इत्येतदधिकरणभाष्यार्थान् सङ्क्षिपु:। नन्विदं सर्वं तदा शोभते यदीयमेभ्योवेलाकेभ्य उन्निनीषतीति श्रुतिगत यच्छब्दार्थातिमात्रानुकूल्य व्यवसायस्य भवदभिमतानुमतिमात्ररूपत्वं सिद्ध्येत्तदेव न घटते ‘परात्तु तच्छ्रुते:’ इत्यधिकरणभाष्ये – तच्छ्रुत्यर्थव्यवस्थापकतयोदाहृतेन श्रीगीतावचन चतुष्टयेन तच्छ्रुतिगत यच्छब्दार्थानुकूल्यस्य परभक्तिरूपता प्रतितेरिति चेत्; भ्रान्तोऽसि यदेवमन्यथा वदसि – न हि गतैतावचनै: परीक्षकाणां तथा प्रतीति: भवति। पुन: कथमिति  चेदित्थम् एतत्प्रकरण योजना श्रीगीताभाष्यावगता।

एतां विभूतियोगञ्च मम योवेत्ति तत्त्वत: ।

सोविकंप्येन योगेन युज्यते नात्र संशय:॥

इति तच्छ्लोक चतुष्टयात् पूर्वस्मिन् श्लोके भगवता स्वविभूतिविषयकं कल्याणगुणविषयकं च ज्ञानं भवतियोगवर्धनमित्युक्तम्।  अथ कथं तत्त्व द्विभूतियोगज्ञानं त्वत्प्राप्तिहेतुभूतभक्ति विवर्धकं भवेदित्यपेक्षायां – यो तत्त्वतो मद्विभूतियोगज्ञानवन्तस्ते मयि दोषाविष्करणमूलभूतामभ्यसूयामन्तरा मम प्रमाण प्रतिपन्नो विभूतियोग: कल्याणगुणयोगश्चोपपद्यत एवेति तौ सोपपत्ति कौमन्यन्त: परमप्राप्यभूते मयि स्पृहयालवोभवन्ति xxxxx  तथा भूतान्मननस्पृहाभ्यां – रक्ष्यत्वानुमतिरक्षापेक्षारूपाभ्यामप्रतिषेध

Page-14

द्योतकाभ्यां लब्धाकाशोहमनालोचित विशेषाशेषलोक शरण्यं प्रीतिपूर्वकं निरतिशय प्रीतिरूपापन्नं भक्तियोगं दत्वा स्वसौन्दर्याद्याविष्करेण भक्त्यन्तरायभूत विषयान्तर प्रावण्यादि निश्शेषनिवृत्तिहेतुभूत ज्ञानाभिवर्धनेन परिपालयामि। ते चैवं मद्यत्तपरिपालनेन निरतिशय प्रीतिरूपापन्नेन तेन भक्तियोगेन सर्वात्मना मामेव भजमानास्तेनैव मामुपायन्तीति ममर्थं क्रमान्तरेण उपादिशति ‘अहं सर्वस्य प्रभव:’ इत्यादिना श्लोक चतुष्टयेन ‘अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तत’ इति। ‘मत्त्वा भजन्ते मां बुधाभाव समन्विता:’। अहं सर्वस्य विचित्रचिदचित्प्रपञ्चस्य प्रभव उत्पत्तिकारणं मत्त एव सर्वञ्च प्रवर्तत इति। मम स्वाधीन त्रिविधचेतनाचेतनस्वरूपस्थिति प्रवृत्तिकत्वरूपं स्वाभाविकं निरङ्कुशैश्वर्यम्- निरुपाधिक कारुण्य सौन्दर्य सौशील्यादिकल्याणगुणयोगं च मय्यभ्यसूयां विना सर्वमिदमुपपन्नमेवेति मत्वा  बुधा: ज्ञानिन: भावसमन्विता: तथाविधमननान्तरभाविमद्विषयस्पृहारूपमनोवृत्ति युक्तास्सन्त: पश्चान्मद्विषयकात्यर्थ प्रीत्यामया विनात्मधारणा समर्था ‘मां भजन्ते’  इत्यर्थ: । कथं भजन्ते इत्यपेक्षायां भजनप्रकारमेवाह–

मच्चित्ता मद्गतप्राणा बोधयन्त: परस्परम्।

कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥

इति। मच्चित्ता: मयि निविष्ट मनस: मद्गतप्राणा: मया विनात्मधारण सामर्थ्यामलभमाना: स्वै:स्वैरनुभूतात्मधीयान् गुणान् परस्परं बोधयन्त: मदीय्यानि दिव्यानि रमणीय्यानि कर्माणि च कथयन्त: ‘तुष्यन्ति च रमयन्ति च’ इति। कथयन्त: वक्तार: तद्वचनेन अनन्य प्रयोजनेन तुष्यन्ति तथा तन्मुखाम्बोजच्युततया। क्षीरशर्करन्याये निरतिशयभोग्यभुतस्य मत्कथामृतस्य श्रोतारश्च तच्छ्रवणेनानवधिकातिशय प्रियेण रमन्त: इत्यर्थ:। अथ पूर्वश्लोके भावसमन्विता भजन्त इति भावपूर्वकं भजनमुक्तम्। स भाव: कीदृश: तद्भावश्च सान्वयपूर्वकं पूर्वोक्तप्रकारं त्वद्भजनं केनोपायेन कस्माल्लभन्ते तस्य च भजनस्य कीदृशं पर्यवसानं इत्यपेक्षायामाह–

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।

ददामि बुद्धियोगं तं ये नमामुपयान्ति ते॥

इति। तेषां मद्विभूतियोगमन्तृृणां सतत युक्तानां सततयोगं

Page-15

आशंसमानानां इत्यर्थ: । अनेन पूर्वोक्त भावो भगवता नित्ययोगस्पृहा इति विवृत:। भजताम् -इत्यर्थ प्रीतिपूर्वकं पूर्वोक्त प्रकारेण मामेव भजतां तं ब्रह्मयोगं तथा भावपूर्वकं मद्भजनात्मकं बुद्धियोगम् -प्रीतिपूर्वकं ददामि लौकिकानां पुत्र-मित्र-कळत्रादि विषय इव- निरुपाधिक प्राप्तिमात्र निबन्धनया प्रीत्या अहं स्वयमेव ददामीत्यर्थ:। अनेन केन कस्मात् इत्याकाङ्क्षयो: उत्तरमुक्तं भवति। अथ तस्य प्राप्तिपर्यन्तत्वमाह – ‘येन मामुपयान्ति ते’ इति। येन पूर्वोक्तप्रकारेण मद्दत्तेनं परभक्त्यात्मना अतिप्रासिद्धभक्तियोगेन परज्ञान परमभक्त्यात्मना परिणतेन तत्त्वतो मज्ज्ञानदर्शनपूर्वकं ते सत्तायोगमाशंसमाना: मामेव विशन्त इत्यर्थ: । तथा अस्मिन् श्लोके निर्हेतुक प्रीत्यैव पूर्वक परभक्ति योगदानम् – तथा दत्तस्य तस्य प्राप्तिपर्यन्तत्वं चोक्तम्- एतावतैव शान्ताकाङ्क्षमर्जुनं प्रति परमकारुणिको भगवान् ज्ञानि विषये पूर्वोक्त प्रकारेण नाहंयोगमात्रवहनेन आप्तो भवामि अपि तु तद्विषये निर्हेतुक दययैव क्षेममप्यहमेव वहामीति विशेषञ्च स्वयमेवाह –

तेषामेवानुकम्पार्थमहमज्ञानजं तम:।

नाशमाम्यात्मभावस्थो ज्ञानदीपेन भास्वत॥

इति। तेषां भक्तानामेवाहम्। भक्तानां त्वं प्रकाश स इत्युक्तरीत्या भक्तातिशयाधानार्थमेव कल्पितोऽहामित्यर्थ:। अनुकम्पार्थम्- प्राप्तविषय किञ्चित्काराभावेनास्तु कल्पस्य मम स्वाभाविककारुण्यस्य तद्विषय  किञ्चित्कारेण सत्ता सिद्ध्यर्थमित्यर्थ:। आत्मभावस्थ: तेषां मनोवृत्तौ विषयतयावस्थित:। मदीयान् कल्याणगुणाश्चाविष्कुर्वन् मद्विषयज्ञानारव्येन भास्वतादीपेन ज्ञानविरोधिप्राचीन कर्मरूपाज्ञानजं मद्व्यतिरिक्त पूर्वाभ्यस्त विषयप्रावण्यरूपं तमोनाशयामि इत्यर्थ:। एतेनानिष्टनिकृतीष्टप्रापणाभ्यां  साधुपरित्राणस्यैव मत्स्वरूपत्वात् ज्ञानिविषये मया क्रियमाणं सर्वमपि स्वत: प्राप्तत्वेन निर्हेतुकमेवेति भगवतैव स्पष्टं प्रतिपादितमिति। तथा चैवं विध योजनाविशिष्टेऽस्मिन् श्लोकचतुष्टये– ‘एष एव साधुकर्मकारयति तं यमेभ्यो लोकेभ्य: उन्निनीषति’ इति श्रुत्यर्थव्यवस्थापनोपयुक्ततया

Page-16

स्वविवक्षितान् तात्पर्यांशान् भगवान् भाष्यकार: कृतप्रयत्नापेक्षस्तु विहित ‘प्रतिषिद्धा वैय्यर्थ्यादिभ्य:’ इति सूत्रभाष्ये सङ्ग्रहेण स्वयमेवाह –

यस्त्वतिमात्रं परमपुरुषानुकूल्ये व्यवसित: प्रवर्तते तमनुगृह्णन् भगवान् स्वयमेव स्वप्राप्त्युपायेष्वपि कल्याणेषु कर्मस्वेव रुचिं जनयतीति। अत्र य इत्यनेनानुप्रवक्ष्यामि अनसूयमेव शुद्धभावंगतो भक्तेत्युक्ता: शास्त्रार्थव्यवसायहेतुभूता भगवद्विषयाभ्य सूयाराहित्यपरमास्तिकत्वादयो विशेषाविविक्षिता:। तुकार: स्वेरतरवैलक्षण्यद्योतक:। अनेन बुधा इत्यनेन विवक्षितोऽर्थ: सङ्ग्रहिथ:। कार्यमुखेनाभ्यसूयाराहित्यादि ज्ञापनार्थमेव तत्र बुध शब्दस्य प्रयुक्तित्त्वात्। अथ परमपुरुष शब्देन स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थिति प्रवृत्तिभेदतया स्वाभाविका कारुण्यसौन्दर्यसौशील्यवात्सल्यादि सकल कल्याणगुणाकरतया च स्वत एव सकलजगद्धित प्रवृत्तिकस्सिद्धोपायभूत: पुरुषर्षभो विवक्षित:। अनेन अहं सर्वस्य प्रभवो माम् इत्यादि शब्दविवक्षितार्थस्सङ्ग्रहीत:। एवञ्च जगत्सर्वादिभि: सकलजगद्धित प्रवर्तनपूर्वकं स्वानन्यार्हशेषभूत चेतन वस्तु लाभैक समुद्युक्त परमपुरीष विषये ‘त्वम्मेऽहम्मे’ इत्याद्यनुग्रहीतरीत्या चेतनस्य स्वस्वातन्त्र्य प्रयुक्तो विवाद: प्रातिकूल्यम्। तत्परित्यागेनाग्नि इन्द्रादि शेषतया स्थिति: आनुकूल्यम्। ततो भगवच्छेषत्वाभ्युपगम: अत्यानुकूल्यम्। ततो भगवदनन्यार्हशेषभूतोऽहं भगवानेव सर्वशेषीति भगवदेकपरत्वज्ञानं – अतिमात्र परमपुरुषानुकूल्यं तत्र व्यवस्थितत्वं नामकुदृष्टिभिरविचाल्यतया सोपपत्तिकं तन्मनेन दृढाध्यवसाय युक्तत्वम्। अनेन प्रवृत्त इत्यनेन तादृशव्यसायानन्तरभाविभगवत्प्रवृत्ति प्रतिबन्धक स्वप्रवृत्तिनिवृत्तिरूपो यत्नो विवक्षित:। अनेन ‘अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तित’ इति मत्वा इत्यानुलोम्य प्रातिलोम्याभ्यां मनन शेषोक्तिविवक्षितोऽर्थ सङ्ग्रहीत:। न तथा विधव्यवसायानन्तरभावि मनोवृत्तिरूपा प्रवृत्तिरुच्यते। एतेन भाव समन्विता इत्युक्त भगवद्विषयक स्पृहारूपोऽर्थ: संगृहीत:। एतावताप्रबन्धेन – भगवद्विषयाभ्यसूया राहित्य शास्त्रविश्वासादिजनित यथावस्थित भगवद्विभूतियोग तत्त्वज्ञानपूर्वक तन्मन मूलक: – स्वस्वातन्त्र्यादेवतान्तर शेषत्वान्यार्हभगवच्छेषत्वादिरूप भगवत्प्रवृत्तिप्रतिकूलस्वप्रवृत्तिसामान्य

Page-17

निवृत्तिपर्यन्ता यथोक्त स्वरूपातिमात्र परमपुरुषानुकूल्यव्यवसाय एव (परमप्राप्य भगवत्प्राप्यभिलाषा सहिता) यमेभ्यो लोकेभ्य: उन्निनीषतीति श्रुतौ यच्छब्दार्थ इति भगवन्नैरपेक्ष्या विरोधेन व्यवस्थापितो भवति। अथ प्रीतिपूर्वकं ददामीति तृतीयश्लोकस्य पदयो: तेषामेव अनुकम्पार्थमहिमिति चतुर्थश्लोकस्य पदानां चार्थविवक्षया आह – तमनुगृह्णन् भगवान् यमेवेति। अत्र गीतावचने भगवद्कर्तृकबुद्धियोगदानस्य कारणान्तर जन्यत्व शङ्काव्यावृत्त्यर्थं प्रीतिपूर्वकमिति स्वाभाविक भगवत्प्रीतेरेव तत्कारणत्वेनोक्ततया श्रुतिवाक्येप्युन्निनीषतीति चेतनोन्नायनस्य भगवदेकप्रयोजनत्वोक्त्या च अस्यां श्रुतावभिधीयमानस्य साधुकर्मकारयितृत्वस्यापि तत्प्रीतिरेव कारणतयाऽनुसन्धेयेत्यभिप्रायेण तमनुगृह्णन्नित्यनुग्रहीतम्। तदनुसारेण प्रकृरश्रुतिवाक्येऽप्येतच्छब्दस्वभाविक कल्याणगुणमूलकानुग्रह विशेषपरोभवितुमर्हतीत्यभिप्रायेणानुगृह्णन् भगवानित्येतत् शब्दार्थाभिहित:। अथ तेषामेवाहमिति गीतावचने तत्पूर्वश्लोक इवाक्षेपादेवविशिष्यकर्तृलाभसम्भवेऽपि पुनरहमित्युक्त्यास्वेतर नैरपेक्षस्य ज्ञापितत्वेन श्रुतिवाक्येप्येवकार: तदर्थक एव भवितुमर्हतीति तात्पर्येण स्वयमेव इत्यनुग्रहीतम्। अथ ‘येन मामुपयान्ति’ मच्चित्तामद्गत प्राणा:’ इत्याद्यर्थ विवक्षया ‘साधुकर्मकारयति’ इति वाक्यार्थमाह – स्वप्राप्युपायेष्वति कल्याणेषु कम्मस्वेव रुचिं जनयतीति। तत्र गीता वाक्ये ‘ददामिबुद्धियोगन्तम्’ इत्युक्त भगवद्भक्त बुद्धि योगस्य ‘येन मां उपयान्तिते’ इत्यनेन भगवत्प्राप्तिसाधनत्वस्य – ‘तुष्यन्ति च रमन्ति च’ इत्यनेन स्वयं प्रयोजनत्वस्य चोक्त्या तदनुसारेण श्रुतौ साधुशब्दस्तदाकारद्वय पूर एव भवितुमर्हतीत्यभिप्रायेणाह – स्वप्रप्त्युपायेष्वति कल्याणेष्विति। स्व प्राप्युपायेष्वित्यनेन प्राप्याधिकारत्वेन दृष्टविधया साधनात्वम् विवक्षितम्। अतिकल्याष्वित्यनेन  स्वेतर वैतृष्ण्यावहतया परमप्रयोजनत्वरूप: साध्यभक्त्यसाधारणाकारो विवक्षित:। अथ ‘मच्चित्ता मद्गतप्राणा:’ इति बहुप्रकारभजनोक्त्या – श्रुतावपि कर्मशब्दो बहुप्रकारकर्मपर एवेति तात्पर्येणाह – कर्मस्विति – ‘अहमज्ञानजं तमो नाशयाम्’ इत्याधर्थ विवक्षयाह – अतिकल्याणेषु कर्मस्वेवेति – अथश्लोकेमद्गतप्राणा मां भजन्ते इति भाव समन्विता भजन्ते – तं बुद्धियोगं

Page-18

ददामि इय्तनेन – भावसहित भजनात्मक बुद्धियोगस्य देयत्वोक्त्या भावस्यापि प्रथमं देयत्वावगमेन तदनुसारेण श्रुतौ कारयतीतिशब्द:। रुचिप्रदानपूर्वकं कारयितृत्व पर एवेत्यभिप्रायेणाह – रुचिं  जनयतीति – रुचिर्नामस्वविरुद्धबुद्धिसमानकालीन प्रवृत्तिहेतुभूतो मनोवृत्ति विशेष:। तत्कार्यमेव मद्गतप्राणा इत्यनेन उच्यते – मया विनात्मधारणमलभमाना इति तदर्थस्योक्तत्त्वात्। तथा च इत्थं भूतायामशेष एवेत्यादि श्रुतिवाक्यव्यवस्थित तात्पर्य प्रदर्शिन्यां पूर्वोक्त गीतावचन चतुष्टय तात्पर्यानुसारिण्याम्। श्रीभाष्यकारसूक्तौ साधुकर्मरुचिप्रभृतीनां सर्वेषां चेतनव्यापाराणां स्वत: प्रसन्नभगवदेककारितत्त्वस्य – तदनुसारेण प्रातिकूल्य व्यवसायनिवृत्तिपर्यन्त भगवद्विभूतियोगमननमूलक तद्व्यसायमात्रात्मकानुकूल्य व्यवसायस्यैव साधुकर्मसु भगवत्प्रेरायितव्याधिकारि विशेषणत्वस्य च स्वरसतोऽवगमेन तच्छ्रुतिगतयच्छब्दस्य भगवद्रक्षकत्वानुमतिमात्रपरता सिद्धिनिर्न्निष्प्रत्यूहैव – यच्छब्दार्थस्य तस्य भगवद्विभूतियोग व्यवसायस्य भगवतस्सकलकार्यनिरूपित सर्वप्रकार निरुपाधिककारणत्व विषयकत्वेन तत्र सर्वप्रकार स्वानिष्ठ निवृत्तीष्टप्राप्तिरूप कार्यनिरूपित तथाविध निरूपाधिककारणत्वस्यापि विषयतया तस्य व्यवसायस्य भगवद्रक्षकत्वानुमति रूपत्वानपायादिति सर्वं निरवद्यमिति पश्यतु भवान् – दर्शयन्ति चैवं वात्स्यवरदाचार्या: स्वाभाविकपरमपुरुषकारुण्यादिकल्याणगुण संरक्षणाय प्रातिकूल्यव्यवसाय निवृत्तिमात्रस्यैव भगवत्प्रेरयित व्याधिकारि विशेषविशेषणत्वं युकतमिति तत्त्वसारे – दुष्कर्मव्यवसायतस्तुविरतो यस्तस्य पुंस: पुरा भूयो जन्म समार्जितान्यगणितान्यागांस्यनादृत्ययत् त सारवनन्त सुखाप्तये च यतते लक्ष्मीसहायस्क्यं तत्कारुण्य पुरस्सरोगुणगणस्तस्यायम् उझृम्भते इति तात्पर्यदीपिकायां च श्रुतप्रकाशिकाचार्या: – दयायास्तुप्राचीनासङ्ख्येय जन्मसु महापराधकारिणी पश्चात्तनप्रातिकूल्य व्यवसाय निवृत्तिमात्रेण तदपराधानन्ताननादृत्य तस्य निरतिशय सम्पत्प्रदानाय स्वयमेव भगवान् प्रतर्तत इतीममेवार्थं स्पष्टमनुग्रहीतवन्त:।

नन्वेवं भूतचेतनव्यवसाययैव ‘एष एव साधुकर्मकारयति’

Page-19

इति श्रुतिगतयत्तत् शब्दार्थत्वेऽपि तस्य भगवद्रक्षकत्वानुमति मात्ररूपता न सम्भवति येन तस्याहेतुता स्यात्। न च भगवतश्चेतन रक्षणे प्रथममेव प्रवृत्तत्वेन तस्यानुमतिमात्र रूपता सिद्धि:। भगवत: तथाविध प्रवृत्त्यसिद्धे: न च अवाप्तसमस्तकामस्य भगवतो जगत्सर्गादि व्यापाराणां स्वार्थत्वासम्भवेन परिशेषात् परार्थत्वस्यैव सिद्ध्या तत्सिद्धिश्शङ्क्या – ‘न प्रयोजनत्वात्’ इति सूत्रे पूर्वपक्षमुखेन जगत्सर्गादि ब्रह्मव्यापाराणां परार्थत्वाभावोक्ति पूर्वकं ‘लोकवत्तुलीला कैवल्यम्’ इति सूत्रे सिद्धान्तमुखेन जगद्व्यापाराणां लीलैक प्रयोजनकत्वस्य सूत्रकारैरेव कण्ठत: प्रदर्शितत्वादिति चेन्न; सृष्टि संहारयो: लीलात्वतौल्येऽपि – ‘सो कामयत, न वा अरेपत्यु: कामाय पति: प्रियो भवत्यात्मनस्तु कामाय मोदते भगवान् विष्णु: स एकाकी न रमेत’ इत्यादिभि: प्रमाणै: सकलचेतनकरणकलेबरदानादिरूपपरार्थप्रवृत्ति विशेषसद्भावासद्भावाभ्यां तयो: भगवतो रमणारमणयो: प्रतिपादितत्वेन तदनुसारेण – ‘ओन्नियोन्नियुलहं पडैत्तान् – उय्य उलहु पडैत्ति’त्यादि द्राविड वेदोपनिषत्तदुपाङ्गादिषु सुस्पष्टं जगत्सर्गस्य चेतनोज्जीवनार्थत्वाभिधानेन नैतदुभयानुसारि –

‘विचित्रा देहसम्पत्तिरीश्वराय निवेदितुम्।

पूर्वमेव कृताब्रह्मन् हस्तपादादिसंयुता’॥

इत्याद्युपब्रह्मणानुसारेण च। भगवत्कर्तृक जगत्सर्गादेश्चे – ‘तनोज्जीवनार्थत्वसिद्ध्या तदनुसारेण लोकवत्तु लीलाकैवल्यम्’ इति सूत्रस्य– लीला प्रयोजनप्राचुर्यमात्रे तात्पर्यमित्येव वक्तव्यतया तद्विरोधाभावात्। प्रसिद्धं हि चेतनोज्जीवनार्थमेव प्रवर्त्तितायामप्यस्यां विभूते – ‘अजायमानो बहुधा विजायते; स उ श्रेयान् भवति जायमान:’।

‘बहूनि मे व्यतीतानि जन्मानि, परित्राणाय साधूनां सम्भवामि युगे युगे’। ‘निलै वरम्पिल  पलपिरप्पाय् ओळिवरुं मुळुनलं’ (நிலை வரம்பில் பல பிறப்பாய் ஒளிவரு முழுநலம் திருவாய்மொழி: 1-3-2)  इत्यादि प्रमाणोक्तरीत्या नानाविध अवतारै: केवल परानुग्रहार्थै: भगवता बहुप्रकार कृषिकरणेऽपि –

मामप्राप्तैव कौन्तेय ततो यान्त्यधमां गतिम्।

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ॥

Page-20

यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत:।

एवमुक्तं पद्मकोटि शतेनापि न क्षमामि वसुन्धरे॥

एवमुक्ति फलानियमस्तदवस्थावधृते: तदवस्थावधृते:।

बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते।

वासुदेवस्सर्वमिति स महात्मा सुदुर्लभ:॥

दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुर:।

तत्रापि दुर्लभं मन्ये वैकुण्ठप्रिुदर्शनम्॥

संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे।

कदाचित्केशवे भक्ति: तद्भक्तैर्वा समागम:॥

इत्यादि प्रमाणै: प्रतिबन्धकसम्पत्ति सामग्र्यसम्पत्तिभ्याम् उज्जीवनदौर्लभ्यम्।

ब्रह्माद्या: सकला देवा मनुष्या: पशवस्तथा।

विष्णोर्माया महावत्य मोहान्धतमसाव्रता:॥

आब्रह्मस्तम्भपर्यन्ता जगदन्तर्व्यवस्थिता:।

प्राणिन: कर्मजनित संसारवशवर्तिन:॥

त्वन्न्यञ्च द्भिरुदञ्चद्भि: कर्मसूत्रोपपादितै:।

हरे विहरसि क्रीडा कन्तुकैरिव जन्तुभि:॥

इत्यादिभि: लीलारसप्राचुर्यञ्च। किञ्च – भगवतस्सकल चेतनाचेतन यथेष्ट विनियोग हेतुभूत सम्बन्धविशेषात्मकशाक्तिविशेषरूप सर्वस्वामित्ववत: सर्वशक्तस्य निरङ्कुशस्वतन्त्रस्य स्वसङ्कल्पमात्रेण युगपत्सकलचेतन मोक्षप्रदानक्षमत्वेऽपि तत्परित्यागेन चेतनोज्जीननांशे शास्त्रीय्य मर्यादानुवर्तनस्यकेवललीलार्थत्वेन तन्नियममानुसारे रूपप्रकारपरिणामकृतं व्यवस्थं विश्वमुपर्यसितुमन्यत् असच्च कर्तुं क्षाम्यनोस्वभावनियमं किमुदीक्षसे त्वं स्वातन्त्र्यमैश्वरमर्पयन् योज्यमाहुरिति श्रीवत्साङ्कमिश्रानुग्रहीतरीत्या शास्त्रीय्य तत्तन्नियमानुसारस्य लीलैकप्रयोजनकत्वेन तथा विधनियमानुसारेणैव चेतनानुज्जीवयितुं प्रवर्तितस्य जगत्सर्गादेरपि लीलैकप्रयोजनकत्वेन जगत्सर्गादेश्चेतनोज्जीवनार्थत्वोक्तौ सूत्रविरोधगन्धाभावाच्च।

नन्वेवं सति – ‘न प्रयोजनत्वात्’ इति सूत्रविरोधोवज्रलेपायित:।

Page-21

तत्सूत्रभाष्ये भाष्यकारैरेव जगत्सर्गादे: परब्रह्मणस्वार्थत्वस्य परार्थत्वस्य च पूर्वपक्षमुखेन प्रतिषिद्धत्त्वात्। इत्थं हि तत्सूत्रभाष्यम्। ‘न प्रयोजनवत्त्वात्’। यद्यपि ईश्वर: प्राक् सृष्टेरेक एव सन् सकलेतरविलक्षणत्वेन सर्वार्थ शक्तियुक्त स्वयमेव विचित्र जगत्सृष्टौ प्रभवति। तथापीश्वरकारणत्वं न सम्भवति। प्रयोजनवत्वाद्विचित्र सृष्टे: ईश्वरस्य च प्रयोजनाभावात्। बुद्धि पूर्वकारिणामारम्भे द्विविधं हि प्रयोजनं स्वार्थ: परार्थो वा न हि परस्य ब्रह्मण: स्वभावत एवावाप्त समस्त कामस्य जगत्सर्गेण किंचेन्न; प्रयोजनमनवाप्तमवाप्यते। नापि पपरार्थ: – अवाप्त समस्त कामस्य परार्थता हि परानुग्रहेण भवति। न चेदृशगर्भजन्मजरामरण नरकादि नाना विधानन्त दु:ख बहुळं जगत्करुणया सृजति। प्रत्युत सुखैकतानं जनयेत् जगत्करुणया सृजन् – अत: प्रयोजनाभावात् ब्रह्मण: कारणत्वन्नोपपद्यते इत्येवं प्राप्ते प्रचक्ष्महे इति। न चास्य पूर्वपक्षत्वात् भाष्यकारस्य अत्र तात्पर्याभावश्शङ्क्य:। सिद्धान्तभाष्ये तत्प्रत्याख्याना दर्शनात्। इत्थं हि सिद्धान्तसूत्रभाष्यम् – लोकवत्तु लीलाकैवल्यम्। अवाप्त समस्तकामस्य परिपूर्णस्य स्वसङ्कल्प विकार्य – विविधचिदचिन्मिश्र जगत्सर्गे। लीलैव केवलाप्रयोजनम्। लोकवत् यथा लोके सप्तद्वीपां मेदिनीं अधितिष्ठत: सम्पूर्ण शौर्यवीर्यपराक्रमस्य महाराजस्य केवललीलैकप्रयोजना: कन्तुकाप्नारम्भा दृश्यन्ते। तथैव परस्यापि ब्रह्मण: स्वसङ्क्ल्पमात्रावत् सप्तजगज्जन्मस्थितिध्वंसादे: लीलैव प्रयोजनमिति निरवद्यमिति। तस्मात् भगवतो जगत्सर्गादिव्यापाराणां चेतनोज्जीवनार्थत्त्वोक्तिरनुपपन्नैवेति चेन्न; श्रीवेदान्तसारे – ‘न प्रयोजनवत्त्वात् ब्रह्मणोऽवाप्तसमस्तकामत्वे – सृष्टौ प्रयोजनाभावात् ब्रह्मा न कारणम्। लोकवत्तु लीलाकैवल्यम् आप्तकामस्यापि लीलाप्रयोजनत्वेनैरपेक्ष्यम् सम्भवति। लोके केवल लीलायैकन्तुराद्यारम्भ दर्शनात्। तस्मात् आत्मतृप्तस्यावाप्त समस्तकामत्वं हि सदाभिमत सकलभोगोपकरणसद्भाव:। आत्मतृप्तेर्भोगतृप्तिर्विजातीत्या। लीलारसस्यादि तद्विलक्षणस्य त्रिगुणपुरुषाद्युपकरणं नित्यमेवेत्येतत् सूत्रद्वयव्याख्याने

Page-22

लीला भोगयो: अवाप्तव्यत्वा विरोधेनावाप्तसमस्त कामत्व निर्वचन पूर्वकम्। ‘यमेवैष वृणुते’ इति श्रुत्युक्तरीत्या भगवता प्राप्यत्वेन व्रत स्वप्रियतम तत्तच्चेतन विशेष तत्सम्बन्धि पत्रपुष्पाद्यचेतनादिकर्मक भगवत्कर्तृक भोगतृप्तेरपि भगवदवाप्तव्य प्रयोजनत्व ज्ञापनेन जगत्सर्गादे: तथाविध चेतनोज्जीवनार्थत्वस्यापि श्रीभाष्यकाराभिप्रेतत्वावगमेन – तद्बलेन पूर्वपक्षभाष्ये तस्य तात्पर्याभावावगमेन तद्विरोधे बाधकाभावात्। न चैवमपि परानुग्रहार्थव्यापाराणां सुखैकप्रयोजकत्वनियमदर्शन विरोधरूप: प्रागुक्तो दोषस्तवदस्थ इति शङ्क्य – हितरूपवृतौ तद्व्याभिचारदर्शनेनैव तस्य दोषस्य दुरतोपासतत्त्वात् । तदेवं भगवतो जगद्व्यापारस्य चेतनोज्जीवनार्थत्वसिद्ध्या तत्र भगवत: फ्रथमत एव प्रवृत्तत्त्वेनैवं स्वोज्जीवनाय प्रथमप्रवृत्त भगवद्विषये चेतनकर्तृक रक्षकत्वद्ध्यवसायादिरूपानुकूल्य व्यवसायोऽनुमातृ मात्ररूप एवेति न तस्य साधनत्व सम्भव इति। नन्वेवं रीत्या चेतनकर्तृक भगवद्रक्षकत्वानुमति रूपत्व सिद्धावपि तस्य साधनत्वं दुरपह्नवमेव। धर्मश्रुतो वा दृष्टोवेत्यादि प्रमाणै: धर्माधर्मविषयक अनुमाननस्याशुभाशुभफलहेतुत्व प्रतिपादनात्। न चैवमीश्वरानुमानेरपि फलहेतुता प्रसङ्ग:। तस्य नियन्तृत्वेनाकर्मवश्यतया तत्कर्तृकानुमिते: फलहेतुत्वाभावेऽपि – शास्त्रवश्यकर्तृकानुमते: फलहेतुत्वस्य दुरपह्नवत्वादिति चेन्न; राजाद्युपायनदानविषये – शास्त्रवश्यकर्तृकानुमतेरपि फलहेतुताभावदर्शनेन शास्त्रविहितनिषिद्ध प्रवृत्तिविषयक शास्त्रवश्यकर्तृकानुमतेरेव फलहेतुत्वमित्यवश्यवक्तव्यतया भगवत्कर्तृकप्रवृत्ते: तथात्वाभावेन तद्विषयकचेतनानुमतेर्हेतुत्वा सम्भवात्। तस्मादानुकूल्यव्यवसित मुमुक्षु विषये निर्हेतुकमेव भगवतो मोक्षरुचि प्रभृति सर्वसाधुकर्मकारयितृत्वेन तदन्तर्गतस्य कस्यचिदपि मोक्षकरणत्वासम्भवात्। भगवत एव मोक्षकरणत्वावश्यं भावेन वेदान्तेष्वपि भगवानेन धर्मत्वेन वेद्य इति तस्य तथा सर्ववेदवेद्यत्वं युज्यत एव।

नन्वेवं सर्वेषां वेदान्तानां सिद्धोपायपरत्वस्य तदनुसारेण

Page-23

तत्र प्रतिपादितानां साध्य धर्म विशेषाणां तत्साध्य तदाराधनात्मक केवलफलरूपत्वस्य चाभ्युपगम: सूत्रकार भाष्यकाराभिप्राय विरुद्ध:। ताभ्यां साधनभक्ति परत्वेनैव सर्वेषां वेदान्तानां योजितत्त्वात् इति चेन्मैवम्। यथा पूर्वभागसामान्यस्य वस्तुतो भगवदाराधनात्मककर्मपरत्वे सत्यपि तत्र तत्र फलवाक्येषु नश्वरफलविशेष श्रवणबलेन तेषां कर्मणां भगवदाराधनात्मकत्वेनाकारेणानुष्ठानेऽपि मातापितृसहस्रेभ्यो वत्सलतमस्य शास्त्रस्य तत्तन्मदाधिकार्यनुजिधृक्षोपायिक तात्पर्य सद्भावावगमेन तदनुसारेण तथाविधकर्मपरतयैव तद्भागस्य जैमिनि प्रभृतिभि: सूत्रकारादिभिर्योजनाकृता। तथैव वेदान्तानामपि वस्तुत: साध्यभक्त्यादि समाराध्य निरपेक्ष सिद्धोपायैकपरत्वेऽपि तत्र तत्र फल वाक्येषु सर्वेषु लोकेषु कामचारो भवति। सर्वान् लोकात्कामान्नीकामरूप्यसञ्चरन् इत्यादिषु नम: पदाश्रवणेन स्वार्थभोगादेव स्वरसत: फलत्वेन प्रतिपादनेन – तद्बलेन मन्धाधिकार्यनुजिधृक्षयैव भक्तादीनां साधनत्वरूपा यथावस्थित कारणानुष्ठानेऽपि वेदान्तानां तात्पर्यसद्भावावगमेन तदनुसारेणैव सूत्रकारभाष्यकारादिभि: साध्यभक्ति परत्वेन योजितत्त्वेन विरोधाभावात्।  वस्तुतस्तुसूत्रभाष्यादीनामुक्तसाध्य भक्तिपरत्वेनैव योजनाविशेषस्य श्रीगोविन्दभट्टारकाख्यादि विशेषाधिकारि विषयेषु श्रीभाष्यकारादिभिरेव प्रवर्तितत्त्वेन तद्विरोधाभावाच्च। अतएवोक्तम् श्रीकलिचिज्जगदाचार्यै: – ‘वीडुमिन् मुत्तमुम्’ (வீடுமின் முற்றவும் திருவாய்மொழி 1-2-1) इत्यादि दशक प्रवेशेयित्तिरुवाय्मोळि (திருவாய்மொழி) तन्न्यैयाळवन्दाररुळिच्चेय्दाराह (தன்னை ஆளவந்தாரும் அருளிச்செய்தாராக) तिरुमालैयाण्डान् प्रपत्तिविषयमाक्कि(திருமாலையாண்டான் ப்ரபத்தி விஷ்யமாக்கி ) निर्वहित्तुक्कोण्डुपोन्दु (நிர்வஹித்துக் கொண்டு போந்து) एम्बेरुमानारुमप्पडि अरुळिच्चेय्दु कोण्डुपोन्दु (எம்பெருமானாரும் அப்படி அருளிச்செய்து கொண்டு போந்து) भाष्यं तलैक्कट्टिन पिन्बु (தலைக்கட்டின பின்பு) भक्तिविषयमाह (பக்தி விஷயமாக) – अरुळिच्चेय्दुकौण्डुपोरुवन्दपिन्बु एम्बारुम् अप्पडियरुळच्चेय्दारिति (அருளிச்செய்து கொண்டுபோந்த பின்பு எம்பாரும் அப்படி அருளிச்செய்தார்)। अत्र भाष्यकाररुमित्तुकोण्डु (பாஷ்யகாரரும் இதுகொண்டு) सूत्रवाक्यंगळोरुंग विडुवर् (ஸூத்ர வாக்யங்களோடு ஒருங்க விடுவர்) इति आचार्यहृदयानुग्रहीतरीत्या श्रीभाष्ये भाष्यकारै: सूत्रवाक्यानां द्रविडोपनिषदैककण्ठेनैव साध्यभक्तिपरतया योजनाया: कृतत्वेन तथा विधसूत्रयोजनामूलभूत द्रमिडोपनिषदर्थविशेष संप्रदाय विच्छेदार्थं श्रीभाष्यैककण्ठ्यार्थं च।

Page-24

श्रीभाष्यसमाप्यनन्तरं श्रीभाष्य प्रपञ्चित साध्यभक्ति परतयैव द्रमिडोपनिषत्सङ्ग्रहभूतैतद्दशक योजनाविशेषस्य श्रीभाष्यकारैरेव प्रवर्तितत्वावगमात्। न चैवं सति द्रमिडोपनिषदामिव श्रीभाष्यादीनामपि सर्वाधिकारत्वं स्यादिति वाच्यम्। अर्थस्य सर्वाधिकारत्वेऽपि तच्छब्दस्य मन्दाधिकार्यानुग्रहार्थयोजना विशेषस्य च तथात्वाभावेन तत्प्रसङ्गाभावात् तथैवमस्मदुक्तरीतिं विहाय वेदान्तानां साधनभक्ति परत्वाभ्युपगमे सूत्रविरोधो भाष्य विरोधश्च दुरुद्धर:। सूत्रे हि विद्यास्वरूपं फलाद्ध्यायन्तर्भावेन चिन्तितं भक्तेस्साधनत्वेन चैतदुपपद्यते। साधनस्य साध्यार्थत्वेन तस्य स्वत: फलत्वायोगात्। न च भक्ते: मुक्तिं प्रतिसाधनत्वेपि तस्या: कर्मज्ञानसाध्यत्वेन सुखरूपतया च तावन्मात्रफलत्व विवक्षया तथा चिन्तनमुपपद्यत इति वाच्यम्। शास्त्रसंग्रहात्मके श्रीभाष्य प्रथमश्लोके – ‘भवतु मम परस्मिन् शेमुषी भक्तिरूपा’ इति स्थलान्तरेषु भगवन् भक्तिमपि प्रयच्छ मे; ‘परभक्ति युक्तम् मां कुरुष्व’ इत्यादिषु साध्यभक्ति प्रार्थनवदेव चतुर्थाध्याय प्रतिपादिताया: ब्रह्मविद्यास्वयं प्रयोजनत्वेन प्राधानान्येव श्रीभाष्यकारै: सिद्धधर्मभुत श्रीनिवासविषये प्रार्थितत्त्वेन तस्या ब्रह्मविद्याया: सिद्धोपायसाध्यत्वस्य स्वयं फलरूपत्वस्य च श्रीभाष्यकाराभिप्रेतत्वावगमेन तद्विरोधेन तदयोगात्। अत एव हि स्मर्यमाणार्थस्यात्यर्थ प्रियत्वेन स्वयमप्यत्यर्थ प्रियेति श्रीभाष्ये – भक्तिरपि निरतिशय प्रियानन्यप्रयोजनकस्वेतर वैतृष्ण्यावहज्ञानविशेष एवेति श्रीवेदार्थसङ्ग्रहे च – परभक्ते: अनन्यार्थत्वं परमप्रयोजनत्वं च कण्ठत: प्रतिपाद्यते। न च तत्र मोक्षव्यतिरिक्तप्रयोजनशून्यत्वं तथाविध प्रयोजननापेक्षया परमत्वं च विवक्षितम् – न मोक्षरूप प्रयोजनशून्यत्वं – तदपेक्षया पारक्यमपिति वाच्यम्। ‘संकोचे मानाभावात्’ श्रुतिप्रकाशिकाचार्यै: असङ्कोचेन व्याख्यतत्त्वाच्च। तदाहु: तात्पर्यदीपिकायाम् – भक्तिरपीति। निरतिशयप्रियत्वादनन्य प्रयोजनत्वम्। अनेनैश्वर्यार्थ भक्तियोगो व्यावृत्त:। स्वेतर वैतृष्ण्यावहेति – भक्ते: प्रियतमत्वातिशयात् भक्तस्य भगवत्प्राप्तावपिनैरपेक्ष्यं भवतीत्यर्थ इति – अत भक्ते: प्रियतमत्वातिशयेन – ऐश्वर्यार्थात् भगवत्प्राप्त्यर्थाच्च।

Page-25

भक्तियोगाद्व्यावृत्ते: स्पष्टमभिधाने साध्यभक्तित्वमेवोक्तम् भवति। अपि च – निरतिशयप्रीतिरूपत्वानापन्नया विद्याया भाष्ये साधनता निषेधेन – साधनत्वेनानुष्ठीय्यमानाया: साधनभक्ते: साधनस्त्वोक्ति: तद्विरुद्धैव। साधनत्वेनानुष्ठीयमानाया: तस्या: परमप्रयोजनभूतसारत्वेन – तस्यां निरतिशय प्रीतिरूपत्वापत्त्ययोगात्। अथ स्वयं प्रयोजनत्वेनानुष्ठीयमानाया एव भक्ते: मोक्षसाधनत्वाभ्युपगमेन तद्विरोध इति चेदलमनेन मर्कट जघनास्मरणानियम पूर्वकमौषधपानन्यायावकाशप्रदानेन न हि मोक्षार्थत्वेनाभ्युपगताया: एव भक्ते स्वयं प्रयोजनत्वेन स्वेनैवानुष्ठानं जन्मसहस्राभ्यासैरपि निर्वर्तयित्वं शक्यते। अथ भगवद्बुद्ध्यामोक्षसाधनत्वेनोपादानर्हाया भक्ते स्वबुद्ध्या स्वयं प्रयोजनत्वेनैवानुष्ठानाभ्युपगमान्न विरोध इति चेदलमलमनेनापि  बैडालव्रतेन तदापि स्वयं प्रयोजनत्वेन XXXXXX भक्तिर्भगवद्बुद्ध्यामोक्षसाधनं भवेदिति साधनत्व बुद्ध्या एव तदनुष्ठानपर्यवसानेन पूर्वोक्तदोषतादवस्थ्यात्। अपि च वेदान्तविहिताया भक्ते स्वयं प्रयोजन भगवत्प्रीत्यैक प्रयोजनत्वेन निरतिशय प्रियत्वस्य सिद्धोपायकर्तृकवरणरूपपरगतस्वीकारविषयभूत प्राप्याधिकारिविशेषणत्वस्य अभ्यार्थत्वे सति मोक्षं प्रतिप्रसङ्गादुपकारकत्वरूप मोक्षव्याजत्वस्य श्रीभाष्य निरपेक्ष सिद्धोपायसाध्यत्वेन सिद्धोपायफलरूपत्वस्य च श्रीभाष्यकारैव कण्ठत: श्रीभाष्यानुग्रहीतत्त्वेन तद्विरोधो दुष्परिहार एव – तदाहु: लघुसिद्धान्तभाष्ये – एवं प्रत्यक्षापन्नमपवर्गसाधनभूतां स्मृतिं विशिनष्टि। ‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधाश्रुतेन। यमेवैष वृणुते तेन लभ्य: तस्यैष आत्मा विवृणुते तनूं स्वाम्’॥ इति। अनेन केवल श्रवण मनन निधिध्यास नानामात्मप्राप्त्येतुपायत्व मुक्त्वा यमेवैष आत्मा वृणुते तेनैव लभ्य: इत्युकतम्। प्रियतम एव हि वरणीयो भवति इति तेनैव लभ्यते परमपुरुष इत्युक्तम् भवति। एवं रूपावानुस्मृतिरेव भक्ति शब्देनाभिधीयते इति। अत्रकेवल श्रवंणमनननिधिध्यासनानामनुपायत्वमुक्त्वा इत्यनेन अर्त्यथ

Page-26

प्रीतिरूपत्वापत्त्यनर्हाया: साधनभक्तेरपवर्गोपायत्वं श्रुतिनिषिध्यमिति प्रदार्शितम्। यमेवैष आत्मा वृणुते  तेनैव लभ्य इत्युक्तमित्यनेन परगतस्वीकारार्हतापादकमपि भगवन्निरतिशय प्रीतिरेवेति व्यवस्थापितम् । यस्यायं निरतिशय प्रीतिरेवेति व्यवस्थापितम्। यस्यां निरतिशय प्रियस्स एवास्य प्रयततमो भवति इत्यनेन – तथा भगवद्वरणीय्यता हेतुभूतभगवन्निरतिशय प्रीतिप्रवृत्तौ। आधिकारि विशेषविशेषणी भूताभगवद्विषयतात्यर्थ प्रीतिरूपा स्वयं प्रयोजनासाध्य भक्ति: प्रसङ्गादुपकरोति इति प्रदर्शनमुखेनापवर्गसाधनभूतामिति पूर्वोक्तं भक्ते: साधनत्वमन्यार्थस्यैव स्वत: परंपरया प्रसङ्गादुकारत्वरूप व्याजत्वरूपमिति व्याख्यातार्थं यथायं प्रियतम आत्मानं प्राप्नोतीत्यादिना कश्चिश्चेतन: यथा येन प्रकारेण यादृश भगवद्यत्नेन अनेनेति यावत्। अयम् – भगवतिनिरतिशय प्रीतिमान् प्रियतम: – भगवत्कर्तृकनिरतिशय प्रीतिविषययश्च भवन् तत्कर्तृकवरणेनैव तमात्मानं प्राप्नुयात्। तथा साध्यरूप प्रतिपदोक्त विशेषण विशिष्ठ: भक्ति तद्धेतुभूत रुचिविशेषादिप्रवर्तन रूपेण केनप्रकारेण सकलकल्याणगुणाकर: परमपुरुषश्चेतन यत्ननैरपेक्ष्येण स्वत एव प्रयतत इत्यर्थकेन साध्यभक्ति तदुत्पत्ति सामग्रीणां सर्वेषां निरपेक्ष सिद्धोपायसाध्यत्वेन सिद्धोपायफलत्वं प्रपञ्चितम्। भगवतैवोक्तम् इत्यादिनोक्तार्थजातस्य कुदृष्टिभि: अविचाल्यतया दृढप्रमाणस्थित्वञ्च स्थितिकृतमिति विवेचनीय्यम्।

नन्वत्र भाष्ये यथायम् इत्यादिवाक्येन – पूर्वं स्वकर्तृकभक्तियोगेन अत्यर्थ प्रीतिरूपापन्नेन भगवदत्यन्त प्रीतिविषयीकृतो यश्चेतन: स यथात्मा सम्प्राप्नुयात्। तथा – तद्भक्ते: इत्तरोत्तरवैषद्यापादेन भगवान् तयैव प्रीत्या प्रयतन्त इत्येतावानेवार्थ: प्रतीय्यते एवं तेषामित्याद्युदाहृतगीतावचनेऽपि तथैव प्रतिपाद्यते। इत्थं हि निगमान्तदेशिकै: तात्पर्यचन्द्रिकायामेतत् श्लोकभाष्यस्य अवतरणिकादत्ता – भगवद्गुणविभूतिज्ञानस्य भक्तुत्पत्तिविवृद्धिहेतुत्वमुक्तम्। तथा विवृद्धभक्ते: भगवत्प्रीतिपूर्वभावि विशदतमसाक्षात्काररूपावस्थाविशेष

Page-27

हेतुत्वं भगवत्प्रसादावन्त व्यापारकमुच्यते इति।  तस्मान्नात्र भाष्यकारस्य भवदुक्तयोजनाविशेषेऽभिप्राय इति चेदलं असम्प्रदायपरिचय प्रकटनेन – यतो भगवता भाष्यकृतै: श्रीगीताभाष्ये अस्मदुक्तार्थतात्पर्यं प्रकटीकृतं न जानासि। तदाहु: – अष्टमाध्यायभाष्ये एवमैश्वर्यार्थिन: कैवल्यार्थिनिश्च स्वप्राप्यानुगुणं भगवदुपासन प्रकार उक्त:। अथ भगवदुपासकज्ञानिन उपासन प्रकारं प्राप्ति प्रकारं चाह–

अनन्य चेतास्सततं यो मां स्मरति नित्यश:।

तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन:॥

नित्यशो मामुद्योग प्रभृति सततं सर्वकालम्। अनन्य चेताय स्मरति अत्यर्थम्मत्प्रियत्वेन मत्स्मृत्या विनात्मधारणमलभमानो निरतिशयप्रियां स्मृतिं य: करोति तस्य नित्ययुक्तस्य मयि नित्ययोगं काङ्क्षमाणस्य योगिन: अहं सुलभ:। अहमेव प्राप्य: न तत्स्वभावैश्वर्यादिकं सुप्रापश्य तद्वियोगमसहमानोऽहमेवत्वं वृणे। मत्प्राप्यनुगुणोपासन विपाकं तद्विरोधिनिरसनमत्यर्थं मत्प्रियत्वादिकं चाहमेव ददामीत्यर्य़:। ‘यमेवैष वृणुते तेन लभ्य:’ इति श्रूयते। वक्ष्यते च –

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।

ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥

तेषामेवानुकम्पार्थमहमज्ञानजं तम:।

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वते॥

इति। अत्र मत्प्राप्यनुगुणोपासनविपासन विपाकमित्यनेन ततो मां तत्त्वतो ज्ञात्वेत्युक्त विपाकविशेषस्य – तद्विरोधिनिरसनमित्यनेन ‘तेषामेवानुकम्पार्थम्’ इति श्लोकोक्त तथाविधविपाकात् पूर्वभाविन: तत्प्रतिबन्धक निश्शेष निबर्हणस्य च – अत्यर्थं मत्प्रियत्वेत्यनेन – तथाविद्य प्रतिबन्धक विनाशनादपि पूर्वभाविन: भजन्ते मां बुधाभावसमन्विता:। तेषां सततयुक्तानां भजताम् इत्याद्युक्तस्य – अनन्यचेता इत्यादिना प्रकृते श्लोकोक्तस्य च अत्यर्थप्रीतिरूपभजनस्य अत्यर्थप्रियत्वादिकमित्यादि शब्देन तत्पूर्वभाविरुचि विशेषादेश्य नैरपेक्ष्येण भगवदेकदेयत्व प्रपञ्चनेन भगवत्कर्तृकवरणस्यैव भगवत्प्राप्युपायत्वोपपादन

Page-28

पूर्वक स्वोपपादितार्थप्रमाणतया ‘यमेवैष’ इत्यादि श्रुतिस्मृत्योरेव उदाहृतत्वेन श्रीभाष्येप्येतदनुसारेणास्मदुक्तार्थ एव श्रीभाष्यकाराणां नैर्भर्यमस्तीति सुस्पष्टमवगम्यते इति। यदपि तात्पर्यचन्द्रिकोदाहरणं तदपि न विरोधोऽथ वेदान्ताचार्याणां मन्दाधिकार्यनुग्रहार्थं वेदान्तानां साधनभक्ति परयोजनविशिष्ट प्रपञ्चनैकाधिकृतत्वात्। अन्यथा श्रीभाष्यकार श्रीसूक्ति विरोधापत्ते:। किञ्च अस्मदुक्तयोजनानुगुण्येनैव श्रीश्रुतप्रकाशिकायामेव प्रत्यक्षसमानाकारामित्यादि पूर्वोपात्त श्रीभाष्यस्य व्याख्यातत्वेन तद्विरोधापत्तेश्च। इत्थं हि तस्य श्रुतप्रकाशिकासूत्रकारभाष्यकारयो: कतिपयविशेषं वदतो: सति विशेषान्तरोपस्थापके तत्पर्यवसायित्वस्याभिप्रेतत्वाच्छ्रुत्यन्तरसिद्धं विशेषान्तरमस्तीत्याह – एवमिति। अनेन श्रवणादिनाममुक्त्युपायत्व निषेधान्नोपासनस्य मोक्षोपायत्वमिति शङ्का व्युदासश्च भवति एवमुकतेन प्रकारेण सामान्यविशेषन्यायेन प्रत्यक्षतापन्नमित्यर्थ:। अपवर्गसाधनभूतामिति प्रतिकोपासनव्यवच्छेद:। नायमात्मेति प्रवचन शब्दोमननं लक्षयति मनन फलत्वात् प्रवचनस्य मननस्य च अर्थप्रवचन फलत्वां प्रोच्यतेनेनेति करणव्युत्पत्यावा प्रवचनं मननम्। मेधा निधिध्यासनं परिशेषात्। अस्मिन्वाक्ये श्रवणादीनां अनुपायत्वं प्रतीतम्। ध्रुवानुस्मृति विशेषणत्वेन न किञ्चित् प्रतिपन्नम् अत: तद्व्याचष्टेनेनेति केवल श्रवणमनन निधिध्यासनानां वक्ष्यमाण विशेषविरहितामित्यर्थ:। यथा न पृथिव्यामग्निश्चेतव्येत्यत्र हिरण्योपधानहीन पृथिव्यां चयनं निषिद्ध्यते। ननु पृथिवी मात्रे तद्वदितिभाव:। विवक्षितविशेषणं वाक्यतात्पर्यनिरूपणेन दर्शयिष्यन् वाक्यस्ययार्थान्वयं दर्शयति। ‘यमेवैष आत्मा वृणुते तेनैव लभ्य:’ इत्युक्तमिति। वरणीय्येन लभोऽस्तु तत: कथं युवानुस्मृते: विशेषितत्वमिति शङ्कायां तद्धर्शयितुं लोकसिद्धप्रतीतिमाह – प्रियतम एव हीति प्रीतिविषयमात्रस्य न वरणीयत्वम्। किन्तु स्वयमुपस्थितस्य स्वीकार एव। अत: तद्व्यावृत्त्यर्थं प्रियतम इत्युक्तम् – तत: किमित्यत्राह – यस्येति यस्योपासकस्यायं परमात्मा निरतिशय प्रीति विषय: स एवास्य परमात्मनो निरतिशय प्रीतिविषयो भवति।

Page-29

चेतनत्वे सति भगवतावरणीयत्वं भगवति निरतिशय प्रीतिमत एव भवति।

यद्वा –स्वत: प्रियत्वं स्वस्मिन् प्रीतिमत एव। पुण्यक्षेत्रादिषु भगवत: प्रीति: स्वस्निन् प्रीतिमत् पुरुषवरणार्था: पत्र-पुष्पादि तत्सम्बन्धनिबन्धना – स एवेत्येवकारेण केवलश्रवणादि व्यावृत्ति:। भगवति प्रीतिमत एव भगवत्प्रीतिविषयत्वमिति कथामिदमवगम्यत इत्यपेक्षायाम् अत्र प्रमाणतया स्मृतिवचनमर्थोपन्यासपूर्वकं दर्शयन् वरणप्रकारं विवृणोति – यथेति। अयं भगवति निरतिशयप्रीतिमान् प्रियतम: निरतिशयप्रीतिविषयो भवन् इत्यर्थ:। ‘ददामि बुद्धियोगम्’ इत्यस्यार्थ विवक्षया स्वयमेव भगवान् प्रयतत इत्युक्तम्। अनेन वरणप्रकारो दर्शित:। भगवतैवोक्तमित्येवकारेण भगवदाप्तातिशयस्सूचित: तेषामिति। सतत युक्तानाम् –सततयोगं काङ्क्षमाणानाम्। अशंसायां भूतवच्चेति कर्तरिक्त: प्रीतिपूर्वकं ददामि इत्यन्वय:। अनेन परस्पर विषयाप्रीतिरुपास्योपासकयो: दर्शिता। सततयुक्त शब्दार्थस्फुटीकरणायाह – प्रियो हीति। अत्यर्थं अतिक्रान्ताभिधेयं प्रियत्वं वाचामगोचरमित्यर्थ:। ध्रुवानुस्मृतिं विशिनष्टीति हि पूर्वमुक्तम् – अत्र यो भगवति प्रीतिमान् भवति तस्मिन्नुपासके भगवत: प्रीतिमत्त्वमुक्तं तत्कथं ध्रुवानुस्मृते: विशेषं तत्त्वमित्यत आहत इति। अत उक्तार्थस्य लोकस्मृतिभ्यां सिद्धान्तादित्यर्थ:। यद्वा ध्रुवानुस्मृति वचनात् वरणीयत्ववचनाच्च वरणीय स भगवति निरतिशयप्रीतिमत्ववचनाच्च इत्यर्थ:। साक्षात्काररूपास्मृतिरित्यनेन पूर्वोक्ताकारविशिष्टाया विशेषान्तरमिति दर्शितम्। स्मर्यमाणात्यर्थप्रियत्वेन स्वयमप्यत्यर्थप्रियेति। अर्थेनैव विशेषो हि निराकारतया धियाम् इति भाव:। स्वयमप्यत्यर्थ प्रियानुभूयमानोनुभव इति वदयति निर्देश औपचारिक:। अत्यर्थ प्रीतिरूपेत्यर्थ:। यद्वा अत्यर्थ प्रिया – अत्यर्थानुकूलरूपास्मर्यमाणस्य भगवद्विषयस्य निरुपाधिक निरवधिकानुकूलत्वेन तद्विषयास्मृतिरपि हि निरतिशयानुकूला भवति। यद्वा ध्रुवानुस्मृतिस्वयमत्यन्तानुकूलत्वादयुक्तावस्थामपि प्रीतिरूपज्ञानेन प्रतिबन्धीयत इति प्रिया अतएव या प्रीतिरविषेकानामित्यादिना सा प्रार्थ्यते।

Page-30

प्रीतिरूप ध्रुवानुस्मृतेरपवर्गोपायत्वमुक्तम्। अन्यत्र भक्तिरूपायत्वमुच्यते। कथमनयो: ऐकार्थ्यमित्यत्राह– एवं रूपेति। एवं रूपा साक्षात्कार प्रीतिरूपत्वपर्यन्ता ध्रुवानुस्मृतिरेव भक्तिशब्दवाच्येत्यर्थ इति। अत्र केवल– श्रवण-मनन-निदिध्यासनानामेत्येतद्व्याख्याने– प्रीतिरूपत्वापत्तिविशिष्टानां श्रवण- मनन- निदिध्यासना साधनतयाज्ञापनेन तिरूपत्यापन्नाया भक्तेरपि मोक्षसाधनत्वं दृष्टविधयोपकारकत्वमेवेति प्रदर्शितम्। प्रियतम एव हि इति इत्यादि प्रियतमशब्दव्यावर्तिकत्वेन स्वयमुपस्थितस्य स्वातन्त्र्यगर्भसाधनभक्तिनिष्ठस्य वरणार्हत्वाभावकथनेन – साधनभक्तेरत्यर्थ प्रीतिरूपत्वासम्भवो दर्शित: । स्वयं प्रियत्वं स्वस्मिन् प्रीतिमत एवेत्यनेन प्रीतिमच्चेतनस्य निरुपाधिक भगवत्प्रीतिविषयत्वोक्त्याचेतनकर्तृक प्रीते: स्वाभाविक भगवत्प्रीतिप्रवृत्तौ प्रतिब्धकाभावत्वेनाद्याकारेण प्रसङ्गादुपकारकत्वमेव न तु तस्साधनत्वमिति सूचितम्। पुण्यक्षेत्रादिषु भगवत: प्रीति: स्वस्मिन् प्रीतिमत्पुरुषवरणार्थेत्यनेन स्वस्मिन्निरतिशय प्रीतिप्रतिलम्भन प्रापकं चेतनकर्मकंवरणम्। भगवत: क्षेत्रदासादिकृषिफलमिति प्रकटीकृतम्। अयंभगवति निरतिशय प्रीतिमान् प्रियतम: निरतिशय प्रीतिविषयो भवन्नित्यनेन भवादृशान्यथा भ्रान्तिर्निराकृता। तथा हि – यद्यत्रभाष्ये भवदुक्तरीत्या स्वव्यापारात्मक साधनभक्त्या पूर्वं भगवत्प्रीति विषयीभुत चेतन विषये भगवत्स्स्वप्रापणार्थ यत्नमात्रमर्थतयाऽभिप्रेतं स्यात्। तदा यथा यं प्रियतम आत्मानं प्राप्नोति तथा भगवान् स्वयमेव प्रवर्त इति भाष्ये सन्निवेशस्य तथाविधार्थ बोधकत्वेन तता (सा) यं प्रियतम: यथात्मानं प्राप्नुयामीत्यन्वय इत्यन्वय प्रदर्शन   पूर्वकम् –अयं भगवति निरतिशय प्रीतियुक्त:। प्रियतम: तथाभूतभगवद्विषयकस्वप्रीत्या भक्तिरतिशयप्रीतिविषयी भूत: इत्यादिप्रकारेणार्थ वर्णनमपि कृतमेव स्यात्। न च तथा कृतं प्रत्युतप्रियतम: निरतिशय प्रीतिविषयो भवन्तीति सिद्धवन्निष्कृष्टमभि प्रीति विषयीभावस्यापि भगवत्प्राप्ति सहभावेन भगवद्यत्नक साध्यत्व ज्ञापनेन भाष्ये यथाविन्यास लब्धोऽर्थ एव स्वप्रीति पिपादयिषतोऽपि इति प्रकटीकृतमिति।

Page-31

अथानेन वरण प्रकारो दर्शित इत्यनेन स्वस्मिन्निरतिशय प्रीति प्रतिलम्बनेन स्वनिरतिशय प्रीति विषयीकृत चेतन विषयेभगवत: क्षणमात्र विरहासहिष्णुतया तस्य यदविलम्बेन स्वात्म प्रापणरूपं भगवतो वरणं तस्य यत्सिद्धोपायभूत भगवत्कर्तृकनिरुपायिक तत्प्रीति मात्रहेतुकसाध्यभक्तिरूप बुद्धियोग विशेषदान तदुचित प्रवर्तनादि पूर्वकत्वरूप: प्रकार: सदर्शित इत्यर्थकेन साधनभक्ति निष्ठानामेवं प्रकारवरणाभावेन तस्या भगवत्प्राप्तिहेतुत्त्वं न सम्भवत्येवेति दृढीकृतम्। अथ स्मर्यमाणेत्यारभ्य प्रार्थ्यत इत्यन्तेन भक्ति प्रीतिरूपत्वस्यात्यन्तानुकूलत्वस्यात्यर्थ प्रीतिविषयत्वस्य च केवलविषयवैलक्षण्याधीनत्वोक्त्या – तथा विधाया भक्ते: अविवेकि ना विषय XXXXX दपुरुष तन्त्रत्वस्य भगवद्विषय रुचिरूपत्वस्य द्वयं प्रयोजनतया भगवदेकसाध्यत्वेन प्रार्थनीय्यत्वस्य च ज्ञाननेन XXXXX -त्वेनाकारेणच्छाविषयीभूता  पुरुषतत्त्राया आप्रयाणमहरहरभ्यासाधेयातिशयाया: साधनभक्ते: तद्विपरीताकार XXXXX वेदान्तविहितत्त्वेन प्रीतिपिपादयिषितेति ज्ञापितम्। अथ यद्वा इत्यादिना स्थानत्रयोपरभक्ति युक्तं मां कुरुष्व XXXXX भक्तिरूपेति प्रार्थमानस्वयं प्रयोजनासाध्यभक्तिरेव वेदान्तविहितेति श्रीभाष्यकाराणाम् अभिप्राय XXXXX गदपि सूचितमिति प्रकृतोपयुक्त सारार्थविवेक इति अनुसन्धेयम्। तदेव मस्मदुक्त योजनानुगुण्येनैव श्रुतप्रकाशिका XXXXX यथायं प्रियतम इत्यादि भाष्यस्य व्याख्यातत्त्वात्ताद्विरोधेनापि त्वदुदाहृत तात्पर्य चन्द्रिकाग्रन्थोऽन्यपर एव XXXXX  ध्येयम्। अपि च वेदान्तविहित भक्तिस्वरूप याथात्म्य ज्ञानिनां साधनत्वेन तदनुष्ठानासम्भवेन न साधनभक्ते: वेदान्ततात्पर्य XXXXX त्वमुपपद्यते। तथा हि –वेदान्तविहिताभक्तिर्हि स्वशरीरक परमात्मोपासनारूपा– आत्मेत्युपगच्छति ग्राहयन्ति च ‘ XXXXX रहं ग्रहेणैवोपासनस्सोक्तत्त्वात्। अतस्साभक्ति: स्वस्यभगवच्छेषत्वज्ञानगर्भा – शरीरत्वस्य शेषत्वघटितत्त्वात्। XXXXX यद्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्तम्।

Page-32

तच्छेषतैक स्वरूपं च तत्तस्य शरीरमिति। श्रीभाष्ये XXXXX शिक्षणात्। किञ्च भक्ते: प्रीतिरूपत्वं स्वरूपमिति। ‘यमेवैष वृणुते’ इत्यादिभि: प्रमाणै: प्रतिष्ठापितम्। तदाकारान् यथानु XXXXX क्ते: शेषत्वज्ञान XXXXX-र्गत्वमवश्यम् अभ्युपगन्तव्यम् । तदाह भगवान् भाष्यकारो वेदार्थसङ्ग्रहे – भक्तिशब्दश्च प्रीतिविशेषे वर्तते। प्रीतिश्चज्ञानविशेष एव।

ननु च सुखं प्रीतिरित्यनर्थान्तरम्। सुखञ्च ज्ञानविशेषसाध्य XXXXX पदार्थान्तरमिति लौकिका:। नैवं येनज्ञानविशेषेण तत्साध्यमित्युच्यते। स एव ज्ञानविशेषस्सुखम्। एतदुक्तं भवति विषयज्ञानानि सुखदु:खमध्यस्थ साधारणानि तानि च विषयाधीन विशेषाणि तथा भवन्ति। येन विषयविशेक्षण- विशेषितं ज्ञानम्। सुखस्य जनकमित्यभिमतम्। तद्विषयज्ञानमेव सुखं तदतिरेकी पदार्थान्तरं न उपलभ्यते। तेनैव सुखित्वव्यवहारोपपत्तिश्च। एवं विधसुखरूपज्ञानस्य विशेषकत्वं ब्रह्मव्यतिरिक्तस्य वस्तुन: सातिशयमस्थिरञ्च ब्रह्मणस्त्वनवधिकातिशयं स्थिरं च इत्यानन्दो ब्रह्मेत्युच्यतेविशेषयात्मत्वात् ज्ञानस्य सुखरूपताया: ब्रह्मैव सुखम्।तदिदमाह – ‘रसो वै स:, रसगँह्येवायं लब्धवाऽऽनन्दी भवति। ब्रह्मैव सुखमिति ब्रह्म लब्ध्वा सुखी भवति’ इत्यर्थ:। परमपुरुषस्वेनैव स्वयमनवधिकातिशया सुखसन् परस्यापि सुखं भवति। सुखरूपत्वा विशेषात् ब्रह्मा यस्य ज्ञान विषयो भवति स सुखी भवति इत्यर्थ:।तदेवं परस्य ब्रह्मणोऽनवधिकातिशयासङ्ख्येपकल्याण गुणगणौकारस्य निरवद्यस्यानन्त महाविभूते: अनवधिकदया सौशील्य- सौन्दर्य -वात्सल्य- जलधे: सर्वशेषित्वादात्मनश्शेषता प्रतिसम्बन्धितयाऽनुसन्धीय्यमान अनवधिकातिशयसुखरूप आत्मा परंब्रह्मै (व) नमात्मानं प्रापयतीति। तथा च शेषत्वज्ञानगर्भैवभक्तिरित्यवश्यमभ्युपेयम्। शेषत्वं च प्रकृते भगवद्गतातिशयाधानेच्च यो पादेयत्वे सति तदनुगतातिशयाधानेच्छयो पादेयत्वाभाववत्वमेव परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपं सशेष: परश्शेषीति वेदार्थसङ्ग्रहे भाष्यकारैरेवकारधटिकतया शेषलक्षणशिक्षणात्।

Page-33

सर्ववेद मूलभूते प्रणवे लुप्त चतुर्थ्युक्तस्य भगवच्छेषत्वस्य उकारेणानन्यार्हत्वविशिष्टतया विवरणाच्च। तथा चैवम्; विधभगवच्छेषत्वज्ञानगर्भाभक्तिस्साधनत्वेन स्वविषयप्रवृत्तिं प्रति स्वयमेव प्रतिबन्धिका तस्या: प्रवृत्तेश्चेतनस्य स्वगतातिशया धानार्थत्वेन प्रवृत्तिरूपत्वेन तथा विध प्रवृत्तिं प्रति तथाविध प्रवत्त्यनर्हत्वरूपानन्यार्हत्वज्ञानस्य प्रतिबन्धकत्वेन तज्ज्ञान गर्भाया भक्ते: तत्प्रतिबन्धकत्वात्; न हि सुरापानानर्हतां ज्ञानतो ब्राह्मणस्य तत्प्रवृत्तिस्सम्भवति। न च भक्तिनिष्ठं प्रत्यनन्यार्हत्वस्याज्ञेयत्वं शङ्क्यं एतां विस्वस्यभूतिं योगञ्च – ‘मम यो वेत्ति’ तत्त्वत:’ इत्युक्तस्य तत्त्वतो भगवद्गुणविभूतियोगज्ञानस्यैव भक्तिरूपत्वापत्ते: उक्तत्वेन सकलचेतना चेतनानां भगवदनन्यार्हशेषत्वस्योपासकैरवश्यं ज्ञातव्यात्। तस्मात्साधनतया भक्त्यनुष्ठानस्य भक्तिस्वरूपयाथात्म्या ज्ञानमूलकत्वेन न तस्यावेदान्तकात्पर्यविषयत्वं संभवतीति। अन्यच्च साधनभक्ते: भक्ति शब्दवाच्यताया अप्यसम्भवेन नेयं वेदान्तविधेयाभवितुमर्हति। तथाहि –भक्तिर्न्नाम परिपूर्णशेषवृत्तिरेव। तदाहु: – श्रुतप्रकाशिकाचार्या एवं रूपा ध्रुवानुस्मृतिरेव भक्तिशब्देनाभिधीय्यत इति भाष्यव्याख्यानावसस्भज इत्येष धातु: वैसेवायां परिकीर्तित:। तस्मात्सेवा बुधै: प्रोक्ता भक्तिशब्देन भूयसि’॥ इति। भगवान् भाष्यकारश्च वेदार्थसङ्ग्रहे– ‘सर्वाश्रमै: स्सदा सेव्यस्समस्तैरेक एव’ इति सर्वैरात्म याथात्म्यविद्भि: सेव्य: पुरुषोत्तम एक एव यथोक्तं भगवता

मां च योऽव्यभिचारेण भक्तियोगेन सेवते।

सुगुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते॥

इति। इयमेव भक्ति रूपा सेवे ‘ब्रह्म विदाप्नोति परं तमेवं विद्वानमृत इह भवति’ इत्यादिषु वेदनशब्देन अभिधीयते इत्युक्तमिति। भक्तेश्शेष व्यत्यात्मक सेवारूपत्वमनुजग्राहशेषवृत्तिश्च केवलपरातिशयाधानार्थ प्रवृत्तिरेवेति। तथा विधासाध्यभक्तिरेव भक्ति शब्देन मुख्यवृत्त्या प्रतिपाद्यते।

Page-34

न तु साधनभक्ति: तस्या मोक्षरूपस्वार्थसिद्ध्यत्वेन परातिशयाथानार्थत्वाभाबादिति न साधनभक्तिर्वेदान्तविधेयेति किं बहुना? भगवद्व्यातिरिक्तानां सर्वेषां चेतनाचेतनानां भगवदनन्यार्हशेषत्वस्य ‘पतिं विश्वस्य’ इत्यादि प्रमाण सिद्धतया तदन्तर्भूत चेतनस्यापारतत्त्फलयो: चेतनस्य वस्तुत: स्वाम्याभावेन तदन्तर्गतं न किञ्चिदपि चेतनाभिमतार्थसाधनं भवितुमर्हतीति  -न वेदान्तविहिताभक्ति: मोक्षसाधनम्। अत एवोक्तं महाभारते–

त्रय एव धना राजन् भार्या दासस्तथासुत:।

यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्॥

इति। निरुक्ते च – या: काश्चन कृतयो मम भगवति ता सुभगवत एवता: मम ममतानास्तीति। न च ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मन इति। ननु

‘अस्ति ब्रह्मेति चेद्वेदसन्तमेनं ततो विदु:।

ज्ञानानन्दमयस्त्वात्मा आत्मा ज्ञानमयो मल:॥

इत्यादिभि: प्रमाणैश्चेतनस्य ज्ञानैकाकारतया तदेकनिरूपणीयत्वावगमेन तदपेक्षया ‘शेषत्वस्येश्वर व्यावृत्तिमात्रूप बहिरङ्गत्वेन अन्तरङ्गस्य ज्ञानस्यैव प्रबलत्वेन – तद्वलायातकर्तृत्व – भोक्तृत्वयो: – ‘कर्ता शास्त्रार्थवत्वात्’, ‘शास्त्रफलं प्रयोक्तरीति सूत्रद्वय दृढीकृतयो: विरोधेनैव शेषत्वस्यनेय तया न तथा विध शेषत्वबलेन भक्ते: साधनत्वासम्भवोपपादनं युज्यत इति चेन्न; श्रीवचनभूषणमीमांसाभाष्ये वरददेशिकै: ज्ञातृत्वापेक्षया शेषत्वस्यैव जीवस्वरूपान्तरङ्ग निरूपकत्वेन ‘शास्त्रफलं प्रयोक्तरि’ इति सूत्रस्य साधनान्तरफलभोगत्वपरत्वेन च तयो: सूत्रयो: शेषत्वविरुद्धस्वाभाविककर्तृत्व भोक्तृत्वासम्भवेन च शेषत्वरूपचेतनस्वरूपविरुद्धत्वादेव तद्व्यापाराणां सर्वेषां साधनत्वासम्भवोपपादनस्य विरोधाभावात् — चेतनानां साधनान्त्र कर्तृत्वस्यागन्तुकत्वं तु –

प्रकृते: क्रियमाणानि गुणै: कर्माणि नित्यश:।

अहङ्कारविमूढात्मा कर्ताहमिति मन्यते॥

इति श्रीगीतायामेवोक्त:। तदाह भगवान् भाष्यकार:। ‘शास्त्रार्थवत्त्वादिति’ सूत्रभाष्ये – यच्चा प्रकृते: क्रियमाणानि

Page-35

इत्यादिना – ‘गुणानामेव कर्तृत्वं स्मर्यते’ इति तत्सांसारिकप्रवृत्तिष्वस्य कर्तृता सत्त्वरजस्तमो गुणसंसर्गकृतानुस्वरूपप्रयुकतेति प्राप्ता प्राप्तविवेकेन गुणानामेव कर्तृत्वम् इत्युच्यत इति। अत्र स्वरूप प्राप्तकर्तृत्वसामान्यस्य गुणसङ्गकर्तृत्वोक्त्या साधनभक्ति प्रवृत्तिकर्तृत्वस्यापि भगवदनन्यार्ह शेषत्वादिरूपस्वरूपाप्राप्तत्वेन तस्यापि गुणसङ्गकृतत्त्वम्। साध्यभक्ति प्रवृत्तिकर्तृत्वस्यैव स्वशेषत्वरूपस्वरूप प्राप्यत्वेन स्वरूपप्रयुक्तत्वं च स्पष्टमभिहितमिति ध्येयम्। अत एवाह – श्रीवचनभूषणमीमांसायां लोकाचार्या:– परप्रयोजन प्रवृत्तिप्रयत्नफलमिति तस्माद्वेदान्तानां साधनभक्ति परत्वस्य सुकरां असम्भवेन साध्यभक्तिरेव वेदान्तै: विधीय्यत इत्यस्मात् सिद्धान्तानां साध्यभक्तैक परत्वे ‘भक्त्यात्वनन्यया शक्य:’ इत्यादि वाक्यानां का गति:? इति चेत्; साधनत्व प्रतिपादकानां वाक्यानां दृष्टविधया साधनत्वं पञ्चम्यन्तादिपदानां व्याजत्वं प्रयोजकत्वञ्च लट्-लोट् तव्यप्रत्ययान्तानां स्वयं प्रयोजन भगवन्मुखोल्लासार्थतया कर्तव्यत्वमित्यादिका समीचीनैव गतिरिति साध्यभक्ते: वेदान्तविधेयत्वेन कोऽपि विरोध इति। तथा विध साध्यभक्तिसमाराध्य: सिद्धधर्मभूत: पुरुषोत्तम एव सर्ववेदान्तवेद्य: इति सिद्धं भगवत: सिद्धधर्मत्वेनाकारेण सर्ववेद वेद्यत्वम्।तदुक्तं महाभारते–

‘ये च वेदविदो विप्रा ये चाध्यात्मविदोजना:।

ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम्॥’

इति। ये च वेदविदो इत्यनेन पूर्वभागेऽपि ज्योतिष्टोमादिकं भगवत्प्रीणनमात्रं तद्व्याजेन भगवानेन स्वर्गाद्यलौकिक श्रेयस्साधनतया धर्मत्वेन विवक्षित इति गम्यते। वेदशब्दस्य ‘गोबलिवर्धन्यायेन’ पूर्वभागपरत्वात् विच्छब्दस्य सार्थवेदन परत्वाच्च। अध्यात्मविद: – ‘द्वासुपर्णा’ इत्याद्युक्तरीत्या शरीरान्तर्वर्ती जीवात्म परमात्म विद इत्यर्थ:। अनेन वेदान्तेषु आत्म- परमात्मविद्ये भगवत्प्रीणनमात्रम्। तद्व्याजेन भगवानेन कैवल्य मोक्षरूपालौकिक श्रेयस्साधनतया धर्मत्वेन अभिप्रेत इति गम्यते।

Page-36

सनातनमिति- न स्वरूपानादित्वपरम्। भगवत्स्वरूपानादित्वोक्ते: प्रकृतेवेफल्यात्। किन्तु ज्योतिष्टोमादे: भगवत्प्रीतिरूपालौकिक श्रेयस्साधनत्वम्। यथा दृष्टादृष्ट परिकर सापेक्षं न तथा भगवत: फलसाधनत्वमदृष्टद्वारक किञ्चिद्व्यापारसापेक्षम्। सर्वस्यापि व्यापारस्य भगवत्प्रसादरूपादृष्ट साध्यत्वात्। तस्मात् भगवतो धर्मत्वं सनातनमित्यर्थ:। इतीदं वचनमस्मदाचार्यैरेव व्याख्यातम्। अस्मिन्वचने मुक्तकण्ठमेव धर्मत्वेनैव XXXXX भगवतस्सर्ववेदवेद्यत्वस्य सर्वशिष्टजनसम्मतत्त्वोक्त्या तद्गोष्ठीबहिष्ठतामसहमानैरनसूयुभि: प्रियमेव पन्थाश्शरणीकरणीय्य: । इत्थञ्च सति – सर्ववेदाद्यन्त प्रतिष्ठितस्य सर्ववेदमूलभूतस्य प्रणवस्यापि प्रकृतिभूते अकारे भगवतस्सकलचेतन निरूपितसर्वप्रकार निरुपाधिक रक्षकत्त्वोक्त्या सर्वेषामपि वेदानां तदैककण्ठ्यमिति सुशोभनम्। स रहस्य सर्ववेदवेदान्तानां सुदुर्लभं सामरस्यम्। तदिदं सामरस्यमभिप्रेत्यैवौकतम्।

‘लक्ष्म्यासहहृषीकेशो देव्याकारुण्य रूपया।

रक्षकस्सर्वसिद्धान्ते वेदान्तेऽपि च गीयते॥’

इति। तस्मात् सिद्धधर्मभूत: श्रिय:पति: परमकारुणिक: सौन्दर्य सौशील्यादि सकलकल्याणगुणाकरो रिपूणामपि वत्सल: पुंसां दृष्टिचित्तापहारी दिव्यसुन्दरविग्रह: परमपुरुष एव विविध विनतजगदवनलीलया निखिल निगमवीथिका विहारीति सिद्धम्। सिद्धान्तहृदयम्

इति श्रीमद्वाधूलकुलतिलक श्रीमन्महाचार्य चरणयुगळ भावितेन श्रीनिवासदासेन विरचितायां सिद्धधर्मविजय मङ्गलदीपिकायां प्रथम: प्रकाश:

 

श्रीमते रामानुजाय नम:

श्रीमते रम्यजामातृमुनये नम:

श्रीमते श्रीनिवासमहागुरवे नम:

श्री श्रीनिवास नारायणगुरुभ्यो नम:

ओम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.