श्रीमद्वेदान्तदेशिकविरचिता
सुभाषितनीवी
सुभाषितनीवी दुर्जनपद्धतिः
परचित्तैकनिरताः पुत्रादिष्वप्यसङ्गिनः ।
योगिनामनुकुर्वन्ति विशृङ्खलधियः खलाः ।। 3.1 ।।
आत्मार्थं युक्तचित्तानां मित्रमण्डलभेदिनाम् ।
अतिलङ्घितलोकानां न बन्धः केनचित् क्वचित् ।। 3.2 ।।
स्नेहश्शैत्यं प्रसादश्च कोशत्यागश्च जायते ।
आसन्न परपीडार्थं निस्त्रिंशस्यासितात्मनः ।। 3.3 ।।
जनित्वापि महावंशे निम्नगा वक्रचेष्टिताः ।
वैपरीत्यं वितन्वन्ति समेषु विषमेषु च ।। 3.4 ।।
उत्पथादुन्नताः केचित् बहुभङ्गभ्रमाकुलाः ।
तटस्थानपि निघ्नन्ति तरसा भिन्नसेतवः ।। 3.5 ।।
केनचिद्दान्तकृत्येन कुलगोत्रविमर्दिना ।
मदेन बहुधा भिन्नं मातङ्गं मन्यते जनः ।। 3.6 ।।
अनेकमुखपापात्मा छद्मसन्दर्शितोश्रमः ।
कर्बुरः प्रकृतिः कश्चित् कापेयकलहोचितः ।। 3.7 ।।
छलिनं सत्कथानर्हं स्वात्मोपहतजातिकं ।
न निगृह्णाति यः काले सोऽपि सभ्यैर्निगृह्यते ।। 3.8 ।।
निगिरन्तो जगत्प्राणान् उद्गिरन्तो विषम्मुखैः ।
दूरतः परिहर्तव्या द्विजिह्वा जिह्मवृत्तयः ।। 3.9 ।।
अकिञ्चित्कारिणां दीनैः आक्रुष्ट गुणकर्मणाम् ।
अघाय गतसत्त्वानां दर्शनस्पर्शनादिकम् ।। 3.10 ।।
अधिकोन्नतैरपि सुदारुणान्वितै-
रसकृत् भ्रमत् पशुगणाङ्घ्रिपीडितैः ।
विधिसिद्धनैक गुणसस्य सम्पदां
विरसैस्वभाव कठिनैरलं खलैः ।। 3.11 ।।
मुक्ताहारनिषेविता अपि न तद्वृत्त्यै दिशन्त्यन्तरं
बन्धे गाढविमर्दिने च न जहत्यन्योन्य सम्पीडनम् ।
उष्णे शीतलतामु उपेत्य शिशिरे प्राप्ते भजत्युष्णतां
कामान्तः पुरचेटिकाकुचतटी काठिन्यवन्तः खलाः ।। 3.12 ।।
॥ इति दुर्जनपद्धतिः ॥ 3 ॥