श्रीमद्वेदान्तदेशिकविरचिता
सुभाषितनीवी
सुभाषितनीवी नीतिमत्पद्धतिः
विक्रमाक्रान्तभुवने समे षाड्गुण्यशालिनि ।
भजति स्थिरतां लक्ष्मीः कस्मिंश्चित् पुरुषोत्तमे ।। 9.1 ।।
पार्थिवानां पदार्थानां स्वभूत्या चक्रवर्तिनाम् ।
सूचयत्यचिरात् भेदं छिद्रेण महतान्वयः ।। 9.2 ।।
सदसन्तौ विचिन्वानः समवर्ती शमप्रदः ।
अपि दण्डधरो नित्यं लोकपालः सदक्षिणः ।। 9.3 ।।
यमेनोपक्रमे जानन् विश्वाधीशं व्यवस्थितम् ।
सामादिषु च तत्त्वज्ञः सनकस्सिद्धिम् अर्हति ।। 9.4 ।।
अङ्गयुक्तः कृतार्थश्च (कृतास्त्रश्च) कुर्वन् सम्यक् पुरोविधिम् ।
विजानन् सिद्धसाध्यादीन् वैरिमन्त्रैः न पीड्यते ।। 9.5 ।।
कामाधिकरणग्राह्य मूलादि बलशालिनः ।
अहीनेऽपि नरेन्द्रस्य शक्तयः सिद्धिहेतवः ।। 9.6 ।।
प्रद्युम्नो ह्यनिरुद्धात्मानि स्वनाम्ना मानसोदयः ।
वीरः कश्चिद्विजानीते स्त्रीप्रायम् अखिलं जगत् ।। 9.7 ।।
तमिस्राचारिणां रोद्धा विजिताक्षो मरुत्प्रियः ।
कपिकृतैरपि स्थाने भाति वेलातिलङ्घिभिः ।। 9.8 ।।
प्रयुक्तं मन्त्रिभिः काले भक्तिभेद पुरस्कृतम् ।
अपि ज्वलनवक्त्राणां साम संवननं परम् ।। 9.9 ।।
विधौ लब्धधृतिः शक्या विनतानन्दनो द्विजः ।
नियम्यमानैः स्थानेषु भुजङ्गैरपि भूष्यते ।। 9.10 ।।
नीतिः सती त्वयि परं परपुष्टधातुः
पुत्रिकृतोऽसि बलपुष्ट कुलैर्यतस्त्वम् ।
दूरी कृतश्च पुरुषैः तत एव काले
कर्णे यदेष तव पञ्चममुच्चकार ।। 9.11 ।।
विबुधमहिते मेरावैरावणः करटी मुहुः
कषयतु कटं कण्डूलं स्वं क्षरन् मदकर्दमम् ।
भजतु च तटक्रीडां पीडाभिसन्धिरसौ दृढं
न तु मलिनता नापि क्षोभः क्षमाभृति सम्भृतः ।। 9.12 ।।
॥ इति नीतिमत्पद्धतिः ॥ 9 ॥