श्रीमद्वेदान्तदेशिकविरचिता
सुभाषितनीवी
सुभाषितनीवी सत्कविपद्धतिः
अपङ्किलधियः शुद्धा साधुमानसवृत्तयः ।
वमन्ति श्रुतिजीवातुं ध्वनिं नवरसास्पदम् ।। 11.1 ।
महापुरुषलब्धात्मा सर्गादि प्रथितोदयः ।
वश्यावदातया वाचा सेव्यते चतुराननः ।। 11.2 ।।
विशुद्ध ललिताकारा गुणालङ्कारशालिनी ।
सरसा भारती यस्यः सत्येकः प्रतिष्ठितः ।। 11.3 ।।
कुतश्चिदचलस्थानात् प्रयान्ती सागरान्तिकम् ।
दृश्यादृश्य तनुर्भाति श्रुत्यभीष्टा सरस्वती ।। 11.4 ।।
प्रभूतोदितमुक्ताभिः भूयते सूक्तिशुक्तिभिः ।
सदृशां कर्णपूराय तादृशोऽपि लभेदतः ।। 11.5 ।।
प्रतीपमवमृष्टापि स्वाफिमुख्यं न मुञ्चति ।
काळिकेव सतां सूक्तिः तादृश श्रुतिनन्दिनी ।। 11.6 ।।
अपार्थेतरयुक्तानां व्याससङ्ग्रह सम्पदाम् ।
अपि गोपालगीतानां निवेशो निगमादिषु ।। 11.7 ।।
जलाशयस्य घोषेण जातलौल्यस्य भूयसा ।
कविशब्दं तिरोधाय कश्चिदर्थो न साध्यते ।। 11.8 ।।
सदा नवोक्तिमहितः प्रतिरुन्धन् प्रतीपगान् ।
प्रथितः काव्यनाम्नापि कविरेकः प्रकाश्यते ।। 11.9 ।।
पूर्वकल्पप्रकारेण पुरुषार्थप्रवृत्तया ।
विचित्र सृष्ट्यापि हरन् व्याप्तः कश्चिन्महाकविः ।। 11.10 ।।
मतिमन्थजवेन लब्धवर्णा प्रतिपन्ना विबुधैरनन्यभक्तैः ।
सुकवेरनघाशयस्य सूक्तिः स्वदते दुग्धपयोनिधेस्सुधेव ।। 11.11 ।।
मनु व्यास प्राचेतस परिषदर्हा क्वचिदियं
सुधासिक्ता सूक्तिः स्वयमुदयमन्विच्छति जने ।
निरुन्ध्युः को विन्ध्याचल विकट सन्ध्या नटजटा
परिभ्रान्ता पङ्गोरुपरि यदि गङ्गा निपतति ।। 11.12 ।।
॥ इति सत्कविपद्धतिः ॥ 11 ॥