श्रीमद्वेदान्तदेशिकविरचिता
सुभाषितनीवी
सुभाषितनीवी अनिपुणपद्धतिः
प्रथमसुजनाय पुंसे मह्यमपि प्रथमदुर्जनाय नमः ।
सर्वं हतः कृतं यौ सकृदुपकारापकाराभ्याम् ।। 1.1 ।।
प्रमिति परिष्कृति मुद्रा सहृदयहृदयैस्समर्पिता कविभिः ।
भवति सुभाषितनीवी परगुणचोरैरहार्यार्था ।। 1.2 ।।
पश्यति परेषु दोषान् असतोऽपि जनस्सतोऽपि नैव गुणान् ।
विपरीतमिदं स्वस्मिन् महिमा मोहाञ्जनस्यैषः ।। 1.3 ।।
यत्र पयः प्रभृति स्वं भुक्त्वा सत्यानुषक्तधीश्चोरः ।
पशुवृत्तिगणे तस्मिन्नपि नाम यशोदयावृत्तम् ।। 1.4 ।।
हरिकरपुष्करहंसं हारमणीनां प्रसूतिमिव लक्ष्म्याः ।
पित्तेन पाञ्चजन्यं पीतं पश्यन् भिषज्यतु कम् ।। 1.5 ।।
स्फटिकः स्वभावशुद्ध्या स एव सन् वहति सर्वमारोपम् ।
तदपि न तत्रानास्था तदुपाधिषु वा भवत्यास्था ।। 1.6 ।।
स्थल परिशेषित जलधेस्सविधे सञ्जात डम्बरं जलदम् ।
प्रहसन्ति पाण्ड्य नद्यश्शुक्तिमुखैर्मौक्तिकस्त्यानैः ।। 1.7 ।।
प्रतिपन्न वामदृष्टिस्तन इव कश्चित् समुन्नतोऽप्यधिकम् ।
पतनमधिगम्य समये परिहासरसावहो भवति ।। 1.8 ।।
बहुविदधत्युपकारान् गुप्त्या दुरितं प्रकाशय पिदधति च ।
सुहृदि विहिताहितमतिर्यन्न प्रत्युपकरोति न तत् ।। 1.9 ।।
एधान् दहन्ति शान्तान् येभ्यस्सिध्येयुरसितवर्त्मान् नः ।
अगणित निज प्रकाशैः किमाश्रयाशैः अनाश्यमिह ।। 1.10 ।।
नवदळपुटे कल्प्या यस्य प्रभोरपि तल्पधीः
नटपरिबृढो यस्याधस्ताच्छ्रमं शमयिष्यति ।
वटविटपिनस्तस्याङ्कूराननुत्कटपल्लवान्
स्थपुटचटसापेक्षी भिक्षुः प्रतिक्षणम् ईक्षते ।। 1.11 ।।
निरवधिगुणग्रामे रामे निरागसि वागसि
स्फुरणमुषितलोका लोका वदन्ति सदन्तिके ।
वरतनुहतिं वालिद्रोहं मनागपसर्पणं
परिमिति गुणस्पष्टावद्ये मुधा किमुदासते ।। 1.12 ।।
॥ इति अनिपुणपद्धतिः ॥ 1 ॥