श्रीमते रामानुजाय नमः
परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते,
सिद्धित्रये आत्मसिद्धिः
।। यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ।।
- प्रकृतिपुरुषकालव्यक्तमुक्ता: यदिच्छामनुविदधति नित्यं नित्यसिद्धैरनेकैः |
स्वपरिचरणभोगैः श्रीमति प्रीयमाणे भवतु मम परस्मिन् पूरुषे भक्तिभूमा ।।
- विरुरु द्धमतयोऽनेकाः सन्त्यात्मपरमात्मनोः।
अतस्तत्परिशुद्ध्यर्थमात्मसिद्धिर्विधीयते ।।
(जीवात्म निरूपणं )
- देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः।
नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ।।
(देहातिरिक्तत्वसिद्धान्तः )
1.4 अत्र प्रतिविधिर्देहो नात्मा प्रत्यक्षबाधतः ।
न खल्वहमिदङ्कारावेकस्यैकत्र वस्तुनि ।।
(साङ्ख्यरीत्या देहात्मवादे प्रत्यक्षवाधः )
1.5 किंच- अपरार्थं स्वमात्मानमात्मार्थेऽन्यच्च जानतः ।
सङ्घातत्वात् परार्थेऽस्मिन् देहे कथमिवाऽऽत्मधीः ।।
( चार्वाकदूषितानुमानोद्धारः )
1.6 अस्फुटत्वेऽपि भेदस्य शरीरे तदसंभवात् ।
तद्गुणान्तरवैधर्म्यादपि ज्ञानं न तद्गुणः ।।
( अनेकहेत्वन्तरोपन्यासः )
1.7 किञ्च-उत्पत्तिमत्त्वात् पारार्थ्यात् सन्निवेशविशेषतः ।
रूपादिमत्त्वाद्भूतत्वाद्देहो नात्मा घटादिवत् ।।
1.8 सच्छिद्रत्वाददेहित्वाद्देहत्वान्मृतदेहवत् ।
इत्यादिसाधनैर्न्याय्यैर्निषेध्या वर्ष्मणश्चितिः ।।
1.9 किञ्च – निरस्तो देहचैतन्यप्रतिषेधप्रकारतः ।
प्राणात्मवादो न पृथक् प्रयोजयति दूषणम् ।।
1.10 सिद्धिश्चेदभ्युपेयेत संविदः स्यात् सधर्मता ।
न चेत्तुच्छत्वमेवोक्तं भवेच्छशविषाणवत् ।।
1.11 शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः ।
स्वयंज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ।।
1.12 किञ्च-व्यङ्क्तृव्यङ्ग्यत्वमन्योन्यं न च स्यात्प्रातिकूल्यतः ।
व्यङ्ग्यत्वेऽननुभूतित्वमात्मनि स्याद्यथा घटे ।।
1.13 करणानामभूमित्वान्न तत्संबन्धहेतुता ।
अहमर्थस्य बोद्धृत्वान्न स तेनैव शोध्यते ।।
1.14 अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् ।
अविद्यायोगतश्चात्मा ज्ञाताऽहमिति भासते ।।
1.15 किमप्रकाशरूपत्वात् प्रकाशमनुरुध्यते ।
व्यवहाराय नीलादिराहोस्वित्तदभेदतः ।।
1.16 इति सन्दिह्यमानत्वान्नाभेदः शक्यनिर्णयः ।
बोध्यस्थश्चैष नियमो न पुनर्बुद्धिबोद्धृगः ।।
1.17 अचित्त्वप्रतिबद्धश्च सर्वोऽपीन्द्रियगोचरः ।
तेन नैन्द्रियिकं ज्ञानमात्मानं स्प्रष्टुमर्हति ।।
1.18 अपवृक्तस्य तु ज्ञानं हेत्वभावान्न संभवि ।
नित्यत्वे नित्यमुक्तिः स्यादर्थवादास्तथोक्तयः ।।
1.19 धर्माधर्मावरुद्धं सन्मनो ज्ञानस्य साधनम् ।
सति नित्येन्द्रियत्वेऽपि श्रोत्रवत् करणत्वतः ।।
1.20 सर्वस्यार्थस्य तद्वित्तेः साक्षी सर्वत्र संमतः ।
आत्मैवास्तु स्वतःसिद्धः किमनेकैस्तथाविधैः ।।
( वित्तिखतस्सिद्धावप्यात्मनस्तदनपेक्षप्रकाशत्वं )
1.21 किंच- यो यस्य साक्षी तेनैव तस्य सिद्धिर्न लौकिकी ।
अर्थस्येवार्थवित्तेरप्यात्मा साक्षी हि लक्ष्यते ।।
( आत्मस्वयंप्रकाशत्वं )
1.22 सजातीयस्वसाध्यार्थनिरपेक्षात्मसिद्धयः ।
सर्वे पदार्थास्तेनात्मा निरपेक्षस्वसिद्धिकः ।।
( आत्मनि नित्यचैतन्यस्थापनम् )
1.23 तदेवंचित्स्वभावस्य पुंसः स्वाभाविकी चितिः ।
नानापदार्थसंसर्गात् तत्तच्चित्तत्व मश्नुते ।।
( नित्यचैतन्यस्थापनारम्भः )
1.24 अत्राहुरात्मतत्त्वज्ञाः स्वतश्चैतन्यमात्मनः ।
स्वरूपोपाधिधर्मत्वात्प्रकाश इव तेजसः ।।
1.25 चैतन्याश्रयतां मुक्त्वा स्वरूपं नान्यदात्मनः ।
यद्धि चैतन्यरहितं न तदात्मा घटादिवत् ।।
1.26 चितिशक्त्या न चात्मत्वं मुक्तौ नाशप्रसङ्गतः ।
बोधेनैवान्यतो भेदे व्यर्था तच्छक्तिकल्पना ।।
1.27 यतः स्वतस्सतो बोधादृते पुंसो यथोदितम् ।
तमः स्वापादिकालीनं न सिध्येद्धेत्वसिद्धितः ।।
( आत्मप्रकाशस्य स्वरूपप्रयुक्तत्वानुमानं )
1.28 स्वतःसिद्धप्रकाशत्वमप्यस्य ज्ञातृभावतः ।
अज्ञातृत्वेन हि व्याप्ता परायत्तप्रकाशता ।।
( द्वित्वादेरपेक्षाबुद्धिनाशानाश्यत्वं )
1.29 न च सङ्ख्यादिनिदर्शनेनात्र प्रत्यवस्थानं युक्तम्;
असिद्धत्वेन नाशस्य सङ्ख्याया बुद्धिनाशतः ।
एकसङ्ख्येव सङ्ख्यात्वादन्याऽप्याद्रव्यभाविनी ।।
1.30 सर्वा ह्येकाश्रया सङ्ख्या नित्यानित्यार्थवर्तिनी ।
यावदाश्रयसत्येव संमता सर्ववादिनाम् ।।
1.31 द्वित्वादिका परार्धान्ता सङ्ख्या याऽनेकवर्तिनी ।
साऽपि सङ्ख्यात्वसामान्ये सति कस्मान्न तादृशी ।।
1.32 किंच-संङ्ख्यैकता विरुद्धत्वात् द्विसङ्ख्येवान्यसङ्ख्यया ।
एकं द्वाविति न ह्यस्ति सामानाधिकरण्यधीः ।।
( द्वित्वादिप्रत्यक्षसार्वदिकत्वापत्तिपरिहारः )
1.33 आपेक्षिकत्वात् द्वित्वादेः प्रतियाेग्यनवग्रहात् ।
बुभुत्सोपरमाच्चापि सत्या एवानवग्रहः ।।
1.34 नातीतानागते बुद्धेर्दूरे भवितुमर्हतः ।
बुद्ध्या प्रकाशमानत्वाद्बुद्धिबोद्धृस्वरूपवत् ।।
1.35 नित्यत्ववादिनः शब्दा निर्भागव्योगमवर्तिनः ।
श्रावणाश्चेत्यभिव्यक्तिनियमे नास्ति कारणम् ।।
1.36 देशैक्ये ग्राहकैक्ये च व्यञ्जकैक्यं हि दर्शितम् ।
तदभावात्प्रयत्नोत्थमारुतः कारणं ध्वनेः ।।
1.37 अत एव च नानात्वं प्रत्युच्चारणमिष्यताम् ।
कृतस्य कारणायोगाद्धेतुपौष्कल्यभेदतः ।।
1.38 किञ्चोदात्तानुदात्तत्वदीर्घत्वह्रस्वतादयः ।
गादिस्था युगपद्गान्तो न भिन्ध्युः स्वाश्रयान् कथम् ।।
1.39 स्थानैक्यायातसादृश्यात् प्रत्यभिज्ञाऽपि नैक्यतः ।
प्रदीपप्रत्यभिज्ञेव ज्ञापिता भेदहेतवः ।।
1.40 भवत्वनुभवादूरं दूरादन्यद्विरोधि वा ।
तद्भावश्च प्रकाशत्वं किमत्र बहु जल्प्यते ।।
1.41 अतो यथोक्तनीत्याऽऽत्मा स्वतश्चैतन्यविग्रहः।
ज्ञानस्वभाव एवान्यत्करणैः प्रतिपद्यते ।।
1.42 स्वरूपोपाधयो धर्मा यावदाश्रयभाविनः ।
नैवं सुखादि बोधस्तु स्वरूपोपाधिरात्मनः ।।
1.43 एवमात्मा स्वतःसिद्ध्यन्नागमेनानुमानतः ।
योगाभ्यासभुवा स्पष्टं प्रत्यक्षेण प्रकाश्यते ।।
1.44 अर्थक्रियासु भावानां कर्तृत्वस्य द्वयी गतिः।
क्रमेण युगपद्वेति न विधान्तरसंभवः ।।
इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्य-श्रीभगवद्यामुनमुनिसमनुगृहीते सिद्धित्रये आत्मसिद्धिः ||