॥ श्रीः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीमते रम्यजामातृमनये नमः ॥
॥ श्रीमन्महागुरवे नमः ॥
॥ श्रीमद्वेङ्कटलक्ष्मणार्य सम्यमिने नमः ॥
श्रीमद्वेङ्कटलक्ष्मणार्यसम्यमीन्द्रैः अनुगृहीता
सिद्धान्ततूलिका
प्रथमः परिच्छेदः
वरवरमुनिवरचरणो तरुणसरोजातजठरकमनीयौ ।
अपि मम शिरस्यकस्मात् करुणापरिणामदापितौ कलये ॥
मुमुक्षोः मोक्षार्थ प्रमाणसारेण प्रमेयसारनिर्णयः कर्तव्यः । तत्र धर्मज्ञसमय एव सारभूतम् प्रमाणम् । स्वतः प्रमाणस्य वेदस्यापि तत्सापेक्षत्वात् । तदुक्त-मापस्तम्बेन – *धर्मज्ञसमयः प्रमाणम् वेदाश्च* इति (आ. घ. सू.प्र. १-२, ३) ।
न च धर्मज्ञसमयस्यापि साक्षात्परम्परया वा वेदसापेक्षत्वम् शक्यम् । वेद – योगाद्यगोचरात्यन्ता-लौकिकार्थसाक्षात्कारक्षम भगवन्निर्हेतुककटाक्ष-लब्धदिव्यचक्षुष्काणाम् पराङ्कुशादिधर्मज्ञानाम् समयस्य वेदसापेक्षत्वाभावात् । तदुक्तम् गीतायाम् – *नाहम् वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवम्विधो द्रष्टुम् दृष्टवानसि माम् यथा* इति ॥ (गीता. ११-५३) न चैवमपि *नो इतराणि* (तैत्तिरियोपनिशत् शि. ब. अनु. ११) इति श्रुतिनिषिद्धापचरितानामपि प्रामाण्य-वारणाय धर्मज्ञसमये वेदाविरुद्धाम्श एव प्रमाणमिति वक्तव्यतया तस्य वेद-सापेक्षत्वमावश्यकमिति वाच्यम् ॥
तस्याः श्रुतेः धर्मसमयानन्तर्गतेन्द्रचन्द्राद्यपचरितविशेषविषयत्वेन तेषां प्रामाण्यापत्ययोगात् । तथा हि –
धर्मज्ञत्वम् नाम – *अलौकिक श्रेयस्साधनविषयकासङ्कुचित- साक्षात्कारवत्त्वम्। धर्मवीर्यसम्वर्धित-ज्ञानानामिन्द्रचन्द्रादीनाम् न चैतदस्ति । तेषाम् ज्ञानस्य साधनतारतम्यानुगुणत्वेन सङ्कुचितत्वात् । अधिकारारम्भककर्मणा तिरोहितत्वाच्च । तस्मादिन्द्रचन्द्रपराशरादीनामहल्यातारामत्स्यगन्धिनीगमनादिकम् न धर्मज्ञसयांतर्गतम् । इति ॥
नन्वेवसपि विप्रनारायणकृतदेवदेवीगमनस्य (भक्ताङ्घ्रिरेणु नामा दिव्यसूरिः), नीलकृतपरद्रव्यापहारस्य (परकाल नामा दिव्यसूरिः) च प्रामाण्यापत्तिवारणाय वेदसापेक्षत्वम् धर्मज्ञसमयस्याङ्गीकर्तव्यमेवेति चेन्न ।
तयोस्तद्दशायाम् धर्मज्ञत्वाभावेनैव तदापत्यसम्भवात् । तयोस्तदनन्तरमेव भगवन्निर्हेतुककटाक्षेण ज्ञानलाभ इति पूर्वाचार्यरनुगृहीतत्वात् ।
किञ्च – पूर्वोक्तानामपचरितानाम् प्रामादिकत्वेन समयत्वाभावाच्च ।
उपादेयत्वेन धर्मज्ञप्रवर्तितो हि धर्मज्ञसमयः ?
अपि च – वेदविरुद्दस्य धर्मज्ञसमयस्याप्रामाण्याङ्गीकारे जामदग्न्यकृतमातृ- शिरश्छेदरूपगुरुवचनपरिपालनस्याप्रामाण्यापत्तिः । न चेष्टापत्तिः ।
*जामदग्न्येन रामेण रेणुका जननी स्वयम् । कृत्ता परशुनारण्ये पितुर्वचन-कारिणा* (रामा. अयो. स. २१-३४) इति श्रीरामायणे कौसल्याम् प्रति तस्य प्रमाणतमधर्मज्ञसमयत्वेनोदाहृततया तद्विरोधात् ।
न च तस्य वेदाविरुद्धत्वम् शङ्क्यम् । *मातृदेवो भव* (तैति.शि.व.अ. ११) पितुश्शतगुणम् माता गौरवेणातिरिच्यते* (मनुस्मृतिः २-१४५- सहस्रन्तु पित्रून् इति पाउः) इत्यादि प्रमाणैः पितुश्शतगुणाधिकत्वेन प्रसिद्धायाः मातुः पितृवचनपरिपालनमात्रार्थं स्वहस्तेन परशुना शिरश्छेदनस्यात्यन्तवेदविरुद्धत्वस्य सुस्पष्टमवगम्यमानत्वात् । तस्मात् धर्मज्ञसमय एव सारभूतम् प्रमाणमिति सिद्धम् ।
स च समयो द्विविधः । उपदेशरूपोऽनुष्ठानरूपश्चेति । उपदेशोऽपि द्विविधः । विवरणिरूपो विवरणरूपश्चेति । आद्य उपदेशो रहस्यत्रयात्मकः । अन्यस्सहस्र- गाधोपनिषदादिरूपः । अनुष्ठानरूपस्समयो गुरुपरम्परादिवेद्यः । उपदेशाविसम्वादी च । तदेवम्विधेनोपदेशाविसम्वादिना पराङ्कुशपरकालादि धर्मज्ञानुष्ठानरूपेण धर्मज्ञसमयेन सर्वप्रमाणसारभूतेन सर्वप्रमेयसारनिष्कर्षः कर्तव्य इति सिद्धम् ।
इति श्रीमद्वाधूलकुलतिलक श्रीमन्महाचार्य चरणयुगभावित
श्रीनिवासदासेन विरचितायाम् सिद्धान्ततूलिकायाम्
प्रथमः परिच्छेदः
अथ द्वितीयपरिच्छेदः
अथ प्रमेयसारो निरूप्यते । मोक्षार्थमवश्यज्ञातव्यः प्रमेयः प्रमेयसारः । स च पञ्चविधः । स्वस्वरूपपरस्वरूपपुरुषार्थस्वरूपोपायस्वरूपविरोधिस्वरूपभेदात् । तत्र शेषत्वे सति पारतन्त्र्यम् स्वस्वरूपलक्षणम् । शेषत्वम् नाम ; परातिशयाधानेच्छयोपादेयतामात्रम् । तदुक्तम् श्रीभाष्यकारैः वेदार्थसङ्ग्रहे .
*परगतातिशयाधानेच्छयोपादेयत्वमेव यस्य स्वरूपम् स शेषः; परश्शेषी ।* (वेदार्थसङ्ग्रहे शेषलक्षणम्) इति । जैमिनिसूत्रञ्च *शेषः परार्थत्वात्* (जैमिनि सू. ३-१-२) इति । तस्य च शाबरभाष्यम् – *यः परार्थस्तम् वयम् शेषम् ब्रूमः* (शाबरभाष्ये ३-१-२) इति । तान्त्रिकोक्तिश्च –
*तस्मात्पारार्थ्यमेवैकम् युज्यते शेषलक्षणम् ।
परोद्देशप्रवृत्तिश्च पारार्थ्यमभिधीयते ॥* इति ।
तदिदम् शेषत्वम् द्विविधम् । स्वरूपयोग्यतारूपम् ; फलोपधानरूपञ्चेति । तत्र परगतातिशयाधानेच्छाजन्योपादानमात्रार्हतारूपम् शेषत्वम् स्वरूपयोग्यतात्मकम्। तादृशोपादानमात्रविषयत्वम् फलोपधानरूपम् शेषत्वमिति ज्ञेयम् । तत्र
स्वरूपयोग्यतारूपम् शेषत्वम् फलोपधानरूपशेषत्वनिरूणीयम् । अतएवोच्यते –
*यथेष्टविनियोगार्हश्शेष इत्युच्यते बुधैः ।
ईश्वरेण जगत्सर्वम् यथेष्टम् विनियुज्यते ॥* इति ।
पुनश्शेषत्वम् द्विविधम् । प्रधानशेषत्वम् द्वारशेषत्वञ्चेति । स्वयम् प्रयो-
जनातिशयघटितम् शेषत्वम् प्रधानशेषत्वम् । अन्यार्थातिशयघटितम् शेषत्वम् द्वारशेषत्वम् । पुनर्द्विविधम् । अनन्यार्हमन्यार्हञ्चेति । स्वाभाविकम् शेषत्वम्
अनन्यार्हम् । आगन्तुकम् शेषत्वमन्यार्हम् । शेषत्वम् पुनः चतुर्विधम् । शेषी च्छाघटितम् । शेषेच्छाघटितम् । उभयेच्छाघटितम् । उदासीनेच्छाघटितञ्चेति ।
तदुक्तम् तान्त्रिकैः –
*इच्छया यदुपादेयम् यस्यातिशयसिद्धये ।
उभयानुभयैकैकजुषा तौ शेषशेषिणौ ॥* इति ।
अत्रोभयेच्छाघटितम् यच्छेषत्वम् तदेव दासत्वमित्युच्यते । तदेवम्विधेषु
शेषत्वेषु मध्ये स्वस्वरूपलक्षणतयाभिमतम् शेषत्वम् भगवन्निरूपितम् आचार्यशेषत्वद्वारकभागवतशेषत्वद्वारकम् । आचार्यनिरूपितप्रधानशेषत्वद्वारभूतम्, अनन्यार्ह दास्यरूपञ्च वेदितव्यम् । इदञ्च शेषत्वम् भगवच्छेषत्व-भागवतशेषत्वाचार्य शेषत्वरूपाम्शत्रयघटितम् । अत्र भगवच्छेषत्वरूपोंऽशः प्रथमपर्वशब्देनोच्यते । भागवतशेषत्वाम्शो मध्यमपर्वशब्देन । आचार्य-शेषत्वाम्शश्चरमपर्वशब्देन । तत्तत्फलोपधानक्रमापेक्षया च तथा व्यवहारः ।
न च सर्वशेषिणो भगवतः आचार्यापेक्षया द्वारशेषित्वम् नोपपद्यत इति
वाच्यम् । *न ते रूपम् न चाकारः* (प्र.जितन्ता-श्लो.५) इत्यादि प्रमाणबलेन ईश्वरस्वरूपरूपादीनाम् भक्तार्थत्वावगमेन तदनुसारेण भगवतो द्वार- शेषित्वस्यैवाङ्गीकरणीयत्वात् । यद्वा – स्वरूपतः प्रधानशेषिणो भगवतः स्वभावतो द्वारशेषित्वसम्भवेनानुपपत्त्यभावाच्च न कोऽपि दोषः इति ध्येयम् ।
अथ पारतन्त्र्यम् नाम स्वव्यापारानर्हत्वम् । तच्च त्रिविधम् । स्वरूप-
पारतन्त्र्यम् । साधनपारतन्त्र्यम् । फलपारतन्त्र्यञ्चेति । तत्र स्वभोग्योद्देश्यक-
प्रवृत्त्यनर्हत्वम् स्वरूपपारतन्त्र्यम् । अदृष्टद्वारकफलसाधनगोचरप्रवृत्त्यनर्हत्वम् साधनपारतन्त्र्यम् । स्वप्रवृत्त्युद्देश्यभोगवत्त्वानर्हत्वम् फलपारतन्त्र्यमिति विवेकः।
तथा च – पूर्वोक्तदास्यरूपभगवच्छेषत्वविशेषवत्त्वे सति त्रिविधपारतन्त्र्य- विशिष्टत्वम् स्वस्वरूपलक्षणमिति फलितम् । अस्य स्वस्वरूपलक्षणत्वम् स्वस्वरूपनिरूपकत्वमेव । तच्चयथावस्थितस्वस्वरूपविषयिताव्यापक-विषयताकत्वम् ।
ननु अहमिति प्रतीतौ धर्मिभूतज्ञानात्मिकायाम् यथावस्थितत्वस्वरूप
विषयिण्याम् शेषत्वपारतन्त्र्यविषयकत्वाभावेन तयोरुक्तस्वरूपनिरूपकत्वम् न सम्भवतीति चेन्न । तस्याः प्रतीतेः भगवदात्मकस्वात्मविषयकत्वेन, तत्र भगवच्छरीरत्वस्यापि विषयतया शेषत्वपारतन्त्र्यविषयकत्वस्याप्यक्षतत्वात् । आधेयत्वे सति विधेयत्वे सति शेषत्वस्यैव शरीरत्वरूपत्वात् ।
तदुक्तम् भाष्यकारैः – *यस्य चेतनस्य यत् द्रव्यम् सर्वात्मना
स्वार्थे नियन्तुम् धारयितुम् च शवय; तच्छेषतैकस्वरूपञ्च तत्तस्य शरीरम्* (श्रीभाष्ये – शरीरलक्षणम्) इति । अत्र शरीरलक्षणान्तर्गते चाधेयत्वविधेयत्वे अत्यन्तपारतन्त्र्यरूपे एव । अतो भगवच्छरीरत्वस्य भगवच्छेषत्व-पारतन्त्र्यत्वस्वरूपत्वेन भगवदात्मकस्वात्मविषयिण्यामहमिति पतीतौ तच्छेषत्वपारतन्त्र्यविषयकत्वस्याप्यक्षततया भगवच्छेषत्व- पारतन्त्र्ययोः स्वस्वरूपनिरूपकत्वेन स्वस्वरूपलक्षणत्वम् सम्भवत्येवेति सिद्धम् ।
इदञ्च स्वस्वरूपलक्षणम् प्रथमरहस्ये प्रणवनमःपदाभ्याम् प्रतिपाद्यते ।
तत्र प्रणवेन शेषत्वम् प्रतिपाद्यते । तत्राकारोत्तरलुप्तचतुर्थ्या *तादर्थ्ये चतुर्थी
वक्तव्या* (चतुर्थीविभक्तिप्रकरणे वार्तिकम्) इति शब्दवार्तिकानुशासनानुसारेण पारार्थ्यरूपतादर्थ्याभिधानात् । नमःपदेन च पारतन्त्र्यत्रयम् प्रतिपाद्यते । तत्र प्रणवान्वितेन नम:पदेन स्वरूपपारतन्त्र्यम्, मध्यमनमःपदेन साधनपारतन्त्र्यम् चरमपदान्वितनमःपदेन फलपारतन्त्र्यम् प्रतिपाद्यत इति विवेकः ।
अत्र *इतिहास: पुरावृत्तम्* (नामलिङ्गानुशासने काण्ड १, शब्दादि वर्ग ४) इत्युक्तरीत्या धर्मज्ञसमयरूपपूर्वाचारप्रतिपादकतया प्रबलप्रमाणभूतेतिहासश्रेष्ठभूत-श्रीरामायणपुरुषेषु मध्ये श्रीशेषावतारभूतस्य श्रीरामानुजस्य निष्ठा शेषत्वे, पारतन्त्र्ये श्रीभरतनिष्ठा, भागवतानाम् द्वारशेषत्वे श्रीशत्रुग्ननिष्ठा, आचार्यापेक्षया भगवतो द्वारशेषत्वे श्रीशबरीनिष्ठा, श्रीगुरुपरम्परावेद्य- श्रीमधुरकविप्रभृतिपूर्वाचार्य-निष्ठा च प्रमाणतयानुसन्धेयेति सर्वमवदातम् ।
इति श्रीमद्वाधूलकुलतिलक श्रीमन्महाचार्यचरणयुगभावितेन श्रीनिवासदासेन
विरचितायाम् सिद्धान्ततूलिकायाम् द्वितीयपरिच्छेदे
स्वस्वरूपनिरूपणोल्लासः प्रथम:
अथ क्रमप्राप्तम् परस्वरूपम् निरूप्यते । प्राप्तशेषित्वे सति परमप्राप्य-
प्रापकत्वम् परस्वरूपस्य लक्षणम् । प्राप्तशेषित्वम् नाम प्राप्तिविशिष्टत्वे सति
शेषित्वम् । प्राप्तिर्नाम सम्बन्धः । स नवविधः । पितृपुत्रभावः, रक्ष्यरक्षकभावः, शेषशेषिभावः, भर्तृभार्याभावः, ज्ञातृज्ञेयभावः, स्वस्वामिभावः, आधाराधेय- भावः, शरीरात्मभावः, भोक्तृभोग्यभावश्चेति । तदुक्तमाचार्यै:-
*पिता च रक्षकश्शेषी भर्ता ज्ञेयो रमापतिः ।
स्वाम्याधारोऽखिलात्मा च भोक्ता चाद्यमनूदितः ॥* (पाञ्चरात्रे) इति ।
तदेवम् नवविधास्वपि प्राप्तिषु स्वस्वामिभावरूपा प्राप्तिः प्रधानतमा । यद्वस्तु-सत्तादिलाभालाभावेव यल्लाभालाभौ तौ स्वस्वामिनौ । शेषिचेतनत्वमेव
स्वामित्वमिति वदन्ति । तन्न । किञ्चित्कारप्रतिसम्बन्धित्वस्यैव शेषित्वरूपतया तदभावेऽपि स्वस्वामिभावोपलब्धेः । तदुक्तम् महाकविना –
*न किञ्चिदपि कुर्वाणस्सौख्यैर्दुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यम् यो हि यस्य प्रियो जनः ॥*(उत्तररामचरिते ६-५) इति ।
रहस्यमीमाम्साभाष्यकृतस्तु – *यथेष्टविनियोगहेतुभूतसम्बन्धविशेषात्मक- शक्तिविशेषरूपम् स्वामित्वम्* (रहस्यमीमाम्साभाष्ये) इति शेषित्वादन्यदेव स्वामित्वम् व्याचख्युः । तथा च – एवम् रूपस्वस्वामिभावाद्यष्टविधप्राप्ति-विशिष्टा, शेषशेषिभावरूपा प्राप्तिः प्राप्तशेषित्वमिति फलितम् । अत्रोच्यमानम् शेषित्वम् स्वातिशयोद्देशेन यथेष्टम् सकलचेतनाचेतनविनियोक्तृत्वे सति तत्तद्विनियोगजन्यतत्तदतिशयजनितातिशयविशेषशालित्वरूपम् बोध्यम् ।
परमप्राप्यत्वम् नाम प्राप्तिविशेषफलीभूत-केवलपरार्थानुभवकैङ्कर्यप्रति-
सम्बन्धित्वम् । तादृशानुभवकैङ्कर्यप्रतिसम्बन्धित्वम् नाम – तथाविधानुभव-कैङ्कर्यरूपचेतनप्रवृत्त्युद्देश्यातिशयशालित्वे सति तदनुद्देश्यानुषङ्गिकचेतन-भोगजनितप्रीतिविशेषशालित्वम् ।
परमप्रापकत्वम् नाम – स्वापेक्षया प्रापकान्तरशून्यत्वे सति प्रापकत्वम् ।
तच्च प्रापकत्वम् चेतनप्रवृत्तिप्रतिरुद्धरक्षणप्रवृत्तिमत्त्वे सति वक्ष्यमाणव्याजभूत-
भक्तिप्रपत्तिविषयत्वे च सति निर्हेतुकस्वप्रसादरूपव्यापारसम्बन्धावच्छिन्नयादृ-
च्छिकादिकैङ्कर्यपर्यन्तफलकारणत्वरूपम् बोध्यम् । इदञ्च कारणत्वम् भगवतो निरपेक्षपुरुषकारभावविशिष्टलक्ष्मीगुणविग्रहविशेषविशिष्टवेषेण । तेन न प्राप्या-
भेदप्रयुक्तप्रायकत्वानुपपत्तिः ।
ननु-भगवतो निर्हेतुकप्रसादद्वारैव मोक्षकारण वे सर्वमुक्तिप्रसङ्ग इति चेन्न । प्रातिकूल्यव्यवसायमादाय सर्वमुक्तिप्रसङ्गवारणसम्भवात् । तथा हि – ईश्वरस्तावत् भक्तिकृषीवल: स्वाभाविकेशेशितव्यसम्बन्धप्रयुक्तसौहार्दरूपप्रसाद- विशेषेण स्वयमेव सकलजगदुज्जीवनकामः पितृपुत्रभावादिसम्बन्धेन सर्वेषाम् करणकलेबरदानादिपूर्वकम् हितम् प्रवर्तयन् शास्त्रप्रदानस्वावतारादिमुखेन
स्वप्राप्तये स्वयमेवोपायः इतीममर्थ यथा स्त्रीचालादयोऽपि सुस्पष्टम् जानीयुः, तथा कृषिं करोति । एवम् पुनः कृषिकरणेऽपि ये तावत् निर्हेतुकोपायभावादि भगवद्वैभवेषु अभ्यसूयया भगवत्प्रवृत्तिविरोधिस्वप्रवृत्तिरूपभगवत्प्रातिकूल्यव्यवसायान्न विरताः भवेयुः, न तानीश्वरस्साधुकर्म कारयति । ये तावत्तथाविधभगवद्वैभवादिषु अद्वेषपूर्वकम् निवृत्ताः दुर्व्यवसायाद्भवन्ति, तानेव भगवानुन्निनीषन् उत्तरोत्तरमाभि-मुख्यादिजननपूर्वकम् सात्विकसम्भाषणसदाचार्यनेवादिसाधुकर्म कारयति । तदिदमुच्यते – *एष एव साधुकर्म कारयति तम् यमेभ्यो लोकेभ्य उन्निनीषति* (कौशीतको ३-१) इति । स्मृतिश्च –
*ईश्वरस्य च सौहार्दम् यदृच्छासुकृतम् ततः ।
विष्णोः कटाक्षामद्वेषमाभिमुख्यञ्च सात्विकैः ।
सम्भाषणम् षडेतानि ह्याचार्यप्राप्तिहेतवः ॥* (पाञ्चरात्रे) इति ।
तदिदमाहुर्वात्स्यवरदाचार्यास्तत्वसारे –
*दुष्कर्मव्यवसायस्तु विरतो यस्तस्य पुम्सः पुरा
भूयो जन्मसमार्जितान्यगणितान्यागाम्स्यनादृत्य यत् ।
तस्मानन्तसुखाप्तये च यतते लक्ष्मीसहायस्स्वयम्
तत्कारुण्यपुरस्सरो गुणगणस्तस्यायमुज्जृम्भते ॥* (तत्वसारे) इति ।
तदेवम् सर्वसु मुक्तिप्रसङ्गतय भगवतस्स्वप्रातिकूल्यनिवृत्तिमात्रसापेक्षतास्वीकारेण वारणसम्भवात् , तेन भगवदुपायत्वनिर्हेतुकत्वभङ्गाभावाच्च, निर्हेतुकस्वप्रसाद- द्वारा निर्हेतुकपुरुषकारभावविशिष्टलक्ष्मीगुणविग्रहविशेषविशिष्टो भगवानेव मोक्ष-कारणमिति सर्वम् निरवद्यम् ।
इदञ्च परस्वरूपलक्षणम् प्रथमरहस्ये क्रमेण पदत्रयप्रतिपाद्यम् । तस्मिन्
भगवतः शेषित्वशरण्यत्वप्राप्यत्वानामपि क्रमेणाभिधानात् । अत्र परस्य प्राप्तत्वे
भगवदवतारभूतस्य चक्रवर्तिसूनोः,-
*व्यसनेषु मनुष्याणाम् भृशम् भवति दुःखितः ।
उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥* (रामाय. अयो. २-४१)
इत्याद्युक्तवृत्तिविशेषः प्रमाणम् । तेन लोकलाभालाभारूपलाभालाभवत्त्वात्मक- सर्वलोकस्वामित्वावगमात् । *राज्यम् चाहम् च रामस्य* (रामाय. अयो, ८२-१२) इति भरतनिष्ठापि प्रमाणमेव । तेन सर्वेषाम् भगवत्स्वत्वावगमात् । किञ्च – विश्लिष्टायाः प्रणयिन्याः सन्देशभाषिणे गृध्रराजाय पक्षिणे, *मया त्वम् समनुज्ञातो गच्छ लोकाननुत्तमान्* (अर. ६८-३४) इति श्रीचक्रवर्तिसूनुना सकलविभूति-प्रदानमपि स्वामित्वे शेषित्वविशेषे च प्रमाणमेव । तेन यथेष्टम् सर्वविभूति-विनियोगहेतुभूतसम्बन्धविशेषात्मकशक्तिविशेषवत्त्वरूपसर्वस्वामित्स्य, तथा तद्विनियोक्तृरूपशेषित्वस्य चावगमात् ।
*अभिषिच्य च लङ्कायाम् राक्षसेन्द्रम् विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥* (बाल १-८३)
इत्युक्त्वा श्रीरामवृत्तिरपि शेषित्वे प्रमाणमेव । तेन यथेष्टविनियोक्तृत्वे सति तथाविधविनियोगजन्यातिशयजनितप्रीतिविशेषशालित्वरूपशेषित्वावगमात् ।
तथा – तस्य परमप्राप्यत्वे *यस्त्वया सह स स्वर्गो निरयोयस्त्वया विना।*(अयो. ३०-१८) इति सीतानिष्ठा, *एष सर्वस्वभूतस्तु परिष्वङ्गो
हनूमतः* (युद्ध. १-१३) इति भगवद्वृत्तिश्च प्रमाणम् ।
तथा भगवतः परमप्रापकत्वे निर्हेतुकम् तृणपिपीलिकादीनाम् श्रीरामेण
परमपदनयनम् प्रमाणतयानुसंधेयम् । न च तैर्विपावासरूपसाधनानुष्ठानस्य कृतत्वात् निर्हेतुकोपायभावे तस्य प्रमाणत्वम् न सम्भवतीति वाच्यम् । तैः मोक्षोद्देशेन विषयवासस्य कृतत्वे प्रमाणाभावात् । *पुल्लेरुम्बादियोन्निन्निये* (सहस्रगाधा ७-५-१) इति द्राविडोपनिषषन्निर्हेतुकत्ववचनविरोधाच्च विषयवासस्य साधनत्वासम्भवेन तस्य निर्हेतुकोपायभावे प्रामाण्यसम्भवात् ।
भगवतः चेतनप्रवृत्तिप्रतिरुद्धरक्षणप्रवृत्तिमत्त्वे सामान्यधर्मनिष्ठस्य दशरथस्य भगवदलाभः प्रमाणम् । अत एव रावणभस्मीकरणशक्तयापि सीतया – *शरैस्तु सङ्कुलाम् कृत्वा लङ्काम् परबलार्दनः । माम् नयेध्यदि काकुत्स्थः तत्तस्य सदृशम् भवेत् ॥* (सुन्दरका. ३९-३०) इति स्वप्रयत्ननिवृत्तिरनुष्ठिता ।
पुरुषकारवैशिष्ट्यावश्यकत्वे सीतासन्निधानासन्निधानाभ्याम् भगवता काकरावणरक्षणारक्षणे, *सीतासमक्षम् काकुत्स्थम्* (अर. १५-६) इत्यादि श्रीलक्ष्मणनिष्ठा च प्रमाणम् । पुरुषकारभावस्य निर्हेतुकत्वे तु आर्द्रापराध-राक्षसीविषयेऽपि तत्प्रवृत्तिः प्रमाणम् इत्यादिकमूह्यम् । इत्यन्यत्र विस्तरः ।
इति श्रीमद्वाधूलकुलतिलक थीमन्महाचार्य-
चरणयुगभावितेन श्रीनिवासदासेन
विरचितायाम् सिद्धान्ततूलिकायाम्
द्वितीयपरिच्छेदे
परस्वरूपनिरूपणोल्लासो द्वितीयः
अथ पुरुषार्थस्वरूपम् निरूप्यते । पुरुषप्रार्थनाविषयत्वम् पुरुषार्थसामान्य
लक्षणम् । अत्र पुरुषप्रार्थनाविषयत्वञ्च भगवदतिशयमात्रार्थत्वविशिष्टवेषेण ।
न च *सर्वस्स्वार्थम् समीहते* (शिशुपालवधे २-६५) इति न्यायेन स्वार्थ एव सर्वेषाम् प्रार्थनोदयेन परार्थमात्रविषयकप्रार्थना न सम्भवतीति वाच्यम् । तस्य न्यायस्य स्वातन्त्र्यभिमानिमात्रविषयत्वात् । तदाह भगवान्भाष्यकारो वेदार्थ-सङ्ग्रहे । *आत्माभिमानो यादृशस्तदनुगुणैव पुरुषार्थप्रतीतिः*(वेदार्थसङ्ग्रहे) इति । तस्मात्परशेषतै करसात्मस्वरूपयाथात्म्यज्ञानिनाम् परार्थ एव पुरुषार्थ इति तद्विषयप्रार्थनायाः न कोऽपि विरोधः ।
ननु – *कर्ता शास्त्रार्थवत्त्वात्* (ब्र.सू.२-३-३३) *शास्त्रफलम् प्रयोक्तरि* (जैमिनिसू. ३-७-१८) इति सूत्रद्वये चेतनस्यैव कर्तृत्वम् कर्तुरेव फलभोक्तृत्वम् चेति प्रतिपादनेन, तद्विरोधेन शास्त्रफलस्य पुरुषार्थस्य केवलपरार्थत्वम् न युज्यत इति चेन्न । स्वयम् प्रयोजनभगवत्प्रीतिसाधनतया पुरुषार्थत्वेन शास्त्रज्ञाप्ति-परार्थानुभवकैङ्कर्यरूपब्रह्मविषयकध्यानाराधनाद्यनुष्ठानकर्तृत्वस्य, तथाविध-ध्यानाराधनादि जनितानुषङ्गिकचेतनभोगभोक्तृत्वस्य च स्वाभाविकस्य तत्सूत्र-द्वयप्रतिपादितत्वेन तद्विरोधाभावात् ।
अन्यथा सर्ववेदमूलभूते प्रथमरहस्ये चरमनमःपदेन चेतनस्य स्वप्रवृत्यु-
द्देश्यभोगसामान्यनिषेधेन प्रथममध्यमनमःपदाभ्याम् स्वार्थकर्तृत्वसामान्य-निषेधेन च तद्विरोधेन तत्सूत्रद्वयस्य अप्रामाण्यापातात् । अत एव स्वरूप प्राप्तविषये कर्तृत्वस्य तत्फलभोक्तृत्वस्य च औपाधिकत्वम् ज्ञापितम् भगवता भाष्यकृता – *कर्ता शास्त्रार्थवत्त्वात्* (ब्र.सू.२-३-३३) इति सूत्रभाष्ये । **यच्च *प्रकृतेः क्रियमाणानी* (गीता ३-२७) त्यादिना गुणानामेव कर्तृत्वम् स्मर्यते इति; तत्साम्सारिकप्रवृत्तिष्वस्य कर्तृता सत्वरजस्तमोगुणसम्सर्गकृता । न स्वरूपप्रयुक्तेति प्राप्ताप्राप्तविवेकेन गुणानामेव कर्तृत्वमित्युच्यते** इति ।
तस्मात् शेषत्वपारतन्त्र्यरूपस्वरूपविरुद्धत्वेन स्वरूपाप्राप्तयोः स्वार्थ-कर्तृत्वभोक्तृत्वयोः स्वरूपप्रयुक्तत्वाभावात् परार्थकर्तृत्व आनुषङ्गिकफलपरार्थ-भोक्तृत्वयोरेव स्वरूपप्रयुक्तत्वेन स्वाभाविकत्वाच्च तदनुसारेण पुरुषार्थस्य केवलपरार्थत्वमेवोपपन्नमिति सिद्धम् ।
एवम् रूपः पुरुषार्थो द्विविधः । ज्ञानहेतुकः, ज्ञानविपाकहेतुकश्चेति । आद्यो द्विविधः । अनुभवः, कैङ्कर्यञ्चेति । निरतिशयाभिनिवेशेन चेतनानुभवक्रमेण व्युत्क्रमेण वा प्रवृत्तम् भगवन्तम् प्रति तत्तदनुगुणम् चेतनेन यत्प्रतिवीक्षण-प्रदानम् सोऽनुभव इत्युच्यते । स च ब्रह्मणा सह सल्लापसम्श्लेषादिरूपः । अयमेव सायुज्यमित्युच्यते । ब्रह्मणा सह एकभोगान्वयस्यैव सायुज्यशब्दार्थ त्वात् ।
सर्वदेशसर्वकालसर्वावस्थोचितसर्वविधशेषवृत्तिः कैङ्कर्यम् । अत्र सर्वविधत्वम् स्वकर्तृकप्रार्थनाभावप्रयुक्तप्रकारसङ्कोचाभाववत्त्वमेव। तेन सर्वचेतनानाम् प्रत्येकम् सर्वविधकैङ्कर्यासम्भवेऽपि न दोषः । तच्च कैङ्कर्य द्विविधम् । ज्ञानकृतम्,
भक्तिकृतञ्चेति । स्वरूपनाशभीतिकृतम् यत्कैङ्कर्य तत् ज्ञानकृतम् । गुणानुभवजनितप्रीतिकारितम् कैङ्कर्यम् भक्तिकृतम् ।
ज्ञानवृतम् द्विविधम् । इष्टकरणमनिष्टवर्जनश्चेति । एतदुभयमपि शास्त्रीय- नियमवदेव । भक्तिकृते तु न नियमः । *अत्यन्तभक्तियुक्तानाम् नैव शास्त्रम् न च क्रमः* इत्युक्तत्वात् । अत एव श्रीगोपीभिः कामेन भगवत्परिचरणेऽपि, घण्टाकर्णेन ब्राह्मणप्रेतोपहरणेऽपि, श्रीशबर्या द्विजदष्टफलसमर्पणेऽपि, श्रीपराङ्कुशा- दिभिः स्वोपकारिणो भगवतः प्रत्युपकारश्रद्धया अयथावदात्मसमर्पणेऽपि, श्री- गोविन्दभट्टारकैः स्वाचार्याय स्वानुभवपूर्वकम् पर्यङ्ककैङ्कर्य-करणेऽपि न दोषः इति ध्येयम् ।
अथ ज्ञानविपाकहेतुकोऽपि द्विविधः । स्वरक्षणप्रवृत्तिः पररक्षणप्रवृत्तिश्चेति । श्रीगोदादिकर्तृकः आद्यः । कामादिदेवतान्तरभजन-व्रतग्रहण-स्वमङ्गलाशासनादिरूपः । अन्त्यस्तु – आयोध्यकस्त्रीवृद्धादिकृतदेवतान्तरनमस्कारः । गोपीवृद्धाचरितबालरक्षाबन्धनम् । निर्निमेषतया नित्य जागरूकाणाम्
सदोद्यतायुधानाम् नित्यसूरिसङ्घानामस्थानरक्षाव्यसनम् । श्रीमदनन्तेन स्वाङ्कस्थितभगवद्गोपनार्थम् विरोध्युपगमनशङ्कया स्वमुखसहस्रेण परितो गरलाग्निवमनम् । विरोधिनाम् दुष्प्रेक्ष्यम् दुष्प्रवेशञ्च यथा तथा नीरन्ध्रतया परिवृत्य स्थितानाम् मुक्तानाम् मङ्गलाशासनम् । श्रीकुलशेखराचरितयुद्धसन्नाहः । श्रीभाष्यकारकृतधन्वन्तरिप्रतिष्ठेत्यादि रूपः ।
नन्वेतेषाम् स्वस्वरूपपरस्वरूपाज्ञानकार्यत्वेन ज्ञानविपाकहेतुकत्वम् न सम्भवतीति चेन्न। ज्ञानविपाकस्य स्वजन्याज्ञानद्वारैव हेतुत्वस्य विवक्षितत्वात्।
न च ज्ञानविपाकस्याज्ञानहेतुत्वम् विरुद्धमिति वाच्यम् । ब्रह्मध्यानस्येतरविषय- विस्मृतिहेतुत्वेनाविरोधदर्शनात् । न च नित्यमुक्तादीनामज्ञानासम्भवशङ्का ।
तेषु दोषरूपाज्ञानस्यैव निषेध्यत्वात् । अत एव स्वतः सर्वज्ञस्यापि भगवतः शास्त्रैः *अविज्ञाता सहस्राम्शुः* (विष्णु-सह.नामस.४८३) *अविज्ञाता हि भक्तानामागत्सु कमलेक्षणः* (पाञ्चरात्र) इत्यादिना अज्ञानविशेषः प्रतिपाद्यते ।
न च स्वस्वरूपपरस्वरूपाद्यज्ञानम् दोषरूपमेवेति वाच्यम् । प्रकृतिसम्सर्ग-
कृततदज्ञानस्यैव दोषरूपत्वेन ज्ञानविपाककृतस्य तस्य तथात्वाभावात् । ज्ञानस्य विपाको नाम निरतिशयप्रेमरूपत्वापत्तिरूपविषयिताविशेषः । तथाविध-विषयिताविशेषस्य च तद्विरुद्धसर्वविषयिताभिभावकत्वम् अवश्यमभ्युपगन्तव्यम् । अन्यथायुगपदेवातीतानागतानाम् भगवद्गुणविग्रह विभूत्यवस्थाविशेषाणाम् सर्वेषामपरिच्छिन्नानामप्यपरिच्छिन्नेनैव ज्ञानेन समतया नित्यमुक्तै-स्साक्षात्काराभ्युपगमे भगवद्गुणविग्रहविभूतीनाम् नित्यापूर्वत्व-भङ्गप्रसङ्गात् । अतो यदा यदा यस्य यस्य गुणानुभवस्य विपाकस्तदा तदा तत्तदनुभव-विपाकविशेषः तद्विरुद्धसर्वगुणाद्यनुभवाभिभावकः इति स्वीकरणीयम् । अत एव नित्यादीनाम् भगवद्गुणतारतम्यविषयकपरस्परविवादेन द्रविडोपनिष-दादिसिद्धे। न विरोधः । अत एव *यत्र नान्यत्पश्यति नान्यच्छृणोति नान्य-द्विजानाति स भूमा* (छा.७-२४) इत्युक्तभूमलक्षणमपि सर्वेषाम् गुणानाम् प्रत्येकम् सम्भवतीत्यपरमप्यनुकूलम् ।
तथा च – यदा तावत् भगवतः परमप्राप्यत्वज्ञानस्य विपाकविशेष- श्चेतनस्य भवति, तदा तादृशविपाकविशेषेण भगवतः शेषित्वशरण्यत्वादि-ज्ञानानामभिभवात् तदा तदज्ञानेन स चेतनो विलम्बा-क्षमतया व्रतग्रहणादि-स्वप्रवृत्तावन्वेति । यदा तावत् सौन्दर्य-सौकुमार्याद्यनुभवः तदा तेन भगवतः सर्वशक्तत्वादिज्ञानाभिभवात् तदज्ञानेन तद्रक्षणार्थ-मङ्गलाशासनादौ प्रवर्तत इति रीत्या सर्वसामञ्जस्यान्न कोऽपि दोषः इति ध्येयम् ।
अत्रोक्तम् पुरुषार्थस्य केवलपारार्थ्यम् प्रथमरहस्ये चरमनमःपदेन प्रति-
पाद्यते । तेन स्वभोगनिषेधात् । तत्र कैङ्कर्यपारार्थ्यम् *याः काश्चन कृतयो
मम भगवति तासु भगवत एव ताः मम ममता नास्ती* (उपनिषत्) ति श्रुयापि प्रतिपाद्यते । अनुभवपारार्थ्यञ्च *अहमन्नमहन्नमहमन्नम् । अहमन्नादोऽहम-न्नादोऽहमन्नादः ॥ अहमन्नमन्नमदन्तमद्मि* (तै.भृगु.अनु.१०) इति श्रुत्या प्रतिपाद्यते । अत्र कैङ्कर्यस्य केवलपारार्थ्ये, *स्वयन्तु रुचिरे देशे क्रियतामिति माम् वद* (रा.अर.१५-७) इत्युक्तश्रीलक्ष्मणनिष्ठा प्रमाणम् । अनुभवपारार्थ्ये, *बद्धाञ्जलिपुटाः हृष्टाः नम इत्येव वादिनः* (भारते-शान्ति ३३७-४०) इत्युक्त – श्वेतद्वीपवास्यादिनिष्ठाप्रमाणमित्यादिकमनुसन्धेयम् ।
इति श्रीमद्वाधूलकुलतिलक श्रीमन्महाचार्यचरणयुगभावितेन श्रीनिवासदासेन विरचितायाम् सिद्धान्ततूलिकायाम्
द्वितीयपरिच्छेदे
पुरुषार्थस्वरूपनिरूपणोल्लास: तृतीयः
अथोपायस्वरूपम् निरूप्यते। साध्यत्वे सत्युपायत्वम् प्रकृतोपायसामान्य लक्षणम्। तच्च-निर्हेतुकस्वप्रसादद्वारा सिद्धोपायजन्यत्वे सति दृष्टविधया
मोक्षकारणत्वम् । स च पञ्चविधः । कर्मज्ञानभक्तिप्रपत्त्याचार्याभिमानभेदात् । तत्र कर्म कैङ्कर्यरूपम् । ज्ञानम् स्वरूपप्रकाशरूपम् । भक्तिः प्राप्यरुचिरूपा ।
प्रपत्तिस्स्वरूपयाथात्म्यज्ञानरूपा । आचार्याभिमानस्तत्कर्तृकाभिमानरूपपरगत-स्वीकाररूपः इति बोध्यम् ।
अत्र कैङ्कर्यरूपकर्मणाम् नित्यकैङ्कर्यपर्यन्तमोक्षम् प्रति अभ्यासरूपत्वेन,
ज्ञानस्यानुभवकैङ्कर्यहेतुभूतस्वरूपज्ञानात्मकत्वेन, भक्तेः भोजनार्थक्षुधाव- दात्यन्ततिकप्राप्यरुचिरूपत्वेन, प्रपत्तेस्वार्थानुभवकैङ्कर्यादिविरोधिनिवृत्तिहेतुभूत-स्वरूपयाथात्म्यज्ञानत्वेन, आचार्याभिमानस्याचार्यविषयकभगवत्कर्तृक-रक्षासङ्कल्पसम्बन्धघटकत्वेन च दृष्टविधया मोक्षकारणत्वम् बोध्यम् ।
ननु – एवम्रूपकर्मादीनाम् दृष्टविधया मोक्षकारणत्वाभ्युपगमः, मोक्षस्य
निरपेक्षसिद्धोपायसाध्यत्वसिद्धान्तविरुद्ध इति चेन्न । स्वद्वारभूतस्वप्रसादहेतुतया यत्किञ्चिच्चेतनप्रवृत्तिनिरपेक्षत्वस्यैव सिद्धोपायनैरपेक्ष्यत्वेन विरोधाभावात् ।
ननु चैवम् कर्मादीनाम् मोक्षम् प्रति समुच्चयेनैव हेतुत्वस्वीकारः कर्मादीनाम् विकल्पेन मोक्षहेतुत्वसिद्धान्तविरुद्ध इति चेन्न । तस्य सिद्धान्तस्यादृष्टसाधन-भूतकर्मयोगादेः स्वार्थानुभवादिरूपमोक्षहेतुताविषयकत्वेन विरोधाभावात् । न चैवम् सति मोक्षम् प्रति दृष्टकारणभूतानाम् कर्मयोगादीनामननुष्ठाने मोक्षासिद्धि-प्रसङ्गः अनुष्ठाने च स्वातिशयोद्देशेन प्रवृत्त्यनर्हत्वरूपस्वरूपविरोधप्रसङ्गः इति उभयतः पाशा रज्जुरिति वाच्यम् । स्वयम्प्रयोजनभगवन्मुखोक्तासार्थत्वेनैव तेषामनुष्ठाने तेनैव मोक्षसिद्ध्या मोक्षोद्देशेन तदनुष्ठानानावश्यकत्वात् । अत-एवैतेषु केषाञ्चित् मुक्तिव्याजत्वोक्तिरप्युपपद्यते । अन्यार्थस्यैव सतः प्रसङ्गादुप-कारकत्वस्यैव व्याजत्वरूपत्वात् ।
एतेन कर्मज्ञानादीनाम् दृष्टविधया मोक्षकारणत्वे विधेयत्वानुपपत्तिरित्यपि
प्रत्युक्तम् । दृष्टविधया मोक्षसाधनत्वस्याज्ञातस्य ज्ञापनेन स्वयम्प्रयोजनभग-वन्मुखोल्लासरूपादृष्टसाधनताज्ञापनपूर्वकमप्रवृत्तप्रवर्तनेन च विधेयत्वसम्भवात् । तस्मात् सिद्धोपायकृषिफलीभूतानाम् स्वयम्प्रयोजनभगवन्मुखोल्लासप्रयोजकानाम्, अत एव तथाविधभगवन्मुखोल्लासमात्रोद्देश्यकचेतनप्रवृत्तिसाध्यानाम्, अत एव मोक्षसिद्ध्यनुद्देश्यकसामग्रीवशसम्पन्नानाम्, स्वयम्प्रयोजनकर्मादीनाम् मोक्षम् प्रति दृष्टकारणत्वाभ्युपगमे न कोऽपि विरोधः इति सर्वमुपपन्नम् ।
अत्र प्रथमरहस्पे लुप्तचतुर्थ्या कैङ्कर्यात्मककर्मणाम्, मकारेण ज्ञानस्य, प्रार्थ- नार्थकक्रियापदेन भक्तेः, स्वस्वरूपयाथात्म्यपरेण नमःपदेन प्रपत्तेः, स्वस्वरूपकाष्ठा- परेण तेनैवाचार्याभिमानस्य च प्रतिपादनमनुसन्धेयम् । अत्र कर्मादिपञ्चकविषय- पराङ्कुशादि-दिव्यसूरिनिष्ठाः अपि प्रमाणतयानुसन्धेयाः इत्यन्यत्र विस्तरः ।
इति श्रीमद्वाधूलकुलतिलक श्रीमन्महाचार्यचरणयुगलभावितेन श्रीनिवासबासेन
विरचितायाम् सिद्धान्ततूलिकायाम्
द्वितीयपरिच्छेदे
उपायनिरूपणोल्लासः तुरीयः
अथ विरोधिस्वरूपम् निरूप्यते । स्वरूपनाशप्रयोजकाज्ञानविषयत्वम् विरोधि- स्वरूपसामान्यलक्षणम् । तच्चाज्ञानम् द्विविधम् । अन्यथाज्ञानम्, विपरीतज्ञान-ञ्चेति । तथा च स्वस्वरूपनाशकान्यथाज्ञानविपरीतज्ञानान्यतरविषयत्वम् विरोधिलक्षणम् फलितम् । स च विरोधी पञ्चविधः । स्वस्वरूपविरोधी, परस्व-
रूपविरोधी, पुरुषार्थविरोधी, उपायविरोधी, विरोधिविरोधी चेति ।
तत्र स्वस्वरूपविनाशप्रयोजकरवस्वरूपविषयकान्यथाज्ञानविपरीतज्ञाना-
न्यतरविषयत्वम् स्वस्वरूपविरोधिलक्षणम् । स्वस्वरूपविनाशकपरस्वरूप-विषयकान्यथाज्ञानविपरीतज्ञानान्यतर विषयत्वम् परस्वरूपविरोधिलक्षणमिति रीत्या तत्तल्लक्षणानि द्रष्टव्यानि । तत्र स्वस्वरूपविपरीतज्ञानम् देहात्मभ्रमादिः । अतो देहादयस्स्वस्वरूपविरोधिनः । स्वस्वरूपान्यथाज्ञानश्चान्यशेषत्वस्वप्रयत्न-भोगार्हत्वरूपस्वस्वातन्त्र्यादिज्ञानम्। अतः अन्यशेषत्वादयस्स्वस्वरूपविरोधिनः ।
एवम् परस्वरूपविपरीतज्ञानम् देवतान्तराणाम् शेषित्वशरण्यत्वप्राप्यत्वादि -ज्ञानम् । कर्मादीनाम् साधनत्वज्ञानम् । स्वात्मस्वरूपादीनाम् प्राप्यत्वज्ञानञ्च । अतस्तानि परस्वरूपविरोधीनि । परस्वरूपान्यथाज्ञानञ्च – अन्यर्हशेषत्वनिरूप-कत्वेन, सोपाधिकशरण्यत्वेन, स्वार्थानुभवकैङ्कर्यप्रतिसम्बन्धित्वरूपप्राप्यत्व-वत्त्वेन च ज्ञानम् । अतस्तान्यपि परस्वरूपविरोधीनि ।
एवम् पुरुषार्थस्वरूपविपरीतज्ञानम् त्रैवर्गिकादीनाम् पुरुषार्थत्वज्ञानम् ।
अतस्तेषाम् पुरुषार्थत्वम् पुरुषार्थस्वरूपविरोधी । पुरुषार्थस्वरूपान्यथाज्ञानश्च भगवदनुभवकैङ्कर्यादीनाम् स्वार्थत्वेन ज्ञानम् । अतस्तेषाम् स्वार्थत्वमपि पुरुषार्थस्वरूपविरोध्येव ।
एवमुपायस्वरूपविपरीतज्ञानञ्च – परार्थ – कैङ्कर्यरूपपरमपुरुषार्थलक्षण-
मोक्षम् प्रत्यनुपायभूतानाम् प्रत्युत – तत्प्रतिबन्धकस्वार्थानुभवादिहेतुभूतानाम् कर्मयोगज्ञानयोगभक्तियोगप्रपत्तियोगाचार्यविषयकस्वगतस्वीकाराणाम् उपायत्व-ज्ञानम् । अतस्ते उपायस्वरूपविरोधिनः । उपायविषयकान्यथाज्ञानञ्च – मोक्षम् प्रत्यदृष्टसाधनत्वेन ज्ञानम् । अतः तदप्युपायस्वरूपविरोधि ।
अथ विरोधिस्वरूपविपरीतज्ञानम् विरोधिभूत देहविरोधित्वेन, भगवदात्मकत्वेन चानुकूलभूतानाम् विषशस्त्रादीनाम् विरोधित्वेन ज्ञानम् । अतस्तेषाम् विरोधित्वम् विरोधिस्वरूपविरोधि । विरोधिस्वरूपान्यथाज्ञानञ्च – विरोधिभूतस्य देहेन्द्रियादेः *शरीरमाद्यम् खलु धर्मसाधनम्* (कुमारसम्. ५-३३) इत्याद्युक्त साधनान्तरसाधन-त्वादिज्ञानप्रयुक्तानुकूल्यज्ञानम् । अतस्तदपि विरोधिस्वरूप-विरोधीति । शिष्टम् सर्वमन्यत्र विस्तरतो वर्णितमित्यलम् पल्लवितेनेति सर्वम् समञ्जसम् ।
इति श्रीमद्वाधूलकुलतिलक श्रीमन्महाचार्यचरणयुगलभावितेन श्रीनिवासदासेन विरचितायाम् सिद्धान्ततूलिकायाम्
द्वितीयपरिच्छेदे
विरोधिस्वरूपनिरूपणोल्लास:
चरमस्समाप्तः
॥ ग्रन्थश्च ॥
वरवरमुनिचरणौ तरुणसरोजातजठरसुकुमारौ ।
अपि मम शिरस्यकस्मात् करुणापरिणामदापितौ कलये ॥
श्रीवाधूलरमाप्रवाळरुचिरस्रक्सैन्यनाथाम्शज-
श्रीगुर्विन्द्रमहार्यलब्धनिजसत्सत्तम् श्रिताभीष्टदम् ।
श्रीरामानुजयोगिवर्यविलसत्कैङ्कर्यसम्स्थापकम्
श्रीमद्वेङ्कटलक्ष्मणार्ययमिनम् तम् सद्गुणम् भावये ॥