श्रीमद्वेदान्तदेशिकविरचिता
सुभाषितनीवी
सुभाषितनीवी वदान्यपद्धतिः
आभिमुख्यदशामात्रात् आदर्श इव सज्जनः ।
शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ।। 10.1 ।।
अप्यनावर्जिता स्वेन फलभारेण सन्नताः ।
अर्भकैरपि गृह्यन्ते साधुसन्तानशाखिनः ।। 10.2 ।।
निर्मुक्त भवनक्षेत्रा स्युः सदागतिनिर्वृताः ।
प्राप्ते भयविपर्यासे भोगिनः खलु योगिनः ।। 10.3 ।।
सर्वेषाम् उत्तराम् आशां धनदो यः परीक्षते ।
सत्यं मनुष्यधर्मैव स तु पुण्यजनेश्वरः ।। 10.4 ।।
येषां हिरण्यकशिपु क्षेत्रदानकरः करः ।
तेषां तिर्यङ्मुखत्वेऽपि पुरुषत्वं न हीयते ।। 10.5 ।।
मुख्यदानोदक क्लिन्नकरः ख्यातक्षमाधृतिः ।
लोकपालाश्रितः कश्चित् अनाशावारणः कथम् ।। 10.6 ।।
विक्षोभितो बुधैः कश्चित् गम्भीरमधुराशयः ।
चन्द्ररत्नगवाश्वादि सहितां दिशति श्रियम् ।। 10.7 ।।
वदान्यश्च कदर्यश्च गृहीतस्थिरलोभतः ।
स्वानर्थान् सञ्चिनोऽत्यर्थान् परानर्थैः अयोजयन् ।। 10.8 ।।
अनिश्शोषितदातव्यं वदान्यदिति वादिनम् ।
नोपसर्पति सव्रीडो व्रीडाकुलवधूरिव ।। 10.9 ।।
अपुनर्देहिशब्दार्हम् अप्रत्युपकृतिक्षमम् ।
अर्थिनं कुरुते कश्चित् पुनरावर्तिवर्जितम् ।। 10.10 ।।
त्वचं मांसं जीवं यदपि ददुरस्थीनि पृथिवीं
श्रियं रत्नाधीशं त्रिदशतरुम् ऐरावतम् अपि ।
तदेतत् प्रत्येकं मिलितमपि नालं तुलयितुं
मनस्कारोपेत स्थिरमधुरकल्योक्ति कणिकाम् ।। 10.11 ।।
अनिर्घातं धाराधरम् अमथनियन्निधिमपाम्
अकाठिन्यं चिन्तामणिम् अजडभूतं सुरतरुम् ।
अभित्त्वोपादाय प्रभुरपशुवृत्तिं च सुरभिं
परार्थैक स्वार्थान् अकृत पुरुषान् आदिपुरुषः ।। 10.12 ।।
॥ इति वदान्यपद्धतिः ॥ 10 ॥