श्रीमद्वेदान्तदेशिकविरचिता
सुभाषितनीवी
सुभाषितनीवी दृप्तपद्धतिः
तदेव गृह्यतां नाम छागमण्डूकरासभैः ।
तिसृणां तावता हन्त मूर्तीनां किमिहागतम् ।। 2.1 ।।
अण्डजाः पुण्डरीकेषु समुद्रेषु जनार्दनाः ।
नीलकण्ठाश्च शैलेषु निवसन्तु नते न ते ।। 2.2 ।।
कामं लिखतु संस्थानं कश्चिद्रूपं च भास्वतः ।
अभित्ति विहितालम्बमालोकं विलिखेत् कथम् ।। 2.3 ।।
अपि सत्पथनिष्ठानाम् आशाः पूरयतामपि ।
अगस्त्यवृत्तिर्मेघानां हन्त मालिन्यकारणम् ।। 2.4 ।।
अस्तु तावदगस्त्यस्य जह्नोर्महिमनिह्नवः ।
का कथा तस्य बालस्य विश्वग्रासेऽप्यतृप्यतः ।। 2.5 ।।
दष्टसारङ्गयूथोऽपि दंष्ट्रानखरवानपि ।
भूभृत्कटकसंस्थोऽपि सारमेयो न सिंहति ।। 2.6 ।।
सत्पथे बाधयन् मित्रमपि व्यालस्तमोमयः ।
अतीतपर्वा जगतामदृश्यस्सहसा भवेत् ।। 2.7 ।।
धुर्याणामपि सत्कार्य गुणशालिविमर्दिनाम् ।
अनागमविदां युक्तमपनीतेर्निवारणम् ।। 2.8 ।।
बलोत्तरेण हरिणा नागमल्लविभेदिना ।
सृगालः साम्यमाकाङ्क्षन् शौर्याधिक्यं न विन्दति ।। 2.9 ।।
सुदर्शनभृता कश्चित् अजहत्कीर्तिमत्सरः ।
महाशान्तपदाकर्षी जलजन्तुर्निगृह्यते ।। 2.10 ।।
गतिर्व्योम्ना किं तत् गरुडमभिटेकेत चटकः
पिबत्वम्बः क्षारं न खलु कलशीसूनुरलसः ।
कलः कण्ठे नादः क इव मशके किन्नरपतेः
कथञ्चित् साधर्म्यं क्षिपति न हि वैधर्म्य नियमः ।। 2.11 ।।
निमीलयतु लोचने न हि तिरस्कृतो भास्करः
श्रवस्थगयतु ध्रुवं परभृतः किमु ध्वाङ्क्षति ।
स्वयं भ्रमतु बालिशो न खलु बम्भ्रमीति क्षतिः
कदर्थयतु मुष्टिभिः कथय किन्नभः क्षुभ्यते ।। 2.12 ।।
॥ इति दृप्तपद्धतिः ॥ 2 ॥