श्रीमद्वेदान्तदेशिकविरचिता
सुभाषितनीवी
सुभाषितनीवी परीक्षकपद्धतिः
काकानां कोकिलानां च सीमाभेदः कथं भवेत् ।
यदि विश्वसृजा साक्षान्न कृता कर्णशष्कुली ।। 12.1 ।।
छन्दः प्रत्ययशुद्धात्मा पश्यन् यतिगणस्थितिम् ।
वर्णादि नियतं वृत्तं नियुङ्क्ते गौरवादिवित् ।। 12.2 ।।
सुवर्णमपि दुर्वर्णं युक्त्या दर्शयति क्वचित् ।
व्यनक्ति शुद्धिं सहसा शुचिरेक स्व तैक्ष्ण्यतः ।। 12.3 ।।
स्वच्छ स्वादु विशुद्धानां स्रोतसां कलशोदधेः ।
दोषं केऽपि न मृष्यन्ति दुष्टजिह्वेन कल्पितम् ।। 12.4 ।।
सहैव भुवने जातं सत्त्वसंस्थापन क्षमम् ।
गृह्यते किमपि स्वस्थेरन्यत् किमपि जिह्मगैः ।। 12.5 ।।
कलकण्ठगळा स्वाद्ये कामस्यास्त्रे निजाङ्कुरे ।
निम्बवृत्तिभिरुद्गीर्णे न चूतः परितप्यते ।। 12.6 ।।
मन्ये किन्नरमुख्यानां मौनं जगति साम्प्रतम् ।
मशकः क्वणितं तत्र वीणास्वनविकल्पितम् ।। 12.7 ।।
रत्नाभरण योग्यानां राजान्तःपुरयोषिताम् ।
क्रीडाकङ्कणनिर्माणे काचोऽपि ललितं क्वचित् ।। 12.8 ।।
कटूनामपि सार्थत्वात् कामं भवति सङ्ग्रहः ।
तथापि वृत्तिर्न तथा रसज्ञानुमति क्षमा ।। 12.9 ।।
नादं मङ्गळ ताळानां नागरी नटनोचितम् ।
कृषि क्षमेषु ग्रामेषु न मूर्छयति गीतवित् ।। 12.10 ।।
विधिमन्तरेण विहगान कुतः
पयसोरशिक्ष्यत विवेकविधिः ।
कति वा दिनान वद पर्यचिनोत्
कलशीसुतः कबलयन् जलधिम् ।। 12.11 ।।
भूयसीरपि कलाः कलङ्किताः प्राप्य कश्चिदपचीयते शनैः ।
एकयापि कलया विशुद्धया योऽपि कोऽपि भजते गिरीशताम् ।। 12.12 ।।
सैषा सुभाषितानां माला महनीयवर्णवृत्तगुणा ।
भावुकसङ्ख्यारूढा प्रियपद्धतिभूषिता जयति ।। 12.13 ।।
कवि कथक सिंह कथितं कठोर ललितं सुभाषितं तदितम् ।
सदसद्विवेक मुखतस्सम्मुखयति सर्वलोक हितम् ।। 12.14 ।।
॥ इति परीक्षकपद्धतिः ॥ 12 ॥
॥ इति वेदान्तदेशिकविरचिता सुभाषितनीवी सम्पूर्णा ॥