श्रीमद्वेदान्तदेशिकविरचिता
सुभाषितनीवी
सुभाषितनीवी दुर्वृत्तपद्धतिः
गुणजालप्रकर्षेऽपि धीवरत्वेऽपि जन्मतः ।
सर्वतीर्थोऽवगाहेऽपि नीचवृत्तिर्न शस्यते ।। 4.1 ।।
द्वजराजाङ्क संस्थोऽपि सन्मार्गाकारवानपि ।
विशुद्धिरहीतः कश्चिन्न विन्दत्यकलङ्कताम् ।। 4.2 ।।
अवक्रस्तारकाधीशः परिपूर्ण् प्रियोदयः ।
प्राचीं दिशमतिक्रमय पतनं प्रतिपद्यते ।। 4.3 ।।
पततां हन्त केषाञ्चित् भजते मलिनात्मनाम् ।
विशुद्धवर्णयोगोऽपि विपरीत निमित्तताम् ।। 4.4 ।।
पतनानन्तरं कृच्छ्रात् प्ररूढः शुद्धिमानपि ।
द्विजः सञ्छाद्यते नित्यमधरेणापि रागिणा ।। 4.5 ।।
जोषमेकपदे स्थित्वा सन्निकृष्टान् क्षणाद्घसन् ।
बहिर्दर्शित संशुद्धिः बकव्यापारमर्हति ।। 4.6 ।।
द्विजस्य सितपक्षस्य कवेरपि निगद्यते ।
नाहंस इति साजात्यं गतिशब्दतवृत्तिभिः ।। 4.7 ।।
अव्यवस्थित वृत्तानाम् अभिन्न श्रुतिचक्षुषाम् ।
अधर्मार्जित भोगानाम् आशीरप्यहितोचिता ।। 4.8 ।।
दुष्टैरारोपितः कश्चित् अनर्थक्रिययान्वितः ।
असत्कारेण गृह्येत विशुद्धाकारवेदिभिः ।। 4.9 ।।
तमस्वभावमलिनं वृत्त्या लोकोज्झिताश्रयम् ।
दण्ड्यं मित्रेण राज्ञा च दृष्टदोषान्वयं विदुः ।। 4.10 ।।
जातिमात्रशरणा बहिष्कृताः केचिदादृतजघन्यवृत्तयः ।
रोषणा विपरिधाविनो मुधा ह्रेपयन्ति जनमुज्झितह्रियः ।। 4.11 ।।
आसोकावधि यद्वशेन सुगतिं विन्दन्ति भूतान्यसौ
दृष्टिस्नेह विशेषतो वितनुते वंशो भुजङ्गभ्रमम् ।
दक्षाभोगिषु केषुचिद्विषमिता दृष्टिन्निहन्तुं क्षणात्
तानप्याशु विनाशयेत् क्षणरुचिः काचित् क्षणस्भूर्जिता ।। 4.12 ।।
॥ इति दुर्वृत्तपद्धतिः ॥ 4 ॥