श्रीमद्वेदान्तदेशिकविरचिता
सुभाषितनीवी
सुभाषितनीवी असेव्यपद्धतिः
कठिनः कृशमूलश्च दुर्लभो दक्षिणेतरः ।
कश्चित् कल्याणगोत्रेऽपि मनुष्यैर्नोपजीव्यते ।। 5.1 ।।
दुष्टपङ्कः प्रतिपदं स्यात् अल्परस संस्थितिः ।
काले घनरसैर्योगेऽप्यसेव्यो जीवनार्थिभिः ।। 5.2 ।।
स्वतस्सत्त्वविहीनानां सत्तयेवापराध्यताम् ।
कथं कारं प्रतीकारः कल्पकोटिशतैरपि ।। 5.3 ।।
अपि सन्तापशमनाः शुद्धाः सुरभिशीतलाः ।
भजङ्गसङ्गाज्जायन्ते भीषणाश्चन्दनद्रुमाः ।। 5.4 ।।
नीचानुसरणान्मन्ये निसर्गपरिशुद्धयोः ।
गतिः कुटिलतां याति गङ्गायमुनयोरपि ।। 5.5 ।।
मित्रे भवति वैमुख्यं मैत्री दोषाकरेण च ।
अपि तीर्थप्रसूतानां कैरवाणां रजोभृताम् ।। 5.6 ।।
अपि निर्मुक्तभोगेन स्वान्तस्थ विषयेक्षया ।
असद्भावाय जायेत जिह्मगेन सहासिका ।। 5.7 ।।
मण्डूकराविणं सर्पं गोमुखं च मृगादनम् ।
असुहृत्त्वेन मन्येत मानयन्तं च वैरिणम् ।। 5.8 ।।
घोरस्त्यक्तमिथोवैरास्सौकर्यवदुपद्रवे ।
दण्डेनापि न भज्येरन् पापमण्डलिमण्डलः ।। 5.9 ।।
अनाकलित मानुष्याः क्षमासंस्पर्शवर्जिताः ।
प्रतिबुद्धैर्न सेव्यन्ते पूर्वदेवविरोधिनः ।। 5.10 ।।
अमित्रे विश्वासः श्वपचकरके सौमिकरसः
कपाले गङ्गाम्भः खलपरिषदङ्के सुजनता ।
परिक्षीणाचारे श्रुतमनुपनीते च निगमः
स्वतस्सिद्धां शुद्धिं त्यजति विपरीतञ्च फलति ।। 5.11 ।।
तरतु विवित्सयाब्धिमधिरोहतु शैलतटीं
धमतु च धातुवर्गमभिगच्छतु शस्त्रमुखम् ।
तदिदमरुन्तुदं यदुत बह्ववधाय भिया
धनमदमेदुर क्षिति भृदङ्गण चङ्क्रमणम् ।। 5.12 ।।
॥ इति असेव्यपद्धतिः ॥ 5 ॥